← द्वितीयोऽध्यायः भावप्रकाशिका
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →

3.1.1

 

भाष्ये - तद्दुर्धर्षणत्वहेतुभिरिति, प्रथमाध्यायार्थदुर्धषर्णत्वहेतुभिरित्यर्थः, अनेन द्वितीयाध्यायार्थस्य प्रथमाध्यायशेषत्वं रव्यापितम् । अत एव द्वितीयाध्यायार्थः तृतीयान्तपदाभ्यां निर्दिष्टः "सह युक्तेऽप्रधान' इति हि स्मृतिः, इदानीमिति व्याख्येयं पदम् । विषयि-चिन्ता क्रियत इत्यर्थः इति - प्राप्तेरप्यनुभवरूपतया उपासनप्राप्त्योः तृतीयचतुर्थाध्यायप्रतिपाद्ययोः ब्राहृविषयकतया विषयिचि-न्तात्वेन क्रोडीकारो युक्त इति भावः, भाष्ये - लोकान्तरेषु सञ्चरतो जाग्रत इति, लोकन्तरेषु सञ्चरतो जाग्रतो दोषा इति वैराग्य-पदार्थ उक्तः । अत एव हि सन्ध्याधिकरणे एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितमिति भाष्य-कारः स्वयमेव वक्ष्यति । परैश्च यस्य पूर्वस्मिन् पादे जाग्रदवस्थायामिह लोकपरलोकसञ्चार उक्तः, तस्यैव जीवस्य अवस्थाभेदः स्वयं-ज्योतिस्स्वसिद्धयर्थं प्रपञ्च्यत इति तत्रैवाधिकरण उक्तम् । भाष्ये - स्वपत इति, स्वप्नावस्थस्य ग्रहणं सुषुप्तपदसमभिव्याहारेण गौबलीवर्दन्यायात् सुषुप्तस्येति भूतत्वमविवक्षितम्, अत्रावैरूप्याय सुस्वपत इति शत्रन्ततया निर्देशे कर्तव्ये निष्ठान्ततया निर्देशः, "तत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति, यदा सुषुप्तः स्वप्नं न कथञ्चन पश्यति' इत्यादि श्रुतिनिर्देशाभिप्रायेणेति

3.1.1

 

द्रष्टव्यम् । कल्यागुणकरत्वञ्चेति भाष्यानन्तरमितिशब्दः अध्याहत्र्तव्यः, सच प्रकारवचनः, ततश्च उभयलिङ्गत्वं सर्वस्मात्परत्वं फलप्रदत्वमित्येवंरूपोऽर्थः प्रतिपाद्यत इति, एवञ्च प्रतिपाद्यत इति एकवचनस्य बहुवचनान्तदोषशब्दानन्वयेऽपि नानुपपत्तिः । केचित्तु "आदिञिटुडवः' कर्मणोरोमन्थतषोभ्यां वर्त्तिचरोः "दिवादिभ्यो भुव्यच्वे'रित्यादिवत् प्रत्येकमभिसम्बन्धादेकवचनम् समर्थयमानाः सर्वोत्तरत्वफलप्रदत्वयोरपि कल्याणगुणाकरत्वान्तर्भावं मन्यमाना इति शब्दाध्याहरं न ममृषिरे । ननु पूर्वद्विका-र्थानुक्रमण एव निरस्तनिखिलदोषगन्धस्यापरिमितगुणसागरस्य प्रतिपादितत्वाभिधानात् परस्य ब्राहृणः तद्रहितता कल्याणगुणा-करत्वं च प्रतिपाद्यत इति भाष्यमसङ्गतमिति चेत्, उभयलिङ्गपादस्य सद्दाढर्¬ाथत्र्वेन वैयथ्र्याददोषः । ननु लोकान्तरे सञ्चरतो जीवस्य दोषाः प्रतिपाद्यन्त इति यदभाषि, तदभ्युपगम्यते-प्रथमपादे तथा प्रतिपादनात्. तथाहि प्रथमे तावदधिकरणे संसार-दुःखायतनस्य भूतेन्द्रियसङ्घातरूपस्य सूक्ष्मदेहस्य इह परत्र च गतागतयोरनुवृत्तिरस्तीति निरूप्यते, तत्रैव "भाक्तं वाऽनात्मवि-त्त्वा'दिति सूत्रेण देवभृत्यभावमवलम्ब्य तत्प्रयुक्तक्लेशकरं बितस्य स्वर्गभोगानुभवस्य प्रक्षीणत्वं सातिशयत्वञ्चाविष्कृतम्, द्विती-याधिकरणे सूक्ष्मदेहस्यापि कारणतया सकलसंसारक्लेशनिदानस्य कर्मबन्धस्य मुक्तिपर्यन्तमनुवृत्तिर्निरूपयिष्यते । तत्रैव स्वर्गभो- गस्य क्षयिष्णुत्वञ्च "कृतात्यये' इति सूत्रभागेन दर्शयिष्यते, एवमनेकदोषदुष्टस्यापि स्वर्गभोगजनकं यागादिकमपि यावज्जीवकत्र्त-व्यस्नानसन्ध्यावन्दनादिविहितानुष्ठाननिषिद्धपरिहाररूपबहुविधक्लेशसाध्यस्मात्र्ताचारसापेक्षत्वादिति दुष्करमिति "चरणा'दित्या-दिसूत्रैः प्रकटीकरिष्यते; अनिष्टादिकारिणान्तु ग्रामं गच्छन्वृक्षमूलान्युपसर्पति इति न्यायेनापि स्वर्गप्राप्तिर्नास्ति, यमसदने रौर- वादिषु च भूयान् यातनानुभवः कीटादिजन्मप्राप्तिश्च तृतीये वर्णयिष्यते, चतुर्थे स्वर्गादवरोहतां आकाशादिभावश्रवणात् तदभि-मानिदेवतानामिव आकाशादिशरीरित्वप्रयुक्तः कियान् द्विभोगानुभवोऽस्तीति शङ्कावारणाय आकाशदिषु संश्लेषमात्रमिति वर्ण-यिष्यते । । पञ्चमे चिरमचिरं वाऽवस्थानमित्यनियमनिरासव्याजेन व्रीह्रादिषु सुखभोगरहितमतिचिरावस्थानं दृढीकरिष्यते, तेषु च अवस्थानं तत्तदभिमानिजीवात्मना चेत् तल्लवनपर्यन्तमेव स्यात् ततश्च नातिहेयत्वं सिध्द्येदिति अतिहेयत्वसिध्यै तेषु संष्लेषमा-त्रमिति वर्णयिष्यते, संश्लेषस्तेषां शोणषकुशूलावस्थापनावहन्नफलीकरणपाकभक्षणादिदशासु अनुवत्र्तमानः पितृवीयात्मना परि-णामपर्यन्तः, पुरुषभक्षणविषयत्वं मनापन्नेषु व्रीह्रादिषु संश्लिष्टानामनुशयिनां तेषु संश्लेषस्तु व्रीह्रादिपरिणामान्तरपरम्पराक्रमेण यथा-कथञ्चित्पुरुषभक्षणविषयत्वप्राप्त्यनन्तरं तेषां तद्वीर्यात्मना परिणामपर्यन्त इति "रेतः सिग्' सूत्रे संसूचयिष्यते, तथा पुरुषवी-र्यानुप्रवेशेऽपि योषितमप्राप्य तेषां न शरीरलाभः तद्वीर्यं यदि उध्र्वरेतषां बन्ध्यादिषु प्रवत्र्तानां वा स्यात्, तदा तद्वीर्यपरिणा-मान्तरक्रमेण पुनरपि पुरुषभक्षणविषयत्वं प्राप्य तद्वीर्यसंषक्ततया रितुमतीनां योषितां गभर्गोलकप्रवेशानन्तरमेव क्कचिज्जन्मनि भोगाश्रयस्य भोगमोक्षोपयोगिनश्च शरीरस्य लाभः, तथा स उल्वावृते गर्भो दशा मासानन्तः शयित्वा यावद्वा अथ जायत इति मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गभस्र्य उल्वाशुचिपाटवृतस्य

लोहितरेतोऽशुचिबीजस्य मातुरशितपीतरसानु- प्रवेशेन विवद्र्धमानस्य निरुद्धबलशक्तिवीर्यतेजःप्रज्ञाचेष्टस्य शयनम्, ततो योनिद्वारेण पीड¬मानस्य कष्टतरा निसृतिर्जन्मेति "योनेः शरीर'मिति सूचयिष्यते । अत एव तस्मात् जुगुष्सेतेति पञ्चप्रश्नीप्रतिवचनानन्तरं श्रूयते, ततश्च युक्तम् इहामुत्र च सञ्चरतो दोषाः प्रतिपाद्यन्त इति, जागराद्यवस्थस्य दोषाः प्रतिपाद्यन्त इत्येतत्तुन युज्यते, क्कापि तास्ववस्थासु दोशाप्रतिपादनात्, इहामुत्र च

3.1.1

 

सञ्चरणं जागरावस्थस्यैवेति जागरावस्थदोषप्रतिपादनस्य वैराग्यपादे फलितत्वेऽपि स्वप्नाद्यवस्थस्य दोषप्रतिपादनपराधिकरण-स्यादर्शनात्, "सन्ध्ये सृष्टिराह हि' इत्यधिकरणानां उभयलिङ्गपादगतानां अत्याश्चर्यस्वाप्नपदार्थस्त्रष्ट्रत्वसुषुप्तविश्रान्त्याधारत्वा-दिपरमात्ममहामहिमप्रतिपादनपरत्वेन स्वप्नाद्यवस्थादोषप्रतिपादनपरत्वाभावादित्याशङ्कां निराकरोति । लोकान्तरेष्वित्यादिना फलितमित्यन्तेन ग्रन्थेन - अयम्भावः, सन्ध्याद्यधिकरणेषु स्वप्नाद्यवस्थानिरूपणस्य "नाहमत्र भोग्यं पश्यापि नाहं खल्वयमेवं सम्प्रति आत्मनं जानाति अयमहमस्तीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि' इति प्रजापति-विद्योदितदोषसंसूचकत्वात्, "परामिध्यानात्तु तिरोहितम्' "देहयोगाद्वा सोऽपी'ति स्वप्नावस्थायां कर्मदेहसम्बन्धाधीनापहतपाप्म-त्वादितिरोधानवर्णनाच्च परमात्ममहिमप्रतिपादनपरेभ्योऽप्याधिकरणेभ्यः स्वप्नाद्यवस्थस्य दोषाः फलन्तीति । प्रथमाधिकरण- स्य संशयमाहेति -अवयवावयविभावे षष्ठी । किं श्रद्धादिशब्दैरिति - आदिशब्देन सोमवृष्टयादयो गृह्रन्ते । पितृयानेन पथा निवत्र्तने एष सोमो राजेति सोमशब्दस्येति - निवत्र्तनं सञ्चरणम्, अथैतमेवाध्वानं पुनर्निवर्तन्त इत्यारभ्यैव निवृत्तेः प्रतिपादयि-ष्यमाणत्वात्, यद्वा निवत्र्तन इति अपादाने ल्युट् ततश्च पितृयानेन पथा यस्मात् द्युलोकात् निवत्र्तते, तत्र विषये "एष सोमो राजे'ति सोमशब्दस्येत्यन्वयः, अयमर्थः "आकाशाच्छन्द्रमसम्' एष सोमो राजा तद्देवानामन्नम् तं देवा भक्षयन्ति' इति पितृ-यानवाक्यस्थसोमशब्दस्य यत्सोमदेहविशिष्टजीवपरत्वं तत् "तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुहति तस्या आहुतेः सोमो राजा सम्भवति' इति पूर्वप्रवृत्तपञ्चाग्निविद्यावाक्यगतस्य सोमशब्दस्य सोमदेहविशिष्टपरतामवगमयति उतनेति । श्रद्धाहुत्यनन्तरवाक्य- स्थ सोमशब्दस्येति - "श्रद्धां जुह्वति' इति वाक्यानन्तरं यत्तंस्या आहुतेः सोमो राजा भवतीति वाक्यं तत्स्थस्येत्यर्थः । भाष्ये - भूतसूक्ष्माणां सुलभत्वादिति, भोग्यभोगोपकरणभोगस्थानवत् भोगायतनानामपि शरीराणां तत्रत्यैरेव भूतैरदृष्टाकृष्टै-

3.1.1

 

रारम्भसम्भवात् न तदर्थमितो भूतसूक्ष्मानयनापेक्षेति भावः । भाष्ये - रंहति गच्छतीत्यर्थः इति, रहि गताविति धातोः निष्पन्न-त्वादितिभावः । ननु भूतसूक्ष्मपरिष्वङ्गपरप्रश्नप्रतिवचनमात्रस्यैव उपन्यसनीयतयाऽधिकोपन्यासासाङ्गत्यमित्याशङ्कयाह -प्रश्नप्रति-वचनाभ्यामित्यादिना । अत्र प्रश्नप्रतिवचनाभ्यामिति सूत्र्यते, नहि "वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति भूतसूक्ष्मपरिष्वङ्गपरप्रश्नानन्तरं सम्परिष्वङ्गपरं प्रतिवचनं दृश्यते, "यामेव कुमारस्यान्ते वाचमभासथाः ताभेव मे बूहि' इति गौत-मकत्र्तृकप्रश्नान्तरेण व्यवधानात्' इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यस्य पाञ्चालराजकत्र्तृकप्रतिवचनस्य "वेत्थ यथा पञ्चम्यामाहुता'विति पाञ्चालराजकत्र्तृकस्य गौत्तमप्रश्नव्यवहितप्रश्नस्योत्तरत्वासम्भवात्, एवं हि तत्र श्रूयते "श्वेतकेतुमारुणेयं पाञ्चालराजः प्रवाहणो, वेत्थ यदितोधिप्रजाः प्रयन्ति' इति कर्मिणां गन्तव्यदेशं "वेत्थयथा पुनरावत्र्तन्ते' इति पुनरावृत्तिप्रकारं "वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना' इति यानयोः व्यावत्र्तकाकारौ "वेत्थ यथाऽसौ लोको न सम्पूर्यते' इति अमुष्य लोकस्य अप्राप्तारं "वेत्थयथा पञ्चम्यामाहुवापः पुरुषवचसो भवन्ति' इति पञ्चम्यामाहुतावषां पुरुषवचस्त्वञ्च पप्रच्छ । निवतर्यितुं तस्य हि प्रश्नस्य् "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति पाञ्चालराजप्रतिवचनमिति । इमांमन्दाशङ्क इतितु - "पञ्चम्यामाहु-तावापः' इत्यादिप्रतिवचनानां पाञ्चालाराजकर्तृकाणां पञ्चानां पाञ्चालराजकर्तृकप्रश्नपञ्चकाव्यवधानक्रमरूपतां दर्शयति-इत्यर्थः । "यामेव कुमारस्यान्ते वाचमभाषथाः' इति गौतमप्रश्नस्य पाञ्चालराजकर्तृकपञ्चप्रश्न्यभिन्नत्वेन तद्भिन्नत्वानुपपत्तेः, यद्ययं प्रश्नः भिन्नः स्यात्-तदा एकमेव प्रतिवचनं स्यात्, अतः प्रतिवचनपञ्चकदशर्नात् पाञ्चालराजकर्तृकाणामेव पञ्चानां प्रश्नानामुत्तरमवसीयते, अत एव "यामेव

कुमारस्यान्ते वाचमभाषथाः' इति गौतमप्रश्नस्य पाञ्चालप्रश्नाभिन्नत्वात् प्रश्नप्रतिवचनयोरव्यवधानरूपक्रमः सिद्ध.। नत्वत्र पञ्चानां क्रमेण प्रश्नानां प्रतिवचनानि-प्रथमस्य प्रथमं द्वितीयस्य द्वितीयम् इत्येवमितिन भ्रमितव्यम्, न ह्रत्र प्रश्नक्रमेण प्रति-वचनानि प्रवृत्तानि, अपि तु "वेत्थ यथा, पञ्चम्यामहुतौ' इति स तावदिमान् प्रश्नात् प्रतिवक्तुमजानन् स्वापित्रे व्यवेदयत् । सीपिच अजानन् तमेव पाञ्चलारज पप्रच्छ । प्रश्नात्हि प्रथमतः प्रतिवचनं दृश्यते, न च प्रश्नप्रतिवचनानामानन्तय्र्यरूपः क्रमोभाष्ये न दर्शित इति चोदनीयम्, इममर्थं पप्रच्छ प्रतिब्राुवँश्चेति भाष्यग्रन्थेन तत्प्रश्नानां प्रतिवचनत्वख्यापनेन तदानन्तर्यस्य ख्यापनात् । होतव्यद्र-व्याकाङ्क्षायामिति -यद्यप्यापां पुरुषवचस्त्वविशेषि-तभवनक्रियासम्बन्धमात्रं शाब्दं, तथापि आहुतीनां द्रव्याकाङ्क्षायां सन्निधानेनाप एव द्रव्यत्वेन सम्बध्यन्ते, ततश्च अपरं पञ्चम्य पञ्चमस्य प्रश्नस्य, 'इति तु पञ्चम्या माहुतौ इति तासामेवापां पुरुषाकारेण परिणामं

वेत्थ इति प्रश्नवाक्यार्थः पर्यवस्यति, न च अपां सन्निहतत्वेऽपि तत्सन्निधेः पुरुष-

3.1.3

 

वचस्त्वविशेषितभवनक्रियान्वयार्थतया अन्यार्थसन्निहिताभिरद्भिः आहुतीनान्न विशेषितत्वं सम्भवति, नह्रश्वेन गच्छति श्वेतेन पटेन प्रावृत इत्युक्ते पटार्थसन्निहितेन श्वेतेनाश्वोऽपि विशेष्यत इति वाच्यम् सत्यामाकाङ्क्षायामन्याथर्सन्निहितस्यापि अन्यविशेषक-त्वसम्भवात्, "मूलतः शाखां परिवास्योपवेशं करोति' इत्यत्र परिवसनापादानतयाऽन्वितस्य मूलत इत्यस्य उपवेष करोतीत्यनेन साकाङ्क्षेणाऽप्यन्विस्य प्रयुक्तिलक्षणे दर्शितत्वादिति भावः - वाक्यान्तरस्थेति । ननु वाक्यान्तरस्थत्वेऽपि प्रयमेऽग्नौ श्रुतां श्रद्धां परित्यज्य स्ववाक्यस्थत्वरूपसन्निधिकात्रमवलम्व्य अपो होम्यत्वेन परिकल्प्यन्त इत्येतत्कथमिति चेत्, असञ्जातविरोध्युपक्रम-गतप्रश्नवाक्ये एवापां होम्यत्वस्य निर्णयात्, उपसंहारे "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यत्रापि तथैव प्रतीतेः, वाक्यान्तरस्था श्रद्धा प्रश्नप्रतिवचनवाक्यमध्यस्था, अन्तरशब्दो मध्यवचनः, मध्येऽपि तत्प्रकार एव उपपादित इति ग्रन्थकृतैव प्रथमे श्रवणादित्यत्र वक्ष्यमाणत्वात्, ततश्च सन्दंशन्यायेनोपक्रमाधिकरणन्यायेन च तदनुगुणतयैवात्मानं लभते न तद्विरोधेनेत्यदोषः । परिणामस्यायोग्येति - इदमुपलक्षणम् । आत्मधतर्मभूतायाः श्रद्धायामः आत्मतो निष्कृष्यहोमासम्भवाच्चेत्यपि द्रष्टव्यम्, एतत्सर्वं "प्रथमेऽश्रवणादिति चेन्न ता एव ह्रुपपत्ते'रिति सूत्राभिप्रेतम् तत्रैवोपन्यसनीमय् प्रतिपत्तिसौकर्याया-

3.1.5

 

नागतवेक्षणन्यायेन इहोपात्तमिति द्रष्टव्यम् प्रश्नप्रतिवचनाभ्यामिति प्रश्नयोः निरुपणे प्रश्ननिरुपणे ताभ्यां इति व्याख्यातव्यम् विग्रहो विवक्षित इति भावः ।। ।। त्र्यात्मकत्वात्तु भूयस्त्वात् ।। शङ्काग्रन्थस्थपरिष्वङ्गब्देनेति । अस्य पूर्वेणान्वयः, कथं परिष्वङ्ग इति शङ्कायामाह - त्र्यात्मकत्वादिति । भाष्यग्रन्थेन त्र्याताम-कत्वात् परिष्वङ्ग इत्यन्वयो दर्शित इति भावः ।। प्राणगतेश्च (3-2-1) ।। अवान्तरसाध्यान्वयव्यावृत्त्यर्थमिति - भूयस्त्वादिति हेत्वंशस्य यत्साध्यं केवलानामषां श्रवणमुपपद्यत इति तदन्वयव्यावृत्त्यर्थमित्यर्थः ।। अग्न्यादिगतिश्रुतेरितिचेन्नमाक्तत्वात् (3-1-4) ।। ओषधिवनस्पतिषु चाप्ययरिंहतैरिति - मृतस्य लोभ्नां केशानाञ्च उत्प्लुत्योत्प्लुत्य ओषधिवनस्पतिषु अप्ययादर्शनादिति भावः । लोमाभिमानि देवता इति - "अग्निर्वाग्भूत्वा मुखं प्रविशत्, वायुः प्राणो भूत्वा नासिके प्राविशत्, आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्, दिशः श्रोत्रं भूत्वा कर्णौ प्राविशत्' ओष-धिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशत्' इत्यादिवाक्यपर्यालोचनया ओषध्यभिमानिदेवतानां लोमाभिमानिदेवतानां च

3.1.6

 

