← तृतीयोऽध्यायः भावप्रकाशिका
चतुर्थोऽध्यायः
[[लेखकः :|]]

4.1.1

 

साध्यसाधनभावसम्बन्धज्ञापनार्थमिति - द्वयोरपि सम्बन्धिनोरेकाध्यावप्रतिपाद्यत्व एव एकप्रतीत्युपारोहस्सुशक इति भावः । कर्मयोगापेक्षया न साध्यत्वमस्तीति - इतिर्हेतौ, च्रोभिन्नक्रमः, कर्मयोगापेक्षया च साध्यत्वसत्वाच्च अत्र चिन्तायुक्तेत्यर्थः । सकृत्कृतं शास्त्रार्थ इति पाठः, भाष्ये-असकृदावृतौ प्रमाणाभावात् इति, अत एव पूर्वतन्त्रे प्रयाजादीनि फलभूमार्थिना पुनः पुनः प्रयोग्यानीति "क्रतुवद्वानुमानेनाभ्यासे फलभूमा स्यात्' इति पूर्वपक्षं कृत्वा "सकृद्वा कारणैकत्वात्' इति सकृदनुष्ठानेनैव कार्य-

4.1.1

 

सिद्धेरङ्गमात्रावृतौ फलभूयस्त्वे प्रमाणाभावाञ्चानावृत्तिरिति सिद्धान्तितमिति भावः । अत एव कर्मण्यनारम्भभावित्वात् कृषि-वत्प्रत्यारम्भं फलानि स्युः' इति न्यायेन फलभूमार्थतया काम्यानामावृत्तिवत् वेदनस्यापि आवृत्तिरिति शङ्का परास्ता, मोक्षरूपफले तारतम्याभावात् । भाष्ये-नचावधातादिवदिति, "व्रीहीनवहन्ति' इति श्रुतस्यावधातस्य दृष्टे सम्भवत्यदृष्टकल्पनायाअन्याय्यत्वादिति न्यायेन क्रत्वपेक्षिततण्डुलविष्पत्त्यर्थत्वात् तण्डुलनिष्पत्तेश्चावधातावृत्ति-मन्तरेणाऽसम्भवात्, आश्रुताष्यवधातावृत्तिः कार्येति, "कियाणामर्थशेषत्वात्प्रत्यक्षे तन्निर्वृव्याऽपवर्गस्स्यात्' इति साधितम् तद्वदिति भावः, भाष्ये-उपासिना उपसंह्यियत इति, ननु छागपशुन्यायेन संवर्गविद्यगातस्य "यस्तद्वेद यत्स वेद' इति वेदनशब्दस्य "यां देवतामुपास्से' इत्युपसंहारवशात् उपासनारूपत्वपर्यवसानमस्तु नाम्, न तावन्मात्रेण आनन्द-वल्लयाद्युक्तब्राहृवेदनानामावृत्तिस्सिध्यति विद्याभेदात्, नहि प्रतिवसन्तं ज्योतिष्टोमस्यावृत्तिविधानात् द्वादशाहादीना-मावृत्तिः सिध्येदिति चेत् भ्रान्तोसि, क्कचिद्विद्याविशेषे आवृत्तेः श्रवणादन्यत्र विद्यान्तरेपि आवृत्त्या भवितव्यमिति यदि प्रतिपाद्येत, तदेदं चोद्यं स्यात्, नैवमत्र प्रतिपाद्यते, अपि तु विदिनोपक्रान्तस्योपासिना सिद्धवत्कृत्याऽनुवादरूपात् अन्यार्थदर्शनरूपाल्लिङ्गात् वेदान्तेषु वेदनशब्दः आवृत्तवेदनपरः, यथा "न सुकृतं न दुष्कृतं, सर्वे पाष्मानोऽतो निवत्र्तन्ते' इति सुकृतस्यापि माष्मशब्दपरामर्शरूपाल्लिङ्गाद्वेदान्तेषु पाष्मशब्दः सुकृतदुष्कृतसाधारणः, ततश्च वेदातेषु सर्वेभ्यः पाष्मभ्य उदितः' "अपहतपाष्मा' इत्यादिष्वपि पाष्मशब्दः सुकृतदुष्कृतसाधारण इत्युक्तौ ईदृशोपलम्भस्याऽप्रसक्तं । यस्तद्वेदेति - अत्र वक्तव्यं सर्वं लघुसिद्धान्ते प्रतिपादितम्, तत्रैव दृष्टव्यम्, भाष्ये-समानार्थे#ि#ेवति, मोक्षसाधनविधिष्वित्यर्थः । छागो वा मन्त्रवर्णदिति न्यायोभिप्रेत इति -ननु "छागस्य धपाया' इति मन्त्रस्यनित्यतयाङ्गत्वप्रतीतेः तदङ्गत्वं मावधीति सामा-

4.1.2

 

न्यवाचिपशुशब्दस्य मान्त्रवर्णिकछागरूपविशेषपर्यवसानं युक्तम्, इह नानापकरणाम्नातानां वेदनध्मानोपासनादिमोक्ष-साधनविधीनामेकार्थपर्यवसायित्वस्याऽनपेक्षिततया कथमत्र छागपशुन्यायावतारः, न च कासांचिद्विद्यानामावृत्त्यन-पेक्षाणामेव मोक्षसाधनत्वे मोक्षसाधनध्यानादिविधीनामननुषांनलक्षणाप्रामाण्यप्रसङ्ग इति वाच्यम्, प्रपत्तिवदावृत्ति-निरपेक्षविद्याया महाविश्वासशाल्यधिकारविशेषविषयतोपपत्त्या ध्यानपर्यवसायित्वस्य वेदनादिविधीनामनावश्यकत्वा-दिति चेन्न, अनन्यथासिद्धप्रमाणबलेन प्रपत्तावधिकारिविशेषपरिकल्पनेऽपि वेदनवित्रदस्थले तादृशाधिकारिविशेष-कल्पनाभावेन वेदनविधीनामेकार्थपर्यवसानस्याऽवश्यं वक्तव्यत्वेन छागपशुन्यायप्रवृत्तौ दोषाभावात् ।। । ।। उपदेश-क्रियाया इति - उपदोक्रियामात्रस्यावृत्तिर्विवक्षिता, न तु श्रवणादिविशिष्टोपदेशक्रियाया इत्यर्थः, ततश्रच श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्युपदेशक्रियाया आवृत्तिरस्तीति भावः । द्विसस्त्रिः प्रत्ययमात्रेणेति - द्वित्रिवेदयैरपि कृतार्थत्वादित्यर्थः । ज्ञानवेदनशब्दान्वितेति - इदं वाक्यं श्रवणमनननिदिध्यासनानामावृत्तिरपेक्षिता नवेति विचारयन्ति, तदयुक्तमित्यस्याऽनन्तरं पठितं चेत् सुसङ्गतमिव भाति, पाठो निरीक्ष्यः, ननु अपरोक्षार्थविषयकप्रत्ययावृत्तेः तदापरोक्ष्यं व्रूमः, अतो न ज्योतिष्योमवाक्यार्थप्रत्ययावृत्तौ व्यभिचार इत्यत आह - एक-

4.1.2

 

श्चन्द्र इति । भेदवासनाचेदिति - अन्यत्वं वक्तुमशक्यत्वादिति भावः । कल्पनापोहेनेति - भेदसत्यत्वकल्पनाव्युदासपूवर्क-भेदमिथ्यात्वनिश्चयायेत्यर्थः । प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वरूपमिथ्वात्वप्रतीतावुपाधिप्रतीतिर्नान्तरीयकेति भावः । वाक्या-र्थज्ञानार्थश्रवणादिविहिदूषणप्रसङ्गादन्तःकरणविलयरूपज्ञानार्थसमाधिं दूषयति । समाधिविधिश्चाऽनुपपन्न इति - बन्धनिवर्त- कस्य वाक्यार्थज्ञानस्य त्वदभिमतान्तः-करणविनाशरूपसमाधिविरुद्धत्वादिति भावः । मुक्तस्य सर्वज्ञत्व इत्याक्षेपश्च, ननु मुक्त-स्यान्दाधिक्य इत्याक्षेपश्च प्रासङ्गिक इति नाशङ्का कार्या, केचित्तु-अत्र कानिचिद्वाक्यानि पातितानीति मन्यन्ते । रश्मिबहुत्वं पर्यावर्तयेदिति - इदञ्च पुत्रं प्रति कौषीतकीवाक्यम्-हे पुत्र रश्मीनादित्यं चाऽभेदेन पर्यावर्तयात्-पर्यावर्तयतादित्यर्थः,उपास्वेति यावत् । अहङ्ग्रहोपासनेति - प्रत्यगात्मोपासनेत्यर्थः ।। । ।।

।। इति आवृत्त्यधिकरणम् ।।

4.1.3

 

व्यतिकरोपदेशज्ञापनायेति - पूर्वाधिकरणे "आत्मेत्येवोपासीत' इति विद्युपास्योव्र्यतिकरोपदेशज्ञापनार्थोपात्तवाक्य-स्थितात्मशब्दार्थनिरूपणं क्रियत इत्यर्थः । वस्तुतस्यतु "त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते' "आत्मेत्येवोपासीत' इत्यादीनां व्यतिकराणामुपदेशरूपत्वमुखेन दृष्टिविधित्वाभावज्ञापनायेत्यर्थः । पूर्वप्रकृतेति - जगत्कारणतयोपास्यतया चाध्यायत्रयप्रतिपादितस्य वस्तुनो वेदान्तवाक्यस्थात्मशब्दार्थात्मशब्दार्थात्मकत्वं निरूप्यते समथ्र्यत इत्यर्थः । ततश्च कथमस्याधिकरणस्य शब्दार्थनिरूपणपरत्वमिति शङ्कापि निराकृता । अहमर्थसामानाधि-करण्येनेति -अहन्त्वेनेत्यर्थः, अथवेत्यादिपक्षाभिप्रायेणाह - किमुपास्यं ब्राहृेति । अन्यत्वेनोपास्यमिति -शरीरशरीरिभाव-रूपसम्बन्धशून्यत्वेनोपास्यमित्यर्थः । पृथकत्वानुसन्धानविरोध इति । "पृथगात्मानं प्रेरितारञ्च मत्वा' इति पृथक्सिद्धत्वानुसन्धानस्वाऽपृथक्सिद्धविशेषणत्वरूपशरीरत्वानुसन्धानविरुद्धत्वादिति भावः । यदा पृथङ्मत्वेति पृथक्पकत्वेत्यादित् मननक्रियायामन्वेति, ततश्च आत्ममननं प्रेरितृमननञ्च पृथग्भूतं कार्यमित्यर्थः पर्यवसन्नः । ततश्च आत्मप्रेरित्रोरेकमननानुप्रवेशो व्यावर्तितो भवति, अतो जीवपरयोः शरीरात्ममावानुसन्धानस्य नावकाशः । शरीरात्मभावानुसन्धाने हि द्वयोरप्येकस्यां मननक्रियायामनुप्रवेशप्रसङ्गेन पृथङ्मननं न भवेदिति विरोध

4.1.3

 

इति भावः । ब्राहृोपासनानि विहितानीति - शाण्डिल्यविद्यायां "सर्वं खल्विदं ब्राहृ' इति सामानाधिकरण्यनिर्देशः, "एष म आत्मा' इति व्यदिकरणनिर्देशश्च न दृष्टिविधित्वशङ्काव्यतिरेकोकिविरोधात्, अतो न तत्रायं विचार उपयुक्त इति भावः । वस्तुतस्तु पृथक्सिद्धत्वरूपानात्मत्वानुसन्धानस्य मोक्षसाधनतया विहितत्वात्, अनात्मत्वमेव प्रामाणिकम्, आत्मेस्येवोपासीत' इत्येतत्तु अभ्युदयफलकदृष्टिविधिरूपं भविष्यतीति पूर्वपक्षिणो भावः । अहंशब्दार्थतात्पर्यविवक्षयेति - अहंशब्दार्थस्य प्रकृतित्वविवक्षायां प्रकृतेरेवास्तिक्रियाकर्तृत्वात् उत्तमपुरुष इत्यर्थः । अत एव "यदग्ने स्थामहं त्वं वा स्या अहम्' इति, प्रकृत्याश्रयः पुरुषो भवतीति "युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इति सूत्रे प्रतिपादितमिति द्रष्टव्यम् । युक्तमिति दर्शितं भवतीति - क्रियान्वयात्प्रागेव "विष्णवे शिषिविष्टाय' इत्यादौ सामानाधिकरण्यस्थले परस्परमभेदान्वयाभ्युपगमादिहाष्य भेदान्वया-

4.1.3

 

नन्तरं तस्मिन्नभेदे अस्तित्वान्वयसं भाव इति भावः । प्रामाणिकत्वादिति परिहारायोगादिति - संसारिणः संसारित्वापोहेन ईश्वरात्मत्वप्रतिपादनेऽपि ईश्वरस्य संसार्यात्मत्वप्रतिपादनानाभ्युपगमात् नेश्वराभावप्रसङ्ग इ#ि#ीत चेति परिहारान्तरमप्युपन्यस्तम्, तथापि प्रामाणिकत्वादित्ययं परिहारः परिहासपदम् । बाधस्य तर्केऽनुगुणत्वादित्यत्र तात्पर्यमिति द्रष्टव्यम् । तत् त्वमेव, त्वमेव तद्वितीश्वरस्यापि संसंर्यात्मत्वप्रतिपादनाद्यत्यपि द्रष्टव्यम् । शास्त्रमीरुत्वाल्लोकस्येति - श्रवणे न प्रवृत्तिस्स्यादिति शेषः, स्वाप्नशशमहिषवैषम्यं शङ्कते । यदि प्रबोधेऽपीति - जीवस्य हेयार्हत्वमेव निवर्तत इति ।

स्यप्ने; तू धर्मिद्वयं धर्मद्वयञ्च निवर्तत

4.1.4

 

इति भावः । शुक्तिरूप्येश्वरयोरिति - न च रूप्यस्वरूपस्य नाशात् कथमवैषम्यमिति वाच्यम्, अधिष्ठानमेवाऽध्यस्तस्व-रूपमित्यभ्युपगमात् शुक्तिस्वरूपस्य चानाशादवैषम्यमिति भावः ।। । ।। ।। इति आत्मत्वोपासनाधिकरणम् ।।

ब्राहृणः प्रतीको दृष्टिविशेषणमिति - ब्राहृ स्वतन्त्रेणोपासं प्रतीको दृष्टिविशेषणमित्यर्थः ।। । ।।

4.1.5

 

भाष्ये-भृत्ये तु राजदृष्टिरम्युदयायेति, स्यादिति शेषः, इदमुपलक्षणम् "मनो ब्राहृेत्युपासती' इत्यादौ मनऽ#ादिशब्दानां प्राथम्यात् तन्मुख्यार्थत्यागस्याऽनुचितत्वात् ब्राहृशब्दस्य इतिशब्दशिरस्कत्वेन स्वार्थात् प्रच्यावनस्यापेक्षितत्वाच्च "आदित्यं ब्राहृोपास्ते' इत्यादौ द्वितीयानिर्देशाच्छ मनऽ#ादौ ब्राहृदृष्टिरेवं युक्तेति द्रष्टव्यम् । तदभावप्रसङ्गाभावादिति - प्रतीकाभावप्रसङ्गाभावादित्यर्थः, यद्यपि ब्राहृशरीरत्वमात्रं, न स्वरूपोपमर्दकम्, उक्तरीत्या अनुपमर्देनापि शरीरत्व-सम्भवात्, तथापि न तन्मात्रमात्मत्वेनोपास्व-त्वप्रयोजकम्, ब्राहृस्वरूपत्वस्यैव ग्राह्रत्वेन उपास्यत्वप्रयोजकत्वात् प्रतीकादेब्र्राहृस्वरूपत्वापत्तौ प्रतीकाभावप्रसङ्गस्य अवर्जनीयत्वात्, प्रसङ्गादिति चेन्न, जडस्य मनऽ#ादेः ब्राहृस्वरूपत्वा-पत्तेरत्यान्तासत्वेन तस्य प्रतीकाभावप्रसङ्गहेतुत्वस्याप्रसक्तेरित्यत्र तात्पर्यात् । वासो ददात्यनो ददातीति - वासो ददात्यनो ददातीत्यत्र वानं तक्षणञ्च कृत्वा वासोऽनश्च निष्पाद्यैव दातव्यम्, उत यथासिद्धमेव दातव्यमिति संशये वानतक्षण-क्रियायां सत्यां वासोऽनश्शब्दयोः प्रयोगदर्शनात् क्रियानिमित्तकौ वासोऽनश्शब्दौ क्रियामेव दानाङ्गतया विधत्तः, तस्माद्दानं कुर्वता तन्तून् वृक्षाश्चोपादाय वानं तक्षणं च कतव्र्यमिति प्राप्ते, जात्यन्वयव्यतिरेकानुविधानात् जातिशब्दा-वेतौ, जातिस्तु क्रियाभिव्यङ्गयेति क्रियोत्तरकाले शब्दप्रयोगः, न तु वासोऽनश्शब्दें;#ः क्रियावचनत्वम्, अतो वानतक्षण-क्रिययोरचोदितत्वात् नानुष्ठानमिति सप्तने स्थितम् । ब्राहृणश्चोदितत्वाभावादिति - "मनो ब्राहृे'त्यादौ ब्राहृेत्युपासनमात्रं विधीयते च त्वात्मा, तथापि यस् यन्मात्रतयोपासनं विहितं तत्तन्मात्रतयैव प्रतिपत्तव्यम्, यवद्वचनं वाचनिकमिति न्यायात् नाधिकमध्याहर्तव्यम् अतिप्रसङ्गदिति भावः । ब्राहृसामानाधिकरण्णञ्चेति - ब्राहृण उपास्यत्वश्रवणात् ब्राहृोपासने सर्वत्रात्मत्वस्य सत्यत्वादिवदनुवृत्ततायाः पूर्वाधिकरणे समर्थितत्वादित्यर्थः । इतिकरणवैयथ्र्यं हेतुरिति - शुक्तिकां रजतमिति प्रत्येतीति वाक्यसमानाकारत्वादिति भावः । प्रतीपगतद्वितीयावभिक्तिरपीति - "य एतदेवं विद्वानादित्यं

4.1.6

 

ब्राहृेत्युपास्ते' "यः सङ्कल्पं ब्राअहृेत्युपास्ते' इत्यादावादित्यसङ्कल्पादिपुंल्लिङ्गशब्देषु द्वितीयाया असंदिग्वत्वादिति भावः । हेतुरिति - प्रतीकस्यैव स्वततनत्रोपास्यत्वं ब्राहृणो दृष्टिविशेषणत्वम् इत्येवंरूपे अधिकरणार्थे इति शेषः, आदित्यादेः दृष्टि-विशेषणत्वे "ब्राहृ आदित्य इत्युपास्ते' "ब्राहृ सङ्कल्प इत्युपास्ते' इत्येवं प्रथमतः उपास्यं ब्राहृ द्वितीयान्तेन निर्दिश्य दृष्टि-विशेषणानां आदित्यादीनां प्रथमान्तेन पश्चाच्च निर्देशप्रसङ्ग इत्यर्थः । अतः प्रतीकगतद्वितीयाविभक्तिः प्रथमनिर्देशश्च-मनऽ#ादेः स्वतन्त्रोपास्यत्वं ब्राहृण उपास्यविशेषणत्वमित्येवंरूपाधिकरणप्रतिपाद्ये अर्थे हेतुरित्यर्थः ।। । ।। ।। इति प्रतीकाधिकरणम् ।।

देवताया उत्कर्षादिति - ननु "ब्राहृदृष्टिरुत्कर्षा'दिति ब्राहृण एवोत्कर्षात् दृष्टिविशेषणत्वमुक्तम्, नत्वादित्यादिदेवतायाः, येनेयमाक्षेपिकी सङ्गतिस्स्यादिति चेन्न, ब्राहृणस्सर्वज्ञत्वफलप्रदत्वादिना मनआद्यपेक्षयोत्कृष्टत्वात्, तद्दृष्टिर्मनआदौ कर्तव्येत्युक्ते आदित्यादीनामपि उद्गीथाद्यपेक्षया देवात्वादिना उत्कृष्टत्वात् आदित्यादिदृष्टिरुद्गीथादौ कर्तव्येति सिद्धमेवेति भावः । फलसाधनतया विहितत्वात्प्रधानस्य कर्मण इति - साङ्गस्येति शेषः, ततश्चोद्गीथकर्माङ्गभूतोद्गीथादीनामपि फलवत्त्वमस्तीति भावः । देवताप्रातिरवन्तरव्यापारमात्रमिति - अतिथिभोगनेनाऽतिथिप्रीतिवदिति भावः, "फलमत उपपत्तेः' इति न्यायेन परमात्मन एव फलप्रदत्वेन इतरासां देवतानां भोजनेनातिथिवत् कर्मभिः प्रतीनामपि फलप्रदत्वासम्भवेन

अप्रधानत्वादिति भावः, ब्राहृमतिवदादित्यामितयोपीति चशब्दार्थ इति ग्रन्थो राद्धान्तव्याख्याने उत्कृष्टश्चेत् सुश्लिष्ट इव भाति, न च तत्रापि च शब्दोऽवधारण इति भाष्येणे विरोधश्शङ्कनीयः, तस्य निपातत्वेन नानार्थत्वात्, तथापि व्याख्यानोपपत्तेः सूत्रस्यानेकार्थसूचकत्वादिति द्रष्टव्यम्, ननु उद्गीथादीनां कर्माङ्गतया फलसाधनत्ववत् आदित्यादेरपि देवतारूपेण फलसाधनत्वमविशिष्टमिति कथं पूर्वपक्ष इत्यत आह -

4.1.6

 

