करुणविलासः ।

तृतीयः प्रमोदः

 एवं तृतीयः कामाख्यः पुरुषार्थोऽपि स्वकीयया सहैव संपाद्यो न परकीययापि सह नापि परकीययैव सहेति श्रीरामादिनिदर्शनेन द्योतयित्वाधुना क्रमप्राप्तस्य मोक्षाख्यचतुर्थपुमर्थस्य ज्ञानैकसाध्यत्वात्तस्य च भक्तिविरक्त्यादिप्रयोज्यत्वात्तस्यापि प्रायः शोकमन्तरा संभवाभावान्निवेदस्थायिभावाख्यं शान्तरसं चतुर्थविलासे वर्णयिष्यनत्र तृतीये विलासे शोकस्थायिभावं करुणरसं श्रीरामस्य सीतारसातलप्रवेशोत्तरकालिकैवाक्यैरेव व्यनक्तिदैवे परागित्याद्या प्रकरणसमाप्ति ।

दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरते।
कस्मै मनः कथयितासि निजामवस्था
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥

 दैवे इति । जानक्या रसातलप्रवेशादिकं तूक्तं महारामायण एवोत्तरकाण्डे-- ‘सर्वान्समागतान्दृष्ट्वा सीता कौशेयवासिनी । उदङ्मुखा ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ यथाहं राघवादन्यं मनसापि न चिन्तये। तथा मे माधवी देवी विवरं दातुमर्हति ॥ तथा वदन्त्याः सीतायाः प्रादुरासीत्समन्ततः। भूतलाद्दिव्यमत्यर्थ सिंहासनमनुत्तमम् ॥ ध्रियमाणं शिरोभिस्तदुदतिष्ठद्रासदम् । दिव्यं दिव्येन वपुषा नागैरमितविक्रमैः ॥ तस्मिस्तु धरणीदेवी सीतां संगृह्य बाहुना। स्वागतं तेत्युवाचैनामासने चोपवेशयत् ॥ तामासनगता सीतां प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥” इत्याद्यासर्गान्तं तद्विस्मयादिकमुक्वाग्रिमसर्गे तावच्छीरामशोकोऽप्युक्तः--‘दण्डकाष्ठमवष्टभ्य शोकव्याकुलितेन्द्रियः । अवाक्शिरा दीनमना रामोऽप्यश्रूण्यवर्तयत् ॥ क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् । अभूतपूर्वशोको मे पुनः संदष्टुमिच्छति ॥” इति । हे मनः ।। एतेन वस्तुतः स्वस्याखण्डानन्दाद्वैतसच्चिदानन्दब्रह्मैकरूपत्वेन शोकलेशस्याप्यभावेऽपि लोकानुग्रहार्थ मायिकमनुष्यनाट्यपटुलीलाविग्रहशालितया जगदीशस्यापि मे यदा विषयसङ्गेन शोकत्वं तदा जीवकोटिनिविष्टानां भवतां कैव कथेत्यतः सर्वात्मना विषयसङ्गपरित्याग एवाहरहः कार्य इति मनःसंबोधनतात्पर्य व्यज्यते । दैवे प्रारब्धकर्मणि । परागिति । पराङ्मुख इत्यर्थः । जाते सति । चः समुचये । अत एव संप्रतीदानीं बन्धुरने ‘बन्धु बन्धूकपुष्पे स्याद्वन्धुभ्रतरि बान्धवे” इति विश्वाद्वन्धूनां बान्धवानां सर्व संबन्धिनां मध्ये रत्नमिव श्रेष्ठ तस्मिन् । एतादृशे सीताख्ये कलत्र इति यावत् । हन्तेति खेदे । दिवं प्रति रसातलाभिधबिलस्वर्ग प्रतीत्यर्थः । याते गते सति । एवं चैतस्य दुष्परिहत्वाद्वक्ष्यमाणाक्षेपार्हदुःखहेतुत्वं ध्वन्यते । त्वं निजां स्वकीयाम् । अवस्थां लोकोत्तरशोकशां कस्मै कथयितासि ।। न कस्मा अपीत्यर्थः । एतेन ‘सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु योषित्सु । करुणाशालिनि भूपे निवेद्य दु:खं सुखी भवति ॥' इत्युक्तदुःखशामकस्थलवैकल्यं व्यज्यते । तेनास्य दुःखस्य लोकविलक्षणत्वं सूच्यते । अत एव कः शीतलैः शिशि- वैचनैरमृतोपमसान्ववाक्यैरित्यर्थः । तत्राधिं शमयिता । न कोऽपीयन्वयः । एवं च निरवधिक एवायं शोकस्त वेति भावः । इह यावत्प्रकरणसमाप्ति संतप्तो नायकः । करुण एव रसः । काव्यलिङ्गादिरलंकारश्च तत्र तत्र यथार्थमूह्यः ॥