ऐक्यं सिद्धम्, ततश्च "ओषधिर्लोमानि वनस्पतीन् केशा' इति वृहदारण्यकवाक्यस्यापि लोमाभिमानिदेवतासु अप्ययो नाम तद-भिमन्तृत्वरूपतन्नियन्तृत्वपरित्याग इत्यर्थः समाश्रयणीयः, एवं वागादिष्वपि उपपद्यत इति भावः । ननु अग्न्यादीनां मरणकाले वागाद्यभिमानित्वपरित्यागे प्राणानामुत्क्रान्तिगतिचन्द्रसम्वादादिकार्याण्यपि न सिध्द्यन्ति, ततश्च प्राणगतेश्चेति सूत्रासामञ्जस्यं परिहरता प्रकारान्तरेण सूत्रासामञ्जस्यमेव दृढीकृतं स्यात्, ततश्च वागादीन्द्रियाणां भ्रियमाणानुपकारकत्वेनासत्कल्पत्वेनापीत-सादृश्यात् वागादिरपीत इत्युच्यत इत्युपचाराश्रयणमेव ज्याय इति चेत्

म्रियमाणजीवं प्रति वागादीनामुपकारविशेषापादकत्वा-नुकूलाभिमानविशेषपरित्यागस्यैव विवक्षितत्वात्, न च भाक्तत्वाश्रयणेऽविशिष्टे असत्कल्पत्वेनापीतसादृश्यात् भाक्तत्वमिति परोक्तं किं नाश्रियत इति वाच्यम्, शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य सिद्धतया वागादिशब्दानां तद्देवतापरस्वस्य सम्भवात् तत्राप्ययश्रुतेरभिमानविशेषमात्रपरित्यागमात्रेण कथञ्चिदुपपत्तिरस्तीति तदपेक्षया ज्यायस्त्वमिति भाष्यकाराभिप्रायः ।।अश्रुतत्वादितिचेन्न इष्टादिकारिणां प्रतीते ।। नन्वस्मिन्नेव वाक्य इति भाष्यमयुक्तम्, पितृयाणवाक्य एवेष्टादिकारिणां सोमराजभावः श्रूयते, नास्मिन् पञ्चाग्निविद्यावाक्य इत्य; अत आह - महावाक्य इत्यर्थः इति । भाष्ये - सोमराजान इति निद्र्देशस्समासान्तविधेरनित्यत्वात्, तस्य च "प्रतेरंश्चा-दयस्तत्पुरुष' इत्यादिषु राजाशब्दपाठेन ज्ञापनात्, सोमाराजान इति वा-सोमराजा इति वा पाठः समीचीनः । उक्तप्रकारेणा-

3.1.7

 

नुतिष्ठन्तीति - श्रुतावितिशब्दः प्रकारवचनः. ततश्च इष्टं-पूत्र्तं दत्तं-अनशनम् एवं जातीयकानि कर्माणि सुकृतशब्दवाच्यानियेऽनुतिष्ठन्तीत्यर्थः, उक्तप्रकारेणेत्यस्यापि स एवार्थः, पूर्वश्रुतावनुष्ठानप्रकारस्यानुक्तेः तद्योगी भवतीत्यर्थ इति, इदन्तु रेतः सिग्- सूत्रे ग्रन्थकृतैव स्पष्टयिष्यते । उभयत्र सोमराजशब्देनेति - इदमुपलक्षणम्, द्युलोकस्थानसम्बन्धित्वेनेत्यपि द्रष्टव्यम् ।। । ।। तत्सेवकत्वादिति - नृत्तगीतादिना तत्सेवकत्वादित्यर्थः । परे त्वित्यादि - द्रवद्रव्यभूयस्त्वादिति पूर्वेणान्वयः, अग्निहोत्रादिकर्मणां द्रवद्रव्यसाधनकतया तत्कर्मसम्बन्धिषु दधिपयःप्रभृतिषु हविष्षु भूयसीनामुपलम्भात् ता एवाप इहाप्शब्देन अभिधीयन्त इति भावः, ते वा एते आहुती, अग्निहोत्राहुती, इमामिति पृथिवीमित्यर्थः । अपूर्वरूपेणेति - कर्मसमवायिन्य आहुतीमत्य

3.1.7

 

आप अपूर्वरूपास्सत्यः तानिष्टादिकारिणो जीवान् परिवेष्टययामुं लोकं फलदानाय नयन्तीतिशाङ्करभाष्योक्तेरिति भावः । जीवान् परिष्वजत इति पाठः पटैकदेश इति । यथा पटैकदेशे दग्धेपटो दग्ध इति व्यवहारः अमुख्यः, तथा "ते वा एते आहुती' इत्यत्र आहुतिशब्दस्य आहुत्येकदेशे प्रयोगोऽमुख्यः स्यादित्यर्थः । पूर्वपक्षपराणि व्याख्यातानीति - पूर्वपक्षसूत्रितया व्याख्यातानीत्यर्थः, ननु द्युपृथिवीपुरुषयोषिद्रूपाणां प्रत्यभिज्ञापकानां पञ्चाग्निविद्यायां भूयसां सत्वेन षट्प्रश्नप्रमाणप्रत्यभिज्ञानमस्त्येव, किञ्चित् न्यू-नातिरेकवशेन प्रत्यभिज्ञाभङ्गे "अर्चिरादिना तत्प्रथितेः' "सर्वाभेदादन्यत्रेमो' इत्यधिकरणविरोधप्रसङ्गात्, देवतातृप्तिहेतुत्वेन श्रुतानां पुरुषवचस्त्वपय्र्यन्तावस्थाविशेषस्यापि नानुपपत्तिः, "तं देवा भक्षयन्ति' इति श्रुतस्य सोमाकारपरिणामदेहगतदेवभक्ष्य- त्वस्य जीवे "एतदेवामृतं दृष्ट्वा तृप्यन्ति' इति न्यायेन तृप्तिहेतुभूतदर्शनकर्मत्वरूपतया सिद्धान्तिनोऽपि सम्मतत्वेन देवतातृप्तिहेतु-त्वस्य वृष्टयन्नादिपरिणामाविरोधित्वादित्यस्वरसादाह - भवतु वा विभाग आहुतीनामिति । यथा स्वप्शब्द एवेति श्रप्श- ब्दस्य पुरुषशब्दसामानाधिकरण्यनिर्वाहाय लक्षणयापि समाश्रयणीयस्य जीवपरत्वस्यान्यतरेणैव लक्षणां मुख्यया वृत्त्या सिद्धौ कस्तत्परित्यजेदिति भावः । चन्द्रप्राप्तिदशायामिति - एष इत्येतच्छब्दस्य "आकाशाच्चन्द्रमसमभिसम्भवन्ति' इति पूर्वनिर्दिष्ट-

3.1.7

 

चन्द्राभिसम्भवनविशिष्टजीवपरामर्शित्वात् चन्द्रप्राप्त्यनन्तरं सोमराजत्वे सिद्धे तत्प्रत्यभिज्ञानात् पञ्चाग्निविद्यायामपि सोमभाव- स्य चन्द्रप्राप्त्यनन्तरभावित्वं सिध्द्यतीति भावः । एष इति सर्वनामपदेनेति - प्रथमान्तसर्वनामपदेनेत्यर्थः, विभक्तिसारूप्येन प्रथमान्तनिर्दिष्टस्यैव प्राप्तुः जीवस्य परामर्शो युक्तः "प्रजापतिर्वरुणायाश्वमनयत् सस्वां देवतामाच्र्छत्' इत्यत्र स इति प्रथमान्तपदेन न चतुथ्यन्र्तनिर्द्दिष्टस्य प्रतिगृहीतुर्वरुणस्य ग्रहणम्, अपि तु समानविभक्तिनिर्दिष्टस्य प्रजापतेः ग्रहणमिति "तस्यैवारुणान्चतुष्कपा- लान् निर्वषेत्' इति विहितेष्टिरिति पूर्वतन्त्रे स्थितत्वादिति भावः, न च विभकत्यैकरूप्येण प्रथमान्तनिर्दिष्टस्य ग्रहणे "स उत्तमः पुरुषः' इत्यत्रापि स इति तच्छब्देन "एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति पूर्ववाक्ये प्रथमान्तसम्प्रसादशब्दनिर्दिष्टस्य जीवस्यैव ग्रहणं

स्यात् , न तु परं ज्योतिरुपसम्पद्येति द्वितीयान्तपदनिर्दिष्टस्य परस्य ब्राहृण इति चेत्-न, प्रथमान्तनिर्दिष्टस्य जीवस्य स इत्यनेन ग्रहणे तस्योत्तमपुरुष इति प्रतिपाद्यमानपुरुषोत्तमत्वस्य जीवे बाधित- त्वेन तत्र विभकत्यैकरूप्यावगतसम्प्रसादशब्द वाच्य जीवपरित्यागोपि असति बाधके विभकत्यैकरूपस्य नियामकत्वसम्भवात् । विभक्तिमात्रस्येति - वचनमात्रस्येत्यर्थः, एवमुत्तरत्रापि विभक्तिशब्दो वचनपरो द्रष्टव्यः, विभकत्यर्थक्लेशस्याप्रसक्तेः, ततश्च बहु-पत्नीकप्रयोगेऽपि "पत्नीं सन्नह्र' इत्येकवचनवत् वाक्यस्य प्रातिपदिकस्य च गुणभूतं वचनं प्रत्येकमेकत्वाभिप्रायेण वा जात्यभि-प्रायेण वा योजनीमय्, अभ्युदितेष्टौ "यस्य हविर्निरुक्तं पुरस्ताच्चन्द्रमा अभ्युदियात् स त्रेधा तण्डुलान् विभजेत्' इत्यत्र तण्डुलानां त्रेधा विभागो न विधीयते, ये मध्यमाः स्युरित्यादिवाक्यैरेव मध्यमादिविभागस्य सिद्धत्वेन वाक्यवैयथ्र्यप्रसङ्गात्, तण्डुलशब्देन दार्शिकहविर्लक्षयित्वा तस्य पूर्वदेवतापनयो विधीयते इत्येवं वाक्यावैयथ्र्याय वाक्यान्तर्गतबहुपदास्वारस्याश्रयणे न्यायसिद्धे वाक्या-वैयथ्र्याय वचनमात्रास्वारस्याश्रयणं कैमुत्यसिद्धमिति भावः । विभकत्यर्थनिर्बन्धाभावदर्शनादिति - एकवचनान्तनिर्दिष्टस्य एक-वचनान्तेनैव निर्देशः, बहुवचनान्तशब्दनिर्दिष्टस्य बहुवचनान्तेनैव निर्देशः इति नियमाभाव इत्यर्थः । ननु पञ्चाग्निविद्यायामपीति - अयं भावः- पञ्चाग्नि विद्यायां सोमराजशब्दस्य चन्द्रेतरविषयत्वे सिद्धे तत्प्रत्यभिज्ञापनेन प्रयोजनवत्तया "एष सोमो राजा' इति

3.1.7

 

पितृयाणवाक्ये एतच्छब्दस्य प्राप्तविषयत्वं स्यात्, पञ्चाग्निविद्यावाक्यथसोमराजशब्दस्यापि चन्दविषयत्वे "एष सोमो राजा' इत्य-स्यापि प्राप्तृपरत्वेऽपि निष्प्रयोजनत्वाविशेषात् एकवचनस्वारस्येन स्यादिति । अस्यसोमराजशब्दस्येति - पञ्चाग्निविद्या-वाक्य-स्थसोमराजशब्दस्येत्यर्थः । चन्द्रव्यतिरिक्तविषयताज्ञानमात्रमिति - तस्यचन्द्रविषयत्वनिश्चयेऽपि पितृयाणवाक्ये "एष सोमः' इति इष्टादिकारिणं निर्दिश्य पञ्चाग्नि#ाविद्यावाक्यप्रतिपन्नचन्द्राभेदबोधनासम्भवात्, ननु तावता चन्द्रविषयतेवनिश्चयाभावस्य प्रति-बन्धकाभावत्वेन अपेक्षितत्वेऽपि चन्द्रव्यतिरिक्तविषयत्वनिश्चयोनापेक्षित इति चेत् सत्यम्, "चन्द्रव्यतिरिक्तविषयत्वनिश्चयसाम-ग्रीभूतसम्भवहोम्यत्वानुपपत्तेः सत्वात् इह तथोक्तमिति द्रष्टव्यम् । सम्भवहोम्यत्वानुपपत्त्येति - सोमराजा सम्भवति सोमं राजानं जुह्वतीति प्रतिपादितसम्भवहोम्यत्वयोरनुपपत्तेरित्यर्थः । एतावञ्ज्ञापनेनेति - ननु चन्द्रप्राप्तिदशायां श्रद्धाहुतिसम्भूत-सोमराजभावज्ञापनं "एष सोमो राजा' इति वाक्यस्य प्रयोजनम्, एष इत्यनेनापि सम्भवतीति लटा वत्र्तमानाभिसम्भवविशिष्टः चन्द्रं प्राप्नुवन् जीवः कथ्यते, "सोमो राजा' इत्यनेन तु "तस्या आहुतेः सोमो राजा सम्भवति' इति पञ्चाग्निवाक्यात् प्रतिपन्नश्रद्धा-हुतेरुत्पाद्यमानः सोमो राजा विधीयते; ततश्च तयोरभेदबोधने चन्द्रप्राप्तिसोमराजभावयोरेककालत्वप्रतीतेः चन्द्रप्राप्तिदशायां सोम-राजभावस्सिध्यतीत्येवं क्लेशेनोपपादनीयस्य चन्द्रप्राप्तिदशायां सोमराजभावस्य प्रयोजनत्वं किमित्याश्रीयते, एष इति निर्दिष्टस्य प्राप्तुः सोमराजेति पञ्चाग्निविद्यावाक्यस्थसोमराजाभेदबोधनेन सिध्यतः पञ्चाग्निविद्यावाक्यगतसोमराजशब्देष्टादिकारिविषयित्व-स्येव प्रयोजनत्वोपपत्तेरिति चेत्-सत्यम्, प्रयेजनान्तरस्य सम्भवतः त्यागायागात् तदप्युपन्यस्तम्, ननु एष सोमराजेति इष्टादि-कारिणि प्रयुज्यमानस्य सोमराजशब्दस्य पञ्चाग्निविद्यावाक्यस्थसोमराजशब्दस्य गौणार्थीभूतश्रद्धाहुतिसम्भूतामृतदेहाभेदबोध- कत्वं न युज्यते, अतः तस्मिन्तच्छब्दस्य प्रयुज्यमानस्य तच्छब्दस्य तत्सादृश्यबोधकत्वमेव, न तु तत्सदृशगौणार्थाभेदबोधकत्वमित्यस्वरसा-

कृतात्ययाधिकरणम्

3.1.8

 

दाह - अथवेति । चन्द्रसादृश्यज्ञानमेवेति - "तद्देवानामन्न'मिति वाक्यशेषे तस्यैव विवरणदर्शनात्, देवानामन्नं, देवनामुपभो-ग्यमित्यर्थः । न च तत्सादृश्यप्रतिपादनं फलमिति वाच्यम्, तस्य तं देवा भक्षयन्तीति देवोपभोग्यत्वरूपभयत्वप्रतिपादनेनार्थ-वत्त्वात्, न चास्मिन्पक्षे पञ्चाग्निविद्यावाक्यगतसोमराजाभेदबोधनाभावात् तद्गतसोमराजशब्दस्य इष्टादिकारिविषयत्वासिद्धेः "अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते'रिति सूत्रविरोधः, पञ्चाग्निविद्यायां "आपः पुरुषवचसो भवन्ती'ति चेतनवाचिपुरुष-शब्दसामानाधिकरणेन सिध्युपपत्तेः गौणचन्द्रपदप्रयोगविषयत्वद्युलोकसम्बन्धित्वकृततदैक्यप्रत्यभिज्ञानस्यानुनिष्पादिनः प्रत्या-ख्यातुमशक्यत्वादिति भावः । तेषां

न सोमराजशब्दाभिलप्यत्वमिति - किमिष्टादिकारिणां सोमराजशब्दगौणार्थत्वं निषिध्यते, उत मुख्यार्थत्वमिति विकल्प्य आद्यं दूषयति । छान्दोग्यस्थस्य सोमराजशब्दस्येति - यथा श्येनेनाभिचरन् यजेत्,-इत्यत्र श्येन-शब्दस्य कथं नाम यागे प्रवृत्तिः स्यादित्येवमर्थं यथा वैश्येन, इत्यादिवाक्यं प्रवर्तते तद्वदिति भावः । द्वितीयमिष्टापत्त्या दूषयति - न हि वृत्यन्तर इति ।। ।। इति तदन्तरप्रतिपत्त्यधिकरणम् ।।

अत्र भाष्ये - पुनरावत्र्तनञ्च आम्नातमित्यस्य अनन्तरं "अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूमभिमस्मवन्ति' इत्या- रभ्य इत्यध्याह्मत्य "यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते' इत्याम्नातमित्यन्वयो द्रष्टव्यः, ततश्च यावत्सम्पातमिति भाष्योपात्तश्रुतिवाक्येपि पितृयाणपथा नाम्नानं न दोषः, अथवा केवलेष्टादिकारिणां धूमादिना पितृयाणेन पथा गमनं भूतपरिष्व-ङ्गादिप्रकारयुक्तम्, चिन्तितमिति शेषपूरणेन समाप्तं वाक्यम्, कर्मफलावसान इत्यादि तु वाक्यान्तरम्, अस्मिन् पक्षे अवान्तर

3.1.8

 

सङ्गतेः भाष्ये कण्ठतः प्रतिपादनात् विषयशुध्द्यर्थम् अवान्तरसङ्गत्यर्थञ्चेति टीका सुसङ्गता, पादसङ्गतिसूचकं सङ्गत्यन्तरमनयो-रधिकरणयोर्दर्शयति - यावत्संसारमित्यादिना अर्थः सङ्गतिरित्यर्थः इति । अत्रेतिशब्दः प्रकारवचनः, प्रयोजनं एवं जातीया सङ्गतिः प्रयोजनं फलितेति यावत् भुक्तशिष्टं कर्म न शिष्यत इति विरोधमाशङ्कयाह - तच्छब्देति । अवशिष्टं कर्म न सम्भवतीत्यर्थ इति - नाव-शिष्यत इत्यस्य न सम्भवतीत्यर्थः इति भावः । वाक्यवैयथ्र्यमिति - यावन्मरणं जीवनमिति वाक्यवत् इति भावः । भाष्ये - सम्पतन्त्यनेनेति करणे घञिति भावः । अभ्याङ्पूर्वादिति - यद्यपि "कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्द्येत' इत्यादौ अभ्यागन्तृवचनत्वं न सम्भवति, परोक्तं क्षिप्रवचनत्वं तु सम्भवति तथापि अत्रास्यार्थस्य सम्भवात् तथोक्तमिति द्रष्टव्यम्, भाष्ये - प्रत्यवरूढेष्विति

तद्विषयमेव । अभुक्तफलानामकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवान्नाशोऽप्यनुपपन्नः । अतोऽमुं लोकं गताः सानुशया एव यथेतमनेवं च पुनर्निवत्र्तन्ते-आरोहप्रकारेण प्रकारन्तन्तरेण च पुनर्निवत्तन्त इत्यर्थः । आरोहणं हि धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण; अवरोहणन्तु चन्द्रमसः स्थानादाकाशवायुधूमाभ्रमेधक्रमेण । तत्राकाशावरोहणात् यथेतम्, वाय्वादिप्राप्तेः पितृलोकाद्यप्राप्तेश्चा- नेवम् ।। 8 ।।

3.1.8

 

निद्र्धारणे सप्तमी, भाष्ये दर्शयतीति, श्रुतिरित्यनुषज्यते । गौतमापस्तम्बवचनमिति - वर्णा इत्यादि गौतमवचनम्, तत इत्या-द्यापस्तम्बवचनम्, भाष्ये-यावत्सम्पातमिति, फलदानप्रवृत्तकर्मविशेषविषयमिति, यावन्त्यस्य कर्माणि तानि सर्वाण्यपि कदाचि-च्चन्द्रमसमारूढेन न भोक्तुं शक्यन्ते, अनादिजन्ममरणप्रवाहे केषाञ्चित् कर्मणां ततः प्रागेव भुक्तत्वात् नानाविधदेवमनुष्यपशुप-क्षिसरीसृपादिदेहभोग्यत्वेन श्रुतानां कर्मणां एकेन स्वशरीरेण भोकतुमशक्यत्वात् । तस्मादुपक्रमगतस्यापि सम्पातशब्दस्य स्वत एव सङ्कोचकापेक्षायां स्मृत्यनुगृहीतोपसंहारगतरमणीयचरणादिश्रुत्यनुरोधेन तथा सङ्कोचः कत्र्तुं युक्त इति भावः - तद्वय इच्छेद इति । फलदानाप्रवृत्तस्वर्गार्थकर्मैकदेशनिरास इत्यर्थः । स्वर्गकामो यजेतेति श्रुतिस्वारस्यविरुद्धमिति - स्वर्गार्थज्योतिष्टोम- स्यैव रमणीययोन्यादिफलत्वे स्वर्गस्य निरपेक्षसाध्यत्वप्रतिपादकश्रति विरोध इत्यर्थः, अत एव "सौर्यं चरुं निर्वपेत् ब्राहृवर्चसकामः' इत्यादिवाक्यप्रतिपन्नब्राहृवर्चसादिफलकेषु सौर्यादिषु शास्त्रस्य बहुविषयत्वसिध्द्यै विश्वजिन्न्यायेन स्वर्गस्यापि फलत्वे कल्प्य- माने कामश्रुतिप्रतिपन्ननिरपेक्षसाध्यत्वभङ्गप्रसङ्गात् न स्वर्गाद्यर्थत्वमित्युक्तम् पूर्वतन्त्रे । अत एव सर्वकामसाधनत्वेन प्रतिपन्न-ज्योतिष्टोमादेरपि एकस्मिन् प्रयोगे न फलद्वयसाधनत्वमित्यपि, पूर्वतन्त्रे वर्णितमिति भावः । भाष्ये - फलानुभावान्नाश इति, हेतौ पञ्चमी, विभाषा गुण इति योगविभागात् फलानुभवेन नाश इत्यर्थः, "प्रायः पापं विजानीयात् चित्तं तस्य निरोधन'मिति पापस्यैव प्रायश्चित्तनाश्यत्वं न पुण्यस्येति शङ्कां निरस्यति - पुण्यकर्मणोमुमुक्ष्वपेक्षयेति । ननु यथेतमनेवञ्चेति सूत्रखण्डो व्यर्थः, निवत्र्तनीयशङ्काया अभावात्, श्रुतिवाक्य एवास्यार्थस्य स्पष्टं प्रतिपादनात्, अतो न्यायनिबन्धनात्मके सूत्रे किमर्थं तन्निबन्धनमति चेत्, अत्र व्रूमः "अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाश'मिति शब्दादारोहपर्वणामेवावरोहेऽपि प्राति- लोम्येन क्रमप्रतीतावपि "आकाशाद्वायुमित्यौपसंहारिकबहुवाक्यानुरोधात् यथा यथेतमनेवञ्च अवरोहणमभ्युपगम्यते, तथै-वोपक्रमश्रुतयः यावदिति श्रुत्या निरवशेषकर्मभोगप्रतीतावपि "रमणीयचरणाः कपूयचरणा' इत्यादौ औपसंहारिकबहुवाक्यानुरो धात् सावशेष एव कमभोग इति दृष्टान्तसूचनार्थमिति ।। । ।।

