एवमहो सकलजगन्नियन्तुरनन्तकल्याणगुणनिलयस्य भक्तानुग्रहार्थमेव प्रकटीकृ- तमायिकलीलाविप्रहस्य वस्तुतः संविदेकरसस्य खप्रकाशसत्यज्ञानानन्तानन्दाद्वैतकूट- स्थब्रह्मरूपस्य भगवतः श्रीरामस्यापि यदा वधमैंकरीत्या विषयान्भुञ्जतश्चक्रवर्तनो- ऽपि यदा प्रेयसीवियोगेन विवेकेतरप्रतीकारविधुरः शोकव्यतिकर एवं संपन्नस्तदा कैव कथा मादृशस्य पामरतरस्येति संजातविचाराङ्कुरः प्रथमोल्लासप्रस्तुतः कश्चिन्न- रवरकुमारःसद्यः संपन्नवैराग्यभरः श्रुत्यन्तमहावाक्यैककरणकाशेषदृश्यशोकतरण- द्वारीभूताद्वैतब्रह्मात्मैक्यसाक्षात्कारफलकद्वैतमिथ्यावानुभवस्य यावत्काम्यनिषिद्धव- र्जनपूर्वकानेकजन्मानुष्ठितवेदैकनिष्ठापूर्वकनित्यादिखवर्णाश्रमकर्मपरितुष्टान्तयम्ये- कप्रसादासादितचित्तशुद्धिसत्त्वे ‘यस्य देवे पर भक्तिः' इति, ‘भक्त्या मामभिजा- नाति' इत्यादिश्रुतिस्मृतिप्रसिद्धभगवद्भक्त्येकसाध्यतया तदर्थ तमेव प्रार्थयते--

विशालविषयावलीमलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥

 विशालेति । इदम् । एतेन वर्तमानकालावच्छिन्नत्वं ध्वन्यते। तेन वरातिश- यात्तापप्राचुर्यं सुच्यते । मदीयं मामकम् । मनोऽन्तःकरणं न तु चक्षुः । तेन प्रतिपाद्यनासक्त्या विवेकपौष्कल्यं योयते । मुकुन्देति । ‘मुकुन्दो मुरमर्दनः इत्यमराद्विष्णुरेव मुकुन्दस्तस्य यन्मुखं वदनं तदेव चन्दिरः । ‘चिदि आह्लादने’ इति धातोरुणादिप्रत्ययविशेषाञ्चन्द्रस्तस्मिन्विषय इत्यर्थः । 'चन्दिरोऽनेकपे चन्द्रे' इति विश्वः । चिरं न तु क्षणम् । प्रेमदायँ व्यज्यते । चकोरायतां चकोरवदाचरत। स यथा लौकिकराकामकरे संसक्तो भवति तत्किरणामृतपानार्थमेवमिदमत्र ब्रह्मा- मृतपानार्थमासक्तं भववित्यन्वयः । ननु लौकिकचन्द्र कामिनीमुखचन्द्र एव बी किमिति न तथात्वं प्राथ्येत इत्याशङ्कय तयोः क्षयिष्णुवात्सर्वांशिकशोभावत्वेऽना- दरबीजं व्यञ्जयस्तं विशिनष्टि-अमन्देत्याद्युत्तरार्धशेषेण । अमन्दमखण्डं मिल- न्तीन्दिरा शोभा लक्ष्मीश्च यस्मिंस्तत्रेयर्थः । एतेन प्रकृतचन्द्रव्यतिरेकः सूचितः । निखिलेति । सर्वमधुरिमाधार इति यावत् । एवं च सकामैककल्पितमधुरिमाधा: रात्कामिनीवदनादसौ योयते । तेन प्रकृते नित्यनिरतिशयसौन्दर्यशालिवं सकामनिष्कामसाधारणतृप्तिजनकदीप्यादिमालित्वं च क्रमासूच्यते । नन्वधिकारवि- रहे शशकशिशोः सिंहशौर्यं प्रार्थनशतेनापि कथं घटेतेत्यतस्तद्विशिनष्टि--- विशालेति । विशाला ब्रह्मलोकान्तवैन महती येयं विषयावली शब्दादीष्टविषय- पङ्किः सैव वलयाकारा । एतेन पलायनादिना प्रतीकारायोग्यवं ध्वनितम् । एता- दृशी लग्ना संश्लिष्टा या दावानलस्य दावानेः प्रसृत्वराणां ‘प्रसृत्वरः प्रसृमरः' इत्य- मरात्प्रसरणशीलानां शिखानां अर्चितिः शिखास्त्रियाम्' इत्यपि तदुक्तेज्वला- नामावलिस्तया विकलितमित्यर्थः । अत्रैकविंशतिभक्त्यभिक्षः शान्त एव रसः । इह रूपकव्यतिरेककाव्यलिङ्गलुप्तोपमादयोऽलंकाराः ॥

 एवं व्यङ्ग्यमयदया भगवन्तं तदेका कारखान्ततामभ्ययं परमसंतप्तवेन विल- म्बासहिष्णुः साक्षादेवाथ तं प्रति तत्प्रतिबन्धमोचनपूर्वकसद्यस्तत्ताधायकं तत्कृ- पाकटाक्षच्छटामभिवाञ्छति-

अये जलधिनन्दिनीनयननीरजालम्बन-
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वकषै-
र्जगत्रितयलोचनैः शिशिरयाशु मां लोचनैः ॥२॥

 अये इति । इदं हि कोमलामन्त्रण अयिवत् । जलधीति । जलधिः क्षीराब्धि- खस्य नन्दिनी नन्दयति स्वयंवरेण भगवदेकपरायणतयानन्दयतीति तथा । न तु कन्यकामात्रमित्यर्थः । एतेन तस्यां पितृवंशोद्धारकत्वं ध्वन्यते । तस्या ये नय- ननीरजे नेत्रकमले तयोरालम्बन मिव निरुक्तस्वयंवरकाले तयोः सर्वत्र दोषदर्श- नवशात्कामसमुद्रमजमानलेन निरालम्बनतायां संपद्यमानायां त्वमेवानन्तकल्या- णगुणं निलयतैनात्मदृष्ट्या वसङ्गवेन चाश्रयीभूत इवेति तत्संबुद्धौ तथेत्यर्थः । एतेन खप्रार्थनीयशिशिरीकरणसामग्रीप्राचुर्यं शीतस्पर्शवत्वस्यासाधारणलक्षणवेन तन्निधौ तदाधिक्यं तन्नन्दिन्यां ततोऽपि तदाधिक्यं तल्लोचनपद्मयोस्ततोऽपि तदाधिक्यं तदालम्बने त्वयि ततोऽपि तदाधिक्यं तु कैमुल्यसिद्धमिति योयते । मां लोचनैर्वारंवारं सदयमालोचनैः । सकरुणकटाक्षनिरीक्षणैरिति यावत् । एतेन कामनौत्कण्ठ्धन संतापाधिक्यं ध्वन्यते । तेन प्रार्थिवेक्षणमात्रतापि सूच्यते । तत्रापि आशु शीघ्रं न तु विलम्बेन । एवं च परमातुरवं सूचितम् । तेना- पश्यनिरीक्षणीयत्वं सूच्यते । शिशिरय शीतलीकुर्विति संबन्धः । सानुकम्पसत- तापाज्ञावलोकनैत्रिविधतापसंतप्तं मां भो भगवन्नद्वैतात्मतत्त्वसाक्षात्काराविर्भावनेन ‘ज्ञावा शिवं शान्तिमयन्तमेति', ज्ञानं लब्वा परां शान्तिमचिरेणाधिगच्छति इति श्रुतिस्मृतिसिद्धामविद्याध्वंसलक्षणां जीवन्मुक्तिलक्षणां वा शान्ति प्रति नये- त्याशयः । ननु कश्चिदविरक्तोऽपि द्रुतं मे मुक्तिं देहीतीश्वरमभ्यर्थययेव नैता- वता स तत्पात्रतामेतीत्याशय तत्ताघटनायात्मानं विशिनष्टि-ज्वलदिल्या- दिद्वितीयपादेन । ज्वलन्दीप्यमानो नतूत्पन्नमात्रः । एतेनासयवं व्यज्यते । एतादृशो यो ज्वलनः । ज्वलनो हव्यवाहनः' इत्यमरादग्निस्तद्वजिखरो जयशीलः परधर्षकः एतादृशो योऽयं ज्वरः ‘किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्' इति श्रुतिसिद्धद्वैतानुभवज्वरः । सर्वदा संतापकलाज्वर इव दुःखद इत्यर्थः । तस्य यो भर आधिक्यं तेन या खरा विलम्बासहिष्णुता तया भङ्गुरः क्षयिष्णुस्त- मित्यर्थः । एतेनातितमकारुण्यास्पदवं व्यज्यते । ननु भववेवमथापि मदवलोक- नेषु तादृशतापहारकवादिकं कुतस्त्यमित्याशङ्कय तानि विशिनष्टि-प्रभातेत्याधु- तरार्धशेषेण । प्रभाते यानि जलजानि कमलानि । एतेन विकसदवस्थवं योति- तम् । तेषां य उन्नमनूच्चतमोऽपि भारान्नयमानः । एवं च गर्ने निरतिशयवं व्यज्यते । एतादृशो यो गर्वस्तस्य सर्वकषाणि सर्वस्यापहारकाणि तैरियर्थः । एतेन शिशिरीकारविशारदवं ध्वनितम् । जगदिति । जगत्रितयं त्रैलोक्यं लोच- यन्त्यालोचयन्तीति तथा तैरित्यर्थः । एवं च सर्वज्ञजन्यवेन खात्मज्ञानजनन- द्वारा स्वाज्ञानदलनदक्षवं द्योवितम् । अत्र प्रतीपविशेषः परिकरः परिकराङ्करा- दिश्चालंकारः ॥

 एवं साक्षाद्भगवन्तं प्रति वाभीष्टं संप्रार्थ्य, अथ ‘परोक्षप्रिया इव हि देवाः इति श्रुतेः परोक्षवेनापि तत्प्रार्थयते-स्मृतापीत्यादिद्वाभ्याम् ।

स्मृतापि तरुणातपं करुणया हरन्ती नृणा-
मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दनगनन्दिनीतटसुरदुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३॥