प्रत्युद्गता सविनय सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।।
मामद्य मञ्जरचनैर्वचनैश्च वाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥

 प्रत्युद्गतेति । अयि बाले । यद्यप्यस्यास्तदानीं परोक्षवेन संबोधनानईखमेव तस्य प्रत्यक्षैकविषयत्वात्तथापि वक्तुर्विरहोत्कर्षेण तदेकमनस्कतया मानसीं तां पुरःस्थितामिवेक्षित्वैव तदौचित्यमिति ज्ञेयम् । एवमेवाग्रेऽपि यावत्संबोधनेषु । बोध्यम् । त्वं पुरेव प्रागिव । एतेन स्मृत्याख्यव्यभिचारिभावो व्यज्यते । सहसा ।। एवं च स्वागमनजन्यसंभ्रमः सूच्यते । तत्रापि सविनयं विनयपूर्वकं यथा भवति तथा न त्वौद्धयेन । एतेन सतीधर्मधौरेयत्वं ध्वन्यते । प्रत्युद्गता । स्वरतिमन्दि- रान्मन्दं मन्दं यदभिमुखमागता सतीत्यर्थः । स्मरस्य मदनस्य सचिवैः । समर्थस- हायैरित्यर्थः । इदं हि विशेषणे सर्वतृतीयाबहुवचनान्तविशेष्येष्वपि योज्यम् । एता- दृशैः स्मेरैर्मन्दसैः । तथा । सरसेति । सप्रेम निरीक्षणैरित्यर्थः । एतेन रत्युत्कर्षः सूचितः । तथा। मञ्जिवति । भोः प्राणनाथ, चरणारुणराजीवरेणवोऽनन्यया मयाचेदं मोदेनैवद्य निवेद्यत इत्यादिरूपातिरम्यरचनैरित्यर्थः । एतेन लौकिक- शास्त्रीयोभयचातुरीचमत्कारचञ्चुरत्वं सूचितम् । एतादृशैर्वचनैश्च वाक्यैरपीत्यर्थः । हा इति खेदे । एवं च तत्कालं मूर्च्छया भूतलनिपातो ध्योत्यते । मां लेशतोऽपिषदपि

कथंयोत्य न शिशिरीकरोषि शीतलयसीयन्वयः ॥

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदगलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥

 सर्वेऽपीति । अत्र क्रमात्पूर्वार्धपादाभ्यां गीतादिविषयान्तरैश्चित्तशान्तिसं- पादनमद्वैतचितिचिन्तनेन वा तत्संपादनं च व्युदस्तम् । अपिशब्दाभ्यां शोको- त्कर्षः सूचितः । एवमुत्तरार्धन तु सीताविषयकं श्रीरामस्य तटस्थ्यं ध्यानतो ध्वनि- तम् । शिष्टं सर्व स्पष्टमेव । ‘पृथुकः शावकः शिशुः' इत्यमरः । उपमालंकारः ॥