3.1.11

 

पृथङ्निर्देशो भिन्नार्थत्वकृत इत्यर्थ इति - अत एव "न वायुक्रिये पृथगुपदेशात्' इति पृथगुपदेशस्य अर्थभेदनिबन्धत्वं सूत्रितमिति भावः । आचारशब्दस्येति - पूर्वपक्षिणा आचारवाचित्वेनोपन्यस्तस्य चरणशब्दस्येत्यर्थः । भाष्ये -पुण्यं कर्माचरतीति, आङुप-सर्गस्य प्रयोगस्त्वविवक्षितः, अत एव हि उतरत्र कर्मणि चरतेः प्रयोगादिति भाष्यम्, चरणशब्दसाधारण्याय चरतेरेव प्रयोगस्य

3.1.12

 

वाच्यत्वादिति द्रष्टव्यम् । कर्मानुष्ठाने प्रयोगादिति - ततश्च चर्यत अनुष्ठीयत इति "कर्मणि कृत्यल्युट' इति ल्युटि चरणशब्दस्य कर्मवाचित्वमुपपद्यत इति भावः । भाष्ये - आचारानुमितश्रुतिविहितसन्ध्यावन्दनादेरिति, "आचारहीनं न पुनन्ति वेदा' इत्यादि स्मार्तप्रयोगानुसारेण आचारानुमितश्रुतिविहितत्वेन आचारशब्दवाच्यानां सन्ध्यावन्दनादीनाम् अग्निहोत्रादिवैदिककर्माधिका-रापादकत्वं युक्तमिति भावः । ननु कृत्स्नस्याप्याचारस्य कथमाचारान्वितश्रुतिविहितत्वेन आचारशब्दवाच्यत्वम्, आचारेष्वेव सन्ध्यावन्दनादिषु केषुचित् स्मृत्यनुमितश्रुतिविहितत्वस्यापि दर्शनात् सन्ध्योपासनस्यैव "अहरहः सन्ध्यामुपासीत' इति प्रत्यक्ष-श्रुतिसिद्धत्वाच्च, किं बहुना, सिद्धान्ते विप्रकीर्णशाखाया एव स्मृत्याचारमूलत्वाभ्युपगमेन सर्वेषामप्याचाराणां प्रत्यक्षश्रुतिसिद्ध- तया आचारशब्दवाच्यानां सन्ध्यावन्दनादीनामङ्गत्वमिति व्यवस्था कथमिति चेत्, अत्र व्रूमः, सत्यम्, सर्वमपि कर्मप्रत्यक्षश्रुति-सिद्धमिति, तथाप्यस्त्येव व्यवस्थापकं वैदिकत्वावैदिकत्वयोः, त्रयी हि वैतानिककर्माधिकारेण प्रवर्तते तन्मध्ये तु प्रसङ्गादेवावैता- निकं किञ्चिदुच्यते, ततश्च यदधिकृत्य त्रयी प्रवर्तते तद्वैदिकम्, इतरत्त्ववैदिकम्, ततश्चान्यत् सर्वं लौकिकं स्मार्तमाचार इत्येव हि वैदिकगोष्ठीव्यवहारः, अयञ्चार्थः पूवर्तन्त्रे सप्तमे विध्यन्तराधिकरणे स्पष्टः, ततश्च वैतानिके कर्मणि अवैतानिकमङ्गमित्यर्थः।। । ।।

।। इति कृतात्ययाधिकरणं समाप्तम् ।। । ।।

साधुकर्मसन्बन्धनियमो नास्तीयुच्यत इति - अत्र साधुकमर्शब्देन तत्फलभूतद्युलोको लक्ष्यते, अस्याधिकरणस्य साधुकमर्र- हितेषु द्युलोकसम्बन्धाभावप्रतिपादनपरत्वादिति द्रष्टव्यम्, अथवा इत्युच्यत इत्यत्र इतिशब्दः प्रकारवचनः, ततश्च वैराग्यहेतोः केषृचिदनिष्टादिकारिणोऽपि जीवाः सनति तृतीयस्थानस्थिताः केचन याम्ययातना अनुभवन्ति, सर्वेऽपि चन्द्रमसं गच्छ- न्तीति एवं जातीयकमिहाधिकरणे प्रतिपाद्यत इति भावः, भाष्ये - केवलेष्टापूर्तेति, केवलेत्यनेन ब्राहृविद्याङ्गभूतेष्टादिव्यावृत्तिः

3.1.13

 

पापव्यावृत्तिर्वा, भाष्ये-विहितम् न कुर्वन्तीति, ननु कथमुभयेषां अनिष्टादिकारिशब्देन ग्रहणं, न च नञ इष्टादिकारिशब्देना- न्वये ये सुकृतं न कुर्वन्ति ते लभ्यन्ते, इष्टादिशब्देनान्वये तद्विरुद्धदुष्कृतकारिणो लभ्यन्ते, तत्रासङ्कोचात् समासद्वयलब्दार्थद्वय-सङ्ग्रहः, ततश्च सुकृतं ये सेवमाना "अपि दुष्कृतमपि न सेवन्ते तेषामपि चन्द्रलोकप्राप्तिव्युदासः सिध्द्यतीति वाच्यम्, तन्त्रावृत्त्ये-कशेषाणाम् अन्यतमाश्रयेन समासद्वयाश्रयणस्य क्लिष्टत्वादिति शङ्का व्युदस्यते । भाष्ये-उभयेऽपि पापकर्माणः इति अयं भावः- नञ इष्टादिशब्देन सुकृतवाचिना समासः, ततश्च दुष्कृतकारित्वमेवानिष्टादिकारिशब्दार्थः, तच्च दुष्कृतं द्विविधमपि भवतीति वस्तुतस्तु सर्वेषामेव पुण्यकारिणां किञ्चित् निषिद्धकर्तृत्वस्यापि सम्भवेन सर्वेषामपि चन्द्रप्राप्तिसम्भवेन इष्टादिकारिशब्देन स्र्व-र्गफलोन्मुखेष्टादिकारिण उच्यन्ते, ताच्छील्ये णिनिप्रत्ययान्तत्वात्, तद्भिन्ना इहानिष्टादिकारिण उच्यन्ते, इति न काऽप्यनुप- पत्तिः । दत्तपूते उच्येते इति - इष्टादिशब्दः सुकृतोपलक्षकः इति भावः । श्रुत्यर्थापत्तिरिति - पञ्चमाहुत्यपेक्षारूपश्रुत्यर्थापत्तिरि- त्यर्थः "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्य विशेषश्रवणात्, न च एतन्मनुष्यमात्राभिप्रायमिति वाच्यम्, रमणीय चरणाः कपूयचरणाः श्वयोनिं वा सूकरयोनिंवा' इत्यविशेषश्रवणात्, भाष्ये - अविशेषेण सर्वेषां गतिश्रवणादिति, अनेन पूर्वत्र यावत्सम्पातमिति विशेषश्रवणस्य स्वतः सङ्कोचसाकाङ्क्षस्य रमणीयचरणा इत्यौपसंहारिकवचनानुसारेण सङ्कोचाश्रयणेपि इह "चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतेः न सङ्कोचः सम्भवतीति प्रत्यवस्थानलक्षणसङ्गतिः सूचितेति द्रष्टव्यम् - पापस्य निष्फलत्वं स्यादित्यर्थ इति । यद्यपि द्वयोः तुल्यफलत्वे बहुवित्तव्ययास साध्यस्य सुकृतस्य व्यत्र्थत्वं स्यात्, इत्येव वक्तुमुचितम्, तथापि "संयमने त्वनुभूय'

इति पापफलानुभवप्रदर्शकसूत्रावतरणभाष्यत्वात् तथोक्तमिति द्रष्टव्यम् ।। । ।। यमाज्ञयेत्यर्थ इति - ननु च संयमनपदं निरोधने

3.1.13

 

प्रसिद्धम्, नतु शासने,तत्रापि यमशासन इत्यर्थश्च दुल्र्लभः, यमस्याप्रसक्तत्वात्, निमित्तसप्तमी चात्यन्तक्लिष्टा, निमित्तात् कर्मसं- योगे सप्तमी वक्तव्येति प्रयोजनतया निमित्त एव, कर्मसंयोगे च सा शिष्टा, यथा-"चर्मणि द्वीषिनं हन्ति दत्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः'इत्यादौ कैयटे क्रियाफलमिह निमित्तत्वेन विवक्षितम्, यत्क्रियायाः प्रयोजकं यदर्थः क्रियारम्भः ततो हेताविति तृतीयायां प्राप्तायां सप्तमी विधीयते, तस्य निमित्तस्य कर्मणा यदि संयोगः सम्बन्धः तेन वेतनेन धान्यं लुनातीत्यत्र सप्तमी न भवति, वेतनस्य धान्येन संयोगाभावादिति वर्णितम्, न ह्रत्र यमाज्ञायाः प्रयोजनतया निमित्तत्व- मस्ति संयमनशब्दस्य यमाज्ञापरत्वे "तत्रापि च तद्ययापारादविरोधः' इति न सामञ्जस्यम्, यमसदनपरत्वे हि यमसदननरकगम- नयोः विरोधशङ्कापरिहारार्थतया सूत्रं समञ्जसं स्यात्, तथा संयमनपदस्य यमाज्ञापरत्वे तत्सूत्रावतरणभाष्यग्रन्थस्यापि सामञ्जस्यम्, न च पुराणान्तरसिद्धयमसदनगमनमादाय विरोधाशङ्कोत्थितिरिति टीकायामुपपादितमिति वाच्यम्, तस्यातिक्लिष्टत्वात्, संय- मने यमशासने तत्प्रयुक्तयमयातना अनुभूयेति भाष्यस्यापि यमशासने शासत्यस्मिन्नित्यधिकरणे ल्युट्, यमाज्ञाविषये संयमनपत्तने यमप्रयुक्तयातना अनुभूयेति व्याख्यानसम्भवात्, तत्रापि तदयापारादविरोध इति सूत्रावतारिकाभाष्यानुरोधेनार्थाश्रयणे दोषाभा-वादिति चेत्, सत्यम्, सूत्रकाराभिप्रायदर्शिबोधायनवृत्यनुसारेणार्थस्यवर्णनीयत्वेन एवं व्याख्यानोपपत्तिः, "प्रभवति संयमने ममापि विष्णुः' इत्यादौ संयमनशब्दस्य शासनेऽपि प्रयोगदर्शनात् संयमनीयशब्दस्य यमपुरवाचित्वेऽपि संयमनशब्दस्य यमपुर-वाचित्वप्रसिध्द्यभावाच्च परिपाल्यमानतया यमाज्ञायाः फलत्वेन निमित्तत्वसम्भवात्, कर्मसंयोगाभावेऽपि सप्तम्या नानुपपत्तिः, अन्तद्र्धौ येनादर्शनमित्यत्र अन्तर्द्धिव्र्यवधानम्, अन्तद्र्धौ निमित्त इति निमित्तसप्तमीति व्याख्यातं वृत्तिकारैः, अत्र हि इच्छाकर्मण अदर्शनेन अन्तद्र्धेर्योगो नास्तीति, ततश्च अन्तद्र्धावित्यत्र कर्मसंयोगाभावेऽपि प्रयोजनतया निमित्तत्वस्याभावेऽपि निमित्तमात्र-सप्तमीदशर्नात् अत्रापि न दोषः, ननु तत्र पदमञ्जर्यां "निमित्तात्कमर् संयोगः' इति यदि कारणं निमित्तं गृह्रते जाव् बद्धः, इत्यत्रापि प्राप्नोति तस्मात् प्रयोजनस्य निमित्तस्य ग्रहणम् यथा "चर्मणि द्वीषिनं हन्ति' इत्यादौ इहान्तद्र्धानमदर्शनस्य कारणम्, अन्तर्हितः स्वल्वसौ न दृश्यते तस्मान्निमित्तात् सप्तमी, पञ्चम्यर्थस्य शेषत्वविवक्षया षष्ठीसमासः, ततश्च "यस्य च भावेन भाव-लक्षणम्' इति सप्तमी वा, सप्तम्यधिकरणे चेति विषयसप्तमी वा भविष्यतीत्युक्तमिति चेत्, इहापि तथास्तु, अथवा संयमने यम-शासने तत्प्रयुक्ततया तत्प्रयुक्तयातना अनुभूयेतिभाष्ये संयमन इत्यस्य यमशासन इति नार्थकथनम्, अपि तु संयमने यमपुरे यम-शासने सति यमाज्ञायां सत्यां तत्प्रयुक्तयातना अनुभूयेत्यर्थः, अयमेवार्थः संयमन इति निमित्तसप्तमी, यमाज्ञयेत्यर्थ इति टीका-ग्रन्थस्याप्यभिप्रेतः, अस्य वाक्यस्याऽयमर्थः, संयमन इत्यादिवाक्यस्थ यमशासनपदे निमित्तसप्तमी, सा च पूवर्मेवोपपादिता, नचैवं संयमनप्राप्तेः नरकगमनस्य च विरोधशङ्कायाः सम्भवात् यमसदनप्राप्तिपराणिवचनानि पुराणादिषु पठ¬न्ते, तन्निमित्तेयं शङ्केति टीकाग्रन्थास्वारस्यमिति वाच्यम् नहि संयमननरकगमनयोः "तत्रापि च तद्वयापारादविरोध' इति विरोध आशङ्कय परिह्मतः, अपि तु यमगृहनरकगमनयोः "संयमने' इति सूत्रे यमपुरप्रवेश एव उक्तः, न तु सदनप्रवेशः, ततश्च सूत्रप्रतिपाद्येन विरो-धासम्भवात् यमसदनप्राप्तिवचनानि पुराणादिषु पठ¬न्ते', तन्निबन्धनेयं शङ्केति ग्रन्थस्सङ्गच्छते, इत्थं हि तत्रापि च तद्वया-पारादविरोधः' इत्यस्य शङ्काभाष्यं, ननु सप्तसु लोकेषु सञ्चरतां गच्छतां कथं यमसदनप्राप्तिरिति । अयं लोको नास्ति न पर इतीति -"न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्' "अयं लोको नास्ति न परः इतिमानी पुनः पुनर्वशमापद्यते मे' इति कठवल्लीषु मृत्योनर्चिकेतसं प्रति वचनमिदम्, सम्यगवश्यम्भावेन, परस्तात् भेदादस्य पश्चात् ईयते गम्यत इति साम्परायः तत्प्राप्त्यर्थसाधनविशेषस्साम्परायः, बालम् अविवेकिनम् अत एव प्रमाद्यन्तमनवहितं प्रति न भाति, अत एवायमेव लोकस्त्र्य-न्नपानादिरूपोऽस्ति न परः परलोक इति, मानीति मननशीलः तदनुरूपमाचरन् पुनः पुनर्जन्ममरणप्राप्त्या मम वशमापद्यत इत्ये- वमयं लोक इत्यत्र एवशब्दमध्याह्मत्य व्याख्यातं परैः, आचाय्र्यास्तु च शब्दमध्याह्मत्य व्याचक्षते । अत्रामुत्र च सुखं नास्ती- त्यर्थः इति - देहान्तरोपभोग्यमिति शेषः, भाष्ये-वैवस्वतं सङ्गमनं जनानाम्' इति सङ्गमनं सङ्गम्यमित्यर्थः, भाष्टे स्मन्ति चेति सूत्रस्यानवतारितत्वात् स्वयमवतारयति । तद्गतिदर्शनादित्यत्रेत्यादिना - संयमने त्वनुभूयेतरेषामारोहावरोहाविति प्रतिज्ञाते

3.1.17

 

पापफलानुभवार्थे प्रमाणप्रदर्शनं ह्रुचितम् न तु तद्रतौ, अतः तद्गतिदर्शनादित्यर्थे अनुशयानः सूत्रकारः पापफलनुभवप्रदर्शकं "सर्वे चैते वशं यान्ति' इति स्मृतिवचनमेव प्रमाणं दर्शयति-स्मरन्ति चेति सूत्रेणेत्यर्थः, नन्विदानीमपि स दोषस्तदवस्थ एव, "अङ्गुलस्या-ष्टभागोऽपि न "सोऽस्ति द्विजसत्तम् । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः' इति प्रकृत्य "सर्वे चैते वशं यान्ति यमस्य भगवन् किल' इति स्मय्र्यते, नह्रेतद्वचनं पापिनं यमयातनारूपफलानुभवे प्रमाणयितुं शक्यते, यमवश्यतामात्रस्मरणात् सर्वसाधारणत्वेन पापिमात्रपरत्वाभावाच्चेति चेन्न, "आयुषोऽन्ते तदा यान्ति यातनाः तत्र चोदिता' इति पापफलयातनानुभवदर्शनात्, नचैतस्य सर्वसाधारणत्वात् पापिनां पापफलानुवेदेन प्रमाणीकर्तुं शक्यम्, उत्तरत्र भगवद्भक्तानां यमविषयगमनाभावप्रतिपादनेन "सर्वे चैते वशं यान्ती'ति वचनस्यानिष्टादिकारिमात्रविषयत्त्वस्य निश्चेतुं शक्यत्वात् । ननु एतस्य वचनस्य पापफलभूतयातनानुभवप्रदर्शनपर्य-न्तवे स्मरन्ति च यमवश्यतां पराशरादय इति भाष्यविरोधः फलानुभवं स्मरन्तीति हि भाष्येण भाष्यमिति चेन्न, यमवश्यतामित्यस्यैव

3.1.18

 

फलानुभवपर्यन्तयमवश्यतापरत्वसम्भवेन विरोधात् ।। ।।।8 ।। ।। विद्याकर्मणोरिति तु प्रकृतत्वात् ।। सम्बन्धसामान्यविषया षष्ठीति - अयमत्र सौपिदान्वयक्रमः देवयानपितृयाने इति प्रथमानावचनान्तं पदमध्याहाय्र्यम्, ततश्च यतो देवयानपितृयाने विद्याक- र्मणोः विद्याकर्मसम्बन्धिनी विद्याकर्मार्थे-इति यावत्, तादथ्र्यञ्च तत्फलानुभावार्थत्वमेव, इतिर्हेतौ, ततश्च यतो देवयानपितृयाने विद्याकमर्फलार्थे, अतो विद्याकर्मविधुरेषु न देवयानपितृयाने विद्याकर्मफलायै अतो विद्यार्मविद्युरेषु न देवयानपितृयाने इत्यर्थः । ननु कुतो देवयानापितृयानयोर्विद्याकर्मार्थत्वमित्यत्राह - प्रकृतत्वादिति । विद्वांसमिष्टादिकारिणञ्च प्रकृत्याम्नानादित्यर्थः, यद्यपि विद्याकर्मणोरिति साध्यसाधनभावे षष्ठी, देवयानपितृया-नयोः विद्याकर्मसाध्यत्वादित्यर्थाश्रयणे प्रतीतिसौकर्यं भवति, अत एव हि "देवयानपितृयानयोः विद्याविषयत्वं पुण्यविषयत्व'मिति वक्ष्यति, ततश्चोक्तक्लिष्टगतिमन्तरेणैव विवक्षितार्थस्य प्रतिपत्तिस्सुलभा, तथापि देवयानपितृयानयोः फलभूतयोः फलान्तरशेषत्वमप्यस्तीति सूचयितुं तथोक्तमिति द्रष्टव्यम् । विशिंषन् हि विषय इति पाठः समीचीनः, "विशब्दो हि विशेषार्थ सिनोतिर्बन्ध उच्यते विशेषेण सिनोतीति विषयोऽतो नियामक' इत्यभियुक्तोक्तेः, सिञ् बन्धने,कत्र्तर्युत् सृष्टोऽच्प्रत्ययः, (कतर्रि रनुः. शतृ प्रत्ययः विषिष्वन्?) यद्वा विशिंषन् इत्येतत् फलितार्थकथनम्, ननु देवयानपितृयानयोर्विद्याकमर्फलार्थत्वात् विद्याभावेन देवयानाभाववत् कर्माभावेन पितृयानाभाव इति सूत्रार्थाश्रयणमस्थानविजृम्भणम्, न हि पूर्वपक्षिणा देवयानेन पितृयानेन वा चन्द्रप्राप्तिराशङ्किता "ये वै केचास्माल्लोकात् प्रयन्ति चन्द्रसमेव ते सर्वे गच्छन्ति' इति कौषीतकीवचनानुसारेण चन्द्रप्राप्तिमात्रमाशङ्कितम् नैतस्य पितृयानप्रापकं किञ्चिदस्ति नियामकम्, येनात्र पूर्वपक्ष्यभिमतं स्यात्, अत एव आचार्यः स्वयमेव यादवमिश्रमतदूषणावसरे वक्ष्यति, "गन्तव्यैक्येपि गन्तृभेदेन मार्गनियमश्च भवति' इति, तथा घूमादिनिरपेक्षापितृलोकप्राप्तिः सम्भवति इति, अत एव देवयानस्य दृष्टान्तीकरणमप्ययुक्तम्, तदभावस्य सम्प्रतिपन्नत्वे हेत्वभावादिति चेन्न, द्वे सृती अ#ृणवं पितृणामुत देवानामुत मत्र्यानां ताभ्गयामिदं विश्वं एतत् समेति' इति बृहदारण्यकश्रुत्यनुसारेण गतिद्वयव्यतिरिक्तगत्यन्तराभावात्, "एतेन प्रतिपद्यमानाः इमं मानवमावत्र्तं नावत्र्तन्ते' इति देवयान-स्यानावृत्तिहेतुत्वात्, पितृयानेन पथा चन्द्रमसं गच्छन्तीत्येवं पूर्वपक्षीकत्तव्र्यतया भाष्यकारोक्तरीत्या विद्याकर्मणोरिति सूत्रार्था-श्रयणस्य स्थानविजृम्भणत्वा भावात् ।। । ।। न तृतीये तयोपलब्धेः सम्पूर्यते प्राप्यत इत्यर्थ इति - "अमुष्य लोकस्य अप्राप्तार'मिति रंहत्यधिकरण-