 स्मृतापीति । कापि वरूपतः ‘यतो वाचो निवर्तन्ते' इत्यादिश्रुतेरवाङ्मनस- गम्येति यावत् । एतेन ‘कृषिवाचकः शब्दः' इत्यादिश्रुतेः, कृष्णस्तु भगवान्खयम् इत्यादिस्मृतेश्च श्रीकृष्णस्य पूर्णावतारखं योतितम् । अत एव कादम्बिनी भक्तानु- अहार्थं गृहीतमायिकलीलानीलविग्रहनटनपाटवलेन नवनीरदपङ्किरेवेत्यर्थः। ‘कादम्बिनी मेघमाला' इत्यमरः। मदीयेति । ममेयं मदीया। मामकीनेति यावत्। एतादृशी या मतिर्बुद्धिस्तां चुम्बतीति तथा । मद्बुद्धिचुम्बनकत्र भवविति योजना । यद्वा निरुक्तश्रीकृष्णाख्यब्रह्मण आत्मवैन खबुद्धेरवश्यं तदाकारतासंभवादुक्त प्रार्थनानर्थ- क्यमेवेति यदि विभाव्यते तदा तत्संभवस्य याथार्थेऽपि तत्र दृश्यावच्छिन्नतदा- कारवसत्वेन निरवच्छिन्नतदाकारताजन्यानन्दानुभवाभावादवच्छेदकमात्रब्युदस- नस्यैव प्रार्थनीयत्वात् हर्षयति उन्मादयतीति वा व्युत्पत्त्या मदः कामस्तस्येयं मदीया सा चासौ मतिश्चेति प्राग्वदेव । एवं च कामबुद्धिचुम्बनकत्र भवविति प्रार्थना । एवं च बुद्धावुक्तभगवन्मूर्तावाविर्भूतायां सत्यां सा तावन्मुमुक्षु मां मनोरमास्मार- कवादिना नैव पीडयिष्यतीति नान्तरीयकतयेव मन्मतिः स्वस्वरूपशान्तैव स्यादि- त्याशयः । तदुक्तं श्रीमत्सुरेश्वरवार्तिके–'अनात्मादर्शनेनैव परात्मानमुपास्महे इति । ननु स्त्रियाः स्त्रीचुम्बनमनुचितमेवेति चेत्सत्यम् । शृङ्गारस्थायिभावाख्य- रतिमूलकस्य तस्य तथावेऽपि ‘रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति काव्यप्रकाशकारिकोक्तदेवादिविषयकभावात्मकरतिमूलकस्य तस्य दुहि- तरि जनयित्र्याः खांशाधिक्येन पुत्रापेक्षयापि प्रेमाधिक्यस्य लोकादाववलोकित- लैनेश्वरस्य समठ्युपहितखेन व्यष्टिभूताया मद्बुद्धेः कामबुद्धेर्वा जन्यखेन मातृ- दुहितृभावात्प्रेमोत्कर्षेण सुतरामुचितत्वात् । एतेन ‘तस्यैवाहं ममैवासौ स एवा- हम्' इति श्रीमन्मधुसूदनसरस्वतीभिर्गीताटीकोपोद्धाते सामान्येन वर्णितभक्ति- त्रैविध्यमध्ये द्वितीयभक्तिरियमिति ध्वन्यते । द्वितीयपक्षे तु तृतीयैव । ननु नहि प्रार्थनमात्रेणार्थसिद्धिः प्रायः क्वचिदपि दृष्टचरा, नापि निर्गुणायास्तस्याः सत्यपि मायिकोकलीलाविग्रहग्रहे संभवति संस्कारमन्तरा निरुक्तचुम्बनरचनावलम्बनं, नापि नीलरूपवत्त्वमात्रेणेन्द्रनीलादिवत्कादम्बिनीरूपकं सुकरमित्याशङ्वा तस्यां निरुपचरितनिरुपमानुकम्पावत्त्वात्सहस्रावधिकगोपकन्यासौदामन्यावेष्टितवाद्वृन्दा- वनविहारित्वाचात्युचितमेवेदं मदुक्तमिति तद्विशेषणमिषेण त्रिपाद्या समाधत्ते-- स्मृतापीत्यादिना । अपिना चिन्तामण्यादिवैलक्षण्यं द्योत्यते । प्रसिद्धघनावलीव्य- तिरेकश्च । एवमभङ्गुरपदेनापि प्रसिद्ध विद्युद्विलक्षणत्वम् । तथा कलिन्दनगन- न्दिनी यमुना तत्तटे ये सुरद्रुमाः कल्पतरवस्तानालम्बत आश्रयत इति तथेत्यने- नापि प्रसिद्धघनावलीव्यतिरेकश्च । इह रूपकं व्यतिरेकश्वालंकारः ॥

कलिन्दनगनन्दिनीतटवनान्तरं भासय-
न्सदा पथि गतागतश्रमभर हुरन्प्राणिनाम् ।

लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४॥

 कलिन्देति । कलिन्दनगनन्दिनी यमुना तस्या यत्तटं तीरं तत्र यहृन्दावना- दिवनं तस्य यदान्तरमन्तरालं मध्यवर्तिस्थलमित्यर्थः । भासयन्खकान्या दीप- यन्। एतेन प्रसिद्धतमालव्यतिरेको द्योत्यते । तथा सदा न तु मध्याह्न एव । तत्रापि ग्रीष्मादावेव । पथि संसारमार्गे । प्राणिनां जीवानाम् । गतागतेति । ऊध्र्वाधोगमनागमनजन्यक्लेशातिशयमिति यावत् । एतेनापि स एव । तथा । लतेति । लतानां कनकलताकारकृशपीतसरलदीप्तगौराङ्गीणां गोपकन्यकानामि- त्यर्थः । या वलयः पङ्कयस्तासां शतानि तैरावृतो वलयित इत्यर्थः । एवं च रास- क्रीडाकालिकत्वमपि व्यज्यते पूर्वपद्यवत् । मधुरया चन्द्रिकयेवातिस्निग्धया न तु विग्मयापि । रुची कान्त्या संभृतः सम्यक् नैसर्गिक कान्तिमत्त्वलक्षणेन । समी- चीनखेनेत्यर्थः । भृतः परिपुष्टः । एतेनाप्यसावेव । एतादृशस्तमालद्रुमः श्याम- वर्णवत्त्वसाधम्र्याच्छीकृष्णाख्यः कश्चित्तापिच्छवृक्ष इत्यर्थः । मम श्रमाना- धिभौतिकादित्रिविधतापान् । आशु द्रुतम् । न तु विलम्बेन । एवं च खस्य परमौत्सुक्य सूच्यते । अतितमा पुनस्तद्भानप्रागभावासमानकालीन यथा स्यात्तथा हरविति संबन्धः । एतेन सकार्यकाज्ञानध्वंसनाभ्यर्थनं ध्वन्यते । अन्ना- प्युक्तावेवालंकारौ ॥

 ननु ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति श्रुतेः, कर्मणैव साधुत्वं स्यात् । ईश्वरस्य तु ‘असङ्गो हि' इति श्रुतेः, ‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः' इति स्मृतेश्च जीवन्मुक्यादावुदासीनत्वात्कि मत्प्रार्थनया, किंतु ‘तमेतं वेदानुवचनेन' इत्यादिश्रुत्युक्तं परमेश्वरैकार्पणबुड्या खवर्णाश्रमधर्मानुष्ठान- मेव संपाद्य ततश्चित्तशुब्यादिक्रमेण ब्रह्म द्वैतात्मैक्यात्मतत्त्वविषयका बाधिता प्रति- बद्धसाक्षात्कारद्वारा सकार्यकतद्विषयकमूलाज्ञानध्वंसोपलक्षिताद्वैतसच्चिदानन्दान- न्तब्रह्मात्मरूपमुक्तिः संभवतीत्याशय समाधत्ते--

वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥५॥

स्व वाचेति । भो नाथ अन्तर्यामिन् । एतेन निरुक्तकर्मादिप्रेरकत्वम् । अपि च ‘एष

येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उद्मिनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' इति श्रुत्युक्तमन्तयम्यधिदेवादिषु ‘तद्धर्मव्यपदेशात् इत्यधिकरणन्यायेन त्वय्येवेति योयते । वं निर्मलया विशुद्धया वेदरूपिण्यै- त्यर्थः । न तु बौद्धादिप्रणीतया तद्विरुद्धपौरुष्या । एतेन भ्रमप्रमादादिदोषवैधुर्यं ध्वन्यते । अत एव । सुधेति । वाचा वाण्या । यां शिक्षा निरुक्तपूर्वोत्तरकाण्डोपं- देशसरणिम् । एतेनावश्यादरणीयवं व्यज्यते । अदाः मह्यं जीवाय दत्तवानसी- त्यर्थः । तामहम् । अहंभावेति । देहाद्यहंतया व्याप्त इत्यर्थः । न च तत्रापि दुःखादुक्तशिक्षास्मृतिः स्यादिति दुःखसहस्रसत्त्वेऽपि मम निर्लज्जवादित्याश- येनात्मानं पुनर्विशिनष्टि—निस्रप इति । अत एव खप्नेऽपि न संस्पृशामीत्य- न्वयः । अत्र ‘संस्मरामि' इति पाठः साधीयान् । एवं तर्हि मया किं कर्तव्यमि- त्यत आह–इतीत्याद्युतरार्धेन । हे यदुपते इति साभिप्रायम् । उग्रसेनराज्यग्र- दत्वात् । तस्मात्त्वया निरतिशयदयानिधितया मदङ्गीकरणं स्वकीयखेन कृतमे- वेतः परं कथं त्यक्तुमुचितं स्यादिति तात्पर्यम् । ‘आगोऽपराधः' इत्यमरः । खीयेषु हस्तपादादिवदविममतास्पदेष्वित्यर्थः । ‘सखायौ' इति श्रुतेः खीयेषु संग्रहणं प्रसिद्धमेव । त्वत्तो मत्त इति पञ्चम्यौ । मत्त उन्मत्तः । अत्र काव्यलिङ्गं परिकरादिश्चालंकारः ॥

 एवं निरुपमां भगवतः सदयतां स्वस्य चोन्मत्ततां संस्मृत्य कृतघ्नवपरिहारार्थ- मितःपरं त्वया तन्नामैव स्मर्तव्यमिति स्वयमेव खात्मानं सनिर्वेदपरमसाधनसर्व- खवेनोपदिशति-

पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परास्तर तथाप्याशा न शान्तास्तव।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय र शून्यैः किमन्यैः श्रमैः ॥६॥