मनो ब्राहृेत्युपासीतेत्यादिना । अफलसाधनेभ्य इति - न विद्यते फलं यषां त इत्येवं बहुव्रीहिणा अफलशब्दो अफलसाधन- वचन इति भावः । अर्यम्णे चरुं निर्वपेदिति - यद्यादित्यादेः "अर्यम्णे चरुं निर्वपेत् स्वर्गकामः' इत्यादि विध्यन्तरविहितेषु कर्मसु फलप्रदत्वसम्भवेऽपि अस्मिन्नुपासनाप्रकरणे देवतात्वाभावेन फलप्रदत्वाभावात् तत उद्गीथादेरेव फलवत्कर्माङ्गत्वात् उत्कृष्टत्वमित्युच्येत-तदापि उद्गीथादावेवादित्यादिदृष्टिविर्धेया, अङ्गानङ्गसमभिव्याहारवतीनां विद्यानां अङ्गेषु अनङ्गदृष्टि-रूपत्वे प्रधानकर्मप्रयुक्ताङ्गाश्रयत्वात् स्वतन्त्रफलानामपि तासां अधिकृताधिकारतया पृथक्प्रवृत्तिर्न कल्पनीयेति प्रयुक्ति-लाघवात्, अन्यथा प्रयुर्क्तिकल्पनागौरवं स्यादिति द्रष्टव्यम्, उद्गीथादीनां क्रियारूपाणामिति पाठः, कर्मसमवायितयेति क्कचित्पाठो लेखकानवधाननिबन्धनः, उद्गीथादीनां स्वत एव गीतिक्रियारूपत्वात् परैस्तथानुक्तेश्चेति द्रष्टव्यम् । युकत्यन्तरमाह - इयमेवेति । इयमेवर्गग्निस्सामेत्युकत्वा तद्धेतुसमर्पके "तदेतदेतस्यामृच्यध्यूढं साम' इति वाक्ये पृथिव्यग्न्योः ॠकसामशब्दप्रयोगः पूर्ववाक्ये पृथिव्यग्न्योः ॠक्सामदृÏष्ट ज्ञापयति, आरोप्यवाचिशब्देनौवाधिष्ठान-व्यवहारस्य लोके दर्शनादिति भावः । न राज्ञि क्षत्तृशब्द इति - अध्यस्ते राज्ञि नाधिष्ठानवाचिक्षत्तृशब्दप्रयोगोऽस्तीति भावः, तत्र क्षत्रध्यासाभावादिति क्कचित्पाठो दृश्यते, न तस्य सामीचीन्यं पश्यामः । कर्मणो वीर्यवत्तरत्वं श्रुतमिति - "यदेव विद्यया करोति' इति विद्यया क्रियमाणस्यैव वीर्यवत्तरत्वश्रवणात् आदित्यादेश्चाक्रियमाणत्वादिति भावः । उद्गीथादिकमस्र्वतिशय उपपद्यत इति - भूतभाव्युपयोगं हि वस्तु संस्कायर्मिष्यते, उद्गीथादीनांच क्रियात्वात् ज्योतिष्टोमा-द्युपकारस्य तैः करिष्यमाणत्वाच्च तान्येवोद्वथादीन्यादित्यादिमतिभिः संस्क्रियेरन्नित्यर्थः । कर्मणो ह्रपूर्वसन्निकर्ष इति - उद्गीथादिकर्मण इत्यर्थः, ततश्च सप्रयोजनत्वादादित्यादिमतिभिः संस्कार्यत्वमुपपद्यत इति भावः, ननु उद्गीथादिकर्मणो नापूर्वसन्निकर्षः, प्रधानस्यैवापूर्वसन्निकृष्टत्वादित्याशंक्याह - असाधितस्य करणत्वायोगादिति । अङ्गाननुगृहीतस्य प्रधानस्यापूर्वकरणत्वासम्भवेन अङ्गानामपूवसन्निकृष्टत्वमस्तीति भावः । कर्मस्वतिशयावहत्वादिति - उपासनस्यो-द्गीथादिकमर्सु अतिशयावहत्वात् उद्गीथादिकर्मण एव स्वतन्त्रोपास्यत्वमिति भावः, यकत्यन्तरमाह - आदित्यादिः प्रधानमिति । प्रधानशब्दस्य नित्यनपुंसकलिङ्गतया तथा निर्देशः तदेवोपपादयति । कर्मफलस्येत्यादिना -ॠच्चि पृथिवीत्वं विधेयमवगतमिति । पृथिव्या हि ॠकत्वे अवधार्यमाणे इयमृगेवेत्यक्षरन्यासः स्यादिति भावः । पृथिव्यामृक्छब्दो लाक्षरिक इति -

4.1.6

 

तदेतदेतस्वामिति वाक्य इति शेषः । सम्बन्धमात्रमिति - पृथिव्यग्न्योः ॠक्सामशब्दवाच्याध्यस्तत्वलक्षणसम्बन्धोऽस्तीति भावः । न तूत्कर्षमिति - नाध्यस्तमपेक्षत इत्यर्थः, तथाचाध्यस्तवाचिशब्दत्वाभावेपि अधिष्ठानवाचिशब्देन अध्यति लक्षणया प्रयोग उप-पद्यत इति भावः । कर्मस्वतिशयाधायकत्वेनेति - कर्मस्वनुष्ठितेषु परमात्मप्रीतिरूपतिशयाधाने आदित्यादिदेवताप्रीतेः द्वारत्वादिति भावः, यद्यप्ययं ग्रन्थः पुरोवादग्रन्थेषु न दृश्यते, तथापि योग्यतानुसारादेवमुक्तमिति द्रष्टव्यम् । नहि द्वितीयाविभकत्यर्थो-ऽनन्वित इति - लोकेष्वित्यस्य द्वितीयया विपरिणाममात्रेणैव "वाचं धेनुमुपासीत' "योषितमÏग्न ध्यायीत' इत्यादिवत् "लोकान् पञ्जविधं सामोपासीत' इत्युक्तौ विरोधाभावादिति भावः । क्रत्वधिकृतेनेति - क्रत्वङ्गाश्रितत्वात् गोदोहनादिवदिति भावः ।

4.1.7

 

पृथिव्येव ॠक् नान्यदस्तीति - अयमर्थः-पृथिव्येव ॠगित्युक्ते नान्या ॠगिति वाक्यशेषरूपं विवरणं सम्पद्यत इति ।। । ।।

।। इति आदित्यादिमत्यधिकरणम् ।।

आसनसमर्थनहेतोरैकाग्रयस्येति - अनन्तराधिकरणयोः अप्रासङ्गिकत्वेपि आसननियमसमर्थनहेतोश्चित्तैकाग्रयस्याऽस्मिन्न-धिकरणे समथ्र्यमानत्वादनन्तराधिकरणप्रतिपादितेषु अङ्गावबद्धोपासनेषु कर्मतन्त्रेषु ॠत्विक्कर्मसु आसननियमसमथर्ना-सम्भवेनाऽव्यवहिताधिकरणसङ्गत्यभावात्परमप्रकृतेनैव सङ्गतिरित्यर्थः, अङ्गावबद्धोपसनपर्युदासेनेतरेषूपासनेषु आसन-नियमचिन्तनात् अनन्तराधिकरणेनापि सङ्गतिः कथञ्चित् फलतीति बोद्धव्यम् । आद्यधिकरणे समर्थितत्वादिति - "तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा' इत्यैकाग्रयस्य समर्थितत्वमभिप्रेतं द्रष्टव्यम्, परोक्तसूत्रार्थं दूषयति । उपासन-सम्भवादित्यतोपीति - तदवश्यम्भावादिति । आसनस्यावश्यम्भावादित्यर्थः, ननु' "विविक्तदेशे तु सुस्वासनस्थः' इति कैवल्योपनिषदि श्रवणात् कथं पूर्वपक्षोत्थितिरिति चेत्, सूत्रकृता शङ्करादिभिश्चान्यैस्तद्गतवाक्यस्य क्काष्यनुपात्तत्वात् सर्वव्याख्यानाधिकरणे अस्मदीयाचार्यै-

4.1.11

 

रेष्यनुदाह्मतत्वाच्च कैवल्योपनिषन्न संप्रतिपन्नेति केचिन्मन्यन्ते । केचित्तु तस्य दहरविद्याविशेषविषयत्वेन सर्वविद्या-साधारणत्वाभावात् अनुपन्यास इति प्रतिपद्यन्ते ।। । ।। चेलाजिनकुशोत्तरम्-चेलं-सर्वोत्तरम्, अजिनं-कुशापेक्षया उत्तरं, कुशाभूतलापेक्षया उत्तरा इत्यर्थः ।। । ।। "समे शुचौ शर्करावन्हिबालुकाविवर्जिते शब्दलाश्रयादिभिः । मनोनुकूले न तु चक्षुःपीडने गुहानिवाता-

4.1.12

 

श्रयणे प्रयोजयेत' इति वचनं, शर्कराः सूक्ष्मपाषाणाः । आसनसहपठितदेशविशेष इति - आसनाङ्गभूत इत्यर्थः, एकाग्र-तातिरिक्तदेशकालविशेषाश्रवणात् एकाग्रतानुकूलासानानुकूलदेशादिविशेषस्य ध्यानापेक्षितत्वमित्युक्ते एकाग्रतापेक्षितस्य देशविशेषाद्यङ्गकस्यऽऽसननियमस्याऽपेक्षितत्वं किं वक्तव्यमित्यर्थः । उक्तप्रकारेणेति - कैमुतिकन्यायेनेति भावः ।। । ।।

।। इति आसीनाधिकरणम् ।।

भाष्ये-एकस्मिन्नेवाहानि शास्त्रार्थस्य कृतत्वादिति, इदमुपलक्षणं, ध्यानेन दर्शनसमानाकारभक्तिरूपध्याने निष्पन्न शास्त्राथस्र्य कृतत्वान्न तत् उध्र्वमुपासनं कार्यमित्यर्थः, "स खल्वेवं वर्तयन्यावदायुषम्' इति श्रुतिस्तु कर्मणामेव यावज्जीवमनुष्ठेयत्वमाह, न तु विद्याया इति पूर्वपक्ष्यभिप्रायः, तत्रापि हि दृष्टमिति, यावज्जीवं कर्मानुष्ठानस्याऽपुनरावृत्ति-फलकत्वमुच्यमानं विद्यां प्रति

4.1.13

 

स्वरूपोपकारकत्वेनैवोपपादनीयमिति तदुक्तिसामथ्र्यात् विद्याया अपि यावज्जीवमनुष्ठेयत्वं तत्र विवक्षितमुन्नीयत इति तत्फलात् "प्रायणान्तमभिध्यायीत' इति श्रुत्यन्तरदर्शनाच्च दर्शनसमानाकारतापव्यनन्तरमपि यथाश्रुतं यावज्जीवमुपासन-मनु#ेठेयमिति भावः । एतेन "प्रायणान्तमभिध्यायीत' इति श्रुत्यनुसारात् प्रायणशाब्दसं मरणे प्रसिद्धेश्च आप्रयाणादिति सूत्रपाठोऽयुक्त इति निरस्तम्, "प्रयाणकालो मनसाऽचलेन' इत्यादि स्मृतिप्रसिद्धेः प्रयाणशब्दस्यापि समानत्वात् । उपाध-रनुवृत्तत्वादिति - ब्रााहृणदेहावच्छिन्नत्वस्यैवोपाधित्वेन तस्यानुवृत्तैरित्यर्थः । मुक्तस्य न मुमुक्षेति - जीवन्मुक्तस्येत्यर्थः । प्रीतेश्च यथाशास्त्रमनुष्ठानजन्यत्वादिति - ननु "वेदनं ध्यानविश्रान्त'मित्युक्तरीत्या छागपशुन्यायेन दर्शनसमानाकारभक्ति-रूपापन्नज्ञानस्यैव शास्त्रात्रत्र्वाच्च दर्शनसमानाकारज्ञाननिष्पत्तिपर्यन्तमावृत्तिः भाष्यकृतापि पूर्वपक्षेऽभ्युपगन्तव्येति चेत्, सत्यभ्युपगन्तव्या साक्षात्कारपर्यन्तावृत्तिः, तथापि साक्षात्कारफलकत्वेन नोपासनस्य तावत्पर्यन्तत्वम्, अपितु परम-पुरुषप्रीतिसाधनतया दर्शनसमानाकारस्य चोदितत्वात्तावतैव च शास्त्राथस्र्य कृतत्वात् न तत उध्र्वमुपासनमनुष्ठेयमिति पूर्वपक्षिणां युक्तमिति भावः ।।

।। इति आप्रयाणाधिकरणम् ।।

पेटिकासङ्गतिरिति - साधनपेटिकाकलपेटिकयोः सङ्गतिरित्यर्थः, विद्यास्वरूपशोधनस्य फलाध्यायासङ्गतिं परिहरति । उपाय-

4.1.13

 

भूतेति - अश्लेषविनाशप्रपीतिसंशयाभावादिति । अश्लेषविनाशौ प्रतीयेते नवेति संशयस्य वक्तुमशकत्यत्वादित्यर्थः, भाष्ये-शास्त्रविरोधादिति, नामुक्तमिति शास्त्रेण कर्मणां भोगैर्नाश्यत्वावगत्या विरोधात् तयोर्विद्याफलत्वकल्पनंनोपपद्यत इत्यर्थः, भाष्ये-भिन्नविषयत्वादिति, इदमुपलक्षणम्, "नामुक्तं क्षीयते कर्मे'त्येतस्स्मरणमौत्सर्गिकम्, प्रायश्चित्तादिना नाश्यत्वाभ्युपगमात्, ततश्च "एवंविदि पापं कर्म न श्लिष्यते' इति विशेषशास्त्रविरोधे सङ्कुचितविषयमेव वक्तव्यम्, असत्यां ब्राहृविद्यायाम् असति च प्राश्चिते "नामुक्तं क्षीयते' सत्यर्थः, न च विद्याया मोक्षफलकत्वात् अश्लेषवचनं स्तुतिरिति मन्तव्यम्, एतस्य स्तुतित्वे अदानामानन्त्येन अनिर्मोक्षप्रसङ्कादिति द्रष्टव्यम् ।। । ।।

4.1.13

 

पूर्वं शरीरपातानन्तरं कर्मक्षय उक्त इति - साम्पराये तर्तव्याभावादित्यत्रेति शेषः । कर्मफलभोगानवश्यम्भावेपीति - कर्मणां फलभोगावश्यम्भावेपि उपभोगेन सर्वकर्मक्षये ब्राहृज्ञानं मोक्षमुत्पादयतीति पूर्वपक्षिणोक्त इत्यर्थः । तथा चेदिति - देशकालादिसापेक्ष इत्यर्थः । अविद्यानिवृत्तेरनित्यत्वप्रसङ्गादिति - ननु ज्ञाव्यतिरिक्तदोकालाद्यपेक्षत्वान्नानित्यवप्रसङ्ग इति चेन्न, ज्ञानव्यतिरिक्तासम्भावनाविपरीतभावनारूपप्रतिबन्धकाभावसापेक्षत्वेन अविद्यानिवृत्तषरनित्यत्वतादवस्थ्यात् । अन्ये त्वित्यादि -

4.1.13

 

अत एव सुकृतदुष्कृते इत्यादि - उत्तराधविनाशे विधूननादेरसम्भवादित्यर्थः । उत्तराघस्येति - अभक्ष्यभक्षणादिक्रियारूप-कमर्ण इत्यर्थः । नतु क्रियाजन्यादृष्टरूपकर्मण इति मन्तव्यम्, तदतिरिक्तशक्तेरभावात् । विपाकहेत्विति - विपाको नरकादिरुच्यते । विशेषोपादानवैयथ्र्यं स्यादिति - विपाकविधातस्याभ्युपेतत्वेन लेपांशविधात इति वचनस्यायुक्तत्वादिति भावः, शङ्कते । विपाकशक्तेः श्लेषस्त्विष्ट इति - अश्लेषवचनसङ्कोचः स्यादिति । ननु कथमत्राश्लेषवचनसङ्कोचः, ब्राहृविद्या-श्लेषो हि तत्र कार्यानार्जकत्वम्, ततश्चोत्पन्नस्याप्यस्य ब्राहृविधि कार्यानार्जकत्वात् अश्लेषवचनं सुश्लिष्टम्, नह्रश्लेषवचन-स्याऽनुत्पत्ति-

4.1.13

 

वचनत्वं पुष्करपलाशजलदृष्टान्तविरोधादिति चेत्, उच्यते नहि निषिद्धकर्मजन्यपापस्याश्लेषं श्रुतिव्र्रवीति, येनायं उपालभ्यः स्यात्, किन्त्व्#ेवंविदि पापं कर्म न श्लिप्यत इति निषिद्धकर्मणोऽभक्ष्यभक्षणादेरेवाश्लेषं व्रवीति, तस्य च कर्मणो ब्राहृण्यश्लिष्टत्वं हि ब्राहृविदि पापानार्जकत्वमेव न तु पापोत्पत्तिमभ्युपगम्यः ब्राहृविदि लेपमात्रानार्जकत्वमिति सङ्कोच आश्रयणीय इत्यभिप्रायात्, नन्वेवं "क्षीयन्ते चास्य कर्माणि' इत्यादिश्रुत्यनुसारेण पूर्वाधविनाशेष्यभक्ष्यभक्षणादिनिषिद्ध-कर्मविनाश एव स्यादिति चेन्न, तेषां कर्मणां क्षणिकत्या तदानीमेव नष्टत्वेन तत्राधविनाशश्रुतेः निषिद्धकमर्जन्यपाप-विनाशपत्वेन "पापं कर्म न श्लिष्यते' इत्यादौ निडिद्धकरण्स्यैव तन्निष्ठकार्यानार्जकत्वरूपाश्लेषस्य वक्तव्यत्वात्, नचावस्थाचतुष्टयमुत्तीर्णशक्तिविषयमित्युवरग्रन्थविरोध इति वाच्यं, तस्याप्यत्रैव तस्याप्यत्रैव तात्पर्यात् ।। । ।। ।। इति तदधिगमाधिकरणम् ।।

4.1.14

 

एवमिति न्यायातिदेश इति - न त्वसंश्लेषातिदेशः तस्य प्रतिज्ञयैव निर्दिष्टत्वादिति भावः । "सर्वे पाप्मान' इत्यत्र पाष्मशब्दस्य सुकृतसाधारण्यकोटिबीजं प्रकृयति । न सुकृतं न दुष्कृतमिति - सुकृतदुष्कृते निर्दिश्य सर्वे पाष्मान इति निर्देशः पाप्मशब्दस्य सुकृतसाधारण्यमवगमयति नेति पर्यवसितोऽर्थः । उक्तं न्यायमिति -पूर्वाधिकरणाभिप्रेतन्याय-मित्यर्थः । पूर्वसूत्रानुकृष्टव्यपदेशशब्दार्थमिति - व्यपदेशं प्रदर्शयतीत्यर्थः, तत्र एवंशब्देन पूर्वसूत्रे आभिप्रायिकफल-विरोधित्वन्यायात् कण्ठोक्तस्तद्वयपदेशो-प्यतिदिष्टः, तद्वयपदेशो हि तस्य फलत्वव्यपदेशः, तत्र ह्रत्रासत्वशङ्का प्राप्ता "एवंविदि पापं कर्म न

श्ळिप्यते तद्यर्थषीकतूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाष्मानः प्रदूयन्ते' इति पापानामेव श्रवणात् एवंशब्दोनुकृष्टस्तद्वयपदेशो न सम्भवतीति,

4.1.15

 

अतस्तच्छङ्कां व्युदसितुं एवंशब्दानुकृष्टव्यपदेशसिध्यर्थमुभे सुकृतदुष्कृते निर्दिश्य सर्वे पाष्मानोऽतो निवर्तन्त इति साधारण्येन सुकृतस्यापि मुमुक्ष्वनाविष्करणात् "सुकृतदुष्कृते धूनुते' इति वाक्येन अनिष्टत्वाविष्करणाच्च, अनिष्टफलत्वरूपप्रवृतिनिमिव- सत्वात् "सर्वे पाष्मानः प्रदूयन्ते' इति सुकृताश्लेषविनाशस्यापि विद्यमानफलत्वव्यपदेशोस्तीति प्रदर्शयतीति भावः । भाष्ये-सुकृत-स्यापि शास्त्रीयत्वादिति, ज्योतिष्टोमदर्शपूर्णमासादीनां शास्त्रीत्यत्वेन परस्परानुपमर्दकत्वादिति भावः, न च तत्सुकृतदुष्कते धूनुते इति विशिष्य सुकृतस्यापि विनाशश्रवणात् कथमभ्यधिकाशङ्केति वाच्यं, तस्य शरीरपातानन्तरभावि ;सुकृतनाशविषयत्वादिति भावः ।। । ।। ।। इति इतराधिकरणं ।।

भाष्ये-उतानारब्धकार्ययोरेवेति, विद्यायोनिशरीरानारम्भकयोरित्यर्थः, भाष्ये-विन्याफलस्याविशेषश्रवणादिति, "तस्य ताव'- दिति श्रुतेः एतावन्ये चिरं यावद्धुञ्जानस्येत्यत्रैव क्षेपीयस्ताप्रतिपादनपरत्वेनादधिपरत्वाभावात्, इतरथा-अवषेश्चिरत्वस्य च प्रति- पादने वाक्यभेदप्रसङ्गादिति भावः । यावन्न विमोक्ष्ये - अथ संपत्स्स्#े' इति, यावत्प्रारब्धकर्मणा न विमोक्ष्यते अथ संपत्स्यत इत्यर्थः, पुरुषव्यत्ययश्छान्दसः, नचावधिपरत्वे चिरत्वावधित्वरूपार्थद्वयप्रतिपादनेन वाक्यभेदप्रसङ्ग इत्युक्तमिति वाच्यं, वाक्य-न्तरसिद्धचिरत्वानुवादेनावधिमात्रप्रतिपादनपरत्वादस्य वाक्यस्येत्यदोषः । मिथ्यात्वेन बाधादिति - न च यतो ज्ञानमज्ञानस्यैव

4.1.16

 

निवर्तकमिति ज्ञानस्य अज्ञानमात्रनिवर्तकत्वेन ज्ञानकार्यभूतप्रारब्धकर्मानिवर्तकत्वात् तस्य कर्मणः स्वोत्पादनभूताविद्यानि-वृत्तिप्रतिबन्धकत्वमस्तीति वाच्यम्, अज्ञानवत्तत्कायस्र्यापि निवत्र्यत्वस्य वक्तव्यत्वात्, इतरथा ज्ञाननिवत्र्यत्वरूपमिथ्या-त्मवस्याऽभावप्रसङ्ग इति भावः ।। । ।।