3.1.18

 

भाष्यदर्शनात्तथोक्तमिति द्रष्टव्यम्, ननु भाष्ये वाकिमिति "यथासौ लोको न सम्भूर्यते' इत्यत्र यथाशब्दसम्पूर्णशब्दयोः स्वारस्य-परित्यागेन केन पुंसा असौ लोको न सम्पूयर्त इत्यर्थाश्रयणं नित्यं बहुभिः प्रयद्भिरपि येन कारणेन चन्द्रलोको न सम्पूर्यते न निबि-न्दीर्कियत इत्यर्थो हि स्वरसतः प्रतीयत इति चेन्न, जायस्व भ्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते' इति प्रतिवचने तृतीयस्थानशब्दितक्रमिकीटादिलक्षणपापकर्मभिरप्राप्यत्वप्रतिपादनेन प्रश्नस्याप्यप्राप्तपरत्वमेवोचितमिति भाष्याभिप्रायात ननु इदमन्धस्य जात्यन्धेन यष्टेः प्रदानम्, प्रतिवचने ह्रेवमर्थः प्रतीयते, एवं हि तस्य प्रश्नस्य प्रतिवचनं श्रूयते, अथैतयोः पथोः न कत- रेण चन तानीमानि भूतानि क्षुद्राण्यसकृदावत्र्तीनि इति भूतानि भवन्ति जायस्व भ्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते' इति, एतयोर्देवयानपितृयानयोः मध्येन कतरेण च न केनापि मार्गेण गच्छन्ति तानीमानि क्षुद्राणि यूकालिक्षमशकादीनि असकृदावत्र्तीनि जायस्व भ्रियस्वेति भवन्ति, जननमरणपौनःपुन्यरूपासकृदावृत्तियुक्तानि भवन्ति, एतत् तृतीयं स्थानं जनन-मरणरूपमसकृदावत्र्तनम् तृतीयं स्थानं तृतीयो मार्गः, तस्मात् क्षुद्रजन्तूनां मार्गान्तरसत्वात् देवयानपितृयाणप्राप्त्यभावेन चन्द्र-प्राप्त्यभावात् क्षुद्रजन्तुभिराक्रान्तोऽयं लोक इव असौ लोको न सम्पूर्यत इत्यर्थः स्वस्सतः प्रतीयते, न च स्थानशब्दस्य मागर्वाचि- त्वं न स्वरसमिति वाच्यम्, अथैतयोः पथोरिति प्रकृतमार्गद्वयापेक्षया तृतीयत्वस्य मार्गान्तर एवान्वयात् अस्य गौर्द्वितीयोऽन्वेष्टव्य यादाविव सङ्खयाया सजातीयनिवेशित्वौचित्यात्, न च स्थानशब्दः फलानुभवाश्रयपरः, ततश्च विद्याफलभूतब्राहृप्राप्त्याश्रय एकः, इष्टापूत्र्तादिफलानुभवरूपचन्द्रप्राप्त्याश्रयोऽपरः, पाप्यफलभूतजनामरणरूपासकृदावत्र्तनाश्रयः तृतीय इति पापकर्मणां तृतीयस्था- नत्वं सङ्गच्छत इति वाच्यम् तथा सति ब्राहृचन्द्रप्राप्तिरूपस्थानद्वयापेक्षया सुकृतविशेषफलभूतब्रााहृणादियोनिप्राप्तिरूपफलानु-भवाश्रयाणामपि तृतीयराशित्वेन सङ्ग्रहापत्तेः, "तस्मादेतत् तृतीयं स्थानम्' इति स्थानशब्दो जननमरणपौनःपुन्यरूपासकृदा-वृत्तिरूपमार्गान्तरवाचक एवाभ्युपगन्तव्यः, अतः "तेनासौ लोको न सम्पूर्यते' इत्यत्र तेन तस्मादित्यर्थः, हेतौ तृतीया, यस्मात् मार्गान्तरमस्ति ततो हेतोरित्यर्थः, ननु तेन तृतीयस्थानशब्दितेन जीवेन पापकर्मणोति कत्र्तरि तृतीया, अतो न सम्पूर्यत इति औपसंहारिकस्यापि नास्वरसार्थसमाश्रयणमिति चेत्, अत्र व्रूमः, सर्वनाम्नां हि पूर्वनिर्दिष्टप्रधानपरामर्शित्वं न्यायसिद्धम्, अत एव "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा' इत्यत्र पूवÐस्मन् वाक्ये आनयनकर्मणा दध्नापि व्याप्यमानतया यत्प्रधानं पयः तस्यैव तच्छब्देन परामर्शः, न तु अप्रधानस्य दध्नः, ततश्चामिक्षयाः पयोविकारत्वमिति चतुर्थे अष्टमे च स्थितम्, यथा षड्विशतिरस्य वंक्रयस्ता अनुष्ठयोच्यावयतात्' इत्यत्र तच्छब्दनिर्देश्यत्वं प्रधानस्यैवेति सिद्धवत्कृत्यता अनुष्ठयोच्यावता इति स्त्रीलिङ्गद्वितीया-बहुवचनान्ततच्छब्देन वंक्रीणामेव परामर्शदर्शनात् तासामेव प्राधान्यम्, न तु षड्#िवंशतिशङ्खयायाः अस्य शब्दाभिधेयस्य पशोर्वाप्राधान्यम्, ततश्च वंक्रिप्रधानत्वाद्वाक्यस्य वंक्रीयताप्रदर्शनाय ऊहः कत्र्तव्य इति नवमे स्थितम्, ततश्च जायस्व मियस्वेति भूतानि भवन्ति एतत्तृतीयं स्थानम्, इत्यत्र एतच्छब्देन पूर्ववाक्ये भवन्तीति भावनाश्रयतया निर्दिष्टानां भूनानामेव ग्रहणमुचितम्, नतु भवितृविशेषणतया उपस्थितस्य जननमरणादिरूपभवनस्य भवन्तीत्याख्यातेन साध्यतया अविधीयमानस्य भवनस्य एत-दितिसिद्धपरमर्शिसर्वनाम्ना परामर्शश्च न स्वरसः, ततश्च जननमरणाशालिनांपापकर्मणां तृतीयस्थानशब्देन परामर्शात् "तेनासौ लोको न सम्पूर्यते' इत्यत्रापि तच्छब्दः प्रकृततृतीयस्थानशब्दितजीवपरामश्र्येव, तृतीयापि कतर्येव, न तु तस्मादिति हैतौ, न चैतम् तृतीयं स्थानमित्यत्र प्रकृतानाम्, "असकृदावृत्तीनि भूतानि भवन्ति' इति निर्दिष्टानां पापकर्मणाम् एतच्छब्देन परामर्शे तेषां बहुत्वात् एकवचननिर्देशानुपपत्तिरिति वाच्यम्, सा वैश्वदेव्यामिक्षा' इत्यत्र तच्छब्दस्य नपुंसकलिङ्गपरामर्शिनोऽपि आमि-क्षापदसामानाधिकरण्यप्राप्तस्त्रीलिङ्गपदानुवादवत् अत्राप्येतत् तृतीयं स्थानमिति नपुंसकलिङ्गैकवचनान्तस्थानशब्दसामाना-धिकरण्यप्राप्तलिङ्गवचनानुवाद उपपन्नः,एवमुत्तरत्रापि "तेनासौ लोको न सम्पूर्यते' इत्यत्र तेनेति निर्देशोपपत्तिः, केचित्तुक्रिया-प्रधानमाख्यातमिति न्यायेन भवन्तीत्यत्र भवनक्रियाया एव प्राधान्यात् तस्या एवैतच्छब्देन परामर्शः, न तु भवितुः, अत एव

3.1.20

 

आलङ्कारिकैरपि "पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः' इत्यत्र समुद्रस्य फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः' इत्यत्र समुद्रस्य चन्दनधर्मणशिलाप्रान्तस्थानीये तटे हस्तस्थानतरङ्गैः फेनप्रेरणे दिगङ्गना घवलीकरणहेतुचन्द्रकिरणव्यापने च पेषणलेपनतादात्म्यमात्रमुत्प्रेक्ष्यते, नतु तयोः पेषणलेपनकत्र्तृतादात्म्यं, पिनष्टि लिम्पति-इत्याख्यातयोः कत्र्तृवाचित्वेऽपि "भावप्रदानमाख्यात'मिति कर्तुः प्रधानभूतक्रियोपसर्जनस्य #ैअन्वयासम्भवादित्युक्तम्, अत एव "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्युत्प्रेक्षामुदाह्मतवता दण्डिना उदाहरणयोरिवशब्दश्रवणात् लेपनवर्षणकर्तृ- भ्यां तमोनभसोरुपमामाशङ्कय "कर्ता यद्युपमानं स्यात् न्यग्भूतोऽसौक्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यद् व्यपेक्षितुम्' इति दूषितम्, अत एव पश्य मृगो धावतीत्यादौ धावनक्रियायाः दर्शनकर्मत्वमित्यभियुक्तानां व्यवहारः, तस्मात् जायस्व म्रियस्व भवन्तीति निर्दिष्टम् पौनःपुन्येन जननमरणभवनमेव एतच्छब्देन परामर्शयोग्यम्, अतश्च "तेनासौ लोको न सम्भूर्यते' इत्यत्रापि तस्माद्धेतोरसम्पूर्णमित्येवार्थः प्रतीयते, द्युलोकारोहाभावेन द्युलोकासम्पूर्त्तिवचनादिति भाष्ये द्युलोकासम्पूर्णस्य द्युलोकाप्राप्ति-हेतुकत्वकीर्तनात् तत्स्वारस्यानुग्रहाय तृतीयस्थानशब्देन पापकर्माण उच्यन्त इति भाष्यस्थपापकर्मशब्दस्य मार्गलक्ष्यकत्वमेवा-श्रीयते, आचार्यगन्थोऽपि तदनुसारेण नेय इति वर्णयन्ति । ईश्वरशासनानुवर्त्तिनीति - जायस्व भ्रियस्वेतीश्वरशासनानुकरणम् । वेदस्वातन्त्र्#ादिति - "छन्दसि व्यत्ययो बहुलम्' इति अनुशासनादिति भावः, इदञ्च काकाक्षिन्यायेन जज्ञे ममारयति भूता-र्थतावेत्युत्तरेण सम्बध्यते, जज्ञे मभ्रे इति क्कचित् पठ¬ते, तत्र भ्रियतेर्लुङ्लिङोश्चेति परस्मैपदप्रसङ्गात् भावे प्रयोग इति केचिद्व- दन्ति - पुरीमवस्कन्ध ळुनीहि नन्दनमित्यादिवदिति । अत्र भूतार्थतावेत्यतो वेत्यनुकृष्यते, पुरीमवस्कन्द लुनीहि नन्दनमित्या-दिवद्वेत्यर्थः अयम्भावः- सुमुच्चयेऽन्यतरस्यामिति अनेकक्रियाव्याहारः समुच्चयः, समुच्चीयमानक्रियावचनाद्धेतोः विभाषा लोट्, तस्य च हि स्वौ भवतः तद्धम्भाविनस्तु वा भवत इति सूत्रार्थः, तत्र "समुच्चये सामान्यवचनस्ये'ति सामान्यवाचिनो धातोरनु- प्रयोगो विहितः । ओदन #ं भक्ष्व धानाः रवाद सक्तून् पिवेत्येवाभ्यवहरति इति, अत्र समुच्चयद्योतनाय समुच्चयेऽन्यतरस्यामिति

3.1.21

 

वैकल्पिकलोण्मध्यमपुरुषः, असकृदावृत्तीनि भवन्तीति क्रियासामान्यवाचिनः भवतेरनुप्रयोगश्च, ततश्च "पुरीमवस्कन्द लुनीहि नन्दनम् मुषाण रत्नानि हरामराङ्गनाः । विगृह्र चक्रे' इति अवस्कन्दनलवनमोषलक्रियाणां समुच्चयेऽन्यतरस्यामिति लोण्मध्य-मपुरुषैकवचनम्, समुच्चये सामान्यवचनस्येति सामान्यवाचिनश्च कृ इत्यस्य अनुप्रयोगश्च यथा भवति, एवमिहापि जायस्व भ्रिय- स्वेति जननमरणक्रियासमुच्चये लोण्मध्यमपुरुषैकवचनम्, भवन्तीत्यस्य च सामान्यवाचिनोऽनुप्रयोग इत्ययमेव पारमार्थिकः परि- हारः आचार्याणामभिमतः, इतः परं परिहारान्तरानुपन्यासात् ।। । ।। दर्शनाच्च-तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भयन्ति इति बीजत्रैविध्ये प्रतिज्ञातेऽण्डं जीव उद्भिदित्येव वकतुमुचितम्, न त्वाण्डजम् जीवजमुद्भिज्जमित्यतीशङ्कय स्वतन्त्रायाः श्रुतेः पर्य- नुयोगासम्भवात् बीजत्रैविध्यफलकं प्रकारमुपदिशतीत्याह - बीजत्रेविध्यमिति । अण्डजमिति अण्डजमेव आण्डजं स्वार्थेऽण जरायुः गर्भपरिवेष्टनम् जरायुजं पुरुषपश्वादि, अत्र श्रुतावपि दृश्यत इति भाष्यस्याऽयमर्थः, श्रुतावपि चतुर्विधभूतजातं दृश्यते तन्मध्ये केषाञ्चिदुद्भिज्जानां स्वेदजानाञ्च उभयविधानां पञ्चमाहुत्यनपेक्षा लोके दृश्यत इति, तेषां खल्वेषां भूतानामित्याद्युत्तरभाष्यग्रन्थस्तु एतद्वयाख्यानरूपः, ततश्च दर्शनाच्चेत्यत्र दर्शनादित्येतत् तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेन अर्थद्वयं प्रतिपादयति, न त्वत्र यथाश्रुतार्थो ग्राह्रः नह्राण्डजं जीवजमुद्भिज्जमिति श्रुतौ पञ्चमाहुत्यनपेक्षा श्रूयते, यद्येवं पररीत्या चतुर्विधभूतग्राममध्ये केषाञ्चित् पञ्चमाहुत्यनपेक्षयैव उत्पत्तिर्दृश्यत इत्येवं व्याख्यायतां किं श्रौतदर्शनस्यापि सङ्ग्रहयत्नेनेति चेत्, उत्तरसूत्रनिवत्र्थ-शङ्कोत्थापनार्थतया तन्त्रावृत्त्यादीनामन्यतमाश्रयणेनैव एवमर्थद्वयप्रतिपादनमिति भावः - परे त्वित्यादि श्रुत्या सर्वेषां चन्द्र-

3.1.21

 

प्राप्तिशङ्केति । "चन्द्रमसमेव ते सर्वे गच्छन्ति' इति कौषीतकीश्रुत्या सञ्जाता सर्वेषां चन्द्रप्राप्तिशङ्केत्यर्थः । द्वितीयसूत्रे तु व्युदसनीयशङ्केति - संयमने त्वितिसूत्रस्थतुशब्दव्युदसनीयशङ्का सुकृतदुष्कृतकारिणोरविशिष्टैव गतिःस्यात् इत्युपन्यस्तेत्यर्थः -याम्यार्यातना इति । यमाच्चेति वक्तव्यमिति ण्यप्रत्ययः, यामी र्यातना इति पाठे तु निर्वाहान्तरं द्रष्टव्यम् । ततोऽवरोहण-स्यचासम्भवादिति - एतेन संयमने त्वनुभूय इति सूत्रश्रुतस्य संयमनस्यैवावरोहापादनता शीघ्रं गम्यते, न चन्द्रे मण्डलस्य, चन्द्र-मण्डलादवरोह इत्यध्याहारसापेक्षत्वात्, ततश्चेदं सिद्धान्तसूत्रमेव, न तु भास्कररीत्या पूर्वपक्षसूत्रमिति भामतीकल्पतर्वादा- वुक्तं निरस्तम्, संयमनस्यैवावरोहापादानत्वेऽनुभूयारोहेति अनुभवानन्तर्भाव्यारोहाश्रयत्वस्यापि संयमनस्यैव वक्तव्यतया तस्य च तत्रासम्भवात् । नरकानुभवादनन्तरमिति अनन्तरशब्दस्य पश्चाच्छब्दादिवत् दिक्शब्दत्वमभिप्रेत्य पञ्चमीनिर्देशः कृत इति द्रष्टव्यम्, अथवा उध्र्वमित्यध्याहारेण दिग्योगलक्षणा पञ्चमी, यथोक्तं वैयाकरणैः- "अनुनासिकात्परोऽनुस्वारः' इत्यत्र अन्यशब्दाध्याहारेणानुनासिकादिति पञ्चमीति । अनन्तरमिति यमालयमित्यस्य विशेषणं, नरकानुभवादूध्र्वं सन्निहितं यमालयमि- त्यर्थः । स्वमते सूत्रस्य साफल्यमाह - यमप्राप्तिवाक्य इति । अयं लोको नास्ति न पर इति वाक्य इत्यर्थः । अन्ये त्वित्यादि -किमनिष्टादिकारिणः पापफलानुभवार्थं धूमादिना गच्छन्ति उत सुकृतफलानुभवार्थमिति विकल्पद्वयमभिप्रेत्य प्रथमं दूषयति । तत्र पापफलभोगाभावादिति - तत्र मार्गे पापफलभोगस्यासम्भवात् इत्यर्थः, द्वितीयं दूषयति । कर्मणा विनेति - इष्टादिना पुण्येन कर्मणेत्यर्थः । शास्त्रावैयथ्र्याच्चेति - ज्योतिष्टोमादीकामन्तरेणैव तत्फललाभे तत्र कोऽपि न प्रवत्र्तत इति "ज्योतिष्टोमेन स्वर्गमामो यजेत' इत्यादिशात्रस्य स्वर्गार्थतया ज्योतिष्टोमादौ प्रवर्तकस्य वैयथ्र्यं, प्रवत्र्तकत्वं न स्यादित्यर्थः अथवा शास्त्रशब्दः तत्प्रतिपाद्यकर्मपरः, "द्वे सृती' इति द्वे गती इत्यर्थः, अ#ृणवम्-अश्रौषम्, पितृणां देवानाञ्च प्रापिकेत्यर्थः । मत्र्यानामित्यत्र

3.1.21

 

प्राप्तृत्वेन सम्बन्धः, पितरं मातरञ्चेतिः द्यावापृथिव्यावेव मातापितरौ । गमनस्यापुरुषतन्त्रस्येति - विद्याकर्मरूपसाधनेऽनुष्ठिते स्वयमेव सिध्द्यतो मार्गस्य विधेयत्वायोगात् । अत एव तृप्तिर्भक्षानुनिष्पन्ना न व्यपारान्तरमपेक्षत इत्यपुरुषतन्त्रत्वेनाविधेयतया अननुष्ठेय- त्वेन बन्त्रप्रकाश्यत्वायोगात् तृप्तिप्रकाशकमन्त्रांशस्य न तृप्तौ विभज्य विनियोज्यत्वमिति शेषलक्षणे स्थितमिति भावः - तृतीय-स्थानमृतानामिति । यूकमक्षिकादीनामित्यर्थः - पापिनां दुःखभोकतृत्व इति । पापिनां दुःखभोक्तृत्वे आरोगभ्राजादीनां सप्तानां सूर्याणां दुःखभोजयितृत्वरूपयातयितृत्वे वा संशयाभावात्, यद्वेत्यादि द्वितीयायोजनाऽपि असङ्गतेत्यर्थः । अत एव तृतीयस्था-नमृतानामिति - अनिष्टादिकारिणां पुरुषाणामपि चन्द्रप्राप्तिनिवारण #े किमु वक्तव्यं तृतीयस्थनमृतानां यूकमक्षिकादीनामिति

3.1.22

 