 पातालं व्रजेति। ननु किं नामस्मरणेन, कर्मैवाग्निहोत्रादिकं कर्तव्यं, ततश्च दिव्यायेकविंशतिवर्गसुख भोक्तव्यं, पुनरपि मनुष्यशरीरे जाते तथैवेति स्रगादि- विषयसुखेतरः कोऽपि न पुमर्थ इति मीमांसकमतं प्रत्याचक्षाण इव खजीवं तद- वलम्बिवाशीवतयाभिमुखीकरोति–रे इति । नच स्वर्गादावाशानुपशान्तिः शान्तिर्वा केन दृष्टा, सांप्रतं लहं निरुक्तविषयसंभोगतः कृतार्थ एव सुखी संवृत्तो- ऽस्मीति वाच्यम् । अत्रापि दुःखभूयिष्ठत्वस्यैव वयि दृष्टवादित्याशयेन तं विशि- नष्टि-आधीति । 'पुंस्याधिर्मानसी व्यथा' इत्यमरादाधिर्मरणचिन्तादिर्मनोव्यथा । व्याधिः कफवातपित्तवैषम्यजन्यः स्थूलशरीरविकारः । तथा जरा वार्धक्य- जन्यस्तत्परिणामः । ताभिः पराहतोऽभिभूतस्तत्संबुद्धौ तथेत्यर्थः । एतेन प्रत्यक्ष निर्वेदनिदानं द्योतितम् । वं यदि निजं न खन्यदीयम् । तेनौदासीन्यव्युदासः सूचितः । क्षेमं ‘कुशलं क्षेममस्त्रियाम्' इत्यमरात्कल्याणम् । वाञ्छसि तर्हि । श्रीकृष्णेति । श्रीकृष्णनामस्मृतिरूपमित्यर्थः । रसायनं रसस्य पारदस्यायनं त्रैलो- क्यचिन्तामण्यादिरूपं स्थान मिति यावत् । रसय विरक्तिपथ्याशनशान्त्यनुपानाभ्यां सह समास्वादयेति संबन्धः । अन्यैर्निरुक्तोपायेतरैः शून्यैर्निष्फलैः श्रमैर्भगवदनर्पित- काम्याग्निहोत्रादिधमैः किम् । न किमपि प्रयोजनमिति योजना। तदुक्तं भागवते-- ‘धर्मः खनुष्ठितः पुंसां विष्वक्सेनकथासु यः। नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥” इति । अत एव श्रूयते-‘प्लवा घेते अदृढा यज्ञरूपा अष्टादशोकम- वरं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ इति । एतदेव विशदयन्नन्येषां कर्मणां प्रतिज्ञातं शून्यैरित्यादिना नैष्फल्यं हेतूक्या द्रढयति–पातालमित्यादिपूर्वार्धेन । रे आधीत्यादि प्राग्वदेव । त्वं यद्यपि पाता- लमतलादिसप्तबिलवर्गस्थलमित्यर्थः । व्रज गच्छ। तथा । सुरेति । अमरी- वतीमित्यर्थः । याहि गच्छ । तथा । मेरोमाद्रेः शिरो मस्तकम् । ब्रह्मलोकामिति यावत् । उपलक्षणमिदं भूरादिसप्तदिव्यखर्गाणाम् । आरोहाधिरोहेवि यावत् । तथी । पारावारेति । ‘पारावारः सरित्पतिः' इत्यमरात्पारावाराणां क्षीरोदादिशुद्धो- दान्तानां समुद्राणां याः परम्पराः पङ्कयस्ता इयर्थः । भरतवर्षतरजम्बुद्वीपादिस- सद्वीपरूपभौमवर्गसरणीः कर्मीभूता इति यावत् । तर समुद्रतरणोपलक्षिततत्तत्स्थ- लजन्मभिः प्रामुहीत्यर्थः । तथापि एवं सत्यपि। तव आशाः । स्वेष्टविषयविषयका- भिलाषा इत्यर्थः । शान्ता उपशान्ताः न नैव भविष्यन्तीत्यन्वयः । तस्माद्युक्त- मेवोतं श्रीकृष्णस्मरणेतरसर्वकर्मणां नैष्फल्यमित्याकूतम् । अत्र रूपकाधिकः सकलः प्राकन एवालंकारः ।।

 एवमुपदिष्टमपि युक्या द्रढितमपि भगवन्नामस्मरणं साधनसर्वखत्वेन कदा: चिदनन्तजन्मसंपादितकर्मवासनासहस्रपारतछयेणाश्रद्धेयतया सम्भाव्य पुनः सशपर्थ खानुभवं दृष्ट्वा स्थूणानिखननन्यायेन चिन्तामण्यादिवज्ञानाविधवाञ्छितपूरक त्वमपि तस्य कथयस्तदृढयति–मृद्वीकेत्यादिद्वाभ्याम् ।।

मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।'
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ ७॥

 मृद्वीकेति। हे मदीय जीव। एवं च निरुक्तविशालविषयावलीत्यादिपयचतुष्टय- मात्रानुष्ठितभगवद्भक्तिमहिम्नैव सद्यः स्वस्य सच्चिदानन्ताद्वैतब्रह्मात्मैकप्रत्यकूटस्थख- रूपमात्रतत्त्वविषयकाप्रतिबद्धसाक्षात्कारोदयपूर्वकसकलदृश्यबाधानुभवः संपन्न इति सूचितम् । अन्यथा जीवस्य खपार्थक्यानुभवासंभवात्। त्वया। मृट्ठीका ‘मृद्वीका गोस्तनी द्राक्षा' इत्यमराद्रोस्तनाकारदीर्घद्राक्षाजातिविशेषः । रसितास्वादिता । इह लोक इति शेषः। तथा सिता शर्करा समशिताकण्ठं भक्षिता। तथा स्फीतं विपुलं पयो । दुग्धं निपीतं प्राशितम् । एवं स्वयतेन वर्ग कदाचिद्गतेन। सुधाप्यमृतमपि। अधायि ‘घेट् पाने' इति स्मरणात्प्राशितमित्यर्थः । एवं कतिधा बहुवारं संसारस्यानादित्वा- द्युक्तमेवेदम् । रम्मेति । खण्डितो रतिरभसवशाचुम्बनावसरे कदाचिद्दन्तेनापि क्षत इति यावत् । एतेनैहिकपारत्रिकयावन्मधुरद्रव्याखादानुभवाभावशङ्काशान्तिः सूचिता । अस्त्वेवम् , किं तेनेयत्राह-सत्यमित्याद्युत्तरार्धशेषेण । भवता वया । भवे संसारे भूयो वारंवारम् । भ्राम्यता घरटी(घटी)यन्त्रन्यायेनोवधः पर्याव- तता सतेत्यर्थः । एतेन जीवे सर्वज्ञवाभावात्कथं मया कथनीयमस्ति नास्तीत्यन्य- तरकोटिकमप्युत्तर मिति परास्तम् । कृष्णेत्यक्षरयोः । कृष्ण इति संवुड्यन्तवर्णयोर- पीत्यर्थः । अयं प्रत्यक्षः । एतेन सद्यःसमुच्चारितवर्णालौकिकरसास्वादतृप्तिजन्यव- मुद्गारे द्योत्यते । मधुरिमेति । मधुरिम्णो माधुर्यस्योद्गारस्तृप्त्युत्तरभाविसशब्दोदानो- पप्राणीभूतदेवदत्ताख्यान्तरकण्ठवायुव्यापार इत्यर्थः । ‘उदारः' इति खपपाठ एव । मधुरिम्णो महत्त्वस्योकविशेषणमन्तरापि तद्भिन्नपदैरेव सिद्धत्वात् । क्वचित्कस्मिश्चि- दपि देशे काले वेति यावत् । एतेन तस्य लोकोत्तरखं ध्वन्यते । लक्षित एतल्लक्ष- णलक्ष्यतयानुभूतोऽभूदित्यर्थः । इति सत्यं न तु स्तावकम् । ब्रूहि वदेति योजना। तस्मान्निरुपममेव भगवन्नामस्मरणवैभवमिति भावः । इह प्रतीपविशेषोऽलंकारः ॥

वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं
मिथ्याज्ञाननिशीविशालतमसस्तिग्मांशुबिम्बोदयः ।

क्रूरक्लेशमहीरुहामुरुभरज्वालाजटालः शिखी
द्वार निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ ८॥

 वज्रमिति। ‘भृञ् धारणपोषणयोः' इति धातोर्महीं बिभ्रति ते तथा पृथ्वीधा- रकाः पर्वता इत्यर्थः। पापान्येवेत्यादि स्पष्टमेव । भवेति । भवः संसार एव गदो रोगः । ‘रोगव्याधिगदामयाः' इत्यमरः । यद्वा भवं जन्म आरभ्य यो गदः । जन्मरोगस्य दुर्निरसवात् । तस्याप्युदेकोऽतिरेकः । आधिक्य मिति यावत् । मिथ्येति । आरो- पितावियेत्यर्थः । सैव निशेत्यादिसरलमेव । तिग्मांशुः सूर्यः । मह्यां रुहन्तीति महीरुहास्तेषां वृक्षाणामित्यर्थः । ‘शिखावानाशुशुक्षणिः' इत्यमराच्छिखी अग्निः । निर्वृतीति । निर्गता वृतिरावरणं यस्याः सकाशोत्सा । अद्वैतचितिरूपमुक्तिरेव निर्वृतिः । शेषमतिरोहितमेव । एवं च भगवन्नाम्नः कृष्णेयात्मनः सकलपापा- जन्मरोगसकार्यकाविद्याधिभौतिकाद्यखिलदुःखमोक्षप्रतिबन्धध्वंसकत्वेन सर्वपुमर्थ- दातृवं ध्यन्यते । तस्मात्कलौ बुभुत्सुभिर्नित्यायविरोधेन दश विधनामापराधविधुरं तदेव स्मर्तव्यं सततमिति तत्त्वम् । अत्र रूपकमलंकारः ॥

 अथ ‘गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम' इत्यादिवद्विरोधिलक्षणया खचेतःप्रत्येव भगवड्यानमाक्षेपालंकारेणोपदिशति- v

रे चेतः कथयामि ते हितमिदं वृन्दावने चारय-
न्वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।
सौन्दर्यामृतमुद्भिरद्भिरभितः संमोह्य मन्दस्मितै-
रेष त्वां तव वल्लभांश्च विपयानाश क्षयं नेष्यति ॥ ९ ॥

 रे चेत इति । किं तद्धितमियत आह-वृन्दावन इत्यादिपूर्वार्धशेषेण । कोऽपि । एवं चावाङ्मनसगोचरत्वेन तस्याद्वैतव्रद्मकरूपत्वं द्योत्यते । तत्रापि भक्ता- नुग्रहार्थ मायिकलीलाविग्रहनटनात् । नवेति । नूतनघटसंनिभ इत्यर्थः । यद्वा नवानां श्रवणादिनवसंख्याकानां भक्तीनामम्बु जीवनम् ‘आपोमयः प्राणः' इति श्रुतेः । प्राणन मिति यावत् । ददाति तादृशी निभा कान्तिर्यस्येत्यर्थः । एवं च तद्भक्तिरेव कार्येति तात्पर्यम् । वृन्दावने । एतेन भक्तपारवश्यं सूच्यते । वृन्दाया अपि खप- तिरूपेण ब्रह्मैव भजन्त्याः परमभक्तत्वात् । गवां वृन्दं चारयन्। धेनुसंघचारयि- तैत्यर्थः । यद्वा वृन्दस्य देवर्षिपितृमनुष्यतिर्यक्संघस्यावनमग्निहोत्रादिना तत्तदिष्ट- प्रदानेन रक्षणं यत्र तस्मिन्नित्यर्थः । मनुष्याधिकारवाच्छास्त्रस्येति मनुष्यशरीर एवेति यावत् । गवां वागादीन्द्रियाणाम्। वृन्दं संघ चारयन्। अयस्कान्तादिवत्प्रे- रयन्नित्यर्थः । एतेन तस्य पारोक्ष्यं प्रत्युक्तम् । एतादृशोऽस्ति स त्वया बन्धुर्न कार्य इत्यन्वयः । तत्र हेतुः सौन्दर्येत्याद्युत्तरार्धेन । एष वां सौन्दर्येणामृतं कैवल्यमुद्रि- रद्भिः एतादृशैः । मन्देति । मृदुहासैः यद्वा तत्सदृशेरपरोक्षज्ञानोत्तरका- लिकखाकार वृत्तिविशेषैरित्यर्थः । संमोह्य वशीकृत्य त्वां तव वल्लभान्विषयांश्च । आशु शीघ्रम् । जयं नाशं नेष्यतीति संबन्धः । तस्माद्धितेच्छुना भवतेतः परं तत्सख्यमेव विधेयमित्याशयः ॥

एवं वाणीमप्युपदिशति-

अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षौधैरपि बहुमतां माधुरीमुद्गिरन्त
कृष्णेत्याख्या कथय रसने यद्यसि त्वं रसझा ॥ १० ॥