निर्वाणमङ्गलपदं त्वरया व्रजन्त्या
मुक्ता दयावति दयापि किल त्वयासौ ।
यन्मां न भामिनि निभालयसि प्रभात-
नीलारविन्दमदभङ्गकरैः कटाक्षैः ॥ ४॥

 निर्वाणेति । भो भामिनि । एतेन ‘कोपना सैव भामिनी' इति कोशाकि कोपवशादन्तर्धानमापन्नासीत्युत्प्रेक्षा व्यज्यते । त्वं यद्यस्मात्कारणान्माम् । प्रभा- तेति । प्रभाते प्रातःकाले यानि नीलारविन्दानीन्दीवराणि । एतेन तेषां विकासो- न्मुखत्वं तात्कालिकृपवनचापल्यं च सूचितम् । तेषां यो मदः सौन्दर्यगर्वस्तस्य यो भङ्गस्तं कुर्वन्तीति तथा । एवं च कटाक्षेषु लोकोत्तरनीलवचापल्यादि च द्योत्यते । एतादृशैः कटाक्षेर्न निभालयसि नैवावलोकयसि । तस्माद्धे दयावति नैसर्गिकानुकम्पाशालिनि प्रिये । निर्वाणेति । अमृतरूपाद्वैतशिवात्मस्थानमित्यर्थः । अत एव खरया शीघ्रं व्रजन्त्या गच्छन्त्या एतादृश्या वयासों खाभाविकत्वेन प्रसिद्धा । दयापि मद्विषयककृपापि मुक्ता किल त्यतैवेति संबन्धः । न हि धर्म- सत्त्वे निर्धर्मककैवल्याप्तिर्घटत इत्याकूतम् ॥

धृत्वा पदस्खलनभीतिवशात्करं मे
यारूढवत्यसि शिलाशकलं विवाहे।
सा मां विहाय कथमद्य विलासिनि द्या-
मारोहसीति हृदयं शतधा प्रयाति ॥ ५॥

 व्धृत्वेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण कन्यायाः शिलाधिरोहणं प्रसि- इमेव वैवाहिके। द्याम् । बिलस्वर्गाख्यरसातलगमनप्रार्थनक्षणाविर्भूतभूमिदेव्यङ्कि तरत्नसिंहासनमित्यर्थः । विलासिनीति संवोधनेन स्वाभाविकविलासस्तव मां विनर कथं सिद्ध्येदतः खर्गाप्तिरपि निःस्वभावत्वेन वरूपशून्यायाः कथं पुरुषार्थ इत्या- क्षेपान्तरमपि द्योत्यते । इति हेतोमै हृदयमिति योजना ॥

निर्दूषणा गुणवती रसभावपूर्णा
सालंकृतिः श्रवणकोमलवर्णराजिः ।
सा मामकीनकवितेव मनोभिरामा
रामा कदापि हृदयान्मम नापयाति ॥ ६॥

 निर्दूषणेति । विशेषणचतुष्टयं तु पक्षद्वयेऽपि स्पष्टमेव । श्रवणेति । श्रवणं श्रोत्रं तस्य कोमलानुद्वेजकत्वादतिप्रिया वर्णराजिणितादिक्षणोच्चारिताक्षरपङ्किः । पन्ने ‘तपःखाध्यायनिरतम्' इत्यादिग्रथिताक्षरसरणिर्यस्याः सा तथेत्यर्थः । एतादृशी सः पूर्वानुभूता । मामकीनेति । ममेयं मामकीना मदेकमुख्यवर्णनपरत्वेन मत्संब- न्धिनी श्रीमद्वाल्मीकिविरचितमहारामायणाभिधकवितेवेति यावत् । स्पष्टमन्यत्। अत्र कविवाक्यत्वभ्रान्तिस्त्वनालोचितपूर्वापरतात्पर्यतया विदुषामपि केषांचिदास्तां नाम परिपक्वाम्रफलविशेषे सिन्दूरधीरिव का नः क्षतिस्तावतावादितरसानामितर- रसानां चेति दिक् ॥