।। इति अनाब्धकार्याधिकरणम् ।।

भाष्ये-अनिच्छतोऽननुष्ठान प्राप्ते इति, निष्फलकर्मणि चिकीर्षाया अभावादित्यर्थः, यद्यग्निहोत्रादीनां फलवत्त्वं तर्हि अश्लेषो नोप-पद्यत इति भावः,यज्ञेनेत्यादिश्रुतेः, दर्शनसमानाकारविद्योदयात्प्राक् तादथ्र्येन विधानार्थतयोप्युपपत्तेर्विद्योत्पत्त्यनन्तरं यावज्जीवम-ग्निहोत्रादेरनुष्ठेयत्वे प्रमाणाभावादित्यर्थः । समुच्चयवादो निरकाश इति - सर्वापेक्षेति सूत्रं विद्याङ्गत्वपरम्, सहकारित्वेनचेति सूत्रं फलविरोधिनिरसनेन समुच्चयपरमिति यादवमतानवकाश इत्यर्थः ।। । ।।

4.1.18

 

उत्तराघं विषयः स्यादिति - इदमुपलक्षणं-मारब्धव्यतिरिक्तपूर्वोत्तरसुकुतदुष्कृतानां विनष्टाश्लिष्टतया उपायनश्रुतेर्निविषयत्व-मित्येवाक्षेपाभिप्रायः, अत्रोपायनस्य चिनष्टाश्लिष्टपूर्वोत्तरसुकृतसजातीयोत्पत्तिरूपत्वेन विनाशश्लेषयोरुपायनवचनेनाऽविरोधा- दिति परिहाराभिप्रायः, अयमर्थः-"तदधिगम उत्तरपूर्वोधयोः' इत्यत्र सम्यक् विवृतस्तत्रैवानुसन्धेयः । परे त्वित्यादि - ततोपि -

4.1.18

 

वरं ज्ञानाख्यकार्यायेति - न च तथासति कार्यपदं व्यर्थमिति वाच्यं, यस्य ज्ञानस्य सुकृताश्लेषोत्पादकत्वं तस्मा एव ज्ञानायेति स्फोरकत्वेन साफलत्यात् । अन्ये त्वित्यादि - विद्यासहकारिणामिति । विद्योत्पत्तेः प्राजीनानि नित्यनैमित्तिकानि विद्योत्पव्य- र्थानि अपवर्गार्थानि च तदनन्तरभाधीनि च विद्यया समप्रधानानि विद्यासहकारीणीति तेषां मर्यादा - प्रहाणसम्भावनाया इति । "तत्सुकृतदुष्कृते धूनुते' इति धूननसम्भावनाया इत्यर्थः, विद्यासहकारिणो विद्यया धूननासम्भवात् पूर्वपक्षानुत्थितेरिति भावः । काम्यव्यतिरिक्तेति - काम्येषु कर्मसु मोक्षार्थत्वासम्भवात् सिद्धान्तानुत्थितेरिति भावः ।

स्वाधिकारार्थानामिति - नियोगा-नामित्यर्थः । अपवर्गार्थत्वायोगादिति - ततश्च "न हास्य कर्म क्षीयते' इतिश्रुतेर्विद्यासहकारिविषयत्वमेव वक्तव्यं, ततश्च पूर्व-पक्षसिद्धान्तावपि तद्विषयावेवोचिताविति भावः । विद्वत्सम्बन्ध्याश्रमधर्मविषयत्वमिति - विदुषा यावज्जीवमग्निहोत्रादीनि

4.1.19

 

कर्तव्यानि नवेत्येवं विचारो युक्त इति भावः । विनियोगवचनमिति - सुह्मत्संक्रमरणवचनमित्यर्थः । विद्याङ्गकर्मसमृद्धयर्थेति - मोक्षस्थाने विद्यां निवेशयाम इत्यर्थः ।। । ।। ।। इति अग्निहोत्राद्यधिकरणम् ।।

भाष्ये-तच्छरीरविमोक्षावसानत्वश्रवणादिति, "धूत्वा शरीरमकृतं कृतात्मा' इति श्रुत्यन्तरदर्शनात् तस्य तावदित्येतः शरीर-स्याश्रुतत्वेपि शरीरमोक्षावधिकरम्, न च धूत्वा शरीरमित्येतत् प्रारब्धकार्ययावच्छरीरपरम्, एकवचनश्रवणात्, एकत्वाविवक्षा-

वसाने सम्पद्यते, अनेकशरीरोपभोग्यफले चेत् तदवसाने सम्पद्यते, भोगेनैव च क्षपयितव्यत्वादारब्धफल- योः कर्मणोः । "तस्य तावदेव चिरं यावन्न विमोक्ष्ये' इति च भोगेन तयोः कर्मणोर्विमोक्ष उच्यते, देहाव-धिनियमाश्रवणात् । तदेवं ब्राहृविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्मानादिकाल-सञ्चितमनन्तं विद्यामाहात्म्याद्विनश्यति । विद्यारम्भोत्तरकालमनुष्ठितञ्च न श्लिष्यति । तत्र पुण्यरूपं सर्वं विदुषः सुह्मदो गृह्रन्ति, पापं च द्विषन्त इति निरवद्यम् ।। 19 ।। ।। इतरक्षपणाधिकरणं समाप्तम् ।।

।। इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य प्रथमः पादः ।।

4.1.19

 

कल्पने प्रमाणाभावात्, अस्माच्छरीरात्समुत्यायेति श्रुत्यन्तरे अस्मादिति विशेषणेन विद्यायोनिशरीरस्यैव विवक्षितत्वाच्च, अन्यथा तद्वैयथ्र्यापत्तेरिति भावः । देहस्तदवधिश्च न श्रुताविति - तदवधिशब्दः तदवधित्वपरः देहस्तदविधत्वेन न श्रूयत इत्यर्थः । ननु धूत्वा शरीरमिति श्रुत्यन्तरदर्शनात् तदवधित्वनिश्चय इत्यत आह - धूत्वा शरीरमिति । "अस्माच्छरीरात्सुमुत्याय' इत्यि#ापि शरीरपदं प्रारब्धकार्यशरीरसामान्यपरम्, अस्मादिति विशेषणं च श्रुतिस्मृतिप्रसिद्धत्याज्यत्वहेत्वनुमवसिद्धेहयताप्रदर्शनार्थमिति भावः । परे

4.1.19

 

त्वित्यादि -तस्य तावदिति श्रुतिवशेनेति । तस्य तावदिति श्रुत्या विद्यायोनिशरीरपात एव ब्राहृसम्पत्तेः श्रवणेन शरीरान्तरे "अने-कशरीराम्भककर्मफलभोगासम्भवेन क्षयायोगात् ज्ञानेनैव प्रारब्धस्य क्षयो वाच्यइत्यर्थः । शिष्टं स्पष्टम् ।।

।। इति इतरक्षणाधिकरणम् ।।

।। इति दशोपनिषद्भाव्यकारैः श्रीरङ्गरामानुजनुनिभिर्विरचितायां श्रुतप्रकाशिका

व्याख्यायां भावप्रकाशिकायां चतुथस्र्याध्यायस्य प्रथमः पादः ।।



4.2.1

 

यदा लयपरत्वेष्युपपद्यत इति - ननु इन्द्रियान्तरसम्पत्तिवाक्सम्पत्तिवचनयोर्विशेषानुपलम्भात्, अत एव "सर्वाण्यनु' इति सूत्रे तद्भाष्ये च वाक्सम्पत्तिवचनन्यायस्यैव इन्द्रियसम्पत्तावतिदेशाच्च इन्द्रियान्तरवचनस्य कथमुपपादककोटौ निवेश इति चेन्न, तस्मादुपशान्ततेजाः पुनर्भवभिन्द्रियैर्मनसि सम्पद्यमानैः' इत्यस्य ह्रमर्थः-उपशन्ततेजाः उपाशन्तौष्ण्यः पुनर्भवं पुनर्जन्म उद्दिश्य मनसि सम्पद्यमानैरिन्द्रियैस्सह ग्राणमायातीति, अत्र हि पुनर्जन्मोद्दिश्य मनसि इन्द्रियाणां सम्पत्तिर्लयरूपा, इन्द्रियाणां मनसि लये हि पुनर्जन्मन एवाभावप्रसङ्गात् । अतस्तत्र सम्पत्तिशब्दस्य सयोगपरत्वं वक्तव्यमिति - वाक्सम्पत्तिवचनेष्यवैरूप्यात् तथात्वं वक्तव्यमिति इन्द्रियसम्पत्तिवचनमप्युपपादककौटौ निवेशितमिति भावः । वस्तुतस्तु इन्द्रियैर्मनसि सम्पद्यमानैरिति वाक्यस्य न वाक्सम्पत्तिवाक्यापेक्षया वैलक्षण्यमस्ति, अथाष्याचार्यैः गुणसूत्राणां सर्वेषामपि प्रकृताधिकरणार्थोपपादकत्वं वक्तव्यमित्यभिनिवेशादुपपादककोटौ निवेशितमिति द्रष्टव्यम् । नन्वयं विचारः काकदन्तपरीक्षासदृशः, पूर्वोत्तरपक्षयोरर्थभेदा- भावात् वाक्स्वरूपस्य मनसि लये नास्तीति पूर्वोत्तरपक्षयोस्सम्प्रतिपन्नमेव, न च सिद्धान्त्यमिमतो मनसि वाक्संयोगः पूर्व-पक्षिणानभ्युपगत इति शक्यते, वक्तुं, वाचो मनसि संयोगाभावे वागुक्तेर्मनसि लयवार्ताया अप्यसम्भवात्, इयांसु विशेषः,

एवं प्राप्तेऽभिधीयते-वाङ्मनसि-इति वाक्स्वरूपमेव मनसि संपद्यते । कुतः? दर्शनात् । दृश्यते हि वागि- न्द्रिये उपस्तेऽपि मनःप्रवृत्तिः । वृत्तिमात्रसम्पत्त्य्#ापि तदुपपद्यत इति चेत्तत्राह-शब्दाच्च-इति । "वाङ्मनसि सम्पद्यते' इति वाक्स्वरूपसंदत्तावेव हि शब्दो न वृत्तिमात्रसम्पत्तौ । न हि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणा4न्तरेणोपलभ्यते, येन वृत्तिमात्रं संपद्यत इत्युच्येत । यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि संपत्तिर्नोपपद्यत इति; तत् "वाङ्मनसि सम्पद्यते' इति वचनान्मनसा वाक् संयुज्यते न तु तत्र लीयत इति परिहर्तव्यम् ।। 1 ।।

4.2.2

 

वाक्छब्दस्य स्वरूपपरत्वे सम्पत्तिशब्दस्य वागक्तिनिष्पादनलक्षणमनोव्यापारलयपरत्वं वाक्छब्दस्य वागुक्तिपरत्वे तु सम्पत्ति- शब्दस्य तद्धेतव्यापारविलयपरत्वमिति नैतद्वयापारस्य उपयोगोस्ति, उत्क्रान्तिस्वरूपविशेषपर्यवसायित्वाभावात् देवदत्तपुत्राभि-प्रायेण काञ्च्यां देवदत्तो नष्ट इत्युक्ते देवदत्तशब्दस्य तत्पुत्रलक्षणयापि समर्थयितुं शक्यते, नष्टपदस्य विनष्टपुत्रलक्षणामाश्रित्यापि तदर्थ प्रतिपादयितुं शक्यते, नैतावता अर्थे कश्चन विशेषोभिहितो भवति, तत्तुल्यश्चायं विचारः, न च मुख्यजधन्ययोरन्यतरस्या-मुख्यार्थत्वे समाश्रयणीये जघन्यस्यैव अस्वरसार्थसमाश्रयणन्यायव्युत्पादनार्थमिदमधिकरणमिति वाच्यम्, तस्य पूर्वतन्त्र एव क्षुण्णत्वादिति चेत्, अत्र केचित्-अस्मिन्नधिकरणे वाक्स्वरूपस्य मनसि लय इत्येव प्रधानपूर्वपक्षः, सम्पत्तिश्रुतिः कथचिदुपपद्यत इति, अस्मिन्पक्षे अनुशयं प्रदर्शयता भाष्यकारेण पूर्वपक्षान्तरस्य सूचनात् "तन्मनः प्राण उत्तरा'दित्यतिदेशाधिकरणे अधिका-शङ्कोपपादकभाष्यग्रन्थपरिचयशालिनाम्, किमत्र मनसो लय उच्यते उत संयोगः-इति टीकाग्रन्थदर्शिनां च अस्यार्थस्य सुगम- त्वात्, यदि ह्रत्र वाग्लयपूर्वपक्षो नाभिमतः स्यात्, तर्हि अतिदेशाधिकरणे भाष्ये-मनोलयसाधकाधिकाशङ्काकथनं विरुद्धमेव स्यात्, अतस्तत्रापि वाक्स्वरूपलयकथनमेव प्रधानपर्वपक्षः, सम्पत्तिशब्दस्य व्यापारनिवृत्तिपूर्वकसंयोगार्थकत्वेनाप्युपपन्नत्वात् अप्रकृतौ लयो न युक्त इति सिद्धान्त इत्येव तत्त्वम् । परे तु वाचो मनसि संयोमाभावे वाग्वृत्तेरपि मनसि लयोक्तिर्न सम्भवतीत्ये-तत्सत्यमेव, तथापि सिद्धान्त्यभिमतसंयोमविशेषस्य पूर्वपक्षिणानभ्युपगमात् न पक्षद्वयेप्यर्थाविशेष इति वदन्दि, भाष्ये-वागि- न्द्रिये उपरतेपि मनःप्रवृत्तिरिति, अत्र मनःप्रवृत्तिसव्वाभिधानं वाक्सम्पत्तिहेतुत्वोपपत्त्यर्थम्, अन्यथा हि तत्प्रलीनवृत्तित्वं न सम्पत्तिहेतुतां भजेतेत्यर्थः । प्रवृत्तव्यापारमित्यादिटीकाया अप्यत्रैव तात्पर्यम् ।। । ।।

रुपपद्यते, "तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः' इति ।। 2 ।।

।। वागधिकरणं समाप्तम् ।।

4.2.3

 

भाष्ये-वाचमानु सर्वेषामिन्द्रियाणामिति, अनुशब्दस्तृतीयार्थ इति कर्मप्रवचनीयः, वाचा सहेत्यर्थः, न तु पश्चादथर्वाची, तथा

सति "श्रव्ययं विमक्ती'ति पश्चादर्थेव्ययीभावसमासप्रसङ्गात्, तस्य च नित्यसमासत्वेन वाक्याभावात्, तदर्थे च द्वितीयाया अपि दुर्लभत्वाच्च, अतः सहार्थ एवायं कमप्र्रवचनीयः "कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीया, अतः टीकाग्रन्थः कथञ्चिन्नेय इति केचिदाहुः, केचित्तु वाचमनु-वाचमनुरुध्य सम्पद्यत इत्यर्थः, अनुशब्दस्ससाधनक्रियावचनः, शाकल्यस्य संहितामनुप्रावषदित्या- दिवत् शाकल्यस्य संहितामनु निशम्य प्रावर्षदित्यर्थप्रत्ययात् प्रदर्षणस्य पश्चाद्भावोर्थः सिध्यति, यथा च पुमांसमनुजायत इतिपु- मनुज इत्यादौ पुमांसमनुरुध्य जायत इत्यर्थप्रत्ययात् ततः पश्चाज्जननं सिध्यति, एवमिहापि वाचमनुरुध्य इत्यर्थावगमात् पश्चा-दित्यर्थस्सिध्यतीत्यभिप्रेत्याचार्यैरित्थमुक्तमिति प्रतिपादयन्ति ।। । ।। ।। इति वागधिकरणम् ।।

भाष्ये-अतो मनः प्राणे सम्पद्यत इत्यत्रेत्यादि, अत्र केचिदेवं वर्णयन्ति, पूर्वपक्षे प्राणशब्दे लक्षणा अभ्युपगन्तव्या, तथा सम्प-त्तिवाचनस्याप्यस्वारस्यमेव अप्रकृतित्वात्, नहि प्रकृतिमात्र लय उपपद्यते । किञ्च प्राणशब्दस्याब्लक्षकत्वे प्राणस्तेजसीत्युत्तर-वाक्येपि प्राणशब्दस्याऽवैरूपेण जलपरत्वये जलस्य तेजसि लय इत्यर्थः स्यात्, नचैतदयुक्तं प्रयाणकालेषु भूतलयासम्भवात् ।

4.2.3

 

किञ्च वाङ्मनसि सम्पद्यत इतिवाक्येपि मनश्शब्देन मनःप्रकृत्यहंकारलक्षणायां मुख्यसम्पत्तिसम्भव इति पूर्वपक्षस्यापि सम्भवेन तत्समाधानस्य एतदधिकरणसिद्धान्तयुकत्यापि कर्तुमशक्यत्वात्, तस्मात् श्रुतार्थस्योपपत्तिरस्तीत्येव पूवपक्षो वक्तव्यः, न तु लक्षणामादाय पूर्वपक्ष इति, तत्रैवं केचित्समादधते-प्रकृतिविकृत्योरभेदादन्नमनसोरभेदः, जलप्राणयोश्चाभेदः, ततश्चान्नस्याप् लय इत्युक्तेस्सोपपत्तिकत्वमिति मनसः प्राणलय इत्युक्तिरुपपद्यत इति पूर्वपक्षाभिप्रायः, ततश्च प्राणप्रकृतिभूता अपो निर्दिश्ये- त्यत्र भाष्ये प्रकृतिशब्दः स्वभावपरः, प्राणस्वरूपभूता अपो निर्दि#ायेत्यर्थः, ततश्च तयोरभेदादित्यर्थ उक्तो भवति, ततश्च पृथि-वीरूपस्य मनसो जलरूपे प्राणे मुख्यलय उपपद्यत इत्यभिप्रायः, परम्परया स्वकारण इति भाष्ये परम्परयेत्यस्य युक्तिपरम्परये- त्यर्थः, टीकापि तदानुगुण्येन नेया, तथाहि किं प्रकृतिविकृतिभावपरमित्यस्य किं प्रकृतिविकृतिभावप्रतिपादनमुखेनाभेदपरमि- त्यर्थः, स्वकारणं पृथिवीद्वारेणेत्यादेरयमर्थः, पृथिवीद्वारेणान्नमयस्य पृथिवीरूपतयैवान्नमयस्य स्वकारणे प्राणशब्दलक्षितासु प्राणनामप्रतिपाद्यास्वित्यर्थः, केचित्तु सम्पद्यत इत्यस्य विधिरूपत्वात् "न विधौ परश्शब्दार्थः' इति न्यायेन सम्पत्तिशब्दास्वा-रस्याश्रयणासम्भवात् सम्पत्तिशब्दस्य लय एव मुख्यत्वात् यथा कथञ्चित् तत्सम्भवे तत्त्यागस्यानुचितत्वात् प्राणशब्दस्याब्ध-लक्षणापि सोढव्या, प्राणस्तेजसीत्यत्र वैरूप्यमापतति चेत्, सोढव्यमेव, अन्यत्र दोषान्तरमापतितं सोढव्यमेव, न्यायागर्तेर्थै किं कुमर् इति पूर्वपक्षिण आशय सति वदन्दि । परे त्वित्यादि - वृत्त्युपपत्तिपरत्वे इति । वाङ्मनसिदर्शनाच्छब्दाच्चेति सूत्रे वाक्छब्दस्य वृत्तिपरत्वं, शब्दशब्दस्य शब्दोपपत्तिपरत्वमित्याश्रयणे इत्यर्थः । मनश्शब्दयोरिति - "वाङ्मनसि सम्पद्यते मनः

4.2.4

 

प्राण' सति सप्तम्यन्तप्रथमान्तमनश्शब्दयोरित्यर्थः । प्राणशब्दयोश्चेति - मनः प्राणे प्राणस्तेजसीति सप्तम्यन्तप्रथमान्तमाणशब्द-योरित्यर्थः । अहङ्कारवाचित्वमनोवाचित्वेति - वाङ्मनसीत्यत्र सप्तम्यन्तमनश्शब्दस्याहङ्कारपरत्वं वदता तदधिकरणपूर्वपक्षिणैव "मनः प्राणे' इत्यत्र प्रथमान्तमनश्शब्दस्य मनोवाचित्वं वक्तव्यम्, एवं "तन्मनः प्राण उत्तरा'दित्यधिकरणपूर्वपक्षेपि सप्तम्यन्त-प्रथमान्तशब्दयोः वैरूप्यमाश्रयणीयं, तच्चायुक्तमिति भावः, अभिमतपूर्वपक्षविरोधमेव दर्शयति । मनसोऽहङ्कारलीनत्व इति - यथा मनसः प्राणविलीनत्वे प्राणात्पृथगुत्क्रमणं विरुद्धम् । एवमहङ्कारविलीनत्वेपि विरुद्धमेव, नहि तदानीमहङ्कारस्य भूतेन्द्रियादिहेतु-भूतस्य ब्राहृाण्डावरणभूतस्य उत्क्रमणं सम्भावनापदमिति भावः ।। । ।। ।। इति मनोधिकरणम् ।।

भाष्ये-वाङ्मनसोरिति काचित्कः पाठः समासान्तविधेरनित्यत्वनिवन्धनः, तेजश्शब्देन भूतसूक्ष्मांशा विवक्षिता इति वाक्यस्या-

4.2.5

 