भावः ।। । ।। ।। इति अनिष्टादिकार्यधिकरणम् ।।

पेटिकाभेदेनेति - पेटिकाविशेषेणेत्यर्थः, कृतात्यय इत्यारभ्य आपादपरिसमाप्ति अवरोहणपेटिकातयाऽस्याधिकरणस्य सङ्ग-त्यर्थमित्यर्थः, पूर्वस्मिन्नधिकरणे हि देवयानपितृयाणयोः विद्याकर्मफलार्थत्वादनिष्टादिकारिणाञ्च विद्याकर्मफलाभावात् देव-यानाभाववत् पितृयाणमपि नास्तीत्युक्तम्,एवमत्राप्यनुशायिनामाकाशादिशरीरकत्वफलभूतसुखदुःखोपमोगाभावात् आकाशादि-शरीरकत्वं नास्तीति समथ्र्यत इति प्रकृताधिकरणसङ्गतिद्र्रष्टव्या, भाष्ये - यथेतमनेवञ्चेत्युक्तमिति, "यथेतमनेवञ्च भवती'ति "कृतात्यय' इति सूत्रे उक्तमित्यर्थः, केचित्तु यथेतमनेवञ्चेति सूत्रखण्ड एव परामृश्यते, उक्तमिति नपुंशकनिर्देशोऽपि"द्विगुरेकव-चनम्' इत्यादिवदुपपन्न इति वर्णयन्ति, अनेन भाष्येण कृतात्ययेऽनुशयवानिति व्यवहिताधिकरणेन सङ्गतिः, समनन्तराधिकर- णन्तु प्रासङ्गिकमिति सूच्यते । अपो विभर्ति इत्यभ्रमिति - मूलविभुजादित्वादिति कप्रत्ययः, मिह सेचने-इति धातोरिति पचादित्वात् देवमेपादिवत् दिगुपधालक्षणं कं बाधित्वाऽच्प्रत्यये "न्यंक्कादीनाञ्चे'ति कुत्वे रूपम्, तत्र हि आकाशदिप्रतिपत्ता- विति भाष्यस्याऽयमर्थः, यथेतमाकाशाद्वायुमित्यादौ कर्मनिर्देशेनाकाशवायुप्राप्तेः स्फुटमनवगमेऽपि, "वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति' इत्युपरितनस्फुटतरभूयोवाक्यानुसारेण इहाष्याकाशादिभाव प्राप्तेरेव प्रतिपाद्यत्वे स्थिते सति स किमा-काशादिभावो देवमनुष्यादिभाववदाकाशादिशरीरकत्वम्, उत तत्सादृश्यापत्तिमात्रमिति । तत्स्वाभाव्यापत्तिरिति, स्वभाव एव स्वाभाव्यम्, वर्तमानसामीष्य इत्यादिवत् स्वार्थिकःष्यञ्, स्वस्य भाव इव भावो येषां ते स्वभावाः सदृशाः तद्भावः स्वाभा- व्यम्-सादृश्यम्, तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः, स्वाभाविकमेवेतदिति महा भाष्यनिर्देशात् स्वभाव- शब्दस्य न द्वारादीनाञ्चेत्यैजागम इति प्राहुः एवं साम्प्रदायिकपाठमनुसृत्य समर्थनसम्भवे भामतीरीत्या स्वाभाव्यापतिरिति पाठ- शिक्षा न कल्पनीया । यथेतमाकाशमित्यादेरयमर्थः, या आपश्च चन्द्रमण्डले शरीरमारब्धवत्यः तासां कर्मक्षये द्रवीभूतानामाका-

3.1.23

 

शमतानां भेदकाकारप्रहाणेन आकाशसादृश्ये तदुपश्लिष्टानुशयिनोऽपि आकाशसमा भवन्ति, ता आप इतश्चामुतश्च नीयमाना वायुसमा भवन्ति, अनुशयी अपि तादृशो भवति, एवमभ्रादिभावेऽपि द्रष्टव्यमिति । भाष्ये- अत्र त्वाकाशादावित्यादि, ननु प्रयोजनाभावेन श्रुतपरित्यागो न सम्भवति, तथाहि सति भूतानां सर्वत्र सुलभत्वात् प्रयोजनाभावात् भूतपरिष्वक्तगमनमपि न कल्पनीयं स्यात्, किञ्च "तानि परे तथा ह्राह' इत्यत्र प्रयतां परमात्मम्पत्तौ प्रयोजनाभावात् तेजः परस्यां देवतायामिति श्रुता परमात्मसम्पत्तिर्न सम्भवतीत्याक्षिप्य प्रमाणानुरोधेन प्रयोजनस्य कल्पनीयत्वात् न प्रमाणप्रतिपन्नार्थत्याग इत्युक्तम्, तस्मा-दाकाशदिशरीरकत्वप्रमाणानुरोधेन आकाशादीनां तदभिमानिदेवताप्रीतिभोगाश्रयाणामनुशयिनोऽपि प्रतिभोगाश्रयत्वमङ्गी-कतव्र्यमिति चेत्-न, युगपत् भोक्तृद्वयसमावेशे तयोः परस्परभोगार्थितायां शरीरोन्मथनप्रसङ्गात्, ननु तदभिमानिदेवतात्वेनैव आकाशादिशरीरित्वमस्त्विति चेत्, सर्गाद्यकालमारभ्य आप्रलयमाकाशाद्यभिमानिदेवानामनुशयिभ्योऽन्यासां वलृप्तानां सत्त्वेन प्रतिक्षणमवरोहतामनुशयिनामाकाशद्यभिमानिदेवतात्वानुपपत्तेरिति भावः । परे तु-आकाशादिस्वरूपापतिं्त पूर्व-पक्षीकुर्वन्तीति । ननु नचान्यस्य अन्यभावानुपपत्तिः, मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्करणात् देवदेहस्यापि नहुषस्य तिर्यअकत्वस्मरणात् तद्वदिहोपपत्तेरिति भामत्युक्तेः, नन्दिकेश्वरो हि रुद्रमाराध्य मनुष्यशरीरेणैव देवत्वेन परिणनाम, तथा नहुषोऽपि इन्द्रत्वं गतोऽगस्त्यशापात् अजगरत्वं जगामेति कल्पतरूक्तेश्च, आकाशादिशरीकत्वमेव परैः पूर्वपक्षितमिति प्रतीयत इति कथं तन्मतदूषणमिति चेन्न, शाङ्करभाष्ये आकाशादिस्वरूपमेव प्रतिपद्यन्त इति पूर्वपक्षं उक्तत्वात्, सिद्धान्ते च न ह्रन्यस्य अन्यभाव उपपद्यते इत्युक्तत्वाच्च तथाभिप्रायं निर्वण्र्य दूषणोपपत्तेः तथा पूर्वपक्षो न युक्त इति मन्यमानैः तद्वयाख्यातृभि-रस्मदभिप्रेतार्थ एव पर्यवसानं कारितञ्चेत् न कापि क्षतिरिति द्रष्टव्यम् ।। 22 ।। ननु "अतो वै स्वलुदुर्निष्प्रपतरमिति व्रीह्रादितो विशिष्य चिरनिष्क्रमगाभिधानात् पूर्वत्र ह्राकाशादिप्राप्तावचिरनिष्क्रमणं गम्यत इति शक्यते वक्तुम्, अतो वै स्वल्वित्यादिवा- क्येन व्रीह्रादिषु चिरावस्थानसत्तामात्रं विधित्सितम्, चिरमचिरं वेत्यनियतस्य चिरावस्थानस्य व्रीह्रादिष्ववस्थानोक्त्य्यैव

3.1.23

 

सिद्धत्वेन तस्याविधेयत्वात्, किन्तु व्रीह्रादिषु चिरावस्थाननियमप्रतिपादनसामथ्र्यात् आकाशादिभ्यः चिरावस्थाननियम एव व्यावत्र्तते, नत्वनियतं चिरावस्थानमपि, अत एव वैस्वानसं पूर्वेहन् साम भवति षोडश्युत्तर इति विशिष्याङ्गिरसां द्विरात्रस्य उत्तरेऽहनि षोहसिग्रहनियमविधानसामथ्र्यात् उत्तरेऽहन् द्विरात्रस्य गृह्रत इति सामान्यवचनप्राप्तषोडशीग्रहोऽपीत्युक्तं दशमे, अत एव "कर्तृकर्मणोः कृति' इति सूत्रप्राप्तषष्ठीविषये "उभयप्राप्तौ कर्मणी'ति प्राप्तनियमस्य अकाकारयोः प्रतिषेध इति प्रतिषेधे पुनः कत्र्तृकमर्णोः कृति' इत्यनियतप्राप्तषष्ठया न निषेधः, यथा भेदिका काष्ठानां देवदत्तस्येति वैयाकरणैरभ्युपगम्यते, ततश्च व्रीह्रादिषु चिरावस्थाननियमप्रतिपादनात् पूर्वत्र चिरावस्थाननियमो व्यावत्त्र्यताम्, न तु चिरावस्थानस्वरूपमपि व्यावत्त्यर्त इत्यस्वरसादाह - भाष्ये छान्दसस्तशब्दलोप इत्यादिना । अयंभावः, नात्र दुर्निष्प्रपतरमिति दुर्निष्प्रपतरशब्दस्य ल्युडन्ततामाश्रित्य दुःखनिष्क्र-मणनियमः प्रतिपाद्यते, अपि तु स्वलन्तात् दुर्निष्प्रपतरशब्दादातिशायिनि केतरमिति तरप्रत्यये छान्दसे तशब्दलोपे दुर्निष्प्रपतरमिति रूपम्, ततश्च अतिशयस्य प्रतियोग्याकांक्षायां प्रागनुक्रान्ताकाशादीनां बुद्धिसन्निधानात् तत्प्रतियोगित्वेन अन्वयस्त्यात्, ततश्च व्रीह्रादिषु आकाशापेक्षया चिरावस्थानोकत्या आकाशादिषु अवस्थानस्य तदपेक्षया अल्पकालत्वपर्यवसानात् समीहितसिद्धयुप- पत्तेः । ननु नायं वर्णविकारः, अपि तु तरपितशब्दलोप एवेत्यत्र किं विनिगमकमिति चेत्, ईषदुःषुषु कृछ्राकृछ्र्रार्थेषु खलिति खला बाधितं ल्युटं काशकुशावलम्बनेन समथ्र्य नकारस्य चरेफरूपवर्णविकाराश्रयणस्यायुक्तत्वात्, कश्चित्तु दुरुपपदात् पदि धातोः खलर्थे डप्रत्यये सति दुर्निष्प्रपमिति रूपसिद्धौ ततस्तरप्प्रत्ययेन दुनिष्प्र्रपतरमिति दुर्निष्प्रपतरशब्दनिष्पत्तिः, "अन्येष्वपि दृश्यते' इति जनेरुपपदान्तरयोगे ढविधायकसूत्रे "अन्येभ्योऽपि दृश्यत' इति वक्तव्यमिति धात्वन्तरेभ्योऽपि डस्य शिष्टत्वात् दृशिग्रहणं सर्वोपाधिव्यभिचारार्थमिति वृत्तावुक्तत्वात् "कृत्यल्युटो बहुलम्' इति सूत्रे बहुलग्रहणात् अन्येऽपि कृतः प्राप्तमभिधेयं व्यभिचरन्ती-त्यपि वृत्तावुक्तत्वात्, तस्य डस्य खलर्थत्वोपपत्तेश्च वर्णागमवर्णलोपादिकमन्तरेणैव रूपं सिध्द्यतीत्याह, तदतिमन्दम्, एतादृश-क्लिष्टगत्याश्रयणापेक्षया छान्दसवर्णलोपाश्रयणस्यैव ज्यायस्त्वात् । केचित्तु-अतो वै खलु दुर्निष्प्रपतरमित्यत्र वैशब्दस्य एवकार-समानाथत्र्वात् "त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टष् च अत्र ह्रेवावपन्त्यत एवोद्वपन्ति' इत्यत्र एवकारेण पवमानगतगाय-व्यादिभ्योन्यत्रावापपरिसङ्खयानवत् अत एव दुर्निष्प्रपतरमिति व्रीह्रादिभ्योऽन्यत्र चिरनिष्क्रमणप्रतिषेधस्य श्रौततया आकाशा-दिष्वनतिचिरेण निष्क्रमणसिद्धिः, अतो "युचि छन्दसि गत्यर्थेभ्यः' इति छन्दसि विशेषविहितयुजन्त एवायं शब्दः, रेफरूपवर्ण-विकारः छान्दसः इतरथा खलर्थप्रत्ययस्य "तयोरेव कृत्यक्तखलर्थाः' इति भावकर्मणोरेव विधानात् अस्य चाकर्मकत्वेन भावार्थस्ये; व परिशिष्टत्वात्, तदर्थस्य प्रकर्षाभावेन ततस्तरषो दुल्र्लभत्वात्, नचैवं तशब्दलोपः छान्दस इति भाष्यविरोधः इति वाच्यम्, कत्र्र-र्थपचाद्यजन्तात् प्रकर्षसम्भवेन तरपस्संभवादिति वदन्ति #ः।।

।। इति नातिचिराधिकरणम् ।। । ।।

3.1.25

 

नित्यकर्मादीनामपि सम्वत्सरपश्वालम्भनादिभिरशुद्धियुक्तत्वमिति - सम्वत्सरग्रहणं निन्दितकर्माभ्यासवशेन महापातक-युक्तत्वसूचनार्थम्, अत्रादिपदेन सायंप्रातःकालनिषिद्धमग्निहोत्राद्यङ्गहविश्शेषभक्षणं गृह्रते, अतो हिंसाशून्यानामपि अग्नि-होत्रादीनामशुद्धियुक्तत्वमिति द्रष्टव्यम्, भाष्ये-न वा उत्वेतदित्यादि, एतत् अधुना न म्रियसे न रिष्यसि, न हिंष्यस इत्यर्थः,

3.1.26

 

रुष् रिष् हिंसायामिति धातुः - अयमेव समीचीनो दुष्प्रधर्षणः परिहार इति । ननु हिरण्यशरीर उध्र्व इत्यर्थवादार्थे बाधकाभावात्, पशुसंज्ञ- पनस्य स्वर्गसाधनत्वेऽपि मरणोद्देश्यकमरणानुकूलव्यापारत्वेन हिंसात्वमप्यवश्यमभ्युपेत्यमेव । न च तस्य रक्षणरूपत्वात् अहिंसा- त्वम्, व्रणदाहच्छेदयोः दाहच्छेदरूपत्वेऽपि रक्षणरूपत्ववत् हिंसारूपत्वेऽपि पशुरक्षणरूपत्वोपपत्तेः, अस्य परिहारस्य सार्वत्रिक-त्वाच्च । न खलु सौत्रामण्यां वर्णत्रयेऽपि निषिद्धायाः पैष्टयाः सुरायाः पानन्नपानम्, नापि अश्वमेधे राजाज्ञया अश्वसंरक्षकैः क्रिय-माणमश्वमेधमन्त्रब्रााहृणानभिज्ञब्राहृस्वहरणन्नहरणम्, नापि वामदेव्योपासकत्य प्रार्थयमानसर्वयोषिदपहरणन्न परस्त्रीहरणमिति वक्तुं शक्यम्, तस्मात् तेष्वन्य एव परिहारो वक्तव्यः, स एव हिंसायामप्यस्तु, किमनेन लोकविरुद्धेन हिंसात्वापलापेन, तर्हि कः सार्वत्रिकः परिहारः, न हिंस्यादिति निषेधवाक्ये पुरुषार्थ एव हिंसाधातुना अनूद्यते, न क्रत्वर्थतापि, कत्र्तुराख्यातवाच्यत्वपक्षे समानपदश्रुत्या हिंसायाः तच्छेषत्वप्रतीतेः, तस्याख्यातवाच्यभावनाक्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तृशेषत्वप्रतीतेः नात्र क्रतोः वाचकं किञ्चिदस्ति, येनाथातोऽग्निष्टोमेनानुयजन्तीति अनारभ्याधीतवाक्ये क्षित्याग्नेर्यजिशब्दोक्तयागशेषत्ववत् अस्याः क्रतुशेषत्वमव- गम्येत, नापि क्रतोराक्षेपकं किञ्चिदस्ति, येन पर्णताया जुह्वाश्रिप्तक्रतुशेषत्ववदस्याः क्रतुशेषत्वमवगम्येत, न च प्रकरणेन क्रतो-र्विपरिवृत्तिरस्ति, येन "नानृतं वदेत्' इति दर्शपूर्णमासप्रकरणाम्नातवाक्येऽनूद्यमानस्यानृतवदनस्येव क्रत्वर्थत्वप्रतीतिर्भवेत्, तस्मा- दिह हिंसिधातुनाऽनुवादः पुरुषार्थहिंसाया इति तस्य एव निषेधो न क्रत्वर्थायाः, ननु तथापि हिंसिधातोः क्रत्वर्थपुरुषार्थहिसाद्व-यसाधारण्येन शब्दशक्तिबलादुपस्थितं हिंसाद्वयमप्यनूद्य निषेध्यतामिति चेत्-नैतत् न्याय्यम् । आख्यातवाच्यत्वेन तदर्थभावनाक्षे-प्यत्वेनो पस्थितस्य पुरुषस्य शेषभूताया हिंसायाः शीघ्रोपस्थितिकतया तन्निषेधेन चरिताथस्र्य हिंसावाक्यस्य विलम्बितोपस्थिति-कक्रतुशेषहिंसानिषेधकत्वस्यापि कल्पनायोगात् । ननु शब्दशक्तिसाम्येऽपि शीघ्रोपस्थितस्यैव शक्यस्य वाक्यार्थान्वयः न विल-म्बितोपस्थितिकस्येति वैषम्याभ्युपगमे "दर्शपूर्णमासाभ्यां स्वगर्कामो यजेत' इत्यत्र पूर्णमासपदेन उत्पत्तिवाक्यश्रुतदर्शपूर्णमां-सकालयोः आग्नेयाग्नीषोमीययोरेव खटिति प्रवृत्तिनिमित्तावगत्या शीघ्रोपस्थितिकयोः फलान्वयः स्यात्, उपांशुयाजस्य तु

3.1.27

 

पौर्णमासीकर्तव्याग्नेयाग्नीषोमीययागद्वयान्तरालविधानात् अर्थसिद्धपौर्णमासीकालस्य खटिति प्रवृत्तिनिमित्तावनगत्या विलम्बितोपस्थितिकस्य फलान्वयो न स्यादिति चेत-सत्यम्-आग्ने याग्नीषोमीयवत् उपांशुयाजस्यापि श्रौतपौणर्मासीपवलत्वेन ज्ञदिति प्रवृत्तिनिमित्ताव शीघ्रोपस्थिति-कत्वाविशेषेण फलान्वयसिदध्यर्थमेव, "तावब्राूतामाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इत्याहत्य पौर्णमासीकालविधानमाश्रीयते । एतदेवास्य विधानस्य प्रयोजनम् उपांशुयाजाधिकरणे "प्रयोजनाच्च' इति सूत्रेण तद्वार्त्तिकेन स्पष्टीकृतम् ततश्च शीघ्रप्रत्तीतस्यैव पदार्थस्य वाक्यार्थान्वय इति सिद्धत्वात् पुरुषार्थहिम्साया एव शीघ्रपस्थितिक-त्वात् तस्या एव निषेध्यत्वम्, अपि च यदर्थतया यतप्रसक्तं तस्य निषेधोपि तदर्थ इति न्यायमर्यादा । अन्यथा अप्रसक्तप्रतिषेधत्वाद-सामञ्जस्यं स्यात् । अत एव दर्शपूर्णमासप्रकरणाम्नातः "नानृतं वदे' दिति निषेधः प्रकरणात् क्रत्वर्थो भवन् क्रत्वर्थस्यैवानृतवदनस्य निषेधः, तेन क्रतूपयोगिद्रव्यादिसम्पादनार्थानृतवदने क्रत्वर्थनिषेधातिक्रमात् क्रतोर्वैगुण्यम्, क्रतुमध्येपि पुरुषार्थानृतवदने सति न क्रतोव्रैगुण्यम्,"यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोः तस्य वैगुण्यं यथाचोदितसिद्धितः' इति न्यायात्, किन्तु पुरुषस्य प्रत्यवाय मात्रम्, प्रकरणाम्नातोऽपि यो निषेधः क्रत्वर्थस्य निषेधो भवितुं नार्हति नासौ क्रत्वर्थः, यथा दर्शपूर्णमासप्रक-रणाम्नातः "मलवद्वाससा न सम्वदेत न तया सहासीत नास्या अन्नमद्यात्' इति निषेधः, यद्यपि पत्न्या सह सम्वादः सहासनञ्चे- त्युभयं क्रत्वर्थतया अर्थतः प्राप्नोति, तथापि मलवद्वाससा तथा न प्राप्नोति, यस्य व्रत्येहन पत्नी अनालम्भुका स्यात्, तामवरुद्धय यजेत' इति मलवद्वाससः क्रतौ सर्वात्मना उदासीनीकरणरूपस्य अवरोधस्य विहितत्वात्, तदन्नादनन्तु "अथो खल्वाहुरभ्यञ्जनं वा व स्त्रिया अन्नम् अभ्यञ्चनमेव न प्रतिग्राह्र'मिति अभ्यञ्जनशब्दोक्ततत्वङ्गमरूपतया व्याख्यातं क्रत्वर्थत्वेन कथमपि न प्राप्नोति, एवञ्च न हिंस्यादिति निषेधः क्रत्सर्थपुरुषार्थोभयविद्यहिम्सारूपत्वे स्वयमपि क्रत्वर्थपुरुषार्थोमयरपो भवन् स्वस्य क्रतुपुरुषसम्बन्धबोधनार्थं वाक्यं भिन्द्यात्, एवमेव सुराग्रहणपानादिनिषेधकवाक्यानामपि क्रत्वर्थग्रहणाद्यस्पर्शित्वं वक्तव्यम्, नान्या गतिरस्ति, न च तेषामस्त्येव पापत्वम्, अपितु प्रायश्चित्तेन समाधीयत इति वाच्यम्, तर्हि हिंसापि तथा समाधीयताम्, किमनेन लोकप्रसिद्धहिंसात्वनिरसनव्यसनेन, यच्चोक्तं सोमपाने उच्छिष्टदोषनिषेधोस्ति, "न सोमेनोच्छिष्टा भवन्ति,' इति निषेधात्, हिसायां न सोस्ति, येनायम् उत्सर्गा-पवादन्यायस्य विषयस्स्यादिति-तन्न, "सोमेनोच्छिष्टा भवन्ति' इत्यत्र उच्छिष्टताया एव निषिद्धत्वेन दोषस्यानिषिद्धत्वात्, न च उच्छिष्टत्वस्य निषेद्धुंयमशक्यत्वात् तद्दोषनिषेधपरत्वम्, तर्हि "न वा उ एतत् म्रियसे त रिष्यसि' इत्यत्र हिंसात्वस्य नि#ेषेद्धुम-शक्यत्वात् तद्गतदोषाभावादिपरत्वस्यैव सम्भवात् न दोषो हिंसायाम् "आहवेऽध्ननन्नेनस्वीराजे'ति, क्कचित् हिंसाविशेषेषु दोषाभावप्रतिपादनस्याप्युपलम्भात्, "अहिंसन् सवर्भूतान्यन्यत्र तीर्थेभ्यः' इति छान्दोग्यश्रुतौ यागीयहिंसायाः हिंसात्वमुपगम्य तस्याः निषेध्यत्वाविष्करणाच्च, श्रुतिष्वपि यागीयसंज्ञपने हि सात्वव्यपदेशस्य बहुलमुपलम्भाच्च हिंसात्वमभ्युपगम्यैव परिहार उक्त-रीत्या समाश्रयणीय इति चेत्, अत्र व्रूमः, यदुक्तं यदर्थः प्रतियोगी तदर्थः प्रतिषेधः इति न्यायमर्यादेति, तन्न, "दीक्षितो न ददाति न जुहोति न पचते' इत्यत्र पुरुषार्थानामेव होमानां प्रतिशेधः क्रत्वर्थ इति स्थापितत्वात्, यच्चाप्युक्तम्-पुरुषार्थहिंसायाः शीघ्रोपस्थितिकत्वात् तस्या एव निषेधवाक्यार्थान्वयित्वमिति, तदपि न, "यदाहवनीये जुहोति' इत्यत्र शीघ्रोपस्थितपुरुषर्थाक्षामे-वाऽऽहवनीयाङ्गकत्वप्रसङ्गात्, तस्मादुभयविधहिंसानिषेधे प्रवर्तनानिवर्तनारूपयोर्विधिनिषेधयोः पदाहवनीयादिवत् परस्परविरो- धात् उत्सर्गापवादन्यायेन क्रत्वर्थहिंसाव्यतिरिक्तविषयत्वकल्पनमेव ज्यायः, अत एव भामतीकल्पतरुभ्यां विशेषविधिविहितस्य