चिन्ता शशाम सकलापि सरोरुहाणा-
मिन्दोश्च बिम्बमसमा सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलाना
प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥

 चिन्तेति । असमामतुल्याम् । निरुपमामित्यर्थः । अयासीत्। प्रापेति यावत्। शिष्टं तु स्पष्टमेव । इह क्रमेण त्रिपाद्यां चरमचरणेन सीतालोचनादेराननस्य वनस्य चाभावो हेतुत्वेन ध्वनितः ॥

सौदामनीविलसितप्रतिमानकाण्डे
दत्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मत्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी-
र्भाग्यच्युतस्य करतो मम निर्गतासि ॥ ८ ॥

 सौदामनीति । तडित्सौदामनी विद्युत्' इत्यमराद्विद्युद्विक्रीडितसमत्वेन क्षणिकानित्यर्थः । एतेन दशसहस्रवर्षपर्यन्तत्वेऽपि वक्ष्यमाणविषयभोगेष्वनुपमसुखत्वेन तद्भुसकाले क्षणिकलमतिरुचितैवेति ध्योतितम् । एतादृशान् । महेन्द्रेति । महानिन्द्रो येन ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेर्हिर- ण्यगर्भान्तसकलविषयानन्दकूटस्थस्याद्वैतब्रह्मानन्दस्यैव ये भोगा इव तानित्यर्थः । एतेन तेष्वलौकिकविषयानन्दत्वं व्यज्यते । कियन्त्यपि दिनानि यत्किचित्कानि- चिदहानि । मन्त्रेति । मन्त्रेण संध्यादिकरणगूढ विचारेणोज्झितस्यक्तस्तस्य । विष- यासक्त्या प्रमादेन तस्य विस्मृतत्वेनैतस्य दौथ्यमवेक्ष्यते । नैव परित्यक्तस्यैवे- त्यर्थः । मम करतोऽकाण्डेऽनवसर एवाकस्माद्वा निर्गतासीति संबन्धः ॥

केनापि मे विलसितेन समुद्रतस्य
कोपस्य किं नु करभोरु वशंवदाभूः ।
यन्मां विहाय सहसैव पतिव्रताप
यातासि मुक्तिरमणीसदनं विदुरम् ॥ ९॥

 केनापि मे विलसितेन । लीलाचरितविनोदादिनेत्यर्थः। समुद्रतस्याविभू- तस्य । वशंवदा । स्वाधीनेत्यर्थः । अभूः किं नु । मुक्तीति । एवं च सख्यात्प- तिव्रताया अपि तव तत्र गमनौचित्येऽपि पातिव्रत्यादेवेदमनुचितमेवेयपिना ध्वन्यते । शिष्टं तु स्फुटमेव ॥

काव्यात्मना मनसि पर्यगमन्पुरा मे
पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणीरमणीयशीले
चेतोहरा सुकविता भविता कथं नः ॥ १० ॥