नन्तरम् । उपगमस्सम्बन्ध इति पाठस्समीचीनः - अन्यतरवाचिशब्दनिर्देश इति । अन्यतरमात्रवाचिशाब्दनिर्देश इत्यर्थः । भाष्ये-यमुनासागरं गच्छतीति वचो न विरुध्यते तद्वदिति, नन्वनेनैव दृष्टान्तेन प्राण उपगमनश्रुतेरेव सद्वारकत्वं किं न स्यात्, किञ्च यथा वाह्रेन्द्रियव्यापरोपरमानन्तरमपि मनोव्यापारदर्शनात् "वाङ् मनसि सम्पद्यते' इति श्रुतिः, यथा च वाह्रान्तरज्ञानो-परमानन्तरमपि श्वासादिलक्षणप्राणव्यापारदर्शनात् "मनः प्राणे' इति श्रुतिः, तथा श्वासादिप्राणव्यापारोपरमानन्तरमपि देहे क्कचिदौष्ण्यलक्षणतेजोव्यापारदशर्नात् "प्राणस्तेजसी'ति श्रुतेरपि तत्साम्येन साक्षात्तेजस्सम्पत्तिपरत्वमेव युक्तमिति चेन्न, यथा "वायोरग्निः अग्नेराषः' इति श्रवणस्य "एत्तस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इत्यस्याविरोदायाऽग्न्यादिशब्दस्वऽग्न्या-द्यवस्थपरमात्मपरत्वम्, एवमात्मोपगमश्रुत्यनुरोधाय भूतसूक्ष्मवाचितेजश्शब्दस्य तच्छरीरकजीवपरत्वेनाविरोधोपपत्तेः । किञ्च प्राणस्तेजसीति श्रुत्यनुरोधेन जीवोपगमात्प्रागेव तेजस्सम्पत्तौ "तेजः परस्यां देवताया'मिति परदेवतासम्पत्तिश्रवणात् जीवोपग- मस्य निरवकाशत्वप्रसङ्गेन क्कचिन्निवेशेऽवश्यंभाविनि सहोत्क्रमणलिङ्गानुगृहीतात्मोपगमनश्रुत्यनुरोधात् जीवसंपत्त्यनन्तरमेव तेजःसम्पत्त्युपपत्तेश्चेति भावः । अश्रुतत्वादिति पूर्वपक्षहेतुमाहुरिति - यद्यपि प्राणस्तेजसीति श्रुतेरनतिशंकयत्वात् यथाश्रुते तेज-स्येवसम्पत्तिः, अश्रुतज्जीवसम्बत्तिपरिहारकल्पनाया अन्याय्यत्वादिति परैः पूर्वपक्षयुक्तितया श्रुतिरेव वर्णिता, तथापि श्रुत्यनु-ग्राहकतया परैरश्रुतकल्पनाया अन्याय्यत्वादिति हेतुरप्युपन्यस्त इति कृत्वा तथोक्तमिति द्रष्टव्यम् । अश्रवणमात्रस्य हेतुत्वा-योगादिति - "एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति' इति प्रदेशान्तरे श्रवणे विद्यमाने श्रवणसामान्याभावस्य हेतुत्वायोगादित्यर्थः । सहावस्थानस्य श्रुतिमिति - तत्सहिततयाऽवस्थानं सहावस्थानं, तदाधारत्वेनावस्थानमिति यावत्, न तु सहावस्थानं सामानाधिकरण्यमिति मन्तव्यम् । परैर्जीवाधिकरणकावस्थान एव स विज्ञान इत्यस्य प्रमाणीकरणादिति द्रष्टव्यम् ।। । ।। ।। इत्यध्यक्षाधिकरणम् ।।

इति प्राप्त उच्यते-भूतेषु-इति । भूतेषु संपद्यते, कुतः? तच्छØतेः "पृथिवीमय आपोमयः तेजोमयः' इति जीवस्य सञ्चरतः सर्वभूतमयत्वश्रुतेः ।। 5 ।।

ननु तेजःप्रभृतिष्वेकैकस्मिन् क्रमेण संपत्तावपि "पृथिवीमयः' इत्यादिका श्रुतिरुपपद्यते, अत आह -

4.2.6

 

व्याख्यातं त्र्यात्मकत्वादितीति - त्र्यात्मकत्वात्तुच भूयस्त्वादिति पाठः, शाङ्करभाष्ये तथा दर्शनादिति द्रष्टव्यम्, अण्व्यो मात्रास्सूक्ष्माः दशार्धानां-पञ्चाचामित्यर्थः । जीवसहितप्राणेति - ततश्च सः प्राणसंपृक्ताध्यक्ष इति परव्याख्यानमनुपपन्नमिति

4.2.7

 

भावः । तत्र च व्युदसनीयेति - स्फुणटसूत्रार्थव्युदसनीयशङ्काया एव पूर्वपक्षस्योचितत्वादिति भावः । पुनस्सम्भवविषयतयेति - "अण्व्यो मात्रा विनाशिन्य' इति स्मृतेश्च "महदाद्य विशेषान्ताः' इति स्वोदाह्मतस्मृतेश्च, वैषम्यमनुपूर्वश इति पुनस्सम्भवप्रति-पादकपदसम्भवासम्भवाभ्यामिति द्रष्टव्यम् ।। । ।। ।। इति भूताधिकरणं ।।

विनाशरूपं प्राप्यते, तदुच्यते "यदा सर्वे प्रमुच्यन्ते' इति चोपासनवेलायां यो ब्राहृानुभवस्तद्विषयमित्य- भिप्रायः ।। 7 ।।

4.2.12

 

वस्तुसामथ्र्यादिति पूर्वेणान्वयः, स्थूलशरीरस्योष्मा सर्वात्रिक इति ग्रन्थस्थानन्तरं सूक्ष्मदेहस्य र्सावत्रिकत्वादिति शेषोऽध्या- हर्तव्यः-इति "सन्तापयति खं देहमापादतलमस्तकम्' इत्यग्निशिखाप्रयुक्तः स्थूलशरीरे आपादतलमभिव्याप्तः सन्तापशब्दित ऊष्मा सूक्ष्मशरीरसार्वत्रिकत्वनिबन्धनः, न तु स्थूलशरीरत्वनिबन्धन इत्यर्थः । अग्निशिखायाः क्रमेणोपसंहियमाणत्वादिति - न च अग्निशिखायाः क्काचित्कत्वादेवोष्मणः क्काचित्कत्वोपत्तेर्नतस्य सूक्ष्मशरीरक्काचित्कत्वनिबन्धनत्वमिति वाच्यं, अग्निशि-खाक्काचित्कत्वस्यापि सूक्ष्मशरीरक्काचित्कत्वनिबन्धनत्वादित्यभिप्रायः, यद्वा भूतसूक्ष्मान्तर्गततेर्जोशातिरिक्ताग्निशिखाया अभा-वादिति भावः ।। । ।। ह्मदयान्निष्क्रामतीत्यर्थ इति - निष्कमितुमुद्युक्त इत्यर्थः, एतदपि फलितार्थकथनम्, "अथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्रास्समभ्याददानो ह्मदयमेवान्वपाक्रामति' इत्युक्तत्वात् "तस्य हैतस्थ ह्मदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्कामती'ति पठ¬ते, अत एतत्सन्दर्भानुसारात्

निर्गममार्गापरिज्ञानेनांतह्र्मदय एव परिभ्रमति, पश्चाद्वदयाग्रं प्रद्योते तेनैष आत्मा निष्कामतीत्येवार्थः, तस्यैव स्वरसतः प्रतीतेः-इति द्रष्टव्यम् । केचित्तु ह्मदयाग्रपद्योतनं ह्मदयैकदेशान्निष्कान्तस्य

4.2.12

 

मार्गप्रदर्शनायोपयुज्यते, अतो यथाश्रुतार्थेपि नानुपपत्तिरित्याहुः, तेन प्रद्योतेनेत्यादिवाक्यस्येत्यादिचोद्यस्याऽयमर्थः- उत्क्रान्तेर-विद्वन्मात्रविषयत्वे अर्चिरादिगतिरपि विदुषो न प्रसजेत्, अत उत्क्रान्तिवचनस्याविद्वन्मात्रविषयत्वमिति वक्तं न शक्यत इति, तस्मादविदुष इत्युक्तमिति शेषः । सिद्धान्ते तु विद्वद्विषयमेवेदमिति - एवकारो भिन्नक्रमः, इदमेव वाक्यं विद्वद्विषयं अविद्वद्विषयमपि भवतीत्यर्थः, मूध्र्न इत्यस्य विद्वद्विषयत्वेन पूर्वं व्याख्यातत्वात्, ननु ह्मदयप्रद्योतनस्य सर्वसाधारण्ये तदोका-ग्रज्वलनमित्यत्र भाष्ये अप्रज्वलनस्य विद्यासामथ्र्यलब्धहार्दानुग्रहाधीनत्वप्रतिपादनात् तद्विरोध इति चेत्, शताधिकनाडीवि-वेचकज्वलनविशेषस्य तदधीनत्वपरत्वप्रतिपादनपरतया विरोधाभावादिति भावः । इत्यत्रार्थपुत्रवित्तविषयेषणात्रयराहित्यं विवक्षितमिति - अत्रार्थशब्दः स्वर्गादिलोकपरः, "ते ह स्म पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थाया' इति श्रुतेः, भाष्ये-अपपुनर्मृत्यंक्षयतीति विद्वांसं प्रस्तुत्येति संसारतरणरूपफलकीर्तनस्य विद्वद्विषयत्वावक्षयंभावात् विद्वांसमित्युक्तम् । षष्ठया

4.2.13

 

अपादानवाचकत्वाञ्चेति - अपादानरूपसम्बन्धस्य शेषत्वेन विवक्षासम्भवादिति भावः । अग्नेरषां भक्षकत्वानुसन्धानमिति - "अग्निर्वैभृस्युः सोऽपामन्नम्' इति अपामग्न्यन्नत्वोपासनमुकत्वा विहितस्य फलमुच्यते, "अपपुनर्मृत्युञ्जयति' इति भावः । परे त्वि-त्यादि - सगुणविदुषश्चेति । सगुणब्राहृोपासकस्येत्यर्थः, द्वितीयेति योगविभागात्समासः, असामवेदविदुषः'-"विशेषविदुष-श्शास्त्रम्' इत्यादिरामायणमाधकाव्यप्रयोगदर्शनात्, तेन विद्वच्छब्दस्य शत्रन्ततया "न लोकाव्यये'ति कृद्योगषष्ठ¬ा निषेधात् शेषलक्षणषष्ठयाश्च सुरणगुणेति सता योगे षष्ठी ततः समस्यत इति षष्ठीसमासनिषेधात्, सगुणं विद्वानीति द्वितीयापक्ष सामस-

4.2.13

 

प्राप्त्यम्भवात्, नैवं निर्देशो युक्त इति चोच्चं निरस्तं, सुष्सुषेति वा समासात् साधुरिति । केचित्, गत्यादिपाठदर्शनात् "द्वितीया-समास' इति माधव्याख्याने मल्लिनार्थेनोक्तं, तदपि ग्राह्रमेव - इयं च तेषां सूत्रयोजनेति । "सूक्ष्मं प्रमाणतः-इति सूत्रयोजनेत्यर्थः, तदापीतेरिति पूवर्सूत्रयोजनायान्तु योजनांशे अत्यन्तदूष्याभावात् तदकथनं न दोषः । नाडीनिष्क्रमणश्रुतिरूपप्रमाणादिति - यद्यपि परभाष्ये प्रमाणत इत्यस् परिमाणत इत्यर्थः प्रतीयते, एवं हि तद्याख्यानं, तल्लिङ्गशरीरं स्वरूपतः परिमाणत्च सूक्ष्मं, स्व- रूपतः सौक्ष्म्य नायनस्य महतस्तेजस इव, भ्रसरेणारिव च परिमाणतः सौक्ष्म्यस, तथ परिमाणतस्सौक्ष्म्#ात् नाडीसञ्चारो- पपत्तिः, स्वरूपतस्सौक्ष्म्#ात् अप्रतिपातपाश्र्वस्थानुपलम्भोपपत्तिरिति, तथापि प्रमाणपरत्वारस्यादियधपि सौक्ष्ना प्रतीयते इति

4.2.13

 

तथोक्तमिति द्रष्टव्यम्, मृतत्वाभावाशङ्का शमयितुमिति पाठः, अर्चिरादिगत्युपपत्त्यर्थमिति छेदः । अतद्विषयत्वादनुदाहायर्मिति

4.2.14

 

न च प्रद्यत इति पदं गन्तव्यं, न विद्यते पदं यस्य सोऽपद इत्येवं युक्तस्य गन्तव्यरहितत्वप्रतिपादनात् कथं तस्य नोदाहर्तव्यत्व- मिति शंख्यम्, पदशब्दस्य इन्द्रादिस्थंनवाचित्वात् ।। । ।। ।। इति आसृत्युपक्राधिकरणम् ।।

यथाकर्म यथाविद्यमिति यथाकर्मेत्यत्र "नश्च नपुंसकादन्यतरस्यातम्' इति टजभावे रूपम् ।। । ।। ननु "वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि' इति वाक्यत्रयार्थे क्रमेण "नैकस्मिन्दर्शयतो हि' इत्यन्तसूत्रैर्विचारिते तेजः परस्या'मिति

चतुर्थवाक्यार्थ-

इति प्राप्त उच्यत-तानि परे-इति । तानि परस्मिन्नात्मनि सम्पद्यते; कुतः? तथा ह्राह श्रुतिः तेजः परस्यां देवतायाम्' इति । यथाह श्रुतिस्तदनुगुणं कार्यं कल्प्यमित्यर्थः । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदुःखोपभोगायासविश्रमः; तद्वदिहापि ।। 14 ।। ।। परसम्पत्त्यधिकरणं समाप्तम् ।।

4.2.15

 

चतुष्टयस्यापि विद्वदविद्वत्साधारण्यनिर्णायकस्यारम्भ उचितः, न तु मध्य इत्याशङ्कय "समाना चासृत्युपक्रमा'#िदिति विद्वदवि-द्वत्समानत्वनिर्णयस्य सूत्र कृता समानविषयत्वसंशयास्पदमात्र एत्त कर्तुं युक्ततया तेजः परस्था देवताया'मिति वाक्यार्थस्य समा-नत्वसंशयानास्पदत्वात् तत्साधारण्येन कर्तुमयुक्तत्वमभिप्रेत्य चतुर्थवाक्यार्थनिर्णायकाधिकरणाभ्यां प्रागेव समाना चे'त्यधि- करणं निवेशितमिति परिहरति - पूर्व समाना चेत्यादि ।। । ।। ।। इति परसम्पत्यधिकरणम् ।।

उक्तमेवार्थं दृष्टान्तान्तरप्रदर्शनेन विवृणोति - यथा च कब्चुकोष्णीषवत इत्यादिना । तद्रहितस्य च विश्रम इति - तद्राहित्य-दशायां विश्रम, इत्यर्थः । सुषुप्तौ जीवमात्रस्येति -न तु प्रलयोत्क्रान्त्योरिव स्थूलसूक्ष्मविशिष्टस्य जीवस्येति भावः । शङ्कते - विशेष्याशस्येति । सुषुप्तिवदिति भावः । "गताः कलाः पञ्चदशं प्रतिष्ठाः' इति प्राणशब्दोदितानीद्रिषाणि देशः, मन एकं सूक्ष्माणि

4.2.15

 

भूतानि पञ्चेति षोडशकलास्सन्दि, तत्र ध्राणस्य पृथिवीविकारत्वान्मनसोपि "अन्नमयं सोम्य मन' इति पृथिवीविकारत्वात् द्वयोरप्येकीकरणेन पञ्चदशत्वोक्तिरिष्युपपद्यते, प्रतिष्ठाः स्वखोपादानानि इति अवयवेषु वा अज्ञाने वा लयोक्तिवदसङ्गतेय- मुक्तिः, किञ्च परैरेवमनुक्तञ्च, अतो नायम्पाठ इति चोदयन्ति, तान्प्रतिवदामः, अन्तःकरणादिना जीवाविद्यामात्रकार्यत्वपक्षे तत्त्वज्ञानेन जीवाविद्याया उन्मूलिततया स्वकारणेषु लयासम्भवेति ईश्वराश्रितमायापरिणाममहाभूतोपसृष्टजर्वाविद्याकार्यत्वपक्षे तत्त्वज्ञानेन जीवांशस्य नाशेपि उपष्टम्भीभूतमहाभूतांशस्य सत्त्वेन तत्रान्तःकरणादिकलैकदेशस्य लयसम्भवात्, तन्तुद्वयारब्ध- पटस्य एकतन्तुनाशे तन्त्वन्तरे लयदृष्टेः परग्रन्थेषु तथा समर्थितत्वाच्च न यथानुवादः, नच उत्तराधिकरणे कलाप्रलयस्य निर-वशेषत्वसमर्थनात् तद्विरोधः स्यादिति वाच्यभूत जीवाविद्याकर्यांश एव निरवशेषलय इतिपादनपरत्वेन विरोधाभावात् । प्रथम इति - अधिकरणे इतिशेषः । भिद्यते चासां नामरूपे इति - आसां कलानां नामरूपे शकत्यात्मके अपि भिद्येते-विदीयेते इत्यर्थः । अविद्वद्दृष्टयाप्यनवगतत्वादिति - तेषामदृश्यत्वेन श्रुत्येकसमधिगम्यस्याऽथस्र्य विदुषा उत्प्रेक्षितुमशक्यत्वादिति भावः ।

4.2.15

 

प्राकृतप्रलयविषयतया वार्थवत्त्वादिति - यद्यप्यात्मज्ञानेन कलाप्रलयं प्रतिपाद्य हि "भिद्येते चासां नामरूपे पुरुषे' इत्येवं प्रोच्यते स एषोऽकलोऽमृतोभवती'तिश्रुतस्यन सर्वसाधारणप्राकृतप्रलयपरत्वं सम्भवति, तथापि देवमनुष्यादिनामरूपविषयतयार्थवत्तया पूर्वदूषण एव तात्पर्यमिति द्रष्टव्यम् । ईश्वरांशस्य निमित्तकारणत्वादिति - तन्मत इति शेषः ।। । ।।

।। इति अविभागाधिकरणं ।।

4.2.18

 

उद्धृताग्नौ प्रदेश इति - उद्धृत्रोग्निर्यस्मात्प्रदेशादिति बहुव्रीहिः,भाष्ये-अमुष्यादादित्यादिति, प्रतायन्ते-सन्तता अवन्ति, आदि-त्यान्निसृता नाडीषु सम्बद्धाः नाडीभ्यो निसृताः, सन्तानभूताः सत्यः आदित्ये सम्बद्धा इति वाक्यार्थः ।। । ।।

।। इति रश्म्यनुसाराधिकरणम् ।।

णयोः प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम् । अतो निशि मरणमधोगतिहेतुत्वान्न ब्राहृ-प्राप्तिहेतुरिति चेत्-तन्न विदुषः कर्मसम्बन्धस्य यावद्देहभावित्वात् । एतदुक्तं भवति-अनारब्धकार्याणामधो-गतिहेतुभूतानां कर्मणां विद्यासम्बन्धेनैव

विनाशादुत्तरेषां चाश्लेषात्प्रारब्धकार्यस्य च चरमदेहावधित्वा-द्वन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्राहृप्राप्तिः सिद्धैव । दर्शयति च श्रुतिः "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' इति । "दिवा च शुक्लपक्षश्च' सत्यादिवचनमविद्वद्विषयम् ।। 18 ।।


।। निशाधिकरणं समाप्तम् ।।

4.2.18

 

तर्हि निशि मृतस्येति - रश्म्यनुसारेणेति शेषः, इष्टापत्तिमाशङ्क्याह - तस्य रविरश्म्यनपेक्षत्व इति । निशि ब्राहृगमनस्य रविरश्म्यनपेक्षत्व इत्यर्थः । विद्यानिष्पत्यभावनिबन्धनत्वाश्रयणेनेति - अयम्भावः-विद्याया निशि मृतविषये न सर्वदा फला-जनकत्वं पूर्वपक्षिणोऽभिमतं येन विद्यायाः पाक्षिकफलत्वं नास्ति, अप्रारब्धकर्मभिर्वा प्रारब्धकर्मभिरेव वा शरीरान्तरव्यवधाने- नेति हि पूर्वपक्ष्यभिप्रायः, अतो न पाक्षिकफलत्वप्रसङ्ग इति नन्वेवं चरमत्वमेव नासातीति पूर्वपक्षे सिद्धान्तमाष्ये प्रारब्धकार्यस्य कर्मणः चरमदेहावधित्वादिति देहस्य चारम्य सिद्धवत्कृत्य परिहारो न सङ्कच्छेतेति चेत्-चरमदेहावधित्वादिति भाष्यस्याऽयमर्थः-पलभूतदेहावधित्वादस्य कर्मणः, इयन्ति शरीराणि फलभूतानीति नियमसत्त्वेन तावद्देहाधिकदेहनिष्पादनासामत्र्यादिति, अथ- मेव यावद्देहभावित्वादिति सूत्रखण्डाभिप्रेतार्थ इति द्रष्टव्यम् । तस्य तु प्रतिज्ञायामिति - रश्म्यनुसारीति प्रतिज्ञायामित्यर्थः ।

4.2.19

 

अन्यथा अपेक्षिताथान्तरप्रतिज्ञाया इति - निशि मृतस्य मुक्तिस्सम्भवतीत्यर्थान्तरप्रतिज्ञाया यावद्देहमावित्वादिति #िहेतोश्वे- त्यर्थः ।। । ।। ।। इति निशाधिकरणम् ।।

धूमादिमार्गलिङ्गाभावादिति - दक्षिणायानमृतानांअनन्यथासिद्धधूषादिप्राषकप्रमाणभावादित्यर्थःल भाष्ये तत्पर्यवैतीति, यदा

4.2.20

 

तत्पर्यवैतीति यदा-यस्मिन्काले, तत् सोमलोकप्रापकं पुण्यं, पर्यवैति परिक्र्षीयत, इत्यर्थः परैर्वर्णितः ।। । ।। ननु "नैते सृती पार्थ । जानन' इति उपसंहारानुसारेण "यत्र काले त्वनावत्तिम् इत्युपक्रमो बाध्यते-इत्येतावति वक्तव्ये मध्ये #्रअग्निज्र्योति' इत्यादिवचनं भाष्ये अयुक्तमित्याशङ्कय उपक्रमस्य उपसंहारमात्रेण अन्यथानयनासम्भवात् महावाक्यस्वारस्येन बाध्यत्वं वक्तुं मध्यमवाक्यस्यापि उपक्रमविरोधं दर्शयतीत्याह - यत्र काले त्वतीति । य उपक्रमः स बाध्यत इत्यभिप्रायेणेत्यन्वयः न तु तत्प्रतीकग्रहणमिति मन्त- व्यम् । चतुर्विधेति - अर्तो जिमासुरर्थाथा मानी च भरतर्षभ' इत्युक्तचर्तुविधिति द्रष्टव्यम्, ततश्च "यत्र काले त्वनावृत्तिमावृत्तिञ्चैव