 अव्याख्येयामिति । हे रसने, ‘रसज्ञा रसना जिह्वा' इत्यमरादयि जिहै इत्यर्थः। यदि त्वं रसज्ञासि तर्हि तां कृष्णेत्याख्यां कथयेति योजना । अहो यत्कथनमात्रेण मद्रसज्ञवं प्रख्यातं भवति का सा वैतादृशी लोकोत्तररसमयीत्यत्राह पूर्वार्धेन । यो कृष्णेत्याख्या । अन्तश्चेतसि निमग्ना मनसैव पराख्यवागात्मना परिणतेनोच्चा- रिता सतीत्यर्थः । पराम् । अतएव । अव्याख्येयां वागायगोचरब्रह्माद्वैतविषयत्वेना- निरुच्यामित्यर्थः । एतादृशीं प्रीतिं परितुष्टिं वितरति ददातीत्यर्थः । एवं च मानस- नामस्मरणस्याद्वैतात्मानन्द एव फलमिति द्योत्यते । तथा कण्ठे लग्ना। मध्यमाख्यया। वाचोच्चारिता सतीति यावत् । नितरां निरवशेषं न तु यत्किचित् । तत्रापि । आन्तरेति । आन्तरमन्तर्भवं मानसमित्यर्थः । एतादृशं ध्वान्तजालमविद्यातमः- पटलमित्यर्थः । हरति ध्वंसयतीत्यर्थः । इदमप्युच्चारणं योगैकसाध्यमतः सुगमोपा- याभिधित्सया मया प्रथम वैखर्यभिधानवमेव प्रार्थितासीत्याशयेन तस्या अपि तत्र लोभं जनयितुं निरुक्ताख्यां विशिनष्टि द्राक्षेत्यायवशिष्टेन । द्राक्षाणां मृद्वीकादि- यावत्तदुत्तमजातीनां य ओघाः संघास्तैरित्यर्थः । अनेन लोकोत्तरमाधुर्यवत्वं तेषु ध्वन्यते । बहुमतामादृतामित्यर्थः । एतादृशीं माधुरीं मधुरतामुद्रिन्तीं। तृप्ति- पूर्वकं विकासयन्तीमिति यावत् । तस्मात्त्वयावश्यमियं सेवनीयेत्याशयः । गयो- स्प्रेक्षालंकारः ॥  ननु किमेवं वागादीन्द्रियोपदेशेन तेषां खदेकपारतघ्यायदि वय्येव ‘परोप- देशसमये सन्ति सर्वेऽपि पण्डिताः । तदनुष्ठानसमये मुनयोऽपि न पण्डिताः ॥ इति न्यायेन केवलमुपदेशकौशलमेव तर्हि तेषामपि कूपकलशजलन्यायेन कथं नामोपदेशसहस्रऽपि तत्र प्रवृत्तिः स्यादित्याशङ्य खस्यापि नैसर्गिकभगवन्मात्रप्रेम- परवं संस्फुटयति-

सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा-
स्तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरूर्ध्वाक्षैरथ निजसखं नीरदं स्मारयद्भि-
श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥११॥

 सन्त्येवेति । वासना प्रीतिमूलीभूता संस्कारनाम्नी मनोनिष्ठा भावनेत्यर्थः । अस्वैवं भावत्की प्रीतिश्चातकेषु किं ततः प्रकृत इति शङ्कां शमयनुक्तप्रीतौ हेतु द्योतयति यैरित्याद्युत्तरार्धेन । अथ ऊर्ध्वनेत्रवानन्तरम् । निजेति । जीवनदबेन खप्राणीभूतमित्यर्थः । उक्तं हि-‘समप्राणः सखा मतः' इति । किमप्यवाङ्मनस- गोचरमित्यर्थः । एवं च नीरदस्मरणेन तद्वर्णस्य श्रीकृष्णस्यापि स्मृतिः संभवतीति परम्परया तत्प्रयोजकत्वेन चातकेषु हंसादीनप्यनादृत्य मत्प्रीतिरुचितैवेति भावः । एतेन भगवद्विषयकं नैसर्गिक प्रेम व्यज्यते। शिष्टं तु स्पष्टमेव । इह स्मृतिरलंकारः काव्यलिङ्ग खभावोक्तिश्च ॥

 नन्वथापि स तु तवापि ममेव परोक्ष एवेति चेन्न । नित्यापरोक्षरूपस्य तस्य परोक्षकल्पनाया व्यामोहैकमूलकवात्सर्वदृश्यजालस्य तन्मात्रप्रकाशेन भासमानखा- चेत्यभिसंधाय भेदवादिनः समुपहसति--

विष्वग्रुच्या भुवनमभितो भासते यस्य भासा
सर्वेषामप्यहमिति च यत्प्रत्ययालम्बनं यः ।
तं पृच्छन्ति स्वहृदयतलावेदिनो विष्णुमन्या-
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १२॥

विष्वगिति । यस्य व्यापकस्य परब्रह्मरूपस्य श्रीविष्णोरित्यर्थः । विष्वग्रुच्या । विष्वक् समन्ततः सर्वदेशकालाद्यवच्छेदेनेत्यर्थः । रुचिः सर्वजीवानां प्रीतिर्यस्यां सा तथा तयेत्यर्थः । ‘रुचिर्मयूखे शोभायामभिषङ्गाभिलाषयोः' इति विश्वः । तत्त- द्वस्तुविषयकज्ञानेऽभिलाषो हि सर्वेषां जीवानामवश्यं वाच्यः । अन्यथोपादेये खेष्टविषये प्रवृत्तिरनुपादेये स्वानिष्टविषये निवृत्तिश्च तत्तज्ज्ञानमन्तरा कथं भूयात् । तस्मादुकव्याख्यानं युकमेव । एवं दीप्तिवाचिभ्यां रुचिभाःपदाभ्यां द्विरुकिरपि प्रत्युक्ता। एतादृश्या भासा खरूपभूतखप्रकाशचितेत्यर्थः । तथा च श्रूयते-- ‘तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति' इति । एतेनेदं- प्रत्ययालम्बनखेन तस्य नित्यापरोक्षं द्योतितम् । भुवनं विश्वम् । अभितः सर्वावस्थावच्छेदेन भासत इति संबन्धः । एवमहंप्रत्ययालम्बनखेनापि तस्य नित्यप्रत्यक्षवं संक्षिपति--सर्वेषामपीति द्वितीयपादेन । यद्यस्मात्कारणात् ।। हेतुरयं प्रागपि योज्यः । सर्वेषामपि संपूर्णजीवानामपि यः पूर्वोक्तविष्णुः । अहमिति प्रत्ययालम्बनमहंवृत्तिस्फुरणाश्रयः । अस्तीति शेषः । चः समुच्चये । तमपि विष्णु व्यापकं यावदृश्यप्रकाशकं परमात्मानमित्यर्थः । खेति । खहृदयानि खान्तःकरणानि । “अहंवृत्तिरिदंवृत्तिरित्यन्तःकरणं द्विधा । विज्ञानं स्यादहंवृत्ति- रिदंवृत्तिर्मनो भवेत् ॥' इत्यभियुक्तोक्तेः प्रागुक्तरीत्या बुद्धिमनोरूपाणीति यावत्। तेषां यत्तलं 'तलं स्वरूपाधरयोः' इति विश्वाद्वास्तविक रूपं निरुक्तरीतिकालम्बन- विधया आधारो वा अद्वैतात्मप्रकाशस्तं न विदन्ति नैव जानन्तीति तथा । अज्ञानिन इत्यर्थः । अन्यान्ब्रह्मविदः पृच्छन्ति खया विष्णुष्टिश्चैदस्मान्संदर्शये- त्याक्षिपन्ति । अतः । शिवशिवेति खेदे । योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणी ॥' इत्युक्तरीत्या दृक्पा- पिष्ठस्मृत्या प्रायश्चित्ते चायं नृणामन्यायः केन वर्णनीयः । लोकोत्तरखान केना- पीयन्वयः । एवं चात्युपहासः सूचितः । इह काव्यलिङ्गमेवालंकारः ॥ ततः किमेवमन्योपहासेनेति संजातानुतापः सचेतःप्रत्येव समुपदिशति--

सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यता
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्गसि स्मररिपोर्गाथा तदालाप्यतां
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सुखं सुप्यताम् १३

 सेवायामिति । रे चेतः, वं प्राक्तनसंस्कारवशादिति सर्वत्र बोध्यम् । यदि सेवायां साभिलाषमसि तर्हि त्वया लक्ष्मीपतिरेव सेव्यतां तत एव सर्वसंपल्लाभ- संभवादिति भावः । एवं चिन्तायामित्याद्युत्तरत्रापि बोध्यम् । गजेन्द्रादेश्चिन्तो- पशमस्य तादृशोपाध्यवच्छिन्नात्मनः सकाशादेव दृष्टवादित्याशयः । आलाप ‘स्यादाभाषणमालापः' इत्यमरात्संभाषणमित्यर्थः । स्मररिपोर्मदनान्तकस्य श्रीशङ्क- रस्यैवेत्यर्थः । गाथा व्यासादिग्रथितकथेत्यर्थः । आलाप्यतामिति छेदः । निरर्ग- लेवि । निर्गतमलिमिव ‘तद्विष्कम्भोऽर्गलं न ना' इत्यमराद्वाररोधककाष्ठविशेष- मिव क्षयोपायाभावात्प्रतिरोधकं यत्र तच्च तत्सुखं चेति तस्मिन्नद्वैतब्रह्मात्मैक्यसुख इत्यर्थः । एतेन विषयसुखव्युदासः सूचितः । अत्र स्मररिपुपदेन वक्तुरभेदभक्तवं व्यज्यते । अत एवोक्तं मदीयायामद्वैतसुधायाम्-‘कृष्ण पश्यन्तु मां केचित्के- चिद्वा नीललोहितम् । रजुसर्पवदेतेन कूटस्थस्य न मे क्षतिः ॥” इति । कृष्ण- भक्तिचन्द्रिकायामपि-‘उभयोरेका प्रकृतिः प्रत्ययमेदाचे भिन्नवद्भाति । कल- यति कश्चिन्मूढो हरिहरभेदं विना शास्त्रम् ॥” इति । एवं चेह जाप्रदादिविझेपे राजरिपुरमणीनां सेवनचिन्तनभाषणैरनुक्रमात्सुप्यादिलये च वृथायुःक्षयेण पुरु- पार्थाभावो द्योत्यते । तथा चरण चतुष्टयेऽर्थादिजिज्ञासुज्ञानिकर्तृकाश्चतुर्विधी भक्तयो ध्वन्यन्ते । अत्र परिकरपरिकरारकाव्यलिङ्गान्यलंकाराः ॥

 अथ चरमचरणसूचनसंजातस्मरणात्साधूसंवर्णयति-

भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो
बलादुन्मूल्य द्राङ्गिगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषमार्याः करटिनः ॥ १४ ॥