3.1.27

 

सामान्यविधिना विषयीकारे ह्रुत्सर्गावादम्यायः "यथांहवनीये जुहोति' इति होममात्रस्याहवनीयान्वयविधायिना पदहोभस्यापि विषयीकारे पदहोमान्वयविशेषविधानात्, तदतिरिक्तपरत्वं सामान्यशास्त्रस्य, अत्र तु वर्णितेन न्यायेन उत्पत्तिसमय एव निषे- धस्य पुरुषार्थहिंसाविषयत्वात् न क्रत्वर्थहिम्साप्रवेशः, शाङ्करभाष्ये-उत्सर्गापवादन्यायोक्तिस्तु अविशेषप्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यात् गौणीति यच्छाङ्करभाष्यशिक्षणं कृतम्, तदयुक्तमेव, उत्सर्गापवादन्यायोक्तिस्तु अवि-शेषप्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यात् गौणीति यच्छाङ्करभाष्यशिक्षणं कृतम्, तदयुक्तमेव, उत्-सर्गापवादन्याय एव सार्वत्रिकः परिहारः, हिसायां तु मन्त्रार्थवादादिभिः हिंसात्वाभावावगमनेन सम्भवतः परिहान्तस्योपेक्षानर्ह- त्वात् भगवता भाष्यकृता हिंसाविषये परिहारान्तरमुक्तम्, यच्चोक्तं मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिसात्वं हिसापदप्रवृतिनिमित्तमिति तन्न, अथोपहारकशाप्रहारादिना महतीं वेदनामुत्पादयर्था हिंसकत्वय्व्यवहारासम्भवप्रसङ्गेन वेदनत्पत्त्यनुकूलव्यापारत्वस्यैव सर्वत्रानुगततया हिंसापदप्रवृतिनिमित्तत्वे वक्तव्ये सति व्रणचिकित्सके तादात्विकतीव्रवेदनोत्पादके हिंसकत्वव्यपदेशाभावेन बलवदिष्टाजनकत्वे सति दुःखसादनव्यपारत्वमेव हिंसापदप्रवृत्तिनिमित्तम्, तत्कर्तर्येव हिसकत्वव्यवहारात्, मरणोद्देश्यकमर-णानुकूलव्यापारेऽपि अनेनैव बलवदिष्टाजनकत्वे सति अनिष्टसाधनव्यापारत्वरूपसाधारणप्रवृत्तिनिमित्तेन हिंसात्वव्यपदेशो- पपत्तेः, मरणोद्देश्यकमरणानुकूलव्यापरत्वस्य पृथक् प्रवृत्तिनिमित्तत्वकल्पनानौचित्यात्, पशुसंज्ञपनस्य तादात्विकदुःखजन- कस्यापि बलवदिष्टभूतस्वर्गजनकतया न हिंसात्वमित्यभिप्रेत्य भगवता भाष्यकृताऽयं परिहार उपन्यस्तः, न तु हिंसात्वमभ्यु पगम्य उत्सर्गापवादन्यायेन परिहारः, यथा हिंसां विधितन्निषेधविषयभेदन्यायानभिज्ञेन वादकथायां "श्येनेन यजेत' इति वाक्यमयु- क्तार्थं, श्येनपक्षिणः पुरोडाशादिवत् यागीयद्रव्यत्वे अहिंसाशास्त्रविरोधादिति शङ्किते श्येनाङ्गपशुषु आवश्यकेनापि विषयभेद-न्यायोपन्यासेन न तत्समाधानमुचितम्, किन्तु वस्तुः स्थितिमनुसरता वाक्यशेषमुदाह्मत्य कर्मनामत्वोपन्यासेनैव तत्समाधीयते, एवमिहाप्युत्सर्गापवादन्यायेन परिहार्येप्यस्मिन्नाक्षेपे वस्तुस्थितिमनुसरन् भगवान् भाष्यकारो हिसात्वाभावमेव प्रत्यपीपददिति न किञ्चिदवद्यम् ।। । ।। ।। योनेः शरीरम् ।। संसारिजीवशरीरञ्चेति - यत्र पुण्यापुण्यरूपे कर्मणी तत्रैव सुखदुःखे, यत्र च सुखदुःखे तत्रैव तद्धेतुभूतं शरीरम्, ततश्चाकाशादिषु कर्मकीत्र्तनाभावेन तत्फलभूतसुखदुःखाद्यनुभवाभावात् न तद्धेतुभूतं शरी- रमिति भावः ।। । ।।

इति अन्याधिष्ठिताधिकरणम्

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिका-

व्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य प्रथमः पादः ।।

समुदिताधिकरणसङ्ख्या - 74 - समुदितसूत्रसङ्ख्या - 304 ।।



3.2.1

 

सुखानुभवेऽपीति - कृतात्यय इति सूत्रांशेन स्वर्गक्षयिष्णुत्वस्य सूत्रकृताख्यापितत्वादिति भावः, दुःखित्वज्ञापनप्रकारः सर्वोषि रंहत्यथिकरणेऽस्माभिः प्रपञ्चितः तत्रैवानुसन्धेयः - भाष्ये स्वप्नमधिकृत्येति । प्रवृत्तेति शेषः, स्वप्नमधिकृत्य प्रवृत्ता श्रुतिः श्रूयत इति योजना, तेन समानकर्तृकत्वात् न क्तवानुपपत्तिः, अधिकृत्य प्रस्तुत्येत्यर्थः, भाष्ये रथयोगा इति, रथैर्युज्यन्त इति रथयोगा रथाश्वाः कर्मणि घञ् कर्तृकरण इति समासः, वेशान्ताः पल्वलानीत्यर्थः, पुष्करिण्य इति द्वितीयार्थे "सुपां सुपो भवन्ती'ति जसा-देशः, अथवा छान्दसः पूर्वसवर्णदीर्घाभावः - स्प्नं पश्यतीति हि प्रकृतमिति । यद्यपि "स यत्र स्वपिति अस्य लोकस्य सर्वाबतो मात्रा उपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति अत्रायं पुरुषः स्वयंज्योतिर्भवती'त्युपक्रम्य हि "न तत्र रथा' इति बृहदारण्यके श्रूयते, अत एव शाङ्करभाष्ये स यत्र प्रस्वपितीत्युक्रम्येत्येवोक्तम्, तथापि प्रस्वपितीत्यस्य अस्पष्टाथर्- त्वात् स्पष्टार्थं लौकिकं वाक्यान्तरमुपात्तम्, न त्वेतत् श्रुतिवाक्यमुपात्तमिति द्रष्टव्यम्, एवमुत्तरत्र स्वप्नं पश्यतीति प्रकृतो जीव इत्य-त्रापि द्रष्टव्यम् । भाष्ये-सन्ध्यं स्वपनस्थानमुच्यत इति, तस्य ह वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभे स्थाने पश्यति इदं च परलोकस्थानञ्चेति श्रुतिः, यथा ग्रामसन्धिः द्वौ ग्रामौ भजते एवं स्वप्न उभौ लाकौ लक्षणतो भजते एतल्लोकवर्त्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्वलक्षणं परलोकलक्षणं

3.2.3

 

भजते, परलोकवर्त्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्वरूपमैहलौकिकलक्षणमपि भजत इत्यर्थमस्याः श्रुतेः केचन वर्णयन्ति, भाष्ये-सृजते स हि कत्र्तेत्याह हीति, हि शब्दो हेत्वर्थः, ततश्च कत्र्तेत्यस्य सृजत इत्यनेनैकाथ्र्यात् द्देतुहेतुमद्भावाभावात् कर्तृ-त्वोपयुक्तसत्यसङ्कल्पत्वगुणशालीत्यथर्।, ततश्च सत्यसङ्कपत्वात् जीवस्य कत्र्तृत्वं युज्यत इत्यर्थः इति पूर्वपक्षिणो भावः, न च सत्यसङ्कल्पत्वादिसद्भावे जागरेऽपि जीवस्य रथादिरुाष्ट्टत्वं स्यादिति वाच्यम्, जागरदशायां तिरोहितस्य स्वप्नदशायां मुक्ता-विवाविर्भावसम्भवात्, पूर्व पश्चात् चासतां स्वप्नपदार्थानां स्वप्नकाले भवनवत् सत्यसङ्कल्पत्वस्याऽपि तन्मात्र एवाऽऽविर्भा-वोपपत्तेः, नचैवं सति प्रवुद्धस्य रथादीनद्राक्षमिति परामर्शवत् रथादीनस्त्राक्षमित्यपि परामर्शः स्यादिति वाच्यम्, स्वप्ने जागरानु-भूतपितृपितामहात्ययादिवृत्तान्तस्याननुसन्धानवत् स्वपनेऽनुभूतरथादिस्त्रष्ट्टत्वस्य जागरणे अननुसन्धाने दोषाभावात्, न च जीवस्य स्वाप्नार्थस्त्रष्ट्टत्वे शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान् इति वाच्यम्, तदानीं स्वाप्नार्थस्याऽशुभसूचकत्वाननुसन्धा- नेन तत्स्त्रष्ट्टत्वोपपत्तेः, स्वप्नदृक्कत्र्तृकेषु तैलपानतैलघटावगाहनविषभक्षणमध्वशनैकपुण्डरीकदारणादिषु सिद्धान्तेऽप्येवमेवोपपाद-नीयत्वात्, तस्मात् जीव एव कत्र्तेति पूर्वपक्षिणो भावः ।। 1 ।। जीवलिङ्गं दर्शयतीति - ततश्च परमात्मनस्तत्र प्रकृतत्वेऽपि पुत्रपौत्रादिसम्बन्धरूपस्य जीवलिङ्गस्य बलवत्वात् "एषु सुप्तेषु' इति वाक्ये जीव एव कर्तृत्वेन प्रतिपाद्यत इति भावः ।। 2 ।। तुश-ब्दसिद्धार्थ उक्त इति - जीवकर्तृकत्वरूपपूर्वपक्षव्यावर्तकतुशब्दवलात् परमात्मकर्तृकत्वं लभ्यते, मायामात्रं स्वप्ने पुष्करिण्या-

3.2.4

 

द्यर्थजातं परमपुरुषसृष्टमिति भाष्ये योजना, मायामात्रमित्येतत् हेतुगर्भं पक्षविशेषणम्, सर्वांशस्याऽप्याश्चय्यर्रूपत्वात् परमा-त्मसृष्टमिति भावः, ततश्च परमपुरुषसृष्टमित्येनन्मायामात्रमित्यस्य व्याख्यानमिति न मन्तव्यमिति भावः । ।न भवन्तीति वाक्- यस्य वैयथ्र्यमिति - पूर्वकालीनाभावपरत्वेनाभूवन्नित्येवं निर्देशप्रसङ्गेन लडन्तनिर्देशानुपपत्तिरित्यस्वारस्यमपि बोध्यम्, ननु यद्यपि प्रसिद्धरथादीनामभावस्य लोकसिद्धत्वेऽपि तेषामनुभवाभावो न लोकसिद्ध।, सुप्तोत्थितो हीत्थं परामृशति, पुरा यो रथो माहिष्मत्यां दृष्टः तमेव रथं स्वप्नेऽन्वभूवमिति, ततश्च कथमनुभवाभावो लोकसिद्ध इति चेत्, सत्यम्, "सृजते स हि कत्र्ता' इति सृज्यत्वकथनादेव प्रसिद्धानामननुभूतत्वस्य सिद्धिसम्भवात्, न तत्प्रतिपादनाय "न तत्रे रथाः' इत्यादिवाक्यमथर्वदिति भावः -विजातीयविचित्रार्थसृष्टिपरत्वमिति । ननु वैजात्यं लोकसिद्धम्, स्त्रष्ट्टत्वमात्रमेव हि प्रतिपिपादयिषितमिति पर्यवसन्नम्. ततश्च सृजत इत्येतन्मात्रस्यैव सार्थक्यम्, न तु "न तत्र रथा' इत्यादि पूर्व भागस्येति चेत्, सत्यम्, "जन्माद्यस्य यतः' "यतो वा इमानि' इत्यादौ इदंशब्दस्य

कार्यवर्गवैचित्र्यतूचकत्वेन साफल्यवत् "न तत्र रथाः' सत्यादिवाक्यस्यापि स्वप्नार्थवैचित्र्यसूचनमुखेन अतिविचित्रस्वप्नार्थस्त्रष्ट्टत्वरूपपरब्राहृमहिमप्रतिपादने तात्पय्र्यमिति, तत्कालमात्रावसायित्वरूपमित्यनन्तरं पय्यर्वस्यतीति पूरणीयः, अथ वा इति सगाप्तौ द्रष्टव्यः । णमुलन्तमिति - "आभीक्ष्ण्#े णमुल्-

3.2.6

 

चेति णमुल्, आभीक्ष्ण्#े द्वे भवत सति द्विर्भावः ।। 3 ।। ननु तिरोधानस्य तत्सङ्कल्पायत्तत्वं प्रतिज्ञातं चेति ततो ह्रस्य तिरोधा-नविपर्ययावित्येव निर्देष्टव्यमित्यत आह - बन्धस्य तत्सङ्कल्पायत्तत्व इति । ।। 4 ।। ।। 5 ।।

स्वप्नवाचिवेदवाक्यविद इति - ननु स्वप्नाध्यायस्य पुराणगतस्य ग्रहणे न किञ्चिद्वाधकमिति चेन्न, श्रुतेराचक्षते च तद्विदः-

3.2.6

 

इत्यत्र तच्छब्दस्य सन्निहितश्रुतिपरामर्शकत्वस्यैव युक्तत्वात्, श्रुतावप्यध्यायव्यवहारसत्वेन भाष्यविरोधाभावाच्च, भाष्यध्यस्वप्ना-ध्यायदेन श्रुतिरेव गृह्रत इत्यभिप्रायः । भाष्ये शुभस्य सूचकमेवेति । न च अशुभसूचकत्वापरिज्ञानात् तत्सृष्टिरिति वाच्यम्, तदानीन्तनानिष्टकारिणां चोरव्याघ्रादीनामनिष्टकारित्वेन ज्ञायमानानां सृष्टिदर्शनेन स्वाप्नसृष्टेः जीवकर्तृकत्वासम्भवादिति भावः । परे तु स्वाप्नाः पदार्थाः वियदादिवत्सत्याः, वृहदारण्यके स्वप्नमधिकृत्य "अथ रथान् रथयोगान् रथपथः सृजते' इति सृष्टयाम्नानात्, उपसंहारे स हि कत्र्तेति सुप्तजीवकत्र्तृकत्वाम्नानात् अपरमार्थस्य सृष्टेः कर्तुर्वा असम्भवात् तथा कठशाखायां "एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' इति कामशम्दनिर्दिष्टानां स्वाप्नानां पुत्रपौत्रादीनां निर्माणश्रवणात् तस्य निर्माणस्य प्राज्ञकत्र्तृकत्वाच्च प्राज्ञकत्र्तृकाणां वियदादीनां पारमाथ्र्यवत् स्वाप्नानामपि तथ्यरूपत्वमेवोचितम्, न च प्राज्ञकत्र्तृकत्वहेतोरसिद्धिः, "एषु सुप्तेषु' इति वाक्यस्याधस्तात् परमात्मन एव प्रकृतत्वात् "तदेव शुक्रह तद्व्रहृ' इति वाक्यशेषाच्च, जीवकर्तृकत्वेऽपि जीवस्य प्राज्ञाभिन्नत्वेन प्राज्ञकर्तृकत्वानपायात्, किञ्च स्वाप्नप्रत्ययः प्रमा प्रत्ययत्वात्, संवादिप्रत्ययवदित्यनुमानाच्च स्वाप्नार्थस्य सत्यत्वसिद्धेः, नचोत्तरकालं बाधदशर्नात् असत्यत्वं भुयोर्भिन्नविषयत्वेन बाध्यबाधकभावाभावात्, एकस्यैव क्षीरस्य कालान्तरे दधिभाववत् स्वप्नेरथादिरूपाणामेव तेषां जाग्रद्दशायां तद्भिन्नरूपेण परिणामसम्भवेन बाध्यबाधकत्वेनाभिमतयोः कालभेदेन वस्तुद्वयविषययोरविरोधात्, अथवा सर्वं सर्वरूपमेव निद्रारूपव्यञ्जकसमवधाने रथाद्यात्मना गृह्रते, अतद्रूपत्वव्यञ्जिका तु जाग्रद्दशा, किञ्च केषाञ्चित् स्वप्नानां जाग्रत्प्रत्ययसंवाददर्शनात् तत्सामान्यादितरेषामपि स्वप्नानां तथात्वं वक्तव्यम्, एवं प्रामाण्योपपादनसम्भवे अप्रामाण्याश्रयणस्यान्याय्यत्वात्, न तत्र रथा इत्यादि रथाद्यभावश्रुतिस्तु जाग्रदवस्थादर्शनयोग्या न सन्तीत्येवं भाक्ततया व्याख्येया, इत्येवमाद्याभ्यां सूत्राभ्यां पूर्वपक्षं कृत्वा माया मात्रं तु इत्यादिभिः सूत्रैः सिद्धान्तः कृतः, मायामात्रं, न परमार्थगन्धोस्तीत्यर्थः, परमार्थवस्तुधर्माणां देशकालनिमित्ताबाधानां कार्त्स्न्#ेन तत्राभावात्,न तावत् स्वप्ने रथगिरिनदीसमुद्रादीनामुचितो देशः सम्भवति, अतिस्वल्पे स्वप्नदृग्देहदेशे रथादीनामवकाशासम्भवात्, न च तत्रैव "बहिष्कृ#ुलायादवरश्चरित्वा स ईयते अमृतो यत्र काम'मिति कुलायशाब्दितात् शरीरात् बहिश्चरित्वा यत्र विषये कामो भवति तत्र तत्र ईयते गच्छतीति शरीरात् बहिस्सञ्चरणश्रवणेन स्वप्नदृक् न स्वदेहान्तर्गतदेश एव स्वाप्नान् पदार्थान् पश्यति, येन देशस्याननुरूपत्वं स्यादिति वाच्यम्, देहाद्वहिस्सञ्चरणे दण्डताडनादावनुत्थानप्रसङ्गेन तस्याः श्रुतेरुपपत्तिविरुद्धत्वात्, "स्वे शरीरे यथाकामं परिवर्तते' इति श्रुतिवशाच्च बहिष्कि#ुलायश्रुतेर्गौणत्वस्य वक्तव्यत्वात् स्वप्नदृग्देहान्तर्वर्तिदेशस्यैव स्वाप्नपदार्थदेशत्वात् तस्य च तदुचितदेशसम्पत्त्यभावात् देशस्यदुर्निरूपत्वं सिद्धम्, तथा मुहूर्तमात्रेस्वप्नकालेन चिरकालसाध्यविवाहपुत्रोत्पादनादय-स्सम्भवन्ति, न वा रथाद्युत्पत्तिनिमित्तानि दार्वादीनि तद्दर्शननिमित्तानि वा बाह्रकरणानि वा सम्भ- वन्ति, यच्चोक्तं कालभेदेन भिन्नविषयत्वात् न प्रतीत्योर्बाध्यबाधकभाव इति, तन्न, नहि जात्वीश्वरगृहे चिरस्थितरजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते, न वाऽन्येन रजततया अनुभूयमानानि वस्तूनि अन्येन अनाकुलेन्द्रियेण पुंसा शुक्तित्वेनाऽनुभू- यन्ते, नाप्येकस्य सर्वदा सर्वरूपत्वमिति पक्षः सम्भवति, तथा सति सर्वास्य वस्तुनः सर्वर्थक्रियाकारित्वप्रसङ्गात्, तस्मादुपपत्ति- विरुद्धा सगश्र्रुतिरुपपत्तिसहितप्रक्रमश्रुतरथाद्यभावश्रुत्यनुरोधेन भाक्ततया व्याख्येया, सृजते प्रत्येतीत्यर्थः. स हि कत्र्तेत्यत्रापि नहि जीवस्यसुप्तस्य रथादिषु स्त्रष्टत्वं वक्तुं शक्यते, तद्दर्शननिमित्तसुकृतदुष्कृतकर्तृत्वेन तत्कर्तृत्वमुपचरितम्, एतेन "एषु सुप्तेषु जागर्ति' इति कठशाखायां निर्माणश्रुतिः