4.2.20

 

योगिनः' इत्यावृत्तिप्रतिपादकवचनमुपपद्यत इति भावः, यत्र काले त्वनावृत्तिमित्यस्य यैरातिवाहिकैर्नीयमानस्याऽऽवृत्तिरितिफलि-तोर्थः ।। । ।। ।। दक्षिणायनाधिकरणम् ।।

।। इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिका-

व्याख्यायां भावप्रकाशिकायां चतुथस्र्याध्यायस्य द्वितीयः पादः ।।

समाप्तश्चाष्यायः ।

समुदिताधिकरणसङ्ख्या -142- समुदितसूत्रसङ्ख्या - 507 ।



4.3.1

 

शव्यं शवयोग्यमिति - साध्यर्थे यत्, तस्मै स तत्र परिजिहीत-इति त्वावायवान् विगमय्य छिद्रं करोति, यथा रथचक्रस्य छिद्रमित्यर्थः । निरन्ध्रं तथा मार्गमावृत्व स्थितो वायुः स्वावयवप्रहाणे रथचक्रप्रमाणं छिद्ररूपं मार्गं ददातीत्यर्थः । अन्यत्रेति

उत तस्मादन्येऽन्यत्र मार्गा इति तैर्वाऽनेन वेत्यनियमः-इति । किं युक्तम्? अनियम इति । कुतः? अनेक-रूपत्वान्नैरपेक्ष्याच्चेति ।।

एवं प्राप्ते अभिधीयते-अर्चिरादिनेति । अर्चिरादिरेक एव मार्गः सर्वत्र प्रतिपाद्यते, अतोऽर्चिरादिनैव गच्छति । कुतः? तत्प्रथितेः- तस्यैव सर्वत्र प्रथितेः । प्रथितिः-प्रसिद्धिः, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थः । प्रत्यभिज्ञानात्स एव मार्गः सर्वत्र न्यूनाधिकभावेन प्रतिपाद्यत इति विद्यागुणोपसंहारवदन्यत्र उक्तानामन्य-त्रोपसंहारः क्रियेत । छान्दोग्ये तावदुपकोशलविद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते; वाजसनेयके च पञ्चाग्निविद्यायां तथैवार्चिरादिरल्पान्तर आम्नायते, अतस्तत्रापि स एवेति प्रतीयते । अन्यत्रापि सर्व-त्राग्न्यादित्यादयः प्रत्यभिज्ञायन्ते ।। 1 ।।

।। अर्चिराद्यधिकरणं समाप्तम् ।।

4.3.1

 

व्याख्यय पदम् । कमिभेदश्चेति - क्रमाश्रयपदार्थानां देवलोकवायुलोकादीनां प्रतिशाखम् भेदेनाऽऽम्नानादिति भावः । गुणान-त्यादुपसंहारो न शक्यत इतीति - इदमुपलक्षणम्, भदकाकारस्यापि सम्बन्धादेवमन्यत्रापि' इत्येवामादिषु दर्शितत्वादित्यपि द्रष्टव्यम् । दार्विहौमिक इति - दार्वेहाय इति कर्मविशेषणां नाम ।। । ।।

।। इति अर्चिगद्यधिकरणम् ।।

4.3.2

 

श्रुत्यर्थपाठप्रवृत्तिमुख्यकाण्डाः क्रपमाणनीति - वेदं कृत्वा वेदिं करोति' इति श्रौतक्रमः, "अग्निहोत्रं जुहोति, यवामूं पचति' इत्यादौ अर्थलक्षणप्रयोजनवशात्कं, "समिधो यज्जति तनूनपातं वजति, इत्यादौ पाठक्रमेण क्रमः, "प्राजापत्येषु पशुगुणेषु नियो-जनोपकरणादिषु पूर्वपूवर्कारेण उत्तरोत्तरप्रवृतिक्रः सारस्वतौ भवतः' इति विहितयोः सरस्वतीदैवत्यसरस्वद्दैवत्ययोः मुख्ययोः क्रमानुरोधेन तदङ्गभूतानां निर्वापादीनां क्रमः, काण्डक्रमो हि स्थानक्रमः, यथा साद्यस्के "सह पशूनालभते, इति सहकर्तव्यत्वेन चोदितानामग्नीषोमीयसवनीयानूबन्ध्यानां मध्ये सवनीयस्य स्तानभ्रंशाभावेन तस्यैव पूर्वभावित्वमिति द्रष्टव्यम् । पञ्चम्यभिहितं संवत्सरदेवलोकयोर्मासादूध्र्वत्वमिति - "मासेभ्यस्संवत्सरं भासेभ्यो देवलोक' मिति पञ्चम्यारध्याह्मतोध्र्वशब्दरूपदिक्छब्ध-योगनिमित्तत्वात् पञ्चमीनिमित्तदिक्छब्द एव पञ्चमीशब्देनोपचरित इति द्रष्टव्यम् ननु नेयं पञ्चमी उध्र्वादिति दिक्छब्दयोगनिसिमता,

4.3.2

 

अपि तेऽर्चिषमभिसम्भवन्ति' इति अनुषक्ताभिसम्भवनक्रियापादानत्वप्रयुक्ता, अतो नाध्याह्मतोध्र्वशब्दमादायोद्र्वत्वस्य श्रुतत्व-निर्वाहः । किञ्च कत्वाश्रुत्यादेः क्रियामौर्वापर्यलक्षणक्रमार्थकत्वात् पञ्चम्या उध्र्वाधरक्रमे पौर्वापर्यक्रमे वा नानुशासनमस्ति, येनो-ध्र्वत्वस्य श्रौतत्वं स्यादिति चेन्न, अभिसम्भवनक्रियाया अपादाननिरपेक्षत्वेन "तेनोध्र्वमाक्रमते' इति श्रुत्यन्तरानुसारेण च उध्र्वशब्दस्यैव अध्याहर्तव्यतया उध्र्वत्वस्य श्रौतत्वसम्भवादिति तात्पर्यात् ।यद्यपि च "मासेभ्यो देवलोक' मित्यादावभि-सम्भवनक्रियोपेक्षया अपादानपञ्चमी, तथापि देवलोकोद्यभिसम्भवनक्रियां प्रति नियतपूर्वसत्वरूपकारकंविशेषत्वलक्षणापादान- त्वस्य पञ्चम्य्राभिधाने क्रियाकारकलक्षणपौर्वापर्यरूपः क्रमोऽभिहितो भवति, ततश्च मासापादानकाभिसम्भवनक्रियाकर्मत्वे संवत्सरदेवलोकयोः कथ्यमाने मासादूध्र्वत्वं संवत्सरदेवलोकयोरर्थात्सिध्यतीत्यभिप्रेत्य ऊध्र्वत्वस्य श्रौतत्वमभिहितमिति द्रष्टव्यम्, एवमुत्तरत्रापि द्रष्टव्यम् । यद्वा आतिवाहिकत्वापेषां हेदुपञ्चमीत्वपक्षे तेषां पूर्वसत्त्वरूपं हेतुत्वं श्रुत्युक्तमिति द्रष्टव्यम् । हेतौ कथ-मर्चिरादौ पञ्चमी प्राप्नोति "विभाषागुणेऽस्त्रियाम्' इति पञ्चमी गुण हेतावस्त्रीलिङ्गे विहिता, यथा जाड¬न ज्जाड¬ाद्वा बद्ध इतीति चेत्, अत्र

केचित समादधते, नात्र "सत्त्वे निविशतेऽपैति' इति लक्षितस्य पारिभाषिकस्य गुणस्य ग्रहणम्, अपितु पराश्रित- मात्रस्य ग्रहणम्, तेनार्चिष इत्यादौ हेतौ पञ्चमीसिद्धेति तदतिमन्दम्, यद्यपि परतत्रस्य गुणस्य ग्रहणम् तथापि नात्र पञ्चमी प्राप्नोति, अर्चिरादीना विशेष्यतया स्वतन्त्रत्वेन पराश्रितत्वभावात् गुणत्वाभावात्, यस्य गुणस्य हि भावादित्यत्र गुणशब्देन यावान् पराश्रयविशेषणभूतो द्रव्यादन्यो जात्यादिरर्थोस्ति, स सर्वोपि गृह्रत इत्युक्तप्रकाराश्रयणेपि अर्चिदानीनं विपतीतत्वेन गुणत्वाप्रसक्तेः, सत्यपि च गुणत्वे अर्चिष इत्यत्र पञ्चमी नानेन प्राप्नोति "अस्त्रिया'मिति प्रतिषेधात्, अर्चिश्शब्दस्य "इसुसन्तः । अर्चिः स्त्रियां च' इति सूत्रेण स्त्रीनपुंसकयोरनुशासनात् पुÏल्लगता नास्त्येव, अत्रत्यार्चिश्शब्द स्त्रीलिङ्ग एव "तेऽर्चिषमभिसम्भ- वन्ति' इति पूर्वत्र निर्देशात्, नपुंसकलिङ्गे तु अर्चिरित्येव द्वितीयैकवचने रूपं स्यात्, अतः स्त्रीलिङ्गः एवार्चिश्शब्द इति "अस्त्रिया'मिति प्रतिषेधः स्यादेव, नहि परतन्त्रमात्रस्य गुणस्य ग्रहणम्, अपि तु पारिभाषिकस्यैव तदनुरूपत्वेन वृत्यादा-वुदाहरणप्रत्युदाहरणयोर्दशिर्तत्वात्, यद्यपि यस्य गुणस्य हि भावादित्यत्र पराश्रितस्य भेदकजात्यादेः गुणशब्देन ग्रहणमिति स्थितम्, लोके उपसजर्नं गुण उच्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकास्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रति- पन्नाः, तथापि इह शास्त्रे "सत्त्वे निविशते' इत्यादिपरिभाषितस्य गुणस्य ग्रहणम्, यथा वा "वोतो गुणवचनात्' इत्यत्र कृत्रि-माकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति न्यायात्, तस्मेदवमत्र परिहारः "विभाषा गुणेऽस्त्रिया' मित्यत्र विभाषेति योगविभागात् गुणवचनादपि हेतोः स्त्रियामपि क्कचित्पञ्चमी भवति, तेन नास्तीह घटः, अनुपलब्धेः, वहिमान् धूमात्-इत्यादयः प्रयोगा अप्युपपन्ना इत्यलमतिक्षोदेन, - अन्यत्रेति । वृहदारण्यक एव अदेशान्तर इत्यर्थः । वायोरादित्यात्पूर्वत्वं प्रातिपदिकाभिहित- मिति - इदमुपलक्षणम्, तेन "स उध्र्वमाक्रमते स आदित्यमागच्छति' इति वायुदत्तमार्यस्याप्राप्तौ तृतीयया करणत्वश्रवणात्,

4.3.2

 

नचोध्र्वदेशाक्रमणमात्रे वायुदत्तमार्गस्य करणत्वं श्रुतं, नत्वादत्यमण्डलाक्रमण इति वाच्यम्, उध्र्वदेशस्य विशेषाकांशायाम् आदित्यमण्डलरूपविशेषपर्यवसानादिति द्रष्टव्यम् । अनन्तरं वायुरितीति - "देवयानं पन्थानमापद्याभिलोकमागच्छति स चायुलोक'मिति पाठक्रमात् अर्चिरनन्तरमेव वायोनिर्वेश इति पूर्वः पक्षः, "स वायुमागच्छति तस्मै स तत्र परिजिहीते' इति वायुप्रदेन मार्गेण आदित्यगमनश्रवणात् कौषीतकिपाठक्रमं बाधित्वा आदित्यात्पूर्व वायोर्निवेश इति सिद्धान्तः, सूत्रमप्यादि- त्यात्पूर्वं वायोर्निवेशपरम्, नत्वब्दानन्तर्यपरमिति वदन्तीति भावः ।। । ।।

।। इति वाय्वधिकरणम् ।।

4.3.3

 

भाष्ये-अग्नित्वोकशब्दस्यार्चिःपर्यायत्वेनेति, अर्चिश्शब्देन ज्वालावाचित्यं तदात्मकोऽग्निरुच्यते उपचारादिनेति भावः, नन्वत्र "इसुसोस्सामथ्र्ये नित्यं समासेऽनुत्तरपदस्थस्य' इति षत्वप्राप्त्या अर्चिष्पर्यात्वेनेति भवितव्यम्,, यथा- सपिष्र्कुण्डिका शोचि- ष्केशः-इत्यादि, अर्चिश्शुचिविसृविच्छादिभ्य इसिः' इति शोचिरादिवत् अर्चिश्शब्दोपि इसिप्रत्ययान्तरा व्युत्पादित इति चेत् अत्राभिधीयते- "अतः कृकमिकसे'त्युत्तरसूत्रे कंसग्रहणेन उणादिषु क्कचिद्वयत्पत्तिकार्यं न भवतीति ज्ञापनेन इसिप्रत्ययान्तत्वा-भावादिति वा कस्कादिषु सपिष्र्कुण्डिकेत्यादिपाठेन इदं षत्वमनित्यमिति ज्ञापनेन वा अर्चिश्शब्दस्याऽत्र शब्दस्वरूपपरतया अमुख्यत्वाद्गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति वा महत्पूर्वश्शूद्र इत्यादावात्वादिवत् षत्वं न भवतीति, एवमुत्तरत्रापि अर्चिः-प्रभृतिष्वित्यादौ द्रष्टव्यम् । तृतीयस्तु परिहार उत्तरत्र न सम्भवति, अर्थपरत्वेन तत्र मुख्यत्वादिति अर्चिष्प्रभृतिष्वित्येव बहुषु कोशेषु पाठो दृश्यते तत्र न किञ्चिद्वन्तसाध्यं "अर्चिश्शब्दस्य गौणत्वादिसश्चाप्रत्ययत्वतः । अनित्यत्वाच्च मूर्धन्यो न कृतो-ऽर्चिःपदेऽमुना' इति च संग्रहश्लोकः । भाष्ये-आदित्यस्याप्यत्रेत्यादि, अयमर्थः-पाठात्प्राप्तक्रमः पाठक्रमः, "अग्निलोकमा- गच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक'मिति पाठवशेन वायोर्वरुणस्य यः क्रमः प्राप्तः, तद्वाधेन विद्युत उपरि तेषां निवेशसमर्थनेन वाजसनेयश्रुत्यनुसारादादित्यस्य वायोरुपरि निवेशोऽस्मिन्नधिकरणे सिषाधयिषित इत्यर्थः । आशंसोयां कः, देवलोकशब्दाभिहितात् वायोरुपरि निवेशस्सिद्ध इति क्कचित्पाठः, तत्र उपरिशब्दयोगे "षष्ठयतसर्थप्रत्ययेन' इति प्राप्त षष्ठी-ततः फश्चाद् वज्जतीति महाभाष्यप्रयोयेणानित्यत्वज्ञापनात् क्कचिन्न सम्भवतीति न कतेति द्रष्टव्यम् । वायुमपेक्ष्ये-

त्यर्थविवक्षमाक्यब्क्यब्लोपे पञ्चमीति वा द्रष्टव्यम्, एवमुत्तरत्रापि - भाष्ये इदानीं वरुणेन्द्रादिष्विति, तदर्थमिति शेषः ।

4.3.3

 

क्रमद्वयभङ्गः स्यादिति - आदित्यचन्द्रयोरन्तराले चन्द्रविद्युतोरन्तराले वा निवेशे आदित्याच्चन्द्रप्रसं चन्द्रमसो वा विद्युतम्, इतिश्रौतक्रगस्य च "वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक' मिति पाठक्रमप्राप्तस्य वरुणेन्द्रप्रजापतीनामानन्तर्यस्य च भङ्गप्रसङ्गादित्यर्थः । तडिततोष्यधस्तादिति पञ्चमी पूर्ववत् द्रष्टव्या - कथं तडिदुपरि वरुणनिवेश इति । ननु कथमत्र समासः, अन्यारादिति दिग्योगलक्षणपञ्चम्याः "षष्ठयतसर्थप्रत्ययेने'ति षष्ठया बाधात् अबाधेति पञ्चम्यन्तस्य समासप्राप्त्यभावात् षष्ठीपक्षे पूरणगुणेत्यव्ययेन षष्ठयन्तस्य समासनिषेधात्, उच्यते-षष्ठीसमास एवायम्, पूरणगुणेति निषेधस्तु सत्तव्याभ्यां कृद्भ्यां साह- चर्यात् कृदन्तेनाव्ययेनैव, नान्येन, यथा कटस्य कर्तुं कटस्य कृत्वेत्यादि, तथैव वृत्त्यादावुदाह्मतत्वात्, अकृदन्ताव्यययोगे तु समासोऽस्त्येव, अत एव भगवान् पाणिनिः निरदिशत् "अनुर्यत्समया'इति, व्याख्यातं च वृत्तिकारादिभिः यस्य समया यत्स- मयेति, उपायान्तरमप्यस्तीति तद्वयाख्यातृभिरन्यथा पयिह्मतः, अनित्यश्चायं समासप्रतिषेध इति पूर्वमसकृदुपपादितम् "शिष्ट-प्रयोगबाहुल्यात् कृदन्ताव्ययसंग्रहात् । अनित्यत्वाच्च, तस्यैव निर्देशास्साधनो मताः' ।अर्थकमस्य पाठप्रमादिति - मेधोदर-वर्तित्वलक्षणसामथ्र्यरूपार्थक्रमस्येत्यर्थः । तडितो गमयितृत्वाव्यवधानायेति -ततश्चन्द्रमसो विद्युतमिति औतक्रमभङ्गाङ्ग्रपि सोढव्य इति भावः । तथासतीन्द्रप्रजापत्योर्यश्रापाठमिति - फस वरुणलोकं स इन्द्रलोकं स प्रजापतिलोक'मिति पाठानुसारेण त्रयाणामव्यवधानसिध्यर्थं तडितः पूर्वं त्रयाणां नि#ेर्दशऽङ्गीकियमाणे मेधोदरवर्तित्वरूपाथक्र्रमभङ्गप्रसङ्गादित्यर्थः । तडिदानन्तर्य इति - वरुणानन्तरं तडित् तत इन्द्रप्रजापती इत्यभ्युपगम्यमाने कौषीतकिपाठसिद्धस्य वरुणेन्द्रप्रजापतीनां क्रमस्य भङ्गप्रसङ्गा-दित्यर्थः । अतः क्कचित्कोशेषु "स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं सा प्रजापतिलोक'मिति वरुणेन्द्रलोकयोर्मध्ये आदि-त्यलोकपाठो दृश्यते, स तु न प्रामाणिकः, केषुचित्कोशेषु तथा अनुदाह्मतत्वात्, अस्यैव श्रुतप्रकाशिकाग्रन्थस्य साक्षित्वाच्च, तथाहि पाठे सति एतदधिकरणपूर्वपक्षसिद्धान्तयोः असङ्गतिप्रसङ्गाच्च, तथाहि यदि वरुणलोकानन्तरमादित्यः पठितः स्यात्, तर्हि-

4.3.4

 

वरुणेन्द्रप्रजापतीनां त्रयाणामप्यादित्यात् पूर्वत्वमिति पूर्वपक्षस्य कथमुत्थितिः, अत्रहि वायुलोकं वरुणलोकमिति पाठक्रममव- लम्ब्य वायुलोकानन्तर्थं वरुणलोकस्य वदन् पूर्वपक्षी कथं तुरगारूढस्य तुस्गविस्मरणन्यायेन वायुलोकादित्यलोकयोः पाठप्राप्तं क्रमं चानादृत्या त्रयाणामादित्यात्र्पूवं निवेश इत्याक्षिपेत् , न च वाय्वादित्ययोरानन्तर्यस्य बाधितत्वात् तत्रैव निवेशनीयानां निवेश इति वाच्यम्, "आदित्याच्छन्द्रमस' इति क्रमस्य इन्द्रप्रजापतिभ्यां बाधितत्वात्, वरुणस्यापि तत्रैव निवेशःकिं न स्या- दित्यपि वक्तुं सुशकत्वात्, किञ्च नह्रानन्तर्यं स्वरसप्रतिपन्नं, केनचित् प्रामाणिकेनापोदितं चेत् अतथाभूतेनापि शक्यते अपव- दितुम्, तदपि प्रामाणिकमिति चेत्-तर्हि पाठक्रमानुग्रहायादित्यानन्तरमेव तर्योर्निर्देशोस्तु, आदित्याच्चन्द्रमसमिति शब्दस्वरस-प्रतिपन्नमप्यानन्तर्यमपि बाध्यताम्, वायुलोकादादित्यमिति प्रतिपन्नस्य वाय्वादित्यक्रमस्य पाठक्रमेण बाधवत्, इतरथा वरुण-लोकानन्तरमिन्द्रलोकात् पूर्वमादित्यलोकपाठस्य निरालम्बनत्व प्रसङ्गात्, अत एव पूर्वतंत्रे अग्नौ सावित्रहोमादिवैशेषिकानुष्ठा-नान्तरमेव दीक्षणीयाया अनुष्ठानं सावित्रहोमादिपाठानन्तरं दीक्षणीयागुणविधानार्थस्याप्यनुवादस्य दर्शनात्, इतरथा तत्र तत्पाठस्य अत्यन्तानर्थक्यप्रसङ्गादित्युक्तं पञ्चमे, अतो वरुणलोकेन्द्रलोकर्योध्ये नादित्यलोकपाठः कौषीतक्यां युक्तः, नचै-वमुत्तराधिकरणयादवप्रकाशमतदूषणग्रन्थविरोध इति वाच्यं, यादवप्रकाशैः तथा पाठस्य कल्पिततया पराभ्युगममादायैव परो दूषणीय इति न्यायात् उपपत्तेरिति युक्तमुत्पश्यामः । परे तु-आदित्याच्चन्द्रमसमिति श्रौत्रक्रमबाधापेक्षया "स आदित्यलोकं स इन्द्रलोक'मिति पाठक्रमबाधस्यैव युक्तत्वात्, वायुलोकादित्यलोकयोरानम्तर्यस्थ व्यवधानसहत्वाच्च त्रयाणामप्यादित्यात्र्पूवं निवेश इति पूर्वपक्षो युक्त एव । अत एव ज्जातेष्टौ पुत्रजननरूपनिमित्तानन्तर्यस्य निमित्तश्रुतिप्राप्तस्य स्तनप्राशनोत्कर्षद्वारा पुत्रविपत्तिसम्पादकत्वेन प्रयोजनविरोधप्रसङ्गात् बाधितत्वे सति जातकर्मानन्तरमपि न जातेष्टयनुष्ठानं, निमिवस्वरसानन्तर्यस्य बाधितत्वात्, तत आशौचापगमे पर्वकाले च प्राप्ते कर्तव्यमिति चतुर्थे सत्त्वात् तन्नयायेन बाधितस्य वायुलोकादित्यलोकानन्त- र्यस्य