 भवेति । भवः संसारः स एव ग्रीष्मातपनिवहो ग्रीष्मर्तुकालिकालोकनिकर- स्वेन सम्यक् न तु यत्किचित्तप्तं संतप्तं वपुः शरीरे येषां ते तथा । एतेन विरा- गसामग्रीपौडकल्यं व्यज्यते । अत एव । बलादिति । द्राक् ‘दाङमक्षु सपदि द्रुते' इत्यमराच्छीघ्रमेव न तु विलम्बेन । तेन परमविरागः सूचितः । बलात् ‘नास्ति योगसमं बलम्' इति वचनाद्योगाभ्यासरूपसामथ्र्थाद्धेतोरित्यर्थः । श्रवणादिसाम- थ्र्येन वा । अविवेकेति । अविवेकस्याविचारस्य व्यतिकर आधिक्यं येन तं मूलाज्ञानलक्षणमित्यर्थः । निगडं लोहब्बलविशेषम् । उन्मूल्य भक्खे- त्यर्थः । एतेनाप्रतिबद्धाद्वैतब्रह्मात्मैक्यसाक्षात्कारपर्यन्तं विचारपरिपाकः सूचितः । ततः विशुद्धेऽविद्यादिदृश्यमलशून्ये पक्षे निष्पक्व । नैराश्येति । सोऽश्नुते सर्वान्का- मान्सह' इति श्रुतेर्ब्रह्मविद्यया निखिलानन्दनाडीभूतब्रह्मानन्दाम्भोधिमग्नताना- न्तरीयकवविध्वस्ताखिलाविषयानन्दावाप्यभिलाषकवाचिराशखशीतल इत्यर्थः । एतेन जीवन्मुक्तिः सूचिता । एतादृशे च । अस्मिन्नित्यापरोसे । आत्मेति । आत्माभिन्नं यदमृतं श्रेयो निःश्रेयसामृतम्' इत्यमराकैवल्यं तदेव सरः कासा- रस्तस्मिन्नित्यर्थः । आर्याः पूज्याः । ब्रह्मज्ञा इत्यर्थः । करटिनो गजेन्द्राः । दूरीकृ- तेति । दूरीकृतं निरस्तं कलुषं संचितक्रियमाणकर्मजातं पक्षे पङ्कजातं च यथा स्यात्तथेत्यर्थः । विगाहन्ते प्रविशन्ति खैरे विहरन्तीति योजना । अत्र रूपक- काव्यलिङ्गेऽलंकारौ ॥

 यद्येवमात्मवियैकसाध्या मुक्तिस्तर्हि कथं शास्त्रे ‘अक्षय्यं ह वै चातुर्मास्यया- जिनः सुकृतं भवति' इत्यादिनाग्निहोत्रादिकर्मणामेव मुक्तिसाधनखमुक्तं, कथं वा ‘नास्ति सांख्यसमं ज्ञानम्' इत्यादिना सांख्यादिशास्त्राणामपि ज्ञानसाधनवम- भिहितं, कथं वा ‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति' इत्या- दिना प्रयागस्नानस्यापि तत्साधनता प्रतिपादितेति चेद्वाढम् । अक्षय्यशब्देन यत्किचिदापेक्षिकाक्षयवस्यैव ‘प्लवा होते अदृढा यज्ञरूपा' इत्यादिसोपपत्तिकश्रुत्य- न्तरविरोधात्तच्छ्रुतिपूर्वापरतात्पर्यपयलोचनाच विवक्षितवं वाच्यम् । एवं सांख्य- शब्देन ‘यत्सांख्यैः प्राप्यते स्थानम्' इत्यादिश्रीमद्भगवद्गीतावाक्यस्थभाष्यरीत्या- द्वैतात्मसाक्षात्कारस्यैव तत्त्वं वक्तव्यम् । सितासितश्रुतिस्तु कण्ठत एव खर्ग वक्तीति नैव चोदनाविषयः । तस्मादेतादृशाभिप्रायानभिज्ञलेन ये तत्र प्रवृत्तास्ते श्रान्ता एवेति खचेत एवं प्रतिबोधयति-

बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा-
नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ते ।
तीर्थे मजन्त्यशुभजलधेः पारमारोदुकामाः
सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ १५ ॥

 बन्धोन्मुत्यै इति । मखो यज्ञो मुखमिव मुख्यो येषु तानित्यर्थः । एतादृ- शान् । कर्मेति । कर्माण्येव बन्धकलात्पशास्तानित्यर्थः । न हि बन्धकैः पाशै- बन्धोन्मुक्तिः स्वप्नऽपि संभाव्यते । एवमग्रेऽपि । अन्तरिति । चित्तशान्त्यर्थ- मित्यर्थः । मुनीति । मुनीनां जैमिन्यादिमहर्षीणां यानि शतानि तेषां मतानि सिद्धान्तजातानि तेषां यानल्पा विपुला ‘न तु श्रुतिमतस्तुर्कोऽनुसंधीयताम्' इति श्रीमद्भाष्यकारचरणाजवचनाद्यत्किंचिदेतादृशी या चिन्ता तामित्यर्थः । अशु- मेति । दुःखाब्धेरियर्थः । पारे परतीरम् । आरोढुकोमा आरोढुमधिगन्तुं कामोऽभिलाषो येषां ते तथा । अत्र सर्वत्र जना इत्यध्याहारो बोध्यः । अवशिष्टं तु स्पष्टमेव । विचित्रालंकारः। तदुक्तम्-‘विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया। नमन्ति सन्तत्रैलोक्यादपि लब्धं समुन्नतिम् ॥” इति ॥

 अथ पुनः संजातानुतापः किमनया भ्रान्तचर्याविचारणया ममेयतः श्रीविष्णु- चिन्तनमेव सततं ममास्त्वित्यभिलषति-

प्रथमं चुम्बितचरणा जब्बाजानूरुनाभिचक्राणि ।
आलिङ्ग्य भावना से खेलतु विष्णोर्मुखालशोभायाम् ॥ १६॥

 प्रथममिति । मे भावना चित्तवृत्तिः। प्रथमं पूर्वम् । चुम्बितेति । चुम्बितौ चरणौ यया सा तथा । विष्णोरियार्थिकम् । एतेन ‘संचिन्तयेद्भगवतश्चरणारवि- न्दम्' इत्यादिश्रीमद्भागवतोका भगवड्यानसरणिधरणाजमारभ्यैवेति द्योतितम् । ततः । जङ्केति । जङ्ग्रे च जानुनी चोरू च नाभिचक्रं चेति तथा । नाभिहृदया- नीति पाठस्तु सरल एव । अत्र द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति सूत्रेणैकवद्भावे प्राप्तेऽपि तदकरणं प्रकृतेऽद्वैतब्रह्ममात्ररूपत्वेन प्राणित्वाभावाशयादेवेवि बोध्यम् । तान्यालिङ्ग्य विष्णोर्मुखाब्जशोभायां खेलत्विति संबन्धः । एतेन प्रागुपभुक्तव- कान्तालिङ्गनचुम्बनखेलनस्मृतिप्रशान्त्युपायत्वमत्र व्यज्यते । भावनाया अपि स्त्रीत्वात्प्रकृते तत्समुचितमेव चुम्बनादीति सूच्यते । एवं चेह समासोक्तिरलंकारः ॥ एवं कृतेऽप्यभिलाषे हृदि निरुक्तकामवासनादिवशाज्झटिति भगवन्मूर्त्यप्रति- भासेन खिन्नमिवात्मानं ब्रह्मावबोधसंस्कारेण तादृशं तं पृथक्त्वेनानुसंधाय स्वयं दृङमात्रः सन्सान्त्वयन्निव भगवत्स्मृतिमाहात्म्यातिशयं व्यनक्ति-

तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम्
चेतःसरणावस्या किं नागन्ता कदापि नन्दसुतः ॥ १७ ॥

 तरणोपायमिति । ताम्यसि । संतप्तो भवसीत्यर्थः । चेतःसरणौ चित्तपद्ध- त्याम्। तेन तदागमनयोग्यत्वं ध्वन्यते । रूपककाव्यलिङ्गेऽलंकारौ । अन्यत्तु सरलमेव ।।

 एवं विषयसंस्काराणामपि भगवद्ध्यानप्रतिबन्धकत्वेऽनुभूतेऽथ सर्वेषामिष्टविष- याणां संपदेकमूलकत्वेन तदभावमेवाशास्ते--

श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मद्भ्राम्यङ्गावलिमधुरझङ्कारसुभगाः ।

भा० वि० ११

निमग्नानां यासु द्रविणरसपर्याकुलदृशां
सपर्यासौकर्य हरिचरणयोरस्तमयते ॥ १८ ॥

 श्रिय इति। ताः श्रियः संपदो मे क्षणमपि च मा सन्विति संबन्धः । एते- नात्मनोऽतिविरक्तत्वं तन्यते । यत्किचित्संपत्तीनां दुःखहेतुत्वेनानाशास्यत्वेऽपि महतीन तासां सुखहेतुत्वमेव स्यादित्याशङ्य ता विशिनष्टि माद्यदित्यादि पूर्वार्धशेषेण । माद्यन्तश्च ते गजाश्च तेषां या घटा ‘करिणां घटना घटा' इत्यम- रात्पङ्गिस्तस्यामित्यादि सरलमेव । तत्र हेत्वाशङ्कां शमयंस्वच्छब्दापेक्षितं पूरयति निमग्नानामित्याद्युत्तरार्धेन । यासु निमग्नानामत एव द्रविणरसपर्याकुलदृशां धनसु- खाखाव्याकुलविवेकानामित्यर्थः । विपरीतं वा हेतुहेतुमद्भावः । तेन जनका दीनां राज्यानुपपत्तिः प्रत्युक्ता । तेषां तत्रानिमग्नत्वाद्वित्तसुखालुप्तविवेकत्वाच । एतादृशां पुंसां हरिचरणयोः । सपर्येति । ‘पूजा संपर्यापचितिः' इत्यमरात्सपर्या पूजा तस्याः सौर्य सुकराया भावः सौकर्य सुसंपाद्यत्वमित्यर्थः । अस्तमयतेऽस्तं प्राप्नोति । दुष्करत्वमेव संपद्यत इत्याशयः । तत्र हेतुगर्भ विशेषणे तु व्याख्याते एव । तस्मादुक्तलक्ष्म्यभावाभिलाषस्तावद्युक्त एवेति भावः । इह काव्यलिङ्गादिरे- वालंकारः ॥

 अथ गङ्गाप्यस्ति सकलमुक्तिप्रतिबन्धध्वंसनकरी तत्तीरवासिनस्तवेति पुनः खचेतः साक्षेपं सान्त्वयति-

किं निःशङ्के शेषे शेषे वयसस्त्वमागतो मृत्युः ।
अथवा सुखं शयथा निकटे जागर्ति जाह्नवी जननी ॥१९॥

 किं निःशङ्कमिति। रे चेतः, त्वं वयस आयुषः शेषे । किंचिदंशेऽवशिष्टे सतीत्यर्थः । यद्वा । आयुषोऽतीन्द्रियत्वाद्वयःशब्देन वार्धक्यमेव ग्राह्यम् । तथा च तेन तदल्पतानुमानमेव । निःशङ्के किं शेषे विषयशयनीये निद्रासीत्यन्वयः । तस्मादितःपरं द्रुततरमेव सावधानेन भाव्यमिति भावः । तत्र हेतुः ‘आगत' इति । पूर्वार्धशेषेण । ततोऽकस्माङ्ग स्मृत्वा निरुक्ताक्षेपमेव प्रतिक्षिपति अथवेत्याद्युत्त- राधैन । शयीथास्त्वं पूर्ववद्धर्मानुरुद्धविषयशय्यायामेव शयनं कुर्वित्यर्थः । तत्र हेतुर्निकट इत्यादिशेषेण । तस्मात्सैव त्वदुद्धार करिष्यत्येवातः किं तवायासैरि- त्याशयः । अत्राक्षेपालंकारः। तदुक्तम्-‘आक्षेपः खयमुक्तस्य प्रतिषेधो विचा- रणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥” इति ॥ ततो जीवननिर्वाहार्थमप्युद्योगवासनां प्रत्याचष्टे-