 काव्यात्मनेति । हे रमणीरमणीयशीले रमणीनां सुन्दरीणां मध्ये रमणीयं पातिव्रत्यादिगुणैर्लोकोत्तरं शीलं चारु चरितं यस्याः सा तथा । तत्संबुद्धावि- त्यर्थः । एतेन भार्यान्तरोद्वाहशङ्का प्रत्युक्ता । पुरा मे मनसि तव ये विलासाः काव्यात्मना । श्रीवाल्मीकि विरचितमहारामायणात्मककाव्यरूपेणेत्यर्थः। तत्र सीता- वर्णनस्य प्रचुरतरसत्त्वात् । पर्यगमन् । पूर्वं तच्छिष्यकुशलवगीतश्रवणद्वाराभिसं- जग्मुरिति यावत् । ‘पर्यणमन्' इति पाठे तु परिणामप्राप्ता इत्यर्थः । परिणामो हि। तात्त्विकोऽन्यथाभावः । स तु प्रकृते वास्तविको नैव संभवति । विलासानां विलो- लावलोकनादीनां क्रियाविशेषात्मकत्वेन त्रिक्षणावस्थायित्वात्काव्यस्य च प्रबन्धवि- शेषात्मकवाच दुग्धदध्यादिवत्तयोः परिणामिपरिणामभावस्य हिमहेमाचलवत्वप्रेऽप्यसंभावितत्वात् । तस्मादत्रानन्दजनकत्वमात्रसादृश्येनोभयोः कार्यकारणभावः परिणामालंकारध्वननार्थमारोपित इत्येवावश्यं वाच्यम् । तत्रापि तादृडिबन्धाभि- व्यञ्जकपुस्तकमात्रेण नैव रसोत्पत्तिः किंतु तद्यञ्जितशब्दश्रवणादिनैवेति सर्वानुभ- वसिद्धम् । तथा च प्रकृते निरुक्तमहारामायणनिबन्धश्रवणद्वारा जायमानमानस- वृत्तिविशेषरूपे रसरूपानन्दजनके शाब्दबोध एव प्रकृतनायिकाविलाससमकक्षान- न्दजनकत्वेन तत्परिणामत्वोक्तिर्युक्तैवेति दिक् । न चेदं वक्रमिवेति सांप्रतम् । प्रकृतस्य पद्यस्य रामवाक्यत्वोपपादनेनातिसारल्यात् । तानन्तरेण तद्राहित्येन । नोऽस्मद्वर्णनैकप्रधाना । अत एव सुकविता । निरुक्तरामायणाख्यमहाकाव्यरचने- त्यर्थः । चेतोहरा मन्मनोहरणनिपुणा कथं भविता भविष्यतीत्यन्वयः । यद्वा सुकविता नयेतोहरा कथं भवितेति संवन्धः ॥

या तावकीनमधुरस्मितकान्तिकान्ता
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाधुना वहति वैभवमिन्दिरायाः ॥ ११ ॥

 या तावकीनेति । हे कातराक्षि, या तावकीनेति । त्वदीयमुग्धस्मेरदीप्ति- बद्रम्येत्यर्थः । एतादृशी राका पूर्णमासीनिशा भूमण्डले कविषु वाल्मीकिप्रभू- तिषु विफलतां सत्याम् । उक्तस्मितकान्तौ किं राकारजन्येति ‘दृष्टं चेद्वदनं तस्याः किं पद्मन किमिन्दुना' इत्यादिवन्निष्प्रयोजनतामिति यावत् । व्यतानीत् । परि- विस्तारिताभूदित्यर्थः । तावकीनेत्यादि सप्तम्यन्तपाठे तु भूमण्डलविशेषणमिदम् । सा त्वयि विलयं यातवत्यां सत्यम् । अधुनेन्दिराया लक्ष्म्या वैभवमेश्वर्य वह- तीति योजना ॥

मन्दस्मितेन सुधया परिपिच्य या मां
नेत्रोत्पलैर्विकसितैरनिशं समीजे।
सा नित्यमङ्गलमयी गृहदेवता मे
कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥

 मन्देति । मन्दहासरूपयेत्यर्थः । यद्यपि स्मितपदस्येव 'ईषत्फुल्लकपोलाभ्यां कटाक्षेरप्यनुल्बणैः । अदृष्टदशनो हासो मधुरस्मितमुच्यते ॥” इति शाईदेवोकेर्मन्दपदव्यावयव्यावृत्तिपूर्वकमृदुत्वबोधकत्वेन तस्य वैयर्त्यमेव, तथापि शोकपारव- श्येन प्रकृतवक्तुस्तादृगनवधानध्वनने करुणरसपरिपोषकत्वात्सार्थक्यमेवेति ध्येयम् । सुधयामृतेन । यो म परिषिच्य विकसितैः। नेत्रेति । नयनेन्दीवरैः । बहुवचनं तु तत्कटाक्षाभिप्रायेणैव । अनिशं समीजे सम्यगाराधयामासेयन्वयः । कामेति । कामस्येश्वरी । दातृत्वेन नियन्त्रीत्यर्थः । शिष्टं तु सरलमेव । गृहदेवता हि लोके गृहिभिः पूज्यतेऽभिषेकाद्युपलक्षितानेकोपचारैः । प्रकृते तु सैवैनमर्चयामासेति महदाश्चर्यम् । स च पुमर्थावधिश्च ध्वनितः ॥

भूमौ स्थिता रमण नाथ मनोहरेति
संबोधनैर्यमधिरोपितवत्यसि द्याम् ।
वर्ग गता कथमिव क्षिपसि त्वमेण-
शावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३॥

 भूमाविति। हे एणशावाक्षि, त्वं भूमौ स्थिता सती यम् ‘रमण, नाथ, मनोहर इति संबोधनैद्य स्वर्गमधिरोपितवत्यसि । तं मामिदानीं खगं गता सती धरणि- धूलिघु कथमिव क्षिपसीति योजना । एणो हरिणस्तस्य शावः शिशुः । स्पष्टमपरम् ॥

लावण्यमुज्वलमपास्ततुलं च शीलं
लोकोत्तरं विनयमर्थमयं नयं च ।
एतान्गुणानशरणानथ मां च हित्वा ।
हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥

 लावण्यमिति । उज्वलं लावण्यमित्यादि यथाक्रम मेकैक विशेषणमेकैकस्मि- गुणेऽन्वितं बोध्यम् । अशरणान्न विद्यते शरणं रक्षितृ येषां तान् । एतेनान्य- त्रैते नैव वर्तन्त इति द्योतितम्। एतादृशानेतान्गुणान् । अथ मां चेत्यादि सरल- मेव । एवं च साहचर्यात्वस्याप्यशरणत्वं व्यज्यते । त्रिदिवं तृतीया द्यौर्यस्मात्स त्रिदिवः । पूर्वोक्तरीत्या भौमवर्गस्थमित्यर्थः ॥

कान्त्या सुवर्णवरया परया च शुद्ध्या
नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां
जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥

 कान्त्येति । खिकाः । अग्निसंबन्धिनीरित्यर्थः । शिखा ज्वालाः। क्षिपन्तीम् ।

तिरस्कुर्वाणामिति यावत् । चेतोहरामपि मनोहरामपि । हे कुशेशयलोचने । अयि शतपत्रनेत्रे इत्यर्थः । त्वाम् । कोपकलुषः । प्रागुकखशिखातिरस्कारिलाद्गौरिमादि- गुणगरिमजन्यरोषदूषितचित्तः सन्निति यावत् । तत्रापि खभावाद्दहनः कृशानुरेव ददाहेत्यहं जानामीति गम्योत्प्रेक्षया संबन्धः । यद्यप्यत्र सीता प्रत्यक्षतो रसातलं गतैव तथापि शोकोन्मादात्तस्यामुक्तहेतुकदहनदग्धवोत्प्रेक्षणमुचितमेवेति भावः । अपिना दाहानौचित्यं द्योत्यते । एवं परया शुद्ध्येति परमपातिव्रत्यम् ॥

कर्पूरवर्तिरिव लोचनतापहन्त्री
फुलाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या
नम्या नरीभिरमरीव हि सा विरेजे ॥ १६॥