बाधितत्वादेव निवेशसाकाङ्क्षाणां तत्रैव निवेशो युक्त इति पूर्वपक्षस्य युक्तत्वात् । न च त्रयाणामप्यादित्यात्परत एव निवेश इति पूर्वपक्षः किं न स्यादिति वाच्यं, न्यायसाम्येन तस्यापीष्टत्वात्, वायुलोकं वरुणलोकं आदित्यलोकमिति प्रथमनुतप्राठक्रम-परित्यागेन चरमश्रुतस्य "स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोक'मिति पाठक्रमानुग्रहस्य अन्याय्यत्वाच्च, तस्मात् त्रया- णां चादित्यात्पूर्वं निवेश इति युक्त एव पूर्वः पक्षः । सर्वकोशेषु दृष्टस्य वरुणेन्द्रलोकमध्ये आदित्यलोकपाठस्य यादवप्रकाशदि-भिरादृतस्याऽपलापे अतिप्रसङ्गाच्च, न च वरुणेन्द्रान्तराले आदित्यपाठस्याऽत्यन्तनिरवलम्बनत्वमिति वाच्यम्, "अग्निहोत्रं जुहोति यावगूं पचती'तिवत् बाधस्य न्यायप्राप्तत्वादिति वदन्ति ।। । ।। ।। इति वरुणाधिकरणम् ।।

4.3.4

 

भाष्ये-अमुकं च पर्वतपाश्र्वमिति, पाश्र्वशब्दस्योमयलिङ्गत्वात् पुल्लिङ्गाभिप्रायेणेत्थमुक्तं, नपुंसके तु अदकमिति स्यात्, न च "सैव हि सत्यादयः' इति सूत्रे कल्पतरौ अमुक्त फलं प्रदानसनयेत्यगृह्रमाणविशेषत्वादिति निर्देशात् अमुकमित्यप्यस्ति रूपमिति वाच्यं, तस्य व्याकरणस्मृतिविरुद्धतया अप्रामाणिकत्वात् । लोकशब्दवाच्यत्वमुक्तं स्यादिति - ततश्च स्तुतितया पर्यवस्यत् मुख्यस्य कालविशेषस्य भोगभूमित्वासम्भवादिति भावः । लोकत्वसाधकहेतुरर्थसिद्ध इति - विजिहीर्षते इति विहरणेच्छाप्रति-पादनादिति भावः, इदञ्च विजिहीर्षत इति क्कचित्कपाठप्रभिप्रेत्योक्तं, पाठान्तरं तु पूवर्मेव व्याख्यातम् । भाष्ये-अतिवाहे परम- पुरुषेण नियुक्ता इति, "तत्र नियुक्तः' इति ठगिति भावः । भाष्ये-उपसंहारे श्रूयमाणं पूर्वेषामिति, ननु विशेषविधानस्य शेषप्रति-षेधार्थत्वं लोकदृष्टम्, यथा देवदत्तो वामेनाक्ष्णा पश्यतीति तदितरनिषेधपरत्वम्, ततश्च कथमस्य इतरेषामपि चेतनत्वगमयि-तृत्वप्रतिपादकत्वमिति चेन्न, "स एनान्ब्राहृ गमयती'ति वाक्ये पुरुषत्वं गमयितृत्वं च सिद्धवत्कृत्य अमानवत्वरूपविशेषमात्रप्रति-पादनेन तेषामप्यर्चिरादीनां गमयितृत्वपुरुषत्वावगतेः, ब्राहृगमयितृत्वविधानपक्षेपि त्वदुक्तरीत्या इतरेषां ब्राहृगमयितृत्वनिषेधे "विशेषनिषेधे सामान्यस्याभ्यनुज्ञान'मिति न्यायेन ब्राहृगमयितृत्वमात्रसिद्धेश्चेति द्रष्टव्यम् ।। । ।।

4.3.5

 

मानवगमयितृत्वव्यवच्छेदकत्वादिति - वैद्युतस्यगमयितृत्वसिद्धवत्कारेणामानवत्वनिवृत्तिमात्रपरत्वात् वाक्यस्येत्यर्थः । वैद्युते विशिष्यायं ब्राहृगमयिता मानवो नेत्युक्त पूर्वेषां मानवत्वं गमयितृत्वं चोक्तमेव भवतीति भावः । व्यवचमछेद्यस्य मानवत्वं गमये-दिति - अर्चिरादेरित्यर्थः । अन्यत्वित्यादि - अर्थक्रमवशादिति । वृष्टिरूपैककार्यकारित्वलक्षणार्थक्रमवशादित्यर्थः - वरुणो निवेशनीय इति । इन्द्रप्रजापती तु तडितः परस्तान्निवेशनीयावित्येतत्तु पूर्वपक्षसिद्धान्तयोः समानमिति द्रष्टव्यम् । वरुणनिवे-

4.3.6

 

शपरं व्याख्यातमिति - पूर्वपक्षसूत्रतयेति शेषः । तमभिप्रवहन्तीति - तं प्राययन्तीत्यर्थः । वृष्टिहेतुत्वलक्षणार्थ-कमसचिवेति - इन्द्रस्यापि भेधवाहनत्वेन वर्षहेतुत्वादिति भावः ।। । ।। ।। इति आतिवाहिकाधिकरणं ।।

कार्यमुपासीनानेव गमयतीति वादरिराचार्यो मन्यते । कुतः? अस्य हिरण्यगर्भमुपासीनस्यैव गत्युपपत्तेः, न हि परिपूर्णं सर्वज्ञं सर्वगतं सर्वात्मभूतं परं ब्राहृोपासीनस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव; नित्यप्राप्तपरब्राहृविषयाविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम् । कार्यं तु हिरण्यगर्भरूपं ब्राहृोपासीनस्य परिच्छिन्नदेशवर्तिप्राप्यप्राप्त्यर्थं गमनमुपपद्यते । अतोऽर्चिरादिरातिवाहिकगणस्तमेव नयति ।। 6 ।।

4.3.8

 

भाष्ये-गमयतीति विशेष्यत इति, बहुवचनान्तलोकशब्दस्य लोकविशेषणमुखेन गमनविशेषणत्वं युज्यत इति भावः । अत एव भाष्ये-लोकविशेषवर्तिनमित्युक्तं, भाष्ये-अर्चिरादिना गतोऽभिसन्धत इति यद्यपि न पूर्वत्र अर्चिरादिगतिः प्रस्तुता, तथापि "आकाशो ह वै नामरूपयोर्निर्वतहता' इति ब्राहृविद्यायाः प्रस्तुतत्वात् ब्राहृविदश्चार्चिरादिगतिं सिद्धवत्कृत्य एवमुक्तमिति

द्रष्ट- व्यम् ।। । ।।

4.3.14

 

प्रपद्य इति, प्रपत्त्यभिसन्धिः प्रत्यभिसंधिशब्देन विवक्षितः ।। । ।। जैमिनिमतादिति - इदमुपलक्षणम्, बादरिमतादित्यपि द्रष्ट- व्यम्. उत्तरत्र मतद्वयविशेषप्रतिपादनात्, ननु आश्रयान्तरप्रत्ययस्य आश्रयान्तरे प्रतिक्षेषः प्रतीक इति हि वृद्धाः, तत्कथमुच्यते

4.3.14

 

अप्रतीकालम्बनशब्देन कार्योपासकव्यवच्छेद इत्याशक्याह - न च प्रतीकालम्बनान्नयतीत्यत्रेति । वादरिमताद्विशेषमुकत्वा जैमिनिमताद्विशेषमाह - गोबलीवर्दन्यायादिति । जैमिनेरप्युभयविधान्नयतीत्येव परमतात्पर्यं, आदरातिशयात्तु परब्राहृोपा-सीनानामर्चिरादिगतिर्जैमिनिना उक्तेत्यर्थः । प्रतिपत्त्याभिसन्धिरिति परेषां पाठः, न च कार्ये प्रतिपत्त्यसन्धिरिति तन्मते सूत्र- पाठश्च ।। । ।।

4.3.15

 

भाष्ये पूर्वपक्षोक्तवचनस्य सिद्धान्ते अपरिह्मतत्वात् स्वयं तस्यार्थमाह - ब्राहृणा स ह ते सर्वे इत्यादीति । परेषामित्यादि - परविद्याप्रकरण इति । कठवल्लीषु तयोध्र्वमायन्निति गतिकीर्तनमित्यर्थः - श्रुतिवाक्ये बलीयसी इति । प्रजापतिश्रुतिः तद्युक्तं वाक्यं चेत्यर्थः - प्रशंसार्थं वा तदिति । तत् सर्वात्मककीर्तनतमित्यर्थः, वाक्यभेदस्तु अस्माकमिष्ट एवेत्याशङ्कयाह - एकवा- क्यत्वे सम्भवतीति । भूगतेन प्रदेशान्तरगमनवदिति - यथा पृथिवीस्थ एव पृथिवी देशन्तरद्वारेण गच्छति, नहि तत्र पृथिवीप्रागप्राप्तेति शक्यते वक्तुं, यथा न्यग्नोधं प्राप्तेन वानरेण अग्रप्रदेशविशेषविशिष्टस्य न्यग्रोधस्यैव प्राप्त्यत्वं तद्वदित्यर्थः । पयसो दध्याद्यवस्थाप्राप्तिवञ्चेति - यथा प्राप्तस्यैव पयसो दध्याद्यवस्थतया आतञ्चनादिभिः प्राप्यत्वमित्यर्थः, यद्वा दध्वाद्य-

4.3.15

 

-वस्याभिन्नस्वरूपप्राप्तिवदित्यर्थः । बन्धादनिर्मोक्ष इति - स्वरूपस्य अन्यताकर्तुमशक्यत्वादिति भावः । उभयथा च दोषादिति पठ¬मानत्वादिति - एतस्यैव साम्प्रदायिकत्वेन उभयथा अदोषात् तत्क्रतुश्चेति पाठोऽसांप्रदायिक इति भावः । अपरे त्वित्यादि

4.3.15

 

वाक्यभेदप्रसङ्गादिति - अनावृत्तिसम्बन्धस्य एतत्कल्पसम्बन्धस्य च बोधनादिति भावः । परं जैमिनिरित्यनेने विरोध इति -अनावृत्तिसम्बन्धस्य एतत्कल्पसम्बन्धस्य च बोधनादिति भावः । परं जैमिनिरित्यनेन विरोध इति - परं जैमिनिरित्यनेन सिद्धान्तसूत्रेण अप्रतीकालम्बनाचिति सूत्रस्येति भावः । कार्यमण्डलातिक्रमरूपा गतिरिति - उपपद्यत इति शेषः, च नु उपाधिपरिच्छिन्नब्राहृप्रदेशस्य घटावच्छिननब्राहृप्रदेशस्य घटावच्छिन्नाकाशस्थानीयस्य जीवस्य कथं गमनमित्यत्राह - जीवत्वस्थौपाधिकत्वादिति । ब्राहृकायं प्रविशत इति - प्रवेक्ष्यत इत्यर्थः । पर्यङ्कविद्यादिकं प्रमाणमिति चेदिति - नहि परब्राहृणः पर्यङ्कारूढविग्रहत्वं सम्भवतीति भावः । विलक्षणविग्रहयोगस्यैवेति - "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि' इति

4.3.15

 

विद्युद्वर्णविग्रहयोगस्य कारणत्वसाधकत्वादिति भावः । अन्यो त्वाहुरित्यादि - ब्राहृलोकमिति प्रयोगदर्शनादिति । उपक्रमो-पसंहारस्थब्राहृलोकशब्दयोरैकार्यस्य वक्तव्यत्वात् ब्राहृलोकशब्दस्य पृथिव्यन्तरिक्षलोक्रपाथपाठेन चतुर्मुखलोकपरत्वस्य वक्त-व्यत्वाच्चतुर्मुखलोकस्य ब्राहृशब्दप्रयोगविषयत्वं सिद्धमिति भावः । ह्यदनदीति - "तस्य वा

एतस्य ब्राहृलोकस्यारो ह्यदो मुहूर्तं यष्टिहा विरजा नदी तिल्यो वृक्षः' इत्यादि प्रमाणादिति भावः । अहीननयादिति - ज्योतिष्टोमप्रकरणश्रुतायाः "द्वादशाही-

4.3.15

 

नस्येति'ति विहिताया द्वादशोपसत्ताया अहर्मश्चे उत्कर्षवदिति भावः । परविद्याव्यतिरिक्तश्रेयःप्रदर्शनार्थत्वसम्भवादिति - ये यज्ञेन दानेन तपसा लोकान् यजन्ति ते धूममभिसम्भवन्ती'त्येतत् सर्वेषां परविद्याव्यतिरिक्तश्रेसां धूमादिमार्गसाधनत्वपरम्, न तु

4.3.15

 

ज्ञादिमात्रस्येति भावः । हिरण्यगर्भमेव परं ब्राहृ मन्वानस्येति - सर्वमिदमनुपपन्नमित्यत्तरेणान्वयः । तदेवोपपादयति - अब्राहृ-विदामित्यादि ।। । ।। ।। कार्याधिकरणं समाप्तम् ।।

।। इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिका-

व्याख्यायां भावप्रकाशिकायां चतुथस्र्याध्यायस्य तृतीयः पादः ।।



4.4.1

 

ननु अपुनरावृत्तिलक्षणा गतिरुक्तेति भाष्यमयुक्तं, तस्यार्थस्य "अनावृत्तिश्शब्दा'दित्यधिकरणे समर्थयिष्यमाणत्वादित्याशङ्कयाह - विषयवाक्य इति । "आप्रयाणात्तत्रापि हि दृष्टम्' इत्यधिकरणविषयवाक्ये इत्यर्थः, अर्चिरादिपादगताधिकरणवि#ेयवाक्यपरत्वस्य वक्तव्यत्वे "एष देवपथो ब्राहृपथः एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इति वाक्यं विवक्षितं द्रष्टव्यम् । ननु अस्मिन्न- धिकरणे आगन्तुकत्वानागन्तुकत्वविचारः किमवस्थाविषयः उतावस्थावद्द्रव्यविषयः, न तावदाद्यः विकारूपावस्थायाः सम्प-त्त्यनन्तरभावित्वस्य सिद्धान्तेऽभ्युपेतत्वात्, न द्वितीयः- असत्कार्यवादानभ्युपगमेनावस्थावतो ज्ञानद्रव्यस्याऽऽगन्तुकत्वशङ्काया

लब्ध्वाऽ#्रऽनन्दी भवति' इत्यादिभ्यो मुक्तस्य सुखानन्त्यश्रवणात् । न चापरिच्छिन्नानन्दरूपचैतन्यमेवास्य स्वरूपे; तच्च संसारदशायामविद्यातिरोहितं परं ज्योतिरुपसम्पन्नस्याविर्भवतीति शक्यं वक्तुं, ज्ञानस्वरूपस्य तिरोधानासम्भवात्, प्रकाशपयार्यस्य ज्ञानस्य तिरोधानं तद्विनाश एवेति हि पूर्वमेवोक्तम् । न च प्रकाशमात्र-स्यानन्दता सम्भवति, सुखस्वरूपता ह्रानन्दस्वरपता, सुखस्वरूपत्वं चात्मनोऽनुकूलत्वम् । प्रमाशमात्रा-त्मवादिनः कस्य प्रकाशोऽनूकूलवेदनीयोभवेदिति प्रकाशमात्रात्मवादिनः कथञ्चिदप्यानन्दस्वरूपता दुरुष- पादा ।स्वरूपापत्तिमात्रे च साध्ये स्वरूपस्य नित्यनिष्पन्नत्वादुपसम्पन्नस्य "स्वेन रूपेणाभिनिष्पद्यते' इति वचनमनर्थकं स्यात् । अतोऽपूर्वेण साध्येन रूपेण सम्बध्यते । एवं चाभिनिष्पद्यत इति वचनं मुख्यार्थमेव भवति, स्वेन रूपेणेत्यष्यानन्दैकान्तेन स्वासाधारणेनाभिनिष्पद्यत इति सङ्गच्छते इति ।

एवं प्राप्ते प्रचक्ष्महे-सम्पद्याविर्भावः- इति । अयं प्रत्यगात्माऽर्चिरादिना परं ज्योतिरुपसम्पद्य यं दशाविशे- षमापद्यते, स स्वरूपाविर्भावरूपः, नापूर्वाकारोत्पत्तिरूपः । कुतः? स्वेनशब्दात्-स्वेन रूपेणेति विशेषणो-

4.4.1

 

अभावात्, घटादिष्वप्यवस्थायतो नित्यत्वात् अवस्थासम्बन्धस्यैवोत्पत्तिरूपत्वात्, नह्रुत्पत्तावागन्तुकत्वात्स्वर्गसुखाद्वैलक्षण्यं मी#ोसुखे उपलभामहे, किञ्च ब्राहृानुभवरूपस्यानन्दस्य महापुरुषार्थस्य सत्त्वेन जीवस्वरूपस्यैव साध्यत्वपुरुषार्थत्वप्रतिपादकं "मुक्तः प्रतिज्ञानात्' "आत्मा प्रकरणात्' इतिसूत्रद्वयमप्ययुक्तमिति चेन्न, स्वेन रूपेणाभिनिष्पद्यते' इत्यत्र रूपशब्देन ब्रााहृं रूपमपहतपाष्मत्वादिकं विवक्षितमिति "ब्राहृेण जैमिनि'रित्यत्र स्पष्टयिष्यते, तत्सिद्धवत्कृत्य तÏत्क ब्रााहृं रूपमागन्तुकम्, उत प्राक्सिद्धमिति विचार्यत इत्यभ्युपगमे दोषाभावात्, आगन्तूनां ज्ञानावस्थाविशेषाणामप्रत्याख्यानात्, यदुक्तं किञ्चेत्यादि तन्न, अपहतपाष्मत्वादिविशिष्टस्वस्वरूपस्यापि निरतिशयानन्दत्वसमर्थनपरमात्रपरत्वेन दोषाभावात्, भाष्ये-आत्मानुकूलत्व- मिति, यमात्मानं प्रति यदनुकूलत्वेन वेदनीयं तत्तस्य सुखमित्यर्थः, आत्मत्वञ्च चैतन्याश्रयत्वं, ततश्च ज्ञानमात्रात्मवादे न किञ्चिदुपपद्यत इति भावः - स्वशब्दोऽसाधारण्यपर इति । आत्मात्मीयज्ञातिधनवाची स्वशब्द इत्युक्तेरात्मीयत्वमात्रवचनोऽवं स्वशब्द इति भावः- नत्वसाध्यत्वपर इति । न च स्वशब्दस्यात्मात्मीयज्ञातिधनमात्रवाचित्वेन कथमसाध्यत्वप्रतिपादकत्वशङ्केति वाच्यम्, स्वीयवाचिनः सर्वादिकस्वीयपरत्वसम्भवेन असाध्यत्वप्रतिपादकत्वस्य फलतस्सम्भवादिति भावः । यद्वा आत्मपरोयं स्वशब्दः, ततश्च असाध्यत्वं फलतीति भावः, रूपं साध्यमित्यर्थ इति ग्रन्थानन्तरमेवञ्चेति प्रतीकग्रहणं दृश्यते, तत् स्वेनशब्दः कथमित्यत्राहेतिग्रन्थात्पूर्वमेव द्रष्टव्यम्, कोशान्तरं वा निरीक्षणीयम् । भाष्ये-यं दशाविशेषमापद्यत इति, अभिनिष्पत्तिवाच्यं

4.4.2

 

यं दशाविशेषमापाद्यत इत्यर्थः, ततश्च स्वेन रूपेण्राभिनिष्पद्यते इत्यस्यापहतपाष्मत्वादिविशिष्टेन स्वेनः रूपेणाभिनिष्पद्यते-धर्म-भूतज्ञानेन विषयीकियत इत्यर्थः, ततश्च विकासाचस्थासम्बन्धरूपोत्पत्तेः धर्मभूतज्ञानगतत्वेऽपि अपहतपाष्मत्वादिगुणाष्यकवि-शिष्टात्मस्वरूपस्यापरिच्छिन्नानन्दतया पुरुषार्थरूपस्य नोत्पत्तिः, अस्मिन्नधिकस्ये अपहतपाष्मत्वादिकं तद्विशिष्टस्वरूपञ्च नागन्तुकम्, अपितु संसारदशायां धर्मभूतज्ञानस्य कर्मणा प्रतिबद्धत्वात्