संपादयामि किमहं धावं धावं धरातले यद्यम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥ २० ॥

 संपादयामीति । अहं धरातले धावं धावं पुनःपुनर्धावनं विधाय किं संपाद- यामि किं वाग्रेऽपि संपादयिष्यामि । सुखादेर्दैवमात्रायत्तत्वाद्यर्थ एव तदर्थमायास इत्याशयः । तर्हि दैवस्यापि यत्नसापेक्षत्वात्कथं देहनिर्वाह इत्यत आह यदित्या- दिशेषेण । यद्यस्माद्धेतोः । अयं प्रत्यक्षः । एतेन सगुणसाक्षात्कारः सूचितः । सत- तमित्यादिपदचतुष्टयेन क्रमावस्य कालान्तरचिन्ताशान्तिः श्रीकृष्णस्य तु भक्तब- न्धुत्वसामर्थ्यपरब्रह्मत्वानि च योयन्ते । ‘संतापयामि किमहं धावं धावं धरातले हृदयम्' इति पाठेऽप्ययमेवार्थः फलति । अत्रापि काव्यलिङ्गादिरेवालंकारः ॥

 अथ कदाचित्पूर्वसंस्कारतरतरुण्यासक्तं मनः सोपालम्भं प्रतिबोधयति-

रे रे मनो मम मनोभवशासनस्य
पादाम्बुजद्वयमनारतमामनन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये
नैतावता तव गमिष्यति पुत्रशोकः ॥ २१ ॥

 रे रे मन इति । मम मन इति संबन्धः । त्वम् । मनोभवेति साभिप्रायम् । मनसिजहन्तुः शिवस्येत्यर्थः । पादेति । चरणाब्जयुगम् । अनारतं सततम् । आमनन्तं वेदतः स्मरन्तम् । एतादृशं माम् । तद्वैरात्। संसृतीति । भवकुहर इत्यर्थः । किं निपातयसीत्यन्वयः । वैरशुद्ध्यर्थमिति चेत्तत्राह । नेति । एता- वता पुत्रशोकः खसुतीभूतकामदाप्रयुक्तखेद इत्यर्थः । नैव गमिष्यतीति योजना । तस्मात्कान्तासक्तिस्त्याज्यैवेति तत्त्वम् । उक्त एवालंकारः ॥

 एवमेकविंशश्लोकान्तं शान्तरसव्यञ्जनेन चतुर्थे पुरुषार्थे समुपदिष्टे सति वक्त- व्यांशस्यानवशिष्टत्वात् ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते' इति महाभाष्यस्मृतेः समाप्तावपि मङ्गलमभ्युदयकामयावश्यकमिति धिया श्रीम- हारामायणाभिधादिकाव्यकथैकदेशकथनात्मकत्वेन वस्तुनिर्देशलक्षणं मङ्गलमाच- रन्प्रकृतग्रन्थेऽपि विनेयानुशिशित्सया संग्रथयति मरकतेत्यादित्रिभिः । तत्रा- प्यरण्यकाण्डकथैकांशसूचनं द्वाभ्याम् । तृतीयेन तु सुन्दरकाण्डस्यैव तस्येति । बोध्यम्

मरकतमणिमेदिनीधरो वा
तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरा-
दृषिनिकरेरिति संशयः प्रपेदे ॥ २२ ॥

 मरकतेति । दूरदृषिनिकरैमुनिसंघः । रघुपतिं श्रीरामम् । अवलोक्य । अयं दूरप्रत्यक्षः । एतेन संशयसामग्री सूच्यते । मरकतेति । ‘गरुत्मतं मर- कतमश्मगर्भो हरिन्मणिः' इत्यमरान्मरकतमणयो हरिद्रत्नानि तन्मयश्चासौ मेदिनीधरः पर्वतश्चेति तथा । एतेन भगवतो रघुनाथस्य ‘यं निषेधमुखेनाह नवोढेव पतिं श्रुतिः । तं नामविलसच्छम्पं रामनीरदमाश्रये ॥' इत्यादिषु नील- वर्णस्यैव वर्णितत्वेऽपि भगवत्यास्तदा तदनुगामिन्याः सीतायास्तप्तकाञ्चनसमतनु- कान्तिसंपृक्तत्वं व्यज्यते । नीलपीतद्रव्यसंपर्के हि लोके हरिद्वर्णस्य प्रसिद्ध- त्वात् । ततः किंचिच्चाञ्चल्यं तत्रालक्ष्योत्प्रेक्षान्तरमाहुः । वेति । अथवा । एष पुरोवर्ती तरुणतरोऽतिनूतनपल्लवाढ्यः । एतादृशस्तमाल एतन्नामकः कश्चित्ता- पिच्छत्वेन कोशादौ प्रसिद्धो वृक्षविशेष इत्यर्थः । एतादृशस्तरुवृक्षोऽस्ति किमिति संशयः संदेहो द्विकोटिको बोधः प्रपेदे प्राप्त इत्यन्वयः । तत्र यदा सीताकान्ति- संपर्कस्तदाद्यकोटियंदा तदभावः पाणिचाञ्चल्यं च तदान्त्यकोटिरिति तत्त्वम् । अत्र संदेहालंकारः ॥

तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कोयच्छाया विलोकनकौतुकै-
वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥ २३॥

 तरणीति । वनेति । वननिवासिभिः । कैः कैर्जनैः । रघुपतेः श्रीरामस्य । कायेति । ‘छाया सूर्यप्रिया कान्तिः' इत्यमराच्छरीरकान्तीक्षणकुतूहलैः सद्भिरि- त्यर्थः । आदौ प्रथमम् । एषा पुरोवर्तिनी । तरणीति । तरणिः सूर्यस्तस्य तनया कन्या यमुना यात्किम् । नीलवर्णत्वात्तत्र कालिन्दीत्वसंभवेऽपि तोयमयत्वाभावा- नेदमित्याहुर्नेत्यादिना । हिर्हेतौ । यस्मात्सा यमुना तोयमयी । इयं तु न तथेति हेतोः प्रागुफकल्पना न नैव संभवतीति संबन्धः । एवमेव कल्पनान्तरं कृत्वीपि निराकुरित्याह–मरकवेत्यादिद्वितीयपादेन । 'ज्योत्स्ना सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च' इति विश्वान्मरकतमणिकृत हरिद्रत्ननिर्मिता ज्योत्स्ना सचन्द्रनक्षत्र- रात्रिस्तत्सदृशी । श्रीरामकान्तेः सीताकान्तिसंपृक्तत्वेन हरिद्वर्णत्वेऽपि तत्राकाश- नैल्यस्य जलादाविव प्रतिफलनाद्रात्रिसाधम्र्येण तथा सूर्यस्य प्रतिफलनात्तन्नीलिमा- दिना सचन्द्रत्वेन तथा तदलंकारहीरप्रतिबिम्वनात्सनक्षत्रत्वेन काचिद्विचित्रा दीप्तिरिति भ्रान्तिः सुघटैवेति भावः । अत्र श्रीरामकान्तौ तु चकोराणां चन्द्र- कान्ताविव तेषां माधुर्याखादे जायमाने पुनर्निरुक्तकल्पनामपि प्रत्याचख्युरियाह नेत्यादिना । नोक्तकान्तिकल्पना नैव संभवति । तत्र हेतुः । सो निरुक्तमरकत- कान्तिः । कुत इत्याक्षेपे । कस्मान्मधुरा । न कुतोऽपि तथेत्यर्थः । इति न संदि- दिहे । अपि तु सवैरपि संदिदिह एवेति योजना । एवं च द्वाभ्यामपि पद्याभ्यां तत्कान्तावलौकिकत्वं ध्वन्यते । अत्र सहेतुकसंदेहालंकारः ॥

चपला जलदच्युता लता वा
तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वासितैः कपिर्मनीषी
निरुणैषीथ तां वियोगिनीति ॥ २४ ॥

 चपलेति । इयं जलदच्युता मेघापतिता चपला विद्युदेव । यद्वा तरुमुख्या- कल्पद्रुमाच्युता लता कल्पवल्ली वास्तीति संशये निमग्नः कपिहनुमान्मनीषी विद्वानत एव अथ निरुक्तसंशयोत्तरं तां सीतां वियोगिनी विरहिणी इति गुरुनिः- श्वसितैरशोकवनिकायां दीर्घनिःश्वासैर्लिङ्गैर्निरणैषीनिर्णतवानिति योजना । अत्रापि ससंदेहोत्तरपरिकरश्च । अत्र ‘कविर्मनीषि' इत्यपि केचित्पठन्यथाप्युक्तनिर्णय- सामग्या मनीषिपदेनैव संपन्नत्वात्संशयस्य तु तद्गौरवादिनैव सिद्धेः कवित्वमनर्थ- कमेवेति ध्येयम् । निर्णयालंकारः ॥

 अथास्य ग्रन्थस्य प्रचारप्रतिबन्धकानि नीचगृहसंपत्तिर्विप्रगृहविपत्तिः साधुझि- प्रमतिरसाध्वायुर्वृद्धिव्रततिश्चेति चत्वार्येवातः सांप्रतिकत्वेन तत्प्रयोजकमीश्वरमेव कविरुपालभते-

भूतिर्नीचगृहेषु विप्रसदने दारिद्यकोलाहलो
नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम्।
दुर्नीतिं तव वीक्ष्य कोपहनज्वालाजटालोऽपि स-
कि कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः ॥ २५ ॥

 भूतिरिति । नीचगृहेषु म्लेच्छाद्यधमतमसद्मवित्यर्थः । भूतिरैश्वर्यसंपत्तिः ।

तथा विप्रसदने ब्राह्मणानां गृहे दारिद्रयकोलाहलो दारिद्येणान्नाच्छादनादेरपि शून्य- त्वेन यः कोलाहलो बालानां रोदनादिकलकलशब्द इत्यर्थः । “कोलाहलः कल- कलः' इत्यमरः । हन्तेदि खेदे। सतां साधूनां नाशः शीघ्रमेव मृत्युः । अल्पा- युटुमिति यावत् । एवमसत्पथजुषां कुमार्गगामिनाम् । शतानां शतम् । असंख्या- तमित्यर्थः । अतिशयोक्तिरियम् । यद्वा “समानाम्' इत्येव पाठः । तथा च ‘हायनोऽस्त्री शरत्समाः' इत्यमराद्वर्षाणामित्यर्थः । शतं शतायुर्वै पुरुषः' इति श्रुतेस्तेषां पूर्णायुष्ट्वामिति यावत् । हे जगदीश परमेश्वर, एवं विश्वनियन्तुस्तव दुर्नीतिं वीक्ष्याहम् । कोपेति। क्रोधानलज्वालाजटालोऽपि सन्नहं किं कुर्वे । न किमपि करोमीयर्थः । कुत इति चेत्तत्राह—यदित्यादिशेषेण । यद्यस्मात्कारणा- दहं दीनोऽस्मि । भवान्पुनरीश्वरोऽतिसमर्थोऽसीति संबन्धः। तस्मात्त्वयेदं चतुष्टयं नैव विधेयं तथा च मद्भन्थप्रथावश्यमेव भविष्यतीति भावः । अत्र जगदीशेश्वर- पदाभ्यां द्विरुक्तिस्तु वक्तुः कवेरतिरभसपारवश्येनानवधानादेवेति ध्येयम् । एवं चात्र नीतिवीरो रसः । काव्यलिङ्गादिरेवालंकारः ॥