भाक्ततया व्याख्येया, यदप्युक्तं प्राज्ञमेतं निर्मातारमामनन्तीति तदसत्, बृहदारण्यके "स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्विपिति' इति जीवव्यापारश्रवणात् इहाप्येषु सुप्तेषु जागत्र्तीति प्रसिद्धानुवा-

3.2.6

 

दात्, जीव एवायं स्वयं कामानां निर्माता सङ्कीत्त्र्यते , ब्राहृप्रकरणन्तु तदभेदबोधनार्थत्वान्न विरुद्धयते, ततश्च प्राज्ञकर्तृकत्वहेतो-रसिद्धिः, अस्तु वा प्राज्ञकर्तृकत्वम्, न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिद्धयते, तस्य सर्वेश्वरत्यात् सर्वास्वप्यवस्थासु अधिष्ठातृत्वोपपत्तेः, न ह्रेतावता प्राज्ञकत्र्तृकत्वमात्रेण सत्यत्वं साधयितुं शक्यम्, प्रत्यक्षविरोधात्, एवमपरमार्थद्रव्यावच्छिन्नस्य स्वप्नदर्शनस्य प्रमाणबलात् सूचकत्वमप्यभ्युपेयम्, ननु न जीवकर्तृकत्वश्रुतेरौपचारिकत्वमभ्युपेयम्, सत्यसङ्कल्पस्य तस्य सृष्टि-सम्भवादिति शङ्कापकरणार्थं "पराभिध्यानात्तु' इत्यादिसूत्रद्वयं वर्णयन्ति, तत्र दूष्यांशमनूद्य दूषयति, परे त्वित्यादिना, एषां च जीवकर्तृकत्वमेव सृजत इत्युच्यत इत्यस्यानन्तरमिति यदुक्तं पूर्वपक्षिणेति शेषः । तच्चौपचारिकमिति - तच्चोच्यमानं जीवकर्तृक-त्वमौपचारिकमुपचरितमित्यर्थः, ननु न देशस्य दुर्निरूपत्वं, यदि वयं संवृते देहदेश एव स्वाप्नार्थानां सृष्टिमभ्युपगच्छामः, तदा हि तस्य दुनिर्रूपता नैवमभ्युपगम्यते, "बहिष्कुलायादवरश्चरित्वास ईयते अमृतो, यत्र हिरण्मयः पुरुष एकहंसः' इति श्रुतेरित्या-शङ्कय सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितदेशपर्यटनसामथ्र्याभावात् "स्वे शरीरे यथा कामं परिवत्र्तते' इति स्वशरीर एव स्वप्नावस्थस्य परिवर्तनाम्नानाच्च बहिष्कुलायश्रुतिरुपचरितार्थेत्युक्तम्, तदेतदनुभाषते, बहिष्कुलायादवरश्चरित्वेति, "एषु "सुप्तेषु जागर्त्ति कामं कामं पुरुषो निर्मिमाणः' इति कठबल्लीषु न प्राज्ञकर्तृकत्वमभिधीयते, "य एषु सुप्तेषु जागत्र्ती'ति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता सङ्कीत्र्यते, तस्मिन् प्रकरणे "तदेव शुक्रं तद्व्रहृ' इति सङ्कीत्र्तनं जीवस्य ब्राहृाभेदोप दशार्थमित्येतदनुभाषते । तस्मिन् प्रकरण इत्यादिना - तस्मिन् प्रकरण इति कठचल्लीस्वप्नप्रकरण इत्यर्थः, न तु बहिष्कुलायादवरश्चरित्वेति प्रकरण इति भ्रमितव्यम्, तस्य वृहदारण्यकवाक्यस्थतया तत्र ब्राहृप्रकरणाभावात् परैस्तथाऽनुक्तेश्च, तच्च द्वितीयमिति मायामात्रं सूत्रानन्तरं "पराभिध्यानात्' इत्यस्मात् प्राक् पठितमिति भावः । अस्य बन्धमोक्षौ हीति - परमात्मा-ज्ञानज्ञानाधीनावित्यर्थः । स्वाप्नार्थानां जीवकत्र्तृकतयेति - यद्यपि न परैर्मिथ्यात्वे जीवकर्तृकत्वं हेतूकृतम्, किन्तु प्राज्ञकत्र्तृकत्वरूपहेत्वभावसम्पादकत्वेन जीवकर्तृकत्वं वर्णितम्, तथापि साधकाभावस्य बाधकत्वमिति न्यायेन सत्यत्वसाधकाभावस्य

तदभावसाधकत्वलक्षणं तद्वाधकत्वमस्तीत्यभिप्रेत्य तथोक्तम्, एवमुत्तरत्रापि द्रष्यव्यम् । श्रुतिवाक्यकृतसत्यत्वशङ्केति -

3.2.6

 

सर्गनिर्माणादिश्रुतिवाक्यकृतसत्यत्वशङ्केत्यर्थः । व्याववहारिकसत्यत्वनिवृत्त्यविरोधादिति - अभिमतार्थविरुद्धत्वे हि त्याग उचित इति भावः, यद्यपि तैरेव नचास्माभिः स्वप्ने प्राज्ञव्यापारः प्रतिषिध्यते, स्वप्ने प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वाप्वप्यवस्थास्वधिष्ठतृत्वोपपत्तेः, अपि तु न प्राज्ञर्तृकत्वस्य सत्यत्वसाधकत्वमित्युक्तम्, तथापि पूर्वस्मिन् ग्रन्थे परमात्मकत्र्तृ-कत्वव्युदासेन जीवकर्तृकत्वं प्रसाध्य पुनः परमात्मकर्तृकत्वं प्रसाधयतो वाक्यं कथं "विप्रतिषेधाच्चासमञ्जस'मिति न्यायमतिवत्र्तेत इति भावः । जीवस्त्रष्ट्टत्वस्येति - ततश्चायमप्यपरो विप्रतिषेध इति भावः । एवं जीवानामिति - "पराभिध्यानात्' इति साक्षात् सूत्रितत्वादिति योजना, अथवा साक्षादित्यस्य स्वाप्नार्थकर्तृकत्वाभावस्येत्यनेनान्वयः, साक्षात्कर्तृकत्वाभावस्य मुख्यकत्र्तृकत्वा-भावस्येत्यर्थः । न त्वनुपयुक्तविरुद्धानीति - यद्यपि विरुद्धान्यप्यनुपयुक्तान्येव, तथापि बलीवर्दन्यायेन सूत्रार्थविरुद्धत्वे साध्य-स्यात्यन्तपरिहत्र्तव्यत्वख्यापनार्थं तदुपादानम्, यस्मिन् साध्ये सूत्राण्यनुपयुक्तानि विरुद्धानि च न स्युः तदेव साध्यं भवितु-मर्हतीत्यर्थः, अर्थक्रियाया इति छेदः, सूचनरूपार्थक्रियाकारित्वस्य सत्यत्वासाधकत्वेन मिथ्यात्वविरोधित्वादित्यर्थः । अध्या-हारव्युत्क्रमान्वयावित्यादि - अयमर्थः, पराभिध्यानात्तिरोहितमाविर्भवतीति योजनायाम् आविर्भवतीतिपदाध्याहारः परा-भिध्यानादिति पञ्चम्यन्तपदस्य तिरोहितमित्यनेनाव्यवहितान्वयः परित्यज्य आविर्भवतीत्यनेनान्वयात् व्युत्क्रमान्वय इति । तिरोभावशब्दस्य प्रकृतत्वादिति - तिरोहितमाविर्भवतीत्याविर्भावस्यैव त्वन्मते प्राधान्येन प्रकृतत्वादित्यर्थः । स इति परा-मर्शायोग्यत्वाच्चेति - न च सिद्धान्तेऽप्येष दोषः समान इति वाच्यम् पूर्वोक्तप्राधान्याप्राधान्य एव तात्पर्यात् । निरूप्य-

3.2.6

 

मिति - विचारणीयमित्यर्थः । न्यायविदामिति - उक्थ्याग्निष्टोमाधिकरणन्यायविदामित्यर्थः, "अप्यग्निष्टोमे राजन्यस्य गृह्वीयात् अप्युक्थ्ये ग्राह्रः' इति विहितस्य षोडशीग्रहस्य स्तोत्रशस्त्राद्यङ्गकत्वे अग्निष्टोमोक्थ्यस्तोत्राभ्यां तस्य यागस्य समाप्त्यभावेन उक्थ्यत्वाग्निष्टोमत्वरूपोद्देश्यविशेषणभङ्गप्रसङ्गाद्विधेयस्य षोडशीग्रहस्य शस्त्राद्यङ्गराहित्यमेवाश्रयणीयमिति पूर्वपक्षे प्राप्ते साङ्ग-प्रधानाविधायकत्वात् विधेस्तत्स्वारस्यस्याभञ्जनीयतया अग्निष्टोमत्वोक्थ्यत्वरूपोद्देश्योपमर्दः सोढव्यः, ततश्च य उक्थ्यसंस्थः प्राप्तः स षोडशीसंस्थः कत्र्तव्य इति भवतीति व्यवस्थापितम्, न च स्वाप्नार्थानामिति प्राक्कालीनपदं प्रयोगबाहुल्यात् तद्धिता इत्यत्र बहुवचननिर्देशेन "अन्यत्रापि तद्धितप्रत्यया भवन्ती'ति प्रतिपादितत्वाच्च सौम्यधुरीणादिवत् साध्विति मन्तव्यम् । ज्ञाना-धिष्ठितेनेति - ततश्चाणोरपि जीवस्य धर्मभूतज्ञानेन अनेकदेशाधिष्ठानमुपपद्यत इति भावः । बहिर्वृत्त्युपपत्तेरिति - बहिव्र्यापा-रोपपत्तेरित्यर्थः, अनेन "प्राणेन रक्षन्नवरं कुलायम्' इति श्रुत्यर्थः प्रदर्शितो भवति, प्राणेन सहितं कुलायं धर्मभूतज्ञानेन रक्षन्निति तस्यार्थः, एतेन बहिष्कुलायश्रुतेर्गौणत्वं बदन्तः प्रत्याख्याताः, कुलायात् बहिस्चरणस्य वस्तुतोऽभावे पूर्वकुलायस्य विनाश- प्रसङ्गेन रक्षणप्रतिपादनं व्यर्थं स्यात्, अतो बहिष्कुलायश्रुतेः सञ्चरणे तात्पर्यमवसीयते, नन #ु "स्वे शरीरे यथाकामं परिवर्तते' इति श्रुतिविरोधात् "बहिष्कुलायादवरश्चारित्वा' इति बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या, यो हि वसन्नपि शरीरे न तेन प्रयोजनम्, करोति बहिरिव शरीरात् भवतीत्युच्यते, न च शरीरात् बहस्संचरणेऽपि तस्यापि शरीरस्य स्वीयत्वादेव स्वे शरीर इत्युपपद्यत इति वाच्यम्, तथात्वे स्व इत्यस्य वैयथ्र्यप्रसङ्गात्, अवश्यञ्च बहिष्कुलायश्रुतेः भाक्तत्वमभ्युपेयम्, अन्यथा प्रधान-

3.2.6

 

प्रकरणार्थविरोधापत्तेः, आत्मनः स्वयञ्ज्योतिष्ट्वं प्रतिपादयितुं प्रवृत्ते हि प्रकरणे जाग्रदवस्थायामादित्यादिन्तेतिव्यतिकारात् तद्दुविवेचमिति तद्विवेचनार्थं स्वप्नावस्थाऽवतारिता, तत्र यदि सृष्टिः प्रतिपाद्येत तदा तत्रापि तद्दुविर्वेचं स्यात्, आदित्यचन्द्राग्नि-वाक्प्रतिभासस्य तदानीमपि सत्वात्, अतः प्रधानप्रतिपाद्यविरोधात् स्वर्गार्थज्योतिष्टोमप्रकरणे तदङ्गविध्यर्थवादस्य "को हि तद्वे-दयत्द्यमुष्मिन् लोकेऽस्ति वा नवां' इति वाक्यस्व स्वाप्नसृष्टिवचनस्य न स्वार्थे तात्पय्र्यम्, इहापि "न तत्र रथा न रथयोगा न रथपन्थानो भवन्ति' इत्युपक्रमेणैव सृष्टिवचनस्यापारमाथिर्कविषयत्वं द्योतितम्, न च लोकसिद्धतदपारमाथ्र्यकथने वाक्यवैयथ्र्य- मिति वाच्यम्, लोकसिद्धस्वाप्नरथादिमिथ्यात्वस्य स्वयञ्ज्योतिष्ट्वविवेचनोपयोगित्वेनानुवादोपपत्तेरिति चेत्, मैवम्, उक्तरीत्या बहिष्कुलायश्रुतेः तात्पर्यवत्वात्, "स्वे शरीरे' इति श्रुतिरपि स्वाप्नशरीराणां घर्मभूतज्ञानमात्रव्याप्त्यैव स्वाधिष्ठितानामणोर्जीवस्य यथाकामं सञ्चरणपरत्वात् अनेकजनपदाधिपतेर्महारजस्य स्वजनपदेषु स्वीयत्वाविशेषेण यथेष्टसञ्चरणपात्वत् "स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते' इति पूर्ववाक्यानुसारेण सौभरिन्यायेन शरीरेषु यथेष्टं स्चरणप्रतिपादनपरत्वा-दस्य वाक्यस्य स्वपदस्य च स्वीयत्वरूपहेतुसाधारण्यप्रतिपादनपरत्वेन सार्थक्यात् प्रकरणस्य रथादिमिथ्यात्वप्रतिपादनद्वारा स्व-यञ्ज्योतिष्ट्वप्रतिपादनार्थत्वमप्यसत्,आदित्यादीनामवभासकानाम् अभावेऽपि मनस आत्मव्यतिरिक्तस्य सत्त्वेन सञ्वयञ्जयोति-ष्ट्वस्यासिद्धेः, न च मनः स्वप्ने सदपि दृश्यत्वान्नात्मावमासकमिति वाच्यम्, तर्हि आदित्यानामपि दृश्यत्वाविशेषेणानवभासक-त्वसिद्धेः तद्वयतिरेकप्रतिपादनस्य व्यर्थत्वात्, "अस्तमिते आदित्ये याज्ञवल्क्य चन्न्रमस्यस्तमिते शान्तेऽगौ शान्तायां वाचि किं ज्योतिरेवायं पुरुषः' इति पृष्टप्रतिपन्नादित्याद्यभावस्य "न तत्र रथ' इत्यादिवाक्यप्रतिपाद्यत्वायोग्यत्वाच्च, आदित्यावभासका-न्तराभावस्य प्रतिपाद्यत्वे न तत्रादित्या इत्येव श्रुतिनिर्देशोऽपि स्यात्, तस्मात् सकलेतरविजातीयरथादिस्त्रष्ट्टत्वरूपपरमात्म-महामहिमप्रतिपादनार्थेयं श्रुतिः' अत एव रथादिसृष्टयनन्तरं "स हि कत्र्ता' इति हेतूपन्यासस्सङ्गच्छते, स्वप्नदृक् यस्मिन् देशे रथं पश्यति यदा तदानीं तत्र स्थितोऽन्यः तन्न पश्यति, स्वप्नदृगपि प्रबोधानन्तरं तत्र गतः तन्न पश्यति तथा तत्र तस्यान्यत्र नयनचि-ह्नानि नादचिह्नानि वा पश्यति कथमेतादृशाश्चर्यसहरुालिनि स्वप्नसृष्टिर्भवतीत्याकाङ्क्षायां "स हि कर्ता' इति तत्र हेतुरुच्यते, सकलप्रपञ्चनाटकसूत्रधारस्सर्वेश्वरः खलु तत्र कत्र्ता स किं कत्र्तुं न शकनुयादिति हि शब्दाभिप्रायः, न चास्यार्थस्य

प्रकरणासङ्गतिः "उभयान् पाप्मनः आनन्दाँश्च पश्यति' इति स्वप्नद्रष्टुरनुकूलप्रतिकूलविषयप्रतिभासकत्वेन स्वयञ्ज्यरोतिष्ट्वेनिर्दिष्टे तदानीं लोक- दृष्टया द्रष्टव्यान्तराभावशङ्कां निवर्तयितुं परमात्मकर्तृकाणां सद्भावः प्रतिपद्यत इति न तु मिथ्यात्वप्रसक्तिः, न चात्मनो विषया-वभासकत्वं सिद्धान्ते नाभ्युपगतम्, धर्मभूतज्ञानस्य तथात्वादिति वाच्यम्, धर्मभूतज्ञानगतभासकत्वस्यैव तद्द्वारा आत्मनिष्ठस्यैव प्रतिपाद्यत्वात्, "कतम आत्मा योऽयं विमानमय' इति विज्ञानगुणकत्वमुपपाद्य तस्य स्वयञ्ज्योतिष्ट्वप्रतिपादनपरत्वात् प्रकरण-स्येति नात्र मिथ्यात्वप्रसक्तिरित्यलं विस्तरेण - देशान्तर्गतविशेषप्रश्ने प्रतिवचनाभावोपपत्तिरिति । तद्देशगतस्वाप्नार्थव्य-तिरिक्तार्थान्तरदर्शनं नास्तीत्यर्थः, ननु स्वप्नदृष्टकाञ्चयादिदेश स्यापि भिन्नत्वेन तत्र जाग्रद्दृश्यपदार्थान्तरस्य सन्त्वाप्रसक्त्या तत्प्रश्नप्रतिवचनयोरपि अप्रसक्तत्वेन तेषां चक्षुरादिना स्वाप्नार्थमात्रग्रहणयोग्य, त्वात् तद्देशगतविशेषान्तरप्रश्ने प्रतिवचनाभावोपपत्तिरस्थानसंभ्रमः, अत एव प्रतिधातकत्वा प्रतिघातकत्वादिविचारात्मकोत्तरसन्दर्भोपि तादृश

एव देश भेदेन प्रतिघातकत्वादि विचारस्यासङ्गतत्वादिति चेत्, सत्यम्, ज्ञक्ये परिहारस्सम्भवतीत्यभिप्रेत्य एवमुक्तमिति

3.2.7

 

द्रष्टव्यम् । आपेक्षिका भवन्तीति - नहि भारतवर्षवासिनां या प्राची दिक्यैः प्रातःकालः सैव केतुमालवासिनां प्राची स एव प्रात- काल इति भावः । जलगतं वस्तु दृष्टुमशक्यमिति - विषयालोकसंयोगस्य कारणत्वेनागाधस्वच्छजलान्तवÐर्त्तसिकतादिरूप-विषयाणाम् आलोकसंयोगस्यावश्यकत्वेन सलिलानामप्रतिघातकत्वस्य वक्तव्यत्वादिति भावः । निमनपातितयेति - उध्र्वाधर- भावेन संयुक्तानां गुरुतया निपतनशीलानां द्रवद्रव्याणां मध्ये छिद्रासम्भवादित्यर्थः । निरुद्धयमानतयेति - असति सेत्वादौ निरो-धके परस्परसंसर्गानुकूलगतिमतां दक्षिणोत्तरभावेनावस्थितानामपि द्रवद्रव्याणां न छिद्रसम्भव इति भावः । तत्र पराभिध्यानात्तु- इत्यादि - अत्रैषा योजना पराभिध्यानात्त्वित्यादिसूत्रद्वययोजनायां पूर्ववत् परमत इवानुपयोगविरोधाभावेऽपि सूत्रान्तरे श्रुतौ चास्वारस्यं पूर्ववदनुसन्धेयमिति सूत्रश्रुत्योरस्वारस्यं क्रमेणदर्शयति - मायाशब्दस्येत्यादिना ।। ।। इति सन्ध्याधिकरण् ।।

तद्यत्रैतदित्यादि-छान्दोग्ये श्रूयते, तत् तत्रैव सति यस्मिन् काले एतत् स्वप्नं सुषुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्र-कारत्वात् सुषुप्तिसिद्धयर्थं विशेषणम् - समस्त इति । उपसंह्मतसर्वकरण इत्यर्थः, विषयसम्पर्कजनितकालुष्याभावात्, सम्प्रसन्नः सुप्तो भवति प्रविष्टो भवतीत्यर्थः, इदन्तु छान्दोग्ये दहरविद्यागतं वाक्यम् "अथ यथा सुप्तो भवति' इत्यादि वृहदारण्यकवाक्यम्, "यत्रैतत् पुरुषः स्वपिति' इत्यादिकं छान्दोग्यसद्विद्यागतम्, ननु "न सता साम्य' इत्यत्र सप्तम्या अश्रवणात् कथमाधारत्वप्रतीति- रिति चेत्, सत्यम्, तद्वाक्यशेषे "सति सम्पद्य न विदुः सति सम्पत्स्यामहे' इति सप्तम्याः श्रवणात्, तथा "य एषोऽन्तह्र्मदय आकाशः