अपहतपाष्मत्वादिगुणाष्टकविशिष्टात्मस्वरूपविषयी-करणसामथ्र्यं नास्ति तिरोधाननिवृत्तौ तु तद्विषयक भवति, ततश्च तद्विषयकं ज्ञानं परमुत्पद्यते नापहतपाष्मत्वादिरूपं तद्वि-शिष्टस्वरूपं वा इत्येव प्रतिपाद्यते, न तु मुक्तौ धर्मभूतज्ञानस्याप्युत्पत्तिः प्रत्याख्यायते, इयांस्तु विशेषः-संसारदशायां घटादिवि- षयकं ज्ञानं चक्षुरादीन्द्रियव्यापारतव्यपेक्षं, मुक्तौ तिरोधानापगमे सर्वविषयकं ज्ञानं न किञ्चिदागन्तुकं कारणमपेक्षत इत्येतद-भिप्रायेणैवमागन्तुकरूपसामान्यभावप्रवादः ।। । ।। भाष्ये-तिरोधाननिवृत्तिरत्राभिनिष्पत्तरुच्यते इति, न च कमर्रूपबन्धक्षये विकाशरूपाविर्भावो नानुपपन्न इति सुष्ठूक्तमित्युपसंहारभाष्येण-निवृत्तिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तमिति ब्रााहृेण जैमि-निरित्यधिकरणभाष्येण च विरोधः, तिरोधाननिवृत्त्यभिनिष्पत्त्योर्भेदेनोपन्यासादिति वाच्यम्, भावान्तराभावपक्षमादाय निवृत्त्य-भिनिष्पत्त्योरभेदकथनम्, अतिरिक्ताभावपक्षावलम्बनेन भेदोक्तिरिति केचित् । अपरे तु तिरोधाननिवृत्तिरभिनिष्पत्तिरुच्यत इति भाष्यमभेदोपचार निबन्धनमिति समादधते, भाष्ये जागरिताद्यवस्थात्रयविनिर्मुक्तमित्युक्तमयुक्तम् "य एषोऽक्षिणि पुरुषो दृश्यते' "एष स्वप्ने महीयान् चरति तह्रत्रैतत्सुप्तः समस्तसम्प्रसङ्गः' इत्यादिना जागरितावस्थायुक्तस्यैव प्रतिपादनादित्याशङ्कयाह - जागरिताद्यवस्थासूच्यमानास्वित्यादिना ।। । ।।

4.4.3

 

आनन्दश्चेत्, विषयसम्पर्कनिबन्धन एव जाग्रत्सुषुप्त्यादौ तथान्वयव्यतिरेकविधानादिति व्याÏप्त दूषयति । आनन्दश्रेदित्यादिना - भाष्ये-विकाशरूपाविर्भावो नानुपपन्न इति, धमर्भूतज्ञानविकासरूपोऽपहतपाष्मत्वादिगुणाष्टकाविर्भावो नानुपपन्न इत्यर्थः, गुणाष्यकस्याविर्भावो हि धर्मभूतज्ञानविषयीक्रियमाणत्वमेवेति भावः । ननु अपहतपाष्मत्वादीनां नित्यसिद्धत्वे बन्धस्याऽपार-

विर्भावो नानुपपन्न इति सुष्ठूक्तं-सम्पद्याविर्भावः-इति ।। 3 ।। ।। सम्पद्याविर्भावाधिकरणं समाप्तम् ।।

4.4.3

 

मार्थिकत्वं दुर्वारम् । नित्यसिद्धापहतपाष्मत्वं हि सर्वदा पापरहितत्वं, न च वस्तुतस्सर्वदा पापरहिते पाष्मसम्बन्धः तन्मूलकर्तृ-त्वभोक्तृत्वादिसम्बन्धो वा पारमार्थिकः सम्भवति, एवञ्च जीवस्य ईश्वरभावोपि दुर्वारः, श्रुतिबोधिताभेदविरोधिबन्धसत्यत्वा-सम्भवात्, अन्यथा संसारिणि नित्यसिद्धसत्यसङ्कल्पतिरोधानोकत्ययोगाच्च, नहि जीवस्य संसारदशयामपि अनुवर्तमानो यत्कि-ञ्चित्कार्यगोचरोऽस्सङ्कल्पः स तिरोहित इति वक्तुं युज्यते, तस्मादीश्वरस्य यन्नित्यसिद्धनिरवग्रहसत्यसङ्कल्पत्वं तदेव संसारदशायां जीवस्य ईश्वराभेदानभिव्यकत्या स्वकीयत्वेन अनवभासमानं तं प्रति तिरोहितमिति समर्थयितव्यम् । अपहतपाष्मत्वं न पाष्मविरहः, येन तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्यात्वप्रसङ्गः, किन्तु पापहेतुकर्माचरणेपि पापोत्पत्तिप्रतिबन्धकशक्तियोगित्वम्, एवं सत्य-सङ्कल्पत्वमपि शक्तिरूपेण निर्वाह्रमिति नेश्वराभेदप्रसङ्ग इति चेन्न, एवं शब्दार्थकल्पने प्रमाणाभावात्; नहि पापजननप्रतिबन्धिका शक्तिः संसारपरिभ्रमणदशायां पापानुत्पत्यर्थं कल्पनीया, तदानीं तदुत्पत्तेरिष्टत्वात्, विद्योदयप्रभृति तु विद्यामाहात्म्यदेव अश्लेषः "तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात्' इति सूत्रेण दर्शितः, तत एवमप्युक्तविश्लेष उपपद्यत इति व्यर्था शक्तिकल्प-नेति चेत्- अत्रोच्यते-अपहतपाष्मत्वं न पापात्यन्ताभाव इति वक्तुं शक्यम्, पाष्मनां स्वरूपेण अत्यन्ताभावप्रतियोगित्वे निःस्व-रूपत्वापत्तेः, पारमार्थिकत्वाकारेण अभावप्रतियोगित्वे अभ्युपगम्यमानेऽपि किं तत्पारमार्थिकत्वमिति पर्यालोचने अबाध्यत्व- मिति पर्यवस्यति, बाध्तय्व्च न अत्यन्ताभावप्रतियोगित्वमिति वक्तं शक्यम्, तत्रापि स्वरूपेण वा पारमार्थिकत्वाकारेण वेति विकल्पग्रासात्, किन्तु ज्ञाननिवत्र्यत्वम्, ततश्च ज्ञानानिवत्र्यत्वरूपाबाध्यत्वकारेण अत्यन्ताभावप्रतियोगित्वं पाष्मनां पर्यव- सितम्, ततश्च पाष्मनां ज्ञाननिवत्र्यत्वमिति फलितोर्थः, अयञ्चास्माकमिष्ट एव । किञ्च मुक्तस्य त्वन्मते अपहतपाष्मत्वादिप्राद- #ुर्भाव एव न सम्भवति, एकजीववादे तावत् तदेकाज्ञानपरिकल्पितस्य जीवेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदये विलयात् निर्विशेषचैतन्यमात्ररूपेणावस्तानमिति न बद्धमुक्तव्यवस्थासम्भवः, अनेकजीववादमभ्युपगम्य बद्धमुक्तव्यवस्थाङ्गीकार्रेपि यद्यपि कस्यचिद्विद्योदये तदविद्याकृतभेदप्रसपञ्चस्य विलयेऽपि बद्धपुरुषान्तराविद्याकृतो भेदप्रपञ्चोऽनुवर्तत इति वक्तुं शक्यते, तथापि जीव इव ईश्वरोऽपि प्रतिबिम्ब इति पक्षे मुक्तस्य बिम्बभूतशुद्धचैतन्यमात्ररूपेणैवावस्थानौचित्येन प्रतिबिम्बान्तरत्वापत्त्यसम्भवात्, तत्सम्भवे हि कदाचित्

जीवरूपप्रतिबिम्बान्तरत्वापत्तेरपि दुर्वारत्वेन अवच्छेदपक्ष इव पुनर्बन्धापत्तेः, अत एव अनेकजीववादे अवच्छेदपक्षो नादियते तदवच्छेदेन मुक्तिः तदचच्छेदेन अन्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः, अतः प्रतिबिम्बस्थानीय ईश्वरः उभयानुस्यूतं शुद्धचैतन्यमिति पक्षे मुक्तस्य वत्सर्वमुक्तिसर्वज्ञत्वसर्वेश्वरत्यसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिर्वक्तव्या, यथा अनेकदर्पणेषु एकस्य मुखस्य प्रतिबिम्बे सति एकदर्पणापनये सति तत्प्रतिबिम्बोपि बिम्बभावेनावतिष्ठते न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तरसन्निधानप्रयुक्तस्य मुखे बिम्बत्वस्थानपायात्, तथा एकस्य चैतन्यस्य अनेकेषूपाधिषु प्रतिबिम्बे सति एकस्मिन्प्रतिबिम्बे विद्योदयेन न तदुपाधिनाशे तत्प्रतिबिम्बस्य बिम्बभावेन अवस्थानावश्यम्भावादिति वक्तव्यम्, अयञ्च पक्षो न सम्भवति, यतो रूपानुपहितस्य प्रतिबिम्बो न युक्तः, सुतरां नीरूपे अचाक्षुषे, अचाक्षुषप्रतिफलनवादस्य परिहारयत्वादित्यल-

4.4.4

 

मतिप्रसङ्गेन । अन्ये त्वित्यादि -पाष्मप्रागभावप्रध्वंसाभावात्यन्ताभावेति । घटात्यन्ताभावस्येव तत्प्रागभावप्रध्वंसयोरपि अत्यन्ताभावत्वाङ्गीकारात् पाष्मप्रध्वसवति मुक्ते पापात्यन्ताभावरूपापहतपाष्मत्वासम्भवादित्यर्थः ।। । ।।

।। इति सम्पद्याविर्भावाधिकरणम् ।।

ननु भाष्ये साहित्यसाम्यसाधम्र्यादित्युक्तिरयुक्ता, साम्यस्यैव साधम्र्यरूपत्वेन साहित्यसाम्यावगमादित्युकत्यैव चारिताथ्र्यादित्य आह - साम्यसाधम्र्यशब्दाविति भोग्यसाहित्यपरत्वादिति । काम्यन्त इति कामाः कल्याणगुणाः, ब्राहृणा सह कल्याणगुणा-

4.4.4

 

न्सर्वाननुभवतीत्यर्थः, भोक्तृसाहित्यपरत्वे तु भोक्तृजीवापेक्षया ब्राहृणोऽप्राधान्यप्रसङ्गः, ततश्च ब्राहृणः प्रकारित्वभङ्गप्रसङ्ग इति भावः । ननु भोग्वसाहित्येपि कामापेक्षयां ब्राहृणोऽप्रादान्यप्रसङ्गः इति चेन्न, इष्टापक्षेः - विभागशक्तिमात्रेण स्वपरविज्ञानादेः-

4.4.5

 

निर्वाहायोगादिति - भेदोपि वक्तव्य इत्यर्थः । करणाधीनज्ञानत्वे सतीति - करणाधीनज्ञानत्वे सति उपरतकरणत्वं स्वपरस-म्बोधाभावे प्रयोजकं, मुक्ते करणाधीनमानत्वाभावात् ज्ञानाभावाभावः । न परस्परैक्यमिति चेदिति - सुषुप्ताविति शेषः। ननु न सूक्ष्मचित्तत्वात् भेदोऽभ्युपगम्यते, किन्तु तत्रापि शक्तिमात्रमेव भेदकमित्याशङ्कयाह - अचितश्शक्तिमात्रशेषत्वाभावादिति । नानावस्थत्वादिति - नानावस्थत्वतदभावरूपभेदकाकारसद्भावात् अचिदपेक्षया भेदसत्त्वेपि चिदीश्वरथोर्न भेद इति चेदित्यर्थः । असङ्कीर्णतया जानातीति न जगद्वयापारप्रसङ्ग इति चेदिति - असङ्गीर्णतायधीश्चरज्ञानविषयतया भेदस्य प्रामाणिकत्वात् न जगद्वयापारप्रसङ्ग इति भावः ।। । ।। ।। इति अविभागेन दृष्टत्वाधिकरणम् ।।

4.4.6

 

ॠष्टिद्वयपक्षापेक्षयेति - मतद्वयमध्ये अन्यतरपरिग्रह इत्यर्थः । स्वरूपं जडमिति - ननु जैमिनिमते ज्ञानमात्रस्वरूपत्वमात्मनो माभून्नाम्, अपहतपाष्मत्वादीनां सद्भावात्, न ह्रेतावता आत्मनो जडत्वमङ्गीकृतमित्यत किञ्चित्प्रमाणमस्तीति चेन्न, अपहत-पाष्मत्वादेः ज्ञानस्वरूपत्वस्य चाभ्युपगमे सिद्धान्तादविशेषप्रसङ्गादिति भावः ।। । ।। कादाचित्कसुखराहित्यपरमिति - अत्र चोदयन्ति - यद्यकादाचित्कसुख इति श्रूयते, तदा नञः कादाचित्कसुखपदेन समासे कादाचित्कसुखराहित्यमर्थः स्यात्, नहि

4.4.7

 

अनीलो घटो यस्येति बहुव्रीहिसमासाश्रयणेन अनीलघय इति निर्घटो देशो वक्तुं शक्यत इति, अत एव सत्यसङ्कल्प इत्यस्य मोधेन सङ्कल्पेन रहित इतिवेत्युत्तरग्रन्थ्रोप्ययुक्त इति चेत्, अत्र केचित्-सतीतिपृथक्पदं सप्तम्वन्तं, सति पृथिव्यादौ

वस्तुनि अकामः निष्काम इत्यर्थः । एवं सत्यसङ्कल्प इत्यदावपि द्रष्टव्यम्, इत्येवंरूपे निर्वाहे अस्य ग्रन्थस्य तात्पयर्मिति वदन्ति ।। । ।। तत्पूर्वपक्षी-

4.4.7

 

कृत्य हीति - नष्टस्य पुनरुन्मज्जनाभावादित्यर्थः । अन्यपरमिति व्याक्येयं पदं, जडाशव्यवच्छेद इत्यर्थः । भाष्ये स्वल्पोति प्रदेशो-स्तीति च्छेदः । परे त्वित्यादि - सर्वात्मभावेन स्थित एवेति । मुक्त इति शेषः - ध्रुवस्येति । विभागावधिभूतस्येत्यर्थः ।। । ।।

।। इति ब्रााहृाधिकरणम् ।।

4.4.8

 

विज्ञानधन एवेतिवदयोगव्यवच्छेदपर इति - न च विज्ञानधन एवेत्यत्र कृत्स्नोष्यात्मा जडव्यावृत्तस्वप्रकाश इत्यादिना अन्य-योगव्यवच्छेदपरत्वस्य पूर्वसूत्रे प्रतिपादनात् तद्विरोध इति वाच्यम्, तस्य विशेषणसङ्गतैवकारत्वेन शङ्खः पाण्डुर एवेत्यत्र एवका- रस्य पाण्डुरत्वायोगवयवच्छेदकत्ववत् एतस्यापि विज्ञानत्वायोगव्यवच्छेदपरत्वेन ज्ञानत्वायोगे सर्वत्र व्यवच्छिन्ने तद्वयतिरिक्त-जाड¬व्यवच्छेदस्य फलीभूतस्य प्रतिपादकतया तस्य ग्रन्थस्यान्ययोगव्यवच्छेदे तात्पर्याभावात्, भाष्ये-न च प्रयत्नान्तरसापेक्ष-त्वाभिधायीति, मुक्तसङ्कल्पस्य लौकिकसङ्कल्पवत् सङ्कल्पत्वेन यत्सापेक्षत्वानुमानम्, तत् नरशिरःकपालशौचानुमानवदाग-म्बाधितत्वात् न प्रतिरोधीत्यर्थः, इतरथा अगस्त्यादेः समुद्रपानादिवृत्तान्तो असत्यः स्यादिति भावः, नन्वियं चिन्ता वृथा, यथा मनोरथमात्रोपस्थापितापि स्त्री स्त्रैणानां चरमधातुविसर्गे हेतुः, एवं पित्रादयोपि अस्य सङ्कल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्य-जननाय किमर्था सृष्टिरभ्युपेयते मैवं सन्ति हि कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि दंतक्षतमणिमालादीनि, कानिचित् तद्-

4.4.9

 

ज्ञानसाध्यनि, यथा उक्तानि चरमधादुविसर्गरोमहर्षादीनि, तत्र पित्रादेः मनोरथमात्रोपदीतत्वे ज्ञानमात्रसाध्यनि कार्याणि परं भविष्यन्ति, न तु वस्तुस्वरूपसाध्यानि, नहि स्त्रैणस्य रोमहर्षणादिबद्धवन्ति, स्त्रीवस्तुसाध्या दन्तक्षतमरिमालादयः, अतस्त-त्कार्यसकलभोगसिद्धयर्थं सृष्टिः कक्षकार्या ।। । ।। स्वर्गिणां कर्मफलभूतेष्विति - जक्षणादिष्विति शेषः, नहि स्वर्गिणां तिर- श्चां वा जक्षरादीनि पुण्यं पापं वा आर्जयन्तीति भावः । तथैव च श्रुत्याविधिनिषेधागोचरत्वञ्च ज्ञापितमित्यर्थ इति । यथा पीनत्वकल्प्यस्य रात्रिभोजनस्य पीनत्वोपपादकत्वं, एवं सत्यसङ्कल्पत्वकल्प्यस्याप्यनन्याधिपतित्वस्य तदुपपादकत्वे नानुपपत्ति- रिति भावः, अत एव "सूक्तवाकेन प्रस्तरं प्रहरति' इत्यत्र प्रस्तरप्रहरणस्यायागरूपत्वेन देवतासम्बन्धासम्भवात् देवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या न तच्छेषत्वप्रतिपादनं सम्भवतीत्याशक्य तृतीयाश्रुत्यवगतसूक्तवाककरणत्वान्यथानुपपत्त्यैव सूक्तवाक-प्रतिपाद्यदेवतासम्बन्धेन यागरूपत्वं प्रस्तरप्रेरणस्य कल्प्यत इति प्रतिपादितमति भावः । ननु अपहपाष्मत्वस्य पूर्वं सिद्धतया एत-त्सूत्रव्यावत्र्यशङ्काया अनुत्थानमित्याशंक्याह - अपहतपाष्मत्वं नामेति । अत्रैव हि स्पष्टं दर्शितमिति - सूत्र इति शेषः । परे त्वित्यादि - अत एव सत्यसङ्कल्पत्वादेव न स्वामिनं सङ्कल्पात्सृजति स्वामिपारतन्त्र्#े स्वसत्यसङ्कल्पत्वविरोधप्रसङ्गात् अतो-

4.4.10

 

ऽनन्याधिपति कुर्वन्तीत्यर्थः - दुःखहेतुविरहेणेति । यो यस्मिन्सुखदुःखे आपादयितुं निवर्तयितुं च प्रभवति स तस्याधिपतिरिति भावः - शेषलक्षणस्येति । प्रोक्षणादौ सुखदुःखापादननिवर्तनाक्षमस्यापि व्रीह्रादेः शेषित्वादिति भावः । ब्राहृणो हि प्रतिष्ठाह- मिति - मुक्तस्य धारक इत्यर्थः ।। । ।। ।। इति सङ्कल्पाधिकरणम् ।।

4.4.13

 

भाष्ये-सङ्कल्पभेदेन सत्रमहीनञ्चेत्युक्तमयुक्तं, सत्रत्वाहीनत्वयोः आसीरनूयजतिचोदनानिबन्धनत्वेन सङ्कल्पभेदनिबन्धनत्वाभा- वात् इति न शंक्यम्, सङ्कल्पभेदेन सत्रमहीनञ्च भवतीति नान्वयः, येनायं दोषः स्यात्, किन्तु उपैदियजतिचोदनाभ्यां द्विरूपत्वे सिद्धे यस्य यादृक्प्रयोगेच्छा स तं प्रयोगमनुतिष्ठतीत्यर्थ इत्याह - सत्रत्वे अहीनत्वे चेत्यादिना । सङ्कल्पभेदेनेति भाष्वग्रन्थः, "प्रायणीयोतिरात्रः प्रथममहः, पृष्ठयः षडहः त्रयश्छन्दोमाः, अविवाक्यमेकमहः उदयनीयोतिरात्रश्चरममहः' इत्येवंरूपोऽहर्गणो द्वादशाहः, अविवाक्यमेकमहः उदयजतिचोदनाभ्यां सत्ररूपोऽहीनश्च, अहीने हि "एको द्वौ बहवो वाऽहीनेन यजेरन्' इति कतृसंख्यानियमाभावः, तथा 2न दीक्षिता याजयेरन्' इति याजकेषु दीक्षितत्वप्रतिषेध सत्येवमादयो धर्मा व्यवस्थिताः, सत्रे "गृहपतिसप्तदशाश्चतुर्वि#ातिपरमाः स्वयमृत्विजो ब्रााहृणास्सत्रमुपेयुः' इति सप्तदशसङ्खयाया अन्यूनत्वनियमः, दीक्षितानामेव परस्परयाजकत्वमित्यादयो धर्मा व्यवस्थि#ा#ः । ततश्च यथा द्विरूपत्वं द्वादशाहस्य, एव मुक्तस्यापि सदेहत्वं विदेहत्वं च प्रामा-रिकमित्येवं रूपद्वये प्रामाणिके सति यथेच्छावशेन अहीनसत्रान्यतरप्रयोगपरिग्रहः, एवं सङ्कल्पवशेन सदेहत्वविदेहत्वान्यतर-

4.4.15

 

परिग्रह इत्यर्थः ।। । ।। तदनुगुणप्रकारपरिकल्पनेनेति - मुक्तसङ्कल्पाभावेऽपि परमात्मसङ्कल्पात् देहादिसृष्टिरित्यर्थः, ततश्च पूर्वसूत्रे अतश्शब्दपरामृष्टस्य सङ्कल्पस्य मुक्ताश्रितत्वनियम इति भावः । सार्थमाहेति - तन्वभाव इति सूत्रार्थस्य "सङ्कल्पादेव तेच्छØत'रित्यधिकरणविरुद्धत्वात् स नाभिमत इति भावः ।। । ।।

4.4.16

 