 ननु त्वं किमित्येवमीश्वरमाक्षिपसि तत्तज्जीवादृष्टानुसारत एव तस्य फलदत्वा- तथा च यदि त्वत्काव्यस्याप्रसिद्धिरेव स्याचत्किं ततः सन्त्येव मानुषकविष्वपि कालिदासादीनां रघुवंशादीनि काव्यानि ततस्तैरेव तदधिकारिणां कान्तोपदेश- रीत्या धर्मादिपुमर्थतत्साधनध्वननं च भूयादिति चेत्तत्राह–आमूलादित्यादिसप्त- भिरासमाप्ति ।

आ मूलद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे-
यवन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्धीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाज्यभाजा
वाचामाचार्यतायाः पद्मनुभवितुं कोऽस्ति धन्यो मद्न्यः २६

 आमूलादिति । रत्नसानोमेरोः। ‘रत्नसानुः सुरालयः' इत्यमरः । मूलादा। मर्यादार्थकोऽयमाङ। मेरुमूलं मर्यादीकृत्येत्यर्थः। तथा मलयेति। मलयाचलवेष्टिता- दित्यर्थः। एतादृशात्पयोधेः क्षीराब्धेः कूलात्तीरात आ । तीरं मर्यादीकृति यावत् । एवं च सेतुसुरालयमध्यदेश इति फलितम् । काव्येति । काव्यरचनचतुरा इत्यर्थः। ‘दझे तु चतुरपेशलपटवः' इत्यमरः। वदन्त्विति पदमितिशब्दाध्याहारेण कोऽस्ति धन्यो मदन्य इति वदन्त्विति योजना। मृद्वीकेति । ‘मृद्वीको गोस्तनी द्राक्षा' इत्यमरः। तस्या अपि मध्यस्तस्मादपि निर्यस्तत्परिपाकात्खयमेवाविर्भवन् । न तु निष्काशितः । अत एव यो मसृणरसो माधुर्याधिक्येन कोमलरसस्तस्यापि या झरी सूक्ष्मः प्रवाहस्तस्य या माधुरी तस्या यद्भाग्यमैश्वर्य तद्भजन्ति सेवन्ते ता- स्तथा। एतादृशीनां वाचां काव्यवाणीनाम्। आचार्यताया गुरुतायाः पदं स्थानम् ।। अनुभवितुं विशदयेव (?) तथा चाहमेवोक्तपदानुभवनधन्य इति ध्वन्यते। तस्मात्के मदग्ने कालिदासाद्य इत्याशयः । एवं च युक्तैवोक्तेश्वरप्रार्थनेति रहस्यम् । अत्र कवित्ववीर एव रसः । रूपकं लुप्तोपमा चालंकारः ॥

 एवं तर्हि भवद्वाच्यपि केचिदेव किमिति सादराः, कुतों वा न सर्वेऽपीत्याक्षिप्ते, किमेतविता क्षतं प्रत्युत यावन्मनुष्येषु पशुतत्पतित्वयोर्निर्णायक श्रवणद्वारा मत्काव्य- मेव संपन्नम् , तदन्यतरनिर्णयसंदेहस्तु सहवासेनैव पराकरणीय इत्याशयेनोत्तरयति-

गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकण्र्य श्रवणसुभगं पण्डितपते-
रधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ २७ ॥

 गिरा देवीति । वागधिष्ठात्री भगवती । सरखत्यपीत्यर्थः । एतेन निरुपम शक्तिमत्त्वं स्वस्य सूच्यते । वीणेति । वीणायाः कच्छप्यभिधाया वल्लक्या ये गुणा- स्तन्यभिधानि सूक्ष्मसूत्राणि तेषां यद्रणनं वादनं तत्र हीनादर आसक्तिशून्यः करो हस्तो यस्याः सा तथा । एतादृशी सतीत्यर्थः । एकक्षणावच्छेदेन हि ज्ञानकर्मेन्द्रि- याभ्यां केवलाभ्यां वा तत्र केनचित्कुशलेन तत्तत्साध्ये साध्यमानेऽप्यन्यतरस्य हीनतावश्यंभाव एव । एवं च प्रकृते वक्ष्यमाणकाव्याकर्णनतस्तद्रसास्वादने करसं- चारणेन वीणावादने किंचिन्यूनतापत्तिः । अतः संपूर्णतया तदास्वादनार्थ लुब्ध- चेतस्त्वेन तस्याः करस्य स्वयमेव तत्रानादरः संपन्न इति ध्वन्यते । तेन प्रकृतका- व्यस्यालौकिकत्वं द्योत्यते । यदीयानां यत्संबन्धिनीनां वाचां प्रकृतादिकाव्यवाणी- नाम् । अमृतमयं पीयूषरूपं रसं शृङ्गारादिरसम् । आचामत्याखादयतीति संबन्धः। तस्य पण्डितपतेः । एतेन खस्य सकलशास्त्रपाटवमपि द्योतितम् । वचः काव्य- वीक्यं न तु तर्कव्याकरणादि कर्णकर्कशवाक्यम् । तत्र फलविशेषसत्त्वेऽपि सद्यः श्रवणादिसंतोषजनकत्वात् । आकर्ण्य श्रुत्वा । यो मूर्धानम् । महारम्यतममिदमिति संतोषेण शिरःकम्पनं हि लोके तत्सूचकचेष्टात्वेन सुप्रसिद्धमेव । तदभावा- दधुन्वन्नकम्पयन्भवति स नृपशुरेव । नराकारः पशुरेवेह बोध्य इत्यर्थः । ननु सुभा- षितश्रवणतो जीवन्मुक्तानामपि परितोषाभावस्य समुद्रे वृष्ट्या जलवृद्ध्यभावस्येव लोकादाववलोकितत्वात्कथमेतादृशस्य भवता पशुत्वमेवाध्यवसीयत इत्याशङ्कय, न मयैवं निर्णायते किंतु संदिह्यत एवेति कोट्यन्तरकथनतो व्यनक्ति–अथवेत्या- दिशेषेण । अयं पृथिव्याद्यष्टमूर्तिरूपत्वेन प्रत्यक्षः पशुपतिः श्रीशंकर एव स इति योजना । तथा चाम्नायते---‘ब्रह्मविद्गह्मैव भवति' इति । उक्तं चान्यत्रापि सुभा- षिताद्यनानन्दिनः पशुत्वादि-‘सुभाषितेन गीतेन युवतीनां च लीलया । यस्य नो द्रवते चित्तं स वै मुक्तोऽथ वा पशुः ॥” इति । यथाश्रुते तु प्रकृतकवेः सर्व- ज्ञत्वाभावात्प्रत्यक्षविषयवाचीदंशब्दप्रयोगानापत्तिः । एवं श्रवणेति वचोविशेषणस्य पूर्वार्धेन सहार्थिकद्विरुक्त्यापत्तिरपि । प्रकृतकवेर्गङ्गाप्रसादप्रसिद्धेः पशुपतिस्व- रूपपृथिव्याद्यष्टमूर्तिप्रमासंभवेन तद्विषयकप्रत्यक्षवाचीदंपदप्रयोगादोषात्सरस्वती- सान्निध्यभावेऽपि तस्याः सर्वज्ञत्वेन खकाव्यरसं सा मनसैवाखादयतीत्यवश्य- कव्यं तथा चात्रार्थिकसानुण्येऽपि श्रुतिकटुप्रभृतिशाब्दिकदोषसत्त्वेनाश्राव्यत्वव्युद- सनौपयिकतयैवोक्तविशेषणसार्थकत्वात्पराकार्येति दिक् । अत्राप्युक्त एवं रसः ।। अतिशयोक्तिः संदेहः काव्यलिङ्ग परिकरः परिकराङ्कुरो लुप्तोपमादिश्चालंकारः ॥

 भवत्वेवं यस्त्वद्वाग्रसमनास्वादयाते तस्य पशुत्वादिकल्पनमथापि यस्तु तसं ज्ञात्वापि मत्सरवशादेव शिरःकम्पादिकायिकादिव्यापारैनैव तां खतेऽपि बहु मन्यते तस्य किं वन्द्यकोटी निन्द्यकोटौ वा त्वया निवेशः क्रियत इति चेन्न, उपेक्षाख्यतृतीयकोटावेव मम तन्निवेशस्य विवक्षितत्वादियभिसंधाय कवित्व- वीररसाविष्टचेतस्तया कविस्तावन्मूर्तिमतीम् ‘निर्दूषणां गुणवतीं सरसां सुवर्ण सालंकृतिं ध्वनिमतीं शुभलक्षणां च । सद्वृत्तिरीतिमृदुमजुपदामुदारां शृङ्गारभावल- लितां गतबालभावाम् ॥ हृद्येव भूरि कठिनां वदने प्रसन्नामन्यत्र चारुमसृणां दृशि कृष्णसाराम् । मर्यादयातिविनतां विशदाशयाढ्यां साध्वीमुपैति सुकृती तरुणीं च वाणीम् ॥ इत्यादि मदुकप्रकारेणाप्रतः स्थितामिव प्रकृतमत्सरिकृतानादरखिन्ना- मिव च खवाचं प्रकल्प्य तां सान्त्वयति-

मद्वाणि मी कुरु विषाद्मनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम् ।

काव्यारविन्दमकरन्दमधुव्रताना-
मास्येषु धास्यसितम कति नो विलासान् ॥२८॥

 मद्राणीति । हे मद्वाणि मदीयभार ति । त्वम् । मात्सर्येति । असूयापरनामा परोत्कर्षासहनजन्मा तत्प्रातिकूल्यप्रवीणो मनोविकारो मत्सरः । तत्र सूर्योत्कर्षा- सहनजन्मनि दिवाभीतनिलीनत्वादावतिव्याप्तिरिति तदादिप्रवीणन्तम् । तत्रापि शिशुपालकर्तृकश्रीकृष्णनिन्दारूपे वाग्व्यापारेऽतिप्रसङ्ग इति मनोविकार इति । तस्य भावो मात्सर्यम् । तत्र मग्नं न तु गतम् । तेन पङ्कादौ मग्नवत्तस्य दुरुद्धरत्वं ध्वन्यते । एतादृशं मनो येषां तथा तेषामित्यर्थः । एतेन तत्रोपेक्षेकप्रतीकार्यत्वं व्यज्यते । एतादृशां खलानाम् । पिशुनानामित्यर्थः । अनादरेण कर्तरि षष्टी । सा तत्कर्तृकतिरस्कारेणेर्थः । सहसा स्त्रीवाभाव्याद्रीभस्येनेति यावत् । विषादं खेदम् । मा कुरु मैव भजखेति योजना । अहो कथं मया न खेदः कार्यः, प्रागुक्तसकलगुणशालिन्या अपि मे पामरैरप्येतैतिरस्कारः केवलं कमप्यपराधं विनैव कृष्णाया इव कौरवैः क्रियत इत्यत आह-काव्येत्याद्युत्तरार्धेन । काव्यानि श्रीमहारामायणादीन्येव । अरविन्दानि पद्मानि । तेन तेषां प्रसन्नत्वसरसत्वमृदु- लत्वादीनि द्योत्यन्ते । तेषां यो मकरन्दः पुष्परस इव शृङ्गारादिरसस्तत्र ये मधुव्रता इव भ्रमरा इव संसक्तत्वतदास्वादकत्वादिना मधुव्रताः सहृदयास्तेषा- मित्यर्थः । अत्र रसमधुव्रतपदाभ्यां शृङ्गारादावास्वायत्वतृप्तिजनकत्वादि सहृदयेषु तन्मात्रनिरतत्वादि च सूच्यते । तथा चेतादृशां पुरुषधौरेयाणाम् । अस्येषु मुखेषु । कति विलासान्नो धास्यसि । अपि तु वनपि विलासान्धास्यस्येवेत्य- न्वयः । अत्र ‘धास्यसितमा कियतो विलासान्' इत्यपि केचित्पठन्ति तत्र काका- श्रयणमेवोक्तार्थपोषार्थं दोष इति ध्येयम् । तस्मान्नैव भवत्या खेदः कार्य इति तात्पर्यम् । अत्रोक्त एव रसः । समासोक्तिः काव्यलिङ्गं लुप्तोपमादियालंकारः ॥