3.2.7

 

तस्मिन् शेते' इति श्रुत्यन्तरैकाथ्र्याच्च आधारत्वप्रतीतेः । खट्वापर्यङ्कवदिति - पर्यङ्कशब्दोऽयमास्तीर्णवाची, "नागपर्यङ्कमुत्सृत्य' इत्यादौ प्रयोजदर्शनात्, अतः पर्यङ्कशब्दस्य खट्वापर्यन्तत्वमेवेति न भ्रमितव्यम् । कार्यभेदावगमकत्वे त्विति - यद्यपि ब्राहृणः प्रबोधश्रवणं ब्राहृणो नियमेन सुषुप्तिस्थानत्वरूपस्य परमसाध्यस्यैवोपपादकम्, न तु कायर्भेदावगमद्वारां ब्राहृणो नियमेन सुषु-प्तिस्थानत्वोपपादकम्, तथापि समुच्चयरूपस्थाधिकरणार्थस्य कार्यभेदावगममन्तरेण अनिर्वाहात्, सोऽप्युपादककोटौ निविशत इति दृष्टव्यम्, ननु "सन्मूला सोम्येमाः सर्वाः प्रजाः सदायतानाः सत्प्रतिष्ठाः' इति श्रवणात् नियमेन ब्राहृाश्रितस्य कथं तदनपेक्ष्य नाड¬ां पुरीततीव सुषुप्तिराशङ्कयते, उच्यते, न केवलस्य ब्राहृणोऽत्र विकल्पकोटित्वम्, किन्तु दहराकाशरूपस्य छान्दोग्य एव दहारविद्यायां दहराकाशरूपं बहृ प्रस्तुत्य "एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्राहृलोकं न विदन्ति' इति सुषुप्तिस्थान-त्वश्रवणात्, किञ्च सद्धिद्यावाक्यशेषोऽपि "सत ;आगम्य न विदुः सत आगच्छामहे' इति श्रूयते, तेन किञ्चित् प्रदेशावच्छिन्नमेव सुषुप्तिस्थानमिति सिद्धयति; नर्हि ग्रामादिवापरिच्छिन्नात् ब्राहृण आगमनं सम्भवति, स च अवच्छेदकों ह्मदयपुण्डरीकरूप इति छान्दोग्य एव प्रदेशान्तरपर्यालोचनया निश्चीयते, श्रुत्यन्तरे "य एषोन्तह्र्मदय आकाशस्तस्मिन् शेते' इति ह्मदयपुण्डरीकावच्छि-न्नब्राहृाधारकत्वस्य स्पष्टमाम्नानाच्च, तस्मात् उपपन्ना ब्राहृणो वैकल्पिकाधिकरणत्वशङ्का, भाष्ये -

निरपेक्षत्वप्रतीतेरिति, उक्तं हि पूर्वतन्त्रे "एकार्थास्तु विकल्पेरन् समुच्चये ह्रावृत्तिस्स्यात् प्रधानस्य' इति, तत्र हि "व्रीहिभिर्यजेत् यवैर्यजेत ' इत्यादिषु सर्वा-ङ्गोपसंहारिप्रयोगवचनानुग्रहायाष्टदोषदुष्टविकल्पपरिहाराय समुच्चय एव स्यात्, ततश्चज्योतिष्टोभवत् दर्शपूर्णमासप्रदानमागा-भ्यासमाश्रित्य समुच्चयोऽभ्युपगन्तव्यः, अथवा व्रीहियवानां मिश्रणेन वा यागः कर्तव्य इति पूर्वपक्षं कृत्वा एकार्थानाम् एक- स्मिन् उपकारे अन्योन्यनिरपेक्षतया विनियुक्तानां विकल्प एवाभ्युपगन्तव्यः, ज्योतिष्टोमे, हि द्रव्यदेवतासंयोगानाम् अदृष्टा- र्थानाम् अपय्र्यायविधायिना प्रकरणेन युगपत् ग्रहणात् सर्वसम्पादनाय युकतम्, यद्यभ्यस्यते व्रीहियवौ तु द्वाभ्यां वाक्याभ्याम् अन्योन्यनिरपेक्षौ यागद्रव्यपुरोडाशप्रकृतितया विधीयमानौ तद्द्वारेण प्रयोगवचनो गृह्णन् पर्यायेण गृहणाति, न यगपत्, येन बलात् ज्योतिष्टोमवत् प्रधानयागाभ्यासः स्यात्, मिश्रणमपि निरपेक्षविधानात् अयुक्तम्, मिश्रणे हि; वाक्यद्वयमपि बाधितं स्यात्, तस्मात् द्वाभ्यामपि वाक्याभ्यां द्वयोरपि निरपेक्षयोः प्रकृतित्वेन विधानात् तद्वलेन द्रव्यान्तरनिवृत्तिः प्रतीयते, तस्मात् विकल्प इत्युक्तम्, तन्न्यायेन इहापि विकल्प इति भावः । श्रुत्यनुसारादिति - स्वप्नाभावसुषुप्त्योः सम्बन्धस्य श्रुतिप्रसिद्ध-

3.2.8

 

त्वात् स्वप्नाभाववाचिशब्देन सुषुप्तिलक्षणा उचितेति भावः । पूर्वपक्षयुक्तिव्युदासार्थमिति - पूर्वपक्षयुक्तित्वव्युदासार्थमित्यर्थः, त्रयाणशं स्थानत्वश्रुतेः विकल्पस्यैव साधकत्वेन पूर्वपक्षयुक्तित्वेन समुच्चयसाधकयुक्तित्वाभावादिति शङ्काव्युदासार्थमाहेत्यर्थः, अयम्भावः,असम्भवत्कार्यभेदस्थले एकविभक्तिनिर्देशस्य विकल्पसाधकत्वेऽपि सम्भवत्कार्यभेदस्थले एकविभक्तिनिर्देश-स्याष्टदोषदुष्टविकल्पभीत्या समुच्चयस्यैव साधकत्वात्,इतरथा नित्यपदाम्नानभङ्गप्रसङ्गादिति । अथ तु यथासम्भवं बाध इति - अपूर्वोत्पत्तिबाधफलबाधयोरत्यन्तासम्भवादित्यर्थः, इदमुपलक्षणम्, व्रीहियवादिशास्त्रेष्विव प्रामाण्यपरित्यागाप्राका-ण्यस्वीकारस्वीकृताप्रामाण्यपरित्यागपरित्यक्तप्रामाण्यस्तीकाराःचत्वारो दोषाः एकस्मिन् शास्त्र इति नाडीपुरीतद्व्रहृशास्त्रेषु त्रिष्वपि प्रत्येकं चत्वारश्चत्वारो दोषाः इति द्वादश दोषा दृष्टव्याः, तथाहि एकस्यां सुप्तौ नाड¬ां शयने पुरीतद्वाक्ये ब्राहृवाक्ये च प्रत्येकं प्रामाण्यापरित्यागाप्रामाण्यस्वीकारौ द्वौ द्वौ दोषौ, सुप्त्यन्तरेपुरीतति शयने नाडीवाक्ये प्रामाण्यपरित्यागाप्रामाण्यस्वी- कारौ द्वौ द्वौ दोषौ, परीतद्वाक्ये तु परित्यक्तप्रामाण्यस्वीकारस्वीकृताप्रामाण्यपरित्याग इति दोषद्वयमिति चत्वारो दोषाः पुनः सुप्त्यन्तरे ब्राहृणि शयने ब्राहृवाक्येऽपि स्वीकृताप्रामाण्यपरित्यागापरित्यागपरित्यक्ताप्रामाण्यस्वीकाररूपौ द्वौ द्वौ दाषौ, ततः सुप्त्यन्तरे नाड¬ां शयने नाडीवाक्येऽपि पूर्ववत् दोषद्वयमिति स्वापचतुष्टये द्वादश दोषाः प्रादुःप्युः, "अष्टदोषदुष्टो विकल्प' इति उक्तिस्तु प्रसिद्धव्रीहियवोदाहरणाभिप्राया,भाष्ये - नाडीपुरीतताविति, यद्यपि आन्तरं पुरीतदिति निघण्टुषु नपुंसकत्या निर्दिष्टं तद्वयाख्यातृभिव्र्याख्याञ्च, तथापि पुरीततमभिप्रतिष्ठन्त इति वैदिकव्यवहारदर्शनात् उभयलिङ्गत्वमस्तीत्यभिप्रेत्य भाष्यकृता पुँल्लिङ्गतया निर्देशः कृत इति द्रष्टव्यम् । परम्परया एकप्रयोजनत्व इति - अङ्गानाम् अवान्तरकार्यभेदद्वारा करणसामथ्र्यात् बोधनरूपैकप्रयोजनपर्यवसितानामपि समुच्चयदर्शनादिति भावः, न च साक्षात् एकप्रयोजनत्वं विकल्पप्रयोजकमिति वाच्यम्, एकवाक्यप्रतिपाद्यतया साकाङ्क्षयोः एकक्रयनिर्वत्र्तकयोरारुण्यैकहायन्योर्विकल्पाभावेन नैरपेक्ष्यस्याप्यपेक्षितत्वादिति भावः । नाड¬ादिसमुच्चयश्च श्रुत्या प्रदशिर्त इति - "तासु तदा सुक्तो भवति' इति श्रुत्या नाडीनां प्राणशब्दितस्य ब्राहृणश्च समुच्चयः प्रदश्र्यते, इति भावः । कथमविरोध इति - पुरीतता ह्मदयात् बाह्रत्वेन प्रासादखट्वापय्र्यङ्कन्यायास्भवादिति भावः । ह्मदय इति वच इति - परमरत्मनो व्यापकत्त्वेऽपि ह्मदयावच्छिन्नपरमात्मनोऽतथात्वात्, तत्र शयनस्य पुरीतच्छयनं विरुद्धमेवेति

3.2.9

 

भावः । अविरोध इति वाच्यमिति - तच्चायुक्तमिति शेषः । ह्मदि शयनस्य च विरोधादिति - 2अन्तह्र्मदय आकाशः तस्मि- ञ्छेते' इति प्रतिपादितेन ह्मदयाकाशसदनेन, "हिता नाम नाड¬ो द्वासप्ततिसहरुााणि ह्मदयांत् पुरीततमभिप्रतिष्ठन्ते' ताभिः प्रत्य-वसृष्य पुरीतति शेते' इति पुरीतति शयनस्य च विरोधात् न हि प्रासादान्निर्गत्य प्रासादप्रावरणप्राकारे शयानः प्रासादे शेते इति शक्यते वक्तुमिति भावः,कस्तर्हि परिहार सति चेत्, इत्थम्, अवहितमनाः #ृणु, पुरीतताख्यं मांसं ह्मदयमध्यगतं

दहरपुण्डरी-काधारभूतम्, दहरपुण्हरीकावच्छिन्नः आकाशः दहराकाशः, तत्र जीवस्य सुषुप्तिः, "ह्मदयस्य मध्ये लोहितं मांसपिण्डं यÏस्मस्त- द्दहरं पुण्डरीकं कुमुदमिवादेकधा विकसित'मिति सौबलश्रुतेः; पुरीततो ह्मदयवेष्टनोक्तिस्तु ह्मदयान्तर्वर्तिदहरपुण्डरीकवेष्टनाभिप्रा- येण, ततश्च न क्कापि विरोधगन्धः, तस्य च ह्मदयस्य दश छिद्राणि जागराद्यवस्थजीवस्तानभूतानि प्राकारस्य द्वाराणि वसन्ति, तत्र जागरस्वप्नावस्थे अनुभूय सुषुप्तिदशायां हिता नाम नाडीद्वारा अन्तःप्रविश्य प्राकारस्थानीयस्य ह्मदयस्य मध्यवर्त्ति यत्पुरीत- ताख्यं लोहितं मांसपिण्डं तत्प्राप्य तस्योपरि निविष्टदहरपुण्डरीकान्तर्वत्तिदहराकाशशब्दितपरब्राहृणि सुषुप्तौ विरोधाभावात्, प्राकारद्वारे विह्मत्य राजमार्गेण प्राकारद्वारात् राजभवनं प्रत्यवसृष्य प्रासादे शयाने महाराजे प्राकारान्निर्गत्व राजमार्गेण राज- भवनं प्रत्यवसृष्य राजभवने शेते-इत्युक्तौ वि#ोधाभावात् ।।

।। इति तदभावाधिकरणम् ।।

अत्र न कञ्चन पाष्मानं स्पृशतीति श्रुतिरभिप्रेतेति - "आसु तदा नाडीषु सुप्तो भवति तन्न कश्चन पाष्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति' इति श्रूयते, तत्र पाष्मशब्दस्यसुकृतदुष्कृतसाधारणत्वेन सर्वोपाधिविनिर्मोक्षाभिप्रायत्वादिति भावः, ततश्च सुषुप्तस्य पुनारावृत्तिहेत्वाभावादन्य एवोत्तिष्ठति, ततश्च कर्मानुस्मृतिशब्दविधयो यथाकथञ्चिदुपपादनीयाः,कथं कर्मा-फलभोगनियमस्सुषुप्तयभावे, अतः पुण्यफलं भोगार्धिना सुषुप्तितोऽपि रक्षणीयम्, अनुस्मृतिस्तु भ्रान्तिरूपैव, " त इह व्याघ्रो

3.2.9

 

वा' इत्यादिशब्दो यच्छरीरकः प्राचीनः तच्छरीर एवान्य उत्तिष्ठत्येवं परः, मोक्षार्थविधयोऽपि ब्राहृानन्दानुभवार्थिविषयाः, सुषुप्त- स्य तु स्वरूपानन्दानुभव एव, न ब्राहृानन्दानुभवोऽपि , अतो नानुपपत्तिरिति भावः । यद्यद्भवन्तीति - "त इह व्याघ्रो वा सिंहो वा वराहो वा कीटो वा दंशो वा मशको वा यद्यत् भवन्ति' इति छान्दोग्ये श्रूयते, यद्यत् भवन्ति-ये येऽभवन् तत्तदेव त एवेत्यर्थः, आसुषुप्तादागत्य भवन्तीत्यर्थः । पूर्वं ये यथा भवन्ति ते तथा भवन्ति-इत्यर्थः इति - भवन्तु फलितार्थकथनम्, श्रुतौ यथातथाशब्दाभावात् यद्यत् भवन्ति तथा भवन्तीति हि श्रुतिवाक्यम् । अनुष्ठानाशक्तिर्विवक्षितेति - ननु परमात्मसम्पत्ति- दशायां तन्महिम्ना पाष्मनामस्पर्शः परं कथ्यते, न त्वनुष्ठानाशक्तिः, अशब्दार्थत्वात्, "तेजसा हि तदा सम्पन्नो भवति' इति पर-मात्मसम्पत्तेः पापासंस्पर्शहेतुत्वप्रतिपादकोत्तरवाक्यविरोधाच्चेति चेत्,. भैवम्, "तेजसा हि तदा सम्पन्नो भवति' इति परमात्म-सम्पत्तेः पापासंस्पर्शहेतुत्वप्रतिपादकोत्तरवाक्यविरोधाच्चेति चेत्, भैवम्, "तेजसा हि तदा सम्पन्नो भवति' इत्यत्र आशंशायां त्यप्रत्ययः, ब्राहृणा सम्पतिं्त तदाभिलषति ततश्च अनुष्ठानाशक्तस्सन् तदानीं परमात्मनं हि विश्रान्तिस्थानमभिलषतीत्यर्थः सिध्द्यति । अर्थान्तरप्रत्यङिज्ञाधारत्वमिति - मयेदं प्रक्रान्तं मयेदं दृष्टमित्यर्थान्तरप्रत्यभिज्ञानं कर्मशब्देन उच्यते, "योऽहं

3.2.10

 

सुप्तः स एव जागर्मि' इत्यादिस्वविषयप्रत्यभिज्ञानमनुस्मृविशब्देनोच्यत इति वैषम्यमिति भावः । निर्हेतुकत्वप्रसङ्गाभिप्रायत्वादिति - "नायुक्तं क्षीयते कर्म, इत्यादि स्मारकत्वादिति भावः ।। । ।। ।। इति कर्मानुस्मृतिशब्दविध्यधिकरणः ।।

भाष्ये - निमित्तं हि मूच्र्छाया अभिघातादिरिति, सुषुप्तेस्तु श्रमादिर्नि#िमित्तमिति भावः, सदञ्चोपलक्षणम्-आकारवैरुप्यस्यापि, भाष्ये स्पष्टत्वात् नोदाह्मतम्, सुषुप्तौ हि प्रसन्नवदनत्वश्चासपूर्णत्वादिरुपलभ्यते, मूच्र्छायां तु करालवदनत्वसूक्ष्मश्वासादिरूपमा-कारवैरूप्यम्, मूच्र्छामरणयोरप्येवमेव निमित्तवैरूप्यमाकारवैरूप्यञ्च स्पष्टमेव, अतो निमित्तवैरूप्यादाकारवैरूप्याच्चैतद्वयमपि सुषुप्तिमरणयोद्र्वयोरप्यन्वेतीति केचिद्वर्णयन्ति, न चैवं निमित्तवैरूप्यात् सुषुप्तिव्यावृत्तिः, आकारवैरूप्यात् मरणव्यावृविरिति टीकाविरोध इति वाच्यम्, मार्गान्तरस्य मार्गान्तरादूषकत्वात्, न चास्यां योजनायां निमित्ताकारवैरूप्याभ्यां मूच्र्छायाः सुषुप्ति मरणभेदस्य सिद्धत्वात् मरणं हि सर्वप्राणदेहसम्बन्धोपरतिरित्याद्युत्तरभाष्यग्रन्थो व्यर्थ इति वाच्यम्, मरणाद्र्धसम्पत्तिर्मूच्र्छेत्युक्ते किं तन्मरणं केयमद्र्धसम्पत्तिरित्याकाङ्क्षायाम् अस्य ग्रन्थस्य प्रवृत्तेः नासङ्गति । मरणाद्र्धसम्पत्तिः मूच्र्छेति वाक्यस्यायमर्थेः, मरणं

सर्वप्राणवियोगसर्वप्राणवियोगार्थाः कतिपयपाणवियोगसम्पत्तिः मूच्र्छेति, न च यत्रौषधादिवशास्त्र मरणम् । तत्र सर्व-प्राणविरतिलक्षणमरणार्थत्वाभावात् तत्र कतिपयप्राणवियोगसम्पत्तिरूपमूच्र्छायाः मूच्र्छात्वं न स्यदिति वाच्यम्, मरणार्थाधर्-सम्पत्तिरित्यत्र फलोपधानस्य विवक्षितत्वात् , नहि प्रतिबन्धकवशेन मरणकार्यानुत्पविमात्रेण स्थूलप्राणविर्योगरूपमूच्र्छायाः मरणार्थत्वं हीयते, अतः सुष्टूक्तम्-मरणायार्थ सम्पत्तिरिति, ननु मरणत्र्यावत्र्तकाकारवैरूप्यविवरणात् प्रागेव सुषुप्तिमरण-पारिशेष्यकथनं कथं युज्यते, सुषुप्तिव्यावत्र्तककथनात् सुषुप्तिपारिशेष्यकथनं हि युज्यत इत्याशङ्कयाह - न सुषुप्तिमरणे इत्यु- क्तेरिति ।। ।। इति मुग्धाधिकरणम् ।। 4 ।।

3.2.11

 

अवस्थास्वित्यर्व इति - सुषुप्तिमुग्ध्युत्क्रान्तीनां स्थानत्वासम्भवादिति भावः, भाष्ये - तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवतीति,

3.2.11

 

कर्मणां दहयोग द्वारा #ैअपुरुषार्थसाधनत्वमित्यर्थः ।। । ।।

3.2.14

 

पूर्वसूत्रे निगव्याख्यानेति - अनिगदव्याख्यानेति छेदः अनिगदव्याख्या अस्पष्टार्था नेयार्थेति भावः, निगदः पाठः, पाठमात्रेण यस्य व्याख्यानं नास्ति सा तथोक्ता, नित्यादिसाधारणस्यामृतशब्दस्यनिर्दोषत्वार्थकस्यास्पष्टार्थकत्वात् । अप्रकृतविग्रह इति - अत्र तद्योग्यत्वं विवक्षितमम्, अतःतादात्विकाप्राकृतविग्रहशून्ये जीवे नानुपपत्तिरिति द्रष्टव्यम् ।। । ।। भाष्ये - नामरूपेति, उदा-ह्मतश्रुतौ नामरूपनिर्वोदुः तत्सम्बन्धा भावः उक्तः, स च बाधितः निर्वाह्रनिर्वाहकभावरूपसम्बन्धस्यैव सत्त्वात्, अतः तत्कार्य-

ब्राहृ निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ।। 14 ।।

3.2.17

 

रूपदुःखेष्र्यादिसम्बन्धाभावपरा सा श्रुतिरिति भावः । अर्थानुपपत्त्येति - सर्वज्ञस्य सर्वनियुन्तुरीश्वरस्य बुदध्यद्यधीनज्ञानवत्त्वस्य विधिप्रेर्यत्वस्य वा प्रयोजनस्यानुपपत्त्येत्यर्थः । सद्वारकं कर्मवश्यत्वमिति - सर्वज्ञस्यसर्वनियन्तुरपि ज्ञाप्यत्वप्रेर्