 कर्परेति । 'अनुक्रोशोऽप्यथो हसः' इत्यमरादमरीव हि सा । अमरीव देवीव । एतादृशी सा प्रकृता सीता । इदानीं नरीभिर्नरस्त्रीभिर्नम्या खर्गतलेन नमस्कारार्हा एतादृशी विरेजे शुशुभ इति योजना । एवं चैतावत्कालं तासाम- प्यसौ दृष्टिगोचरापि नाभूदिति तदीक्षणदौर्लभ्यं ध्वन्यते । तत्र हेतुरवशिष्टत्रि- पाया रम्येति कविताविशेषणमेव । एवं च सबाह्याभ्यन्तरिन्द्रियकायसुखसा- धनत्वं तस्यां ध्वनितम् ॥

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यसि न कंचन साभिलाषम् ।
सा संप्रति प्रचलितासि गुणैर्विहीनं
प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥

 खप्तान्तरेऽपीति । हे भामिनीति । एतेन ‘कोपना सैव भामिनी' इत्यमरार्तिक कोपविशेषपारवश्यादेवैवं कृतवत्यसीत्युत्प्रेक्षा ध्वन्यते । या खं खपान्तरेऽपि पत्यु- रन्यं साभिलाषं यथा भवति तथा कंचन न खलु दृष्टवत्यसि । सा संप्रति । हन्तेति खेदे। गुणैर्विहीनम् । एतेन परकीयाणामपि तत्राभिलाषविषयवाभावाकिं पुनः वकीयायास्तव तथालमिति द्योत्यते । एतादृशं परं पुमांसमद्वैतात्मानं प्राप्तुं कथं प्रचलितासीवि कथयेत्यन्वयः ॥ | भा० वि० १०

दयितस्य गुणाननुस्मरन्ती
शयने संप्रति या विलोकितासीत् ।
अधुना खलु हन्त सा कृशाङ्गी
गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥

 दयितस्येति । दयितस्य प्रियस्य । ममेति यावत् । गुणाननुस्मरन्ती एता- दृशी या संप्रतीदानीं शयने विलोकितासीत् । हन्तेति खेदे । सो कृशाङ्गी भाषि- तापि गिरमपि निरुक्तवाक्यावलिमपि । अधुनेदानीमेव नाङ्गीकुरुते खलु नैव प्रत्युत्तरप्रदानेन चेष्टासूचितानुमोदनेन वो स्वीकरोतीति संबन्धः । शोकजन्यो- न्मादवशीदेवेदं सर्वमित्याशयः । अन्यथा रसातलप्रवेशोत्तरे तद्दर्शनादेः सुतरा- मसंभवात् ॥

 अथ ब्रह्मादिभिर्बोधितः सन् श्रीरामः किंचित्सावधान इव तद्वाक्यादेः सर्वज- नस्तव्यत्वं व्यनक्ति-

रीतिं गिराममृतवृष्टिकरीं तदीयां
तां चाकृतिं कृतिवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं च सुधारसा
स्तोतुं न कस्य समुदेति मनःप्रसारः ॥ १९ ॥

पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे

करुणाविलासस्तृतीयः ।

 रीतिमिति । कृतिवरैः । कुशलश्रेष्ठैरित्यर्थः । सुघेति । इदं हि विशेषणं विशेष्य- त्रयेऽप्यन्वेति । न च प्रथमेऽमृतेति विशेषणेन पौनरुक्त्यापत्तिः । शोभना धारा यस्यां सा सुधारा, आर्द्रया त् नक्षत्र विशेषेण सह वर्तत इति सार्दा । सुधारा चासौ । साद चेति तथा तामित्यर्थः । एतेन वृष्टौ पुष्टतरत्वं सूचितम् । आकृतिपको स्निग्धवम् । कृतिपक्षे रसातलप्रवेशरूपमहाशपथलक्षणपातिव्रत्यवीररसघटितवेन सरसत्वं च । तस्मादितःपरं वैदेही सर्वात्मना स्तव्यैव सर्वैर्न तु तदुद्देशेन मया- न्येन वा शोकः कार्य इति तात्पर्यम् ॥

इति प्रणयप्रकाशे तृतीयः प्रमोदः ।।