 न केवलमसौ मत्काव्यश्रवणानानन्दी पशुरेव किंतु ततोऽपि नीच इति सूचयति-

मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित्केषांचिन्न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥ २९॥

 मधु द्राक्षेति । मधु माक्षिकमेव द्राक्षा । साहचर्यान्मधुरद्रव्यस्यैव प्रकृते

सर्वस्य कविविवक्षितत्वाच । सुराद्रव्यस्य तु क्वापि तथात्वेनानुक्तत्वात्प्रत्युत दुर्ग- न्धत्वादिना दूरतोऽप्यतितरपराकरणीयत्वादनन्तकोटिशास्त्रनिन्दितत्वाचे नात्र भ्रान्त्यापि प्रसङ्गः । तद्दाक्षी मृद्वीकादिः प्रसिदैव । एतद्रयं बाबालसाधारणम् । अमृते तु तेषामश्रुतत्वेन कामाभावात् । साक्षात्प्रत्यक्षम् । तेन ‘अमृतं यज्ञशेषे स्यात्' इति विश्वोक्तगौणामृतव्यावृत्तिः । अमृतं पीयूषम् । इदं तु बालेतरसाधा- रणम् । तेन विशेषालम्भार्थोऽयमथशब्दः । वामाधरसुधा । ‘वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वात्स्त्रीत्वविवक्षायां टापि कृते वामेति रूपम् ।। तेन परमसुन्दरीत्यर्थः । तस्या याधरसुधा । अधरामृतमिति यावत् । इदं हि। बालानां तत्प्रयोजकाविर्भावाभावेनाविशेषयत, वृद्धानां तत्सत्त्वेऽपि तदुपोद्वलक- शक्तिविशेषशून्यत्वेन ‘वृद्धस्य तरुणी विषम्” इति वचनेन चाविषयत्वात्तरुणैक- विषयं ज्ञेयम् । अथवेति पदच्छेदे तु माशब्देन लक्ष्मीः। शिष्टं तु प्राग्वदेव । अत्राधरसुधेति पदे रूपकलुप्तोपमायलंकारविवक्षायामपि श्लेषादिवशात्सुधा- पदेन चूर्णोपस्थितिदोषस्त्वधरे लग्नताम्बूलभक्षणक्षणावच्छेदेन संबद्धा या सुधा चूर्णमिति शाकपार्थिवादिसमास तस्मिन्पक्षे समाश्रित्य यावत्स्त्रीगुणविशिष्टखर- मण्याः कमलाया वाधरसंपर्केण चूर्णस्याप्यमृताधिकमधुरिमासंपन्न इति शृङ्गाराति- शयध्वनेः समवमोषणीय इति तत्त्वम् । एवं च जीवन्मुक्तान विष्णुसायुज्यं संपाद्य तत्प्राशनकामनाव्यतिरेकस्यापि संभवाद्युक्तमेव तद्ब्रहणम् । सर्वासामप्य- तिसुन्दरीणां तन्मात्रावधित्वात् । एते पदार्थाश्चत्वारोऽपि प्रत्येकं वा । कदाचि- द्देशे काले वा । न तु सर्वदा । तत्रापि केषांचिज्जीवन्मुक्ताद्यधिकारिविशेषाणामेव । मुदं हर्ष यद्यपि न खलु विदधीरनैव कुवरन्नित्यर्थः । तथापि न क्षतिरित्यार्थि- कम् । तत्र मधुद्राक्षे पित्तोपहतरसनस्य सर्वस्य, अमृतवामाधरसुधे तु मिलिते चेजीवन्मुक्तानामेव, केवलवामाधरसुधा तु तादृशवृद्धस्यैवानादरविषय इति विभागो बोध्यः । अस्त्वेवम् , प्रकृते किमायातमित्यतस्तद्यनक्ति-ध्रुवमित्याद्युत्तरा- धेन । अहहेति खेदे। ते मन्दमतयो जीवन्तोऽपि मृतका ध्रुवं मृता एवं सन्तीति संबन्धः । ते के । येषां जगन्नाथभणितिर्जगन्नाथशर्मणः पण्डितरायस्य मम भणितिः । काव्यात्मकशब्दरचनेत्यर्थः । आनन्दं न जनयतीति योजना । यथा जीवन्मुक्तत्वं जीवेषु परमोत्तमकोटिरेवं जीवन्मृतत्वमपि चरमाधमकोटिरित्या- शयः । तस्मान्मत्काव्यानादरशीलास्तु पश्वादिभ्योऽप्यतिनिन्द्या एवेति भावः । एवं चैतादृशोत्तमोत्तमकाव्यप्रचारार्थमुक्तेश्वरोपालम्भः संभवदुक्तिक एवेति व्यज्य- ते । अत्रापि कवित्ववीर एव रसः । अतिशयोक्तिः प्रतीपं लुप्तोपमा काव्यलिङ्ग परिकरस्तैर्मिलित्वा क्षीरनीरवत्संकरश्चालंकारः ॥

 अथ कवित्ववीररसावेशादेव कंचित्वप्रतिस्पर्धिनं पुरःस्थितं मया त्वदपेक्षया- प्यतिरमणीयतमं काव्यं क्रियत इति वदन्तमिव प्रकल्प्य तं प्रत्याचष्टे-

निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव-
न्मृद्धीकामधुमाधुरीमदपरीहारोद्भुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
नो चेदुष्कृतमात्मना कृतमिव वान्ताद्वहिर्मा कृथाः ॥३०॥

 निर्माण इति । हे सखे । एतेन स्वस्थ प्रतिमल्लेऽपि सौहार्दप्रकाशकत्वेनाति- प्रौढत्वं व्यज्यते । त्वं यदि गिरा काव्यवाणीनां निर्माणे रचने नितरामयन्तम् । न तु यत्किचित् । तत्रापि मार्मिकोऽसि तद्रचनचातुरीमर्मज्ञोऽसीत्यर्थः । तर्हि मादृशां संमुखे मत्समक्ष पण्डितधुरंधराणां समक्षमित्यर्थः । सुखेन काव्यं कथ- येयन्वयः । एतेन खाग्रे काव्यप्रकाशनमलौकिकशक्तिमन्तरानुचितमेवेति योत्यते। ननु किमत्रालौकिकशक्त्या कविता हि शास्त्रव्युत्पत्तिमात्रसाध्येति तदाशयमनु- माय निरुक्तगिरो विशिनष्टि—अत्यन्तेति । अत्यन्तं खयमुन्मीलनपर्यन्तं न तु यत्किंचित् एतादृशो यः पाकः पक्वता ततो द्रवन्ती निरुक्तोद्भेदेन रसमुद्रिरन्ती एतादृशी या ‘मृद्दीका गोस्तनी द्राक्षा' इत्यमराड्राक्षाजातिविशेषो गोस्तनाकार एव तस्या यो मधुमाधुरीमदो मधु माक्षिकं मकरन्दो वा तद्वद्या माधुरी मधुरता तया यो मदः । गर्व इति यावत् । तस्य यः परीहारः परीभावस्तत्रोद्भुरा अग्रे- सरास्तासामित्यर्थः । एतेनालौकिकानन्तजन्मसंचितसुकृतपरिपाकैकजन्यतादृशक- वित्वप्रयोजकबीजीभूतशक्तिविशेषमन्तरा निरुक्तरीतिककाव्यकल्पनं नैवाल्पायास- साध्यमिति ध्वन्यते । उक्तवैपरीत्ये त्वतितूष्णींभाव एव त्वया विधेय इत्युपदेश- व्याजेन विनिन्दति-नो चेदित्यादि चरमचरणेन । नो चेन्निरुक्तसामर्थ्यं नास्ति चेत्तर्हि त्वमात्मना बुद्ध्या कृतं न त्वज्ञानात्संपन्नम् । एतेन व्यवहारे तस्य मौख्य- पादकत्वेनातिगोप्यत्ववद्भावककाव्येऽपि तत्त्वमेव त्वयावश्यं कर्तव्यमिति द्योत्यते। एतादृशं दुष्कृतं पापमिव । आत्मना त्वया कृतं काव्यमपि वान्तादन्तःकरणातु बहिर्वाग्द्वारा प्रकटं मा कृथाः नैव कुर्वियन्वयः । एतस्मादेतादृक्सामर्थ्यमिदानीं मय्येव नान्यत्रेयाकूतम् । अत्रोक्त एव रसः । प्रतीपोपमेऽलंकारौ ॥  तदेव स्पष्टयति--

धुर्यैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ३१ ॥

 धुर्यैरपीति । ‘धूर्वहे धुर्यधौरेयधुरीणास्तु धुरंधराः' इत्यमराच्छ्रेष्ठैरपीत्यर्थः । एतादृशैरपि । द्राक्षेति सुधामृतम् । माधुर्यैः । पण्डितेति । कविताया इयं प्रत्यक्षप्रकृतग्रन्थगा माधुरी मधुरता वन्द्यैवास्तीति संबन्धः । रसस्त्वत्रोक्त एव । प्रतीपमलंकारः ॥

 तर्हीदं मुक्तककाव्यमेव किमिति रघुवंशादिवद्रामादिवर्णनमेव न कृतमित्याक्षेपं समाधत्ते--

दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा कृता मया ॥ ३२ ॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे शान्तविलासश्चतुर्थः ।

 दुर्वृत्ता इति । मञ्जूषा पेटिका । एवं च मयायं ग्रन्थः काव्यग्रथनबुद्ध्या नैव कृतः । किंतु तत्तदवसरे लीलामात्रेण तानि तानि पद्यानि कृतानि । तेषां केचिद्दुर्जनास्तावन्मदीयोऽयं श्लोको मदीयोऽयं श्लोक इति विद्वत्सदःसु श्लाघनेनापहारं करिष्यन्तीति तन्निराकरणार्थमेवेति द्योत्यते । अत्राप्युक्त एव रसः । लुप्तोपमा रूपकं चालंकारः ॥

दोषं करोमि कण्ठे गुणाय किल भामिनीविलास इह ।
तेनैव सार्थको मे भूयात्प्रणयप्रकाशोऽयम् ॥
पदवाक्यमानविरहोऽप्युपयोगायैव मेऽत्र संपन्नः ।
यद्भामिनीविलासे रचितः प्रणयप्रकाशोऽयम् ॥
तमिमं वयस्य सुदृशः पश्यन्त्वनिशं ममात्र यो दोषः ।
तमपि च सुवेषयन्तु स्वात्मसुतृप्त्यै यतोऽयमारचितः ॥

इति प्रणयप्रकाशे चतुर्थः प्रमोदः ।