प्रवर्तकत्वशक्तिविशिष्टेत्यर्थ इति - आत्माभिमानस्य प्रवृत्तिहेतुतया आत्माभिमानानुण्येन प्रवृत्त्यानुगुण्यमस्तीति आत्माभिमा-नानुगुणशब्देन प्रवृत्तिशक्तियुक्तत्वं लक्ष्यत इति भावः, आत्माभिमानस्य प्रवृत्तिहेतुत्वमुपपादयति । आत्माभिमानो हीत्यादिना - प्रकाशकत्वशक्तिरुक्तेति । घटपटादिवाह्रवस्तुप्रकाशनशक्तियुक्ता ज्ञानव्याप्तिरित्यर्थः ।। । ।।भाष्ये-सम्पत्तिश्च मरणमिति, प्रति-ज्ञातार्थोपपादकताया "वाङ्मनसि सम्पद्यते' इत्यारभ्य "तेजः परस्यां देवतायाम्' इत्यन्तो ग्रन्थः तदेकवाक्यतयाऽपि योजयितुं शक्यते, "वाङ्मनसि सम्पद्यते' इत्यारभ्य "तेजः परस्यां देवत्ताया'मिति वचनात्, तयोश्चावस्थयोः प्राज्ञप्राप्तिः निस्सम्बोधत्वञ्च विद्येते इत्युत्तरग्रन्थैकवाक्यतामभिप्रेत्याह - सता सोम्य तदा सम्पन्नो भवतीत्यदिभिरिति । पूर्ववाक्यैकवाक्यतामभिप्रेत्याह - ब्राहृसम्पत्तिनिर्बोधत्वयोरित्यादिना । एवञ्च योजनाद्वयमपि भाष्यकृदभिमतमिति सूचितमिति द्रष्टव्यम्, "प्राज्ञेनाऽऽत्मना सम्परिष्वक्तः' इति वाक्ये ब्राहृसम्पत्तिनिर्बाधत्वयोः श्रवणात् "आविष्कृतं ही'ति सूत्रखण्डेनापि द्वयमपि दर्शनीयमिति मत्वा

4.4.16

 

ब्राहृसम्पत्तिश्रुतिश्चानुसन्धेयेति "अभावं बादरि'रिति सूत्रेण "मनसैतान् कामान् पश्यन् रमते य एते ब्राहृलोके' इति श्रुतौ मन-सेतिविशेषणात् मुक्तस्य शरीरेन्द्रियाणामभावोऽवसीयते, यदि हि मनसा शरीरेन्द्रियैश्च विहरेत् तदा मनसेति विशेषणमनर्थकं स्यादिति व्याख्यातम्, "भावं जैमिनिविर्कल्पामननात्' इति सूत्रे शेषः "द्वादशाहवदुभयविधं बादरायणोऽतः' इति सूत्रे अत इत्यस्य "मनसैतान् कामान्' इति श्रुतेः "स एकधा भवती'त्यादिश्रुतेश्चेत्यर्थ इति व्याख्यातम्, तस्याविरुद्धत्वात् तमशमुपेक्ष्य निराकर्तव्याशमाह - सङ्कल्पादेवेत्यादिना । न भोगानुपपत्तिरिति - पुष्कलभोगस्थानुपपत्तावपि मनोरथमात्रसाध्यस्वाप्न भोगवत् सूक्ष्मयोगो भवत्येवेत्यर्थः । शरीरेन्द्रियसद्भावे जाग्रद्वत्पुष्कलभोगः, तदभावे सूक्ष्मभोग इति तैर्वर्णितत्वादिति भावः । शरीरस्थितेरन्यथासिद्धत्वादिति - शरीरस्थितिमन्तरेणापि मनस्सिद्धिमात्रेण भोगस्य सिद्धत्वादित्यर्थः । केवलेश्वरप्रयत्नसृष्ट- त्वेति - यद्यपि जाग्रत्स्वप्नावस्थयोः द्वयोरपि स्वसृष्टभोगोपकरणसदसद्भावयोः सिद्धान्तेष्यविशेषात् "तन्वभावे सन्ध्यवत्' "भावे जाग्रद्वत' इति व्यवस्थया निर्देशे किं बीजं, "तन्वभावे' इत्यस्य स्वसृष्टतन्वभाव इत्यर्थकल्पनञ्च क्लिष्टमित्यापि परैस्सु- वचम्, तथापि उक्तदूषणे तात्पर्यम् । अभिप्रायाविरोधज्ञापनार्थ इति - ननु मुक्तस्य ब्राहृानुभवे अन्यानपेक्षत्वेऽपि ब्राहृा-नुभवान्योपकरणैरीश्वरसृष्टैर्भागान् मुक्तं इति "तन्वभावे' इति सूत्रे प्रतिपादनात् विरुद्धाभिप्रायत्वस्यैवाविष्करणात् कथमविरोध

4.4.16

 

इति चेन्न, औदासीन्यदशायामपि भगवान् मुक्तान् भोगं प्रापयतीत्युकत्या विरुद्धाभिप्रायत्वानापपत्तेरिति भावः । तदधिकारव- शात्तदा विष्कृतं हीति - यत्र द्वितीयदर्शनाभावः प्रतिपाद्यते, "यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येत्' "यत्र सुप्तो न क्चन कामं कामयते न कञ्चन स्वप्नं पश्यति' इत्यादौ तत्र सर्वत्र सुषुÏप्त वा कैवल्यं वा अधिकृत्यैव प्रवृत्तेः तद्विषयत्वमेव द्वितीय-दर्शनाभावस्येति भावः । नन्विदं त्रिधामवनादिक न कैवल्यविषयमित्यत आह - सगुणविद्याविपाक इति । अन्ये त्वित्यादि -भृत्यादिशरीरवृत्तेरपुरुषार्थत्वादिति । मुक्तिदशायां त्वभोगोपकरणत्वेन सृष्टमृन्यादिशरीरवृत्तेरित्यर्थः - ईश्वरानुमञ्चरणायेति । "कामान्नीकारूप्यनुसञ्चरन्' इति श्रुतिविहितेश्वरानुवर्तनायेत्यर्थः, भृत्यादिभावस्यानिष्टत्वात् स्वयमेवाहङ्कारकरणाभावश्चेदित्ये-कवाक्यम् ।। । ।।

।। इति अभावाधिकरणम् ।।

4.4.17

 

भाष्ये-किं मुक्तस्यैश्वर्यमिति ईश्वरस्य कर्म ऐश्वर्यम् "गुणवचनब्रााहृणादिभ्यः कर्माणि च' इति कर्मणि श्यन्प्रत्ययः, राज्ञः कर्म राज्यं प्रजापरिपालनमितिवत्, ततश्चायमर्थः । किं मुक्तस्य ईश्वरसाम्यसाधम्यादिशब्दैः प्राप्तं यदीश्वाकृत्वं तत्परमपुरुषासाधारणं जगत्सृष्यिस्थितिसंहाररूपं सर्वेशनमपि भवति, उत परमपुरुषानुभवान्तर्गतशरीरसर्गादिविषयमिति, जगत्सृष्टयादिसर्वेश्वरत्वं परमपुरषोनूभवविषयमिति त्रीण्यपि व्याख्येयपदानि आत्माभिमानानुरूपत्वात्, यः स्वं स्वरूपं स्वातन्त्र्ययोग्यमिति मन्यते,

4.4.17

 

तस्य स्वातन्त्र्यं पुरुषार्थः - पूर्वपक्षमुक्तेति । अयं भावः-न च "न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतिविरोधात् साम्यं केन- चिदेव रूपेणेति सङ्कोचनीयमिति वाच्यम्, साम्यश्रुतिविरोधात् तन्निषेधश्रुतिरेव संसारिषु ब्राहृसाम्यनिषेधविषयेति सङ्कोचोपपत्तेः, अधिकारवाक्यावगतफलविरोधेन "को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति' इत्यादेरिव स्वावयवत्वकल्पनौचित्याच्च, अपि च सा- क्षादेव उपास्यगुणप्राप्तिः फलमवगम्यत, यथाक्रतुरित्यादिश्रुतौ, न च परब्राहृण ऐश्वर्यमात्रमुपास्यम् । न तु निरङ्कुशं सर्वजगदैश्वर्यम्, अतो मुक्तस्य स्वसङ्कल्पसृष्टकतिपयवस्त्वैश्वर्यसिद्धावपि तत्क्रतुन्याय उपपद्यत इति वाच्यं "सर्वस्य वशी सर्वस्येशानः' "कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः' इत्यादिश्रुतिषु निरङ्कुशसर्वैश्वर्यस्य उपास्यत्वावगमात्, किञ्च मुक्तस्य सर्वेषु लोकेषु कामसञ्चारः श्रूयते, न तस्य तत्तल्लोकगतफलभोगार्थत्वकल्पनं युक्तं, ब्राहृानन्दमनुभवतोपि विषयान्तरलिष्येया सञ्चाराभ्युपगमे तस्य निरतिशयत्व-भङ्गापत्तेः, अतो मुक्तस्य नियमनादिलीलार्थ एव लोकसचारः, तस्मात् परमसाम्यतत्क्रतुन्यायसर्वलोकसञ्चारादिप्रतिपादनदर्शनात् मुक्तस्यापि परमेश्वरवत् सर्वजगत्सृष्ट्रत्वादिकमङ्गीकर्तव्यम्, न च यद्गुणप्राप्तिर्वदधीना, तस्य गुणस्ततो न्यूनः इति नियमोऽस्ति, गुरोविद्र्यामधिगतवतां शिष्याणं तद्वदेव व्याख्यातृत्वप्रबन्धनिर्माणादिदर्शनात्, दृश्यन्ते च सामन्ताः पार्थिवैश्वर्याधीनैश्वर्यबन्तः पार्थिवेन स्पर्धमानाः तं विजयमाना अपि, तदिह निरतिशयैश्वर्यत्वात्परमात्मनोर्मा नाम भूवंस्तदधिकाः, तत्समानास्तु भविष्य- न्त्येव, अतस्ते स्वतन्त्रास्सन्तः जगत्सर्गेऽपि प्रवर्तेरन् न च सृष्टयादिप्रकरणेषु परमात्मन एव सृष्टयादिव्यापारो न मुक्तानामिति वाच्यम्, श्येनप्रकरणे श्येनवत् इषुनामकक्रतोरसन्निहितत्वेपि "समाचमितरच्छ्येनेन' इति साम्यवचनात् तदीयवैशेषिकाङ्गा-नामिषाविव युक्तानां सर्वेश्वरसाम्यवचनात् तदीयसृष्टयादिव्यापाराणां तेषु सिध्युपपत्तेः । किञ्च आवामयनिकस्वरसाम-वैश्व-देव्यामिक्षा-द्यावापअथिव्यैककपालप्रकरणाम्नातानामपि प्रकरणान्तररम्नातस्वरसामवारुणैककपालमैत्रावारुण्यासिक्षाणां, साप्तदश्यादिलिङ्गैर्बलात् तदीयधर्मान्तरप्राप्तिवत्सर्वलोकादिसञ्चारादिलिङ्गबलान्मुक्तानामपि ऐश्वर्यजगद्वयापारप्राप्त्युपपत्तेरिति, जगद्वयापारवर्जमिति "द्वितीयायाञ्च' इति अमूल तत्र परीष्सायामित्येतत् प्रायिकमित्युक्तम्-"अनुदात्तं पदमेकवज्र्यम्' इत्यत्र वृत्तिव्याख्यातृभिः । यद्वा जगद्वयापारं वर्जयतीति जगद्वयापारवज्र्जम्, कर्मण्यण् ऐश्वर्यमिति विशेष्यम्, अत एवोत्तरत्र जग-द्वयापारवज्र्जत्वप्रसङ्ग इत्यादिनिर्देश उपपन्नः, णमुलन्तत्वे तु न भावप्रत्ययः स्यात्, रूपञ्चान्यथा स्यात्, भाष्ये मुक्तस्यैश्र्वमिति, भवितुमर्हतीति शेषः । अतश्च धातुसम्बन्धविहितस्य णमुलो नानुपपत्तिः णमुलन्तत्वपक्षे इति द्रष्टव्यम्, भाष्ये-ततश्चेदं जगदी-श्वरत्वरूपमिति, नन्वनाद्यन्तकल्पानुवृत्तसर्वप्रपञ्चजन्मादिकारणत्वं ब्राहृलक्षणम्, मुक्तानान्तु स्वमुक्तिप्राचीनकालवर्तिप्रपञ्च-कर्तृत्वाभावात् न लक्षणत्वविरोधः इति चेन्न, जगत्सृष्टयादिषु वर्तमानानां मुक्तानामैकमत्यनियमाभावात् कस्यचित्सिसृक्षाया- मन्यस्य सञ्जिहीर्षापि कदाचिद्भवेदिति किमपि कार्यं न निर्वर्तेत, न च सर्वेपि परमात्माधीना एव ज्जगत्सर्गादौ प्रवर्तन्त इति

4.4.18

 

एकमत्यमुपपद्यत इति वाच्यं, तर्हि तदधीनत्वेन तत्सान्याभाविन साम्यश्रुतेः सङ्कोचनीयत्वावश्यम्भावात् "भोगमात्रसाम्यलि- ङ्गाच्च' इति वक्ष्यमाणसूत्रन्यायेन भोगमात्रसाम्यमादायापि तुलाधृतयोस्सुवर्णशिलाशकलयोर्गुरुत्वसाम्येनाध्यत्यन्तसाम्यव्यव- हारवत् साम्यव्यवहारस्य जगत्कारणत्वमन्तरेणाप्युपपत्तेः न मुक्तस्य जगद्वयापारप्रवृतिरिति भावः, न च तत्क्रतुन्यायविरोधश्श-ङ्कनीयः, कारणत्वविशिष्टस्य ब्राहृणः प्राप्त्यवाङ्गीकारेण विरोधाभावात्, भाष्ये-तदेकं सन्नव्यभवदिति, तत-ब्राहृ, एकं-क्षत्रादि परिपालवितृत्वादिश्रून्यं, सन्नव्यभवत्-विभववन्नाभूत, कर्मणे न पर्याप्तमासीदिति वावत्, श्रेयोरूपं-प्रशस्तं रूपं, अत्यसृजत-अतिशयेन असृजत् देवत्रा-देवेष्वित्यर्थः, क्षत्राणि-क्षत्रियाणीत्यर्थः, कानि पुनस्तानि क्षत्रियाणीत्यत्राह - इन्द्रो वरुह्र इत्यादि । कन दीप्ताविति धातुरिति - "कन दीप्तिकान्तिगतिषु' इत्यस्माद्भौवादिकात् ण्यत्प्राप्तः "कन्यायाः कनीन च' इति निर्देशान्न भवति, अपि तु यदेव भवति ।। । ।।

4.4.20

 

सर्वत्र कामचारादयो भवन्तीति - हर्षोद्रकात्, "एतत्सामगायन्नास्ते हाउ हाउ हाउ' इत्यादि श्रुतिप्रतिकपन्नसामगानवत् हर्षो-द्रेकाद्यथेष्टं सञ्चरत इत्यर्थः, तथाच "उपस्थितेऽतस्तद्वचनात्' इत्यत्र ब्राहृोपसम्पत्तिः कामचारे हेतूकृता, अत एव निवृत्ततिरो- धानस्य मुक्तस्य परमव्योमनिलयमस्यैव सवर्विभूतियुक्तब्राहृानुभवसम्भवात्, सञ्चरणं वृथेति शङ्कापि पराकृता, हर्षेद्रि#ेकप्रयुक्त- चेष्टायाः प्रयोजनोद्देशप्रवृत्तत्वाभावात् लब्धसविभूतिकब्राहृानुभवस्थापि चक्षरादीन्द्रियजन्यसाक्षात्कारादिलिप्सया शरीरान्त-रपरिग्रहयथेष्टस्श्चाराद्युपपत्तेः, अत्र विकारावर्तीति ब्राहृ निर्दिशतस्सूत्रकृतोऽयम्भावः, अपक्षयविनाशशून्यब्राहृानुभवरूपस्या- नन्दस्य न वृद्धिह्यासौ, सततैकरूपत्वात्, ईदृशं ब्राहृानुभवतो मुक्तस्य नाऽवाप्तव्य आनन्दोऽन्योस्ति, येन ब्राहृानुभवस्य आधि-कारिकमण्डलस्थभोगापेक्षया न्यूनता कल्प्येतेति ।। । ।।

4.4.21

 

ननु "सह ब्राहृणा विपश्चिता'इत्यस्य भोग्यसाहित्यपरत्वेन भोगसाम्ये प्रमाणीकरणासम्भवात् सत्याशङ्कय भोगसाम्यरूपसायु-ज्यप्रतिपादकश्रुतिवाक्यान्युदाहरति । स एवंविदित्यादि - "पृथिव्यै चैनमग्नेश्च देवी वागाविशति सा वै देवी वाग्यया यद्यदेव

4.4.22

 

वदति तवद्भवति दिवश्चैनमादित्याञ्च दैवं मन आविशति तद्वै दैवंय मनो येन आनन्द्येव भवति अथ न शोचति अद्भयश्चैनं चन्द्र- मसो दैवः प्राण आविशति स वै दैवः प्राणो यस्सञ्चरंश्चासञ्चरंश्च न व्यथते न रिष्यति' इति प्रावप्रस्तुतदैववाङ्य्नःप्राणविज्ञानस्य फलमुच्यते । "स एवंवित् सर्वेषामात्मा भवति यथैषा दैवतैवं स यथैता देवतास्सर्वाणि भूतानि भवन्ति एवं हैवंविदं सर्वाणि भूता-न्यवन्ति' इति, आत्मा भवति-आत्मवत्पूज्यो भवति, अवन्ति-पालयन्ति तपर्यन्ति, "तेनो एतस्यै देवतायै सायुत्यं सलोकतां जयति' इति, तेन-यथोक्तज्ञानेन एतस्या देवतायाः सायुज्यं स लोकताञ्च प्राप्नोतीत्यर्थः। यद्यष्युदाह्मतवाक्यानां न ब्राहृविद्विष- यत्वं तथापि तुल्यन्यायतया ब्राहृविद्विषयेपि भोगसम्ये लिङ्गतया पर्यवस्यतीति भावः ।। । ।।

एतदैकाथ्र्यं स्यादित्यभिप्रायेणेति -"पुनर्जन्म न विद्यते' इत्यत्र ब्राहृणि दुःखालयत्वादिविशिष्टजन्मनिषेधे पर्यवस्यतीति भावः - अनेनावृत्तिरिति । जन्म सत्वेपि हेयास्पदजन्मनिषेध इत्यभ्युपगमन्यायेन पुनरावृत्तिसत्वेपि हेयास्पदावृत्तिर्नास्ति, अपि तु काम-

4.4.22

 

निमिति एव सञ्चार इति भावः, स्वेच्छा वा कर्म वा-इत्यस्यायम्भावः, मुक्तानां प्राक्तनपुण्यपापयोः विद्यामाहात्म्यान्नाशेषि मुक्ति-काले कृतभगवद्रोहादिपापवशेन नहुषादेः पदच्युतिवत् अस्यापि पदच्युतिस्सम्भाव्यत इति । सवितृमण्डलादिस्थानेषु भोगोक्ते- रिति - सवितृमण्डलादिगतपरमात्मोपासनायत्तैश्वर्यत्वात् इतरेषां न निरवग्रहं मुक्तानामैश्वयमित्यर्थः - किमर्थं सूथद्वयमिति चेदिति । सूत्रद्वयस्य कोऽभिप्राय इति चेदित्यर्थः - निर्विकारप्राप्तिरुपपन्नेति । अयमर्थः-यथा सगुणब्राहृोपासकानां सगुणे ब्राहृणि वस्तुगत्या सदपि विकारावर्तित्वरूपं न प्राप्यम्, अतत्क्रतुत्वात्, एवं सगुणे ब्राहृणि स्थितमपि निरवग्रहैश्वर्यं सगुणोपास-कानां न प्राप्यम्, । अतत्क्रतुत्वात्, सत्यकामत्वादिलक्षणैश्वर्यस्योपास्यत्वेपि निरवग्रहैश्वर्यविशिष्टं उपासीतेति श्रुत्यभावेन निरव-

4.4.22

 

-ग्रहत्वांशस्थानुपास्यतया तत्प्राप्त्यभावात् न निरवग्रहैश्वर्यं सगुणोपासकस्येति । निर्गुण प्राप्तावावृत्तिशङ्काया अभावादिति - ततश्च सगुणप्राप्तिविषयमेवेति भावः- अन्ये त्वित्यादि । चत्र्मान्तरे पुनरावत्तिरिति - नचैयम्, इतिशब्दवैयथ्र्यमिति शङ्कनीयम्,

4.4.22

 

अनेकार्यास्पदत्वसूत्र त्वेन तत्साफल्यात् । मुक्तप्राप्यत्वायोगादिति - यद्यपि यादवमते "आप्नोति स्वाराज्य'मित्यस्य न मुक्त-विषयत्वम्, तथापि स्वाराज्यपदस्वारस्यात् मुक्तविषयत्वमभिप्रेत्य एतद्दूषणमुक्तमिति द्रष्टव्यम् । भाष्योक्ताशेषार्थपरामर्शीति - अशेषार्थहेतुत्वपरामर्शीत्यर्थः । सर्वं समञ्जसमित्येतत् उक्तमिति पदाध्याहारेण उक्तं सर्वं समञ्जसमिति व्याख्याय सर्वशब्दस्यानु-दाह्मतश्रुत्यादिपरत्वमभिप्रेत्य द्रष्टव्यपदाध्याहारेण व्याचष्टे । सर्वशब्देनानुदाह्मतेति - ननु परोक्तबाधकप्रमाणतर्काणां भाष्येऽ-नुपन्यस्तानां परिहारप्रकारस्याप्रदर्शितत्वात् कथं सर्वसामञ्जस्यं द्रष्टव्यं स्यादित्याशङ्कयाह - उक्तार्थबाधकत्वेनेति । भाष्योप-न्यस्यैरेव न्यायौः परोत्प्रेक्षितानानुत्प्रेक्षिष्यमाणानाञ्च प्रमाणतर्काभासानां परिहारस्सुगम इति भावः ।। । ।।

।। इति जगद्वयापारवर्जाधिकरणम् ।।

।। इति तादार्थचरणारबिन्दचश्चरीकैः वात्स्यानन्तार्यसेवासमधिगतशरीरकमीमांसाभाष्यह्मदयैः

परकालमुनिकपालब्धपारमहंस्यैः श्रीमद्दशोपनिषद्भाष्यकारैः श्रीरङ्गद्रामानुजमुनिभिर्विर-

चितायां श्रुतप्रका#ि#ाकाव्याख्यायां भावप्रकाशिकायां चतुर्थस्याध्या-

यस्य चतुर्थः पादः ।।

समाप्तच्चाध्यायः ।

समुदितधिकरणसङ्ख्या - 156 - समुदितसूत्रष्टदृल्वा - 544 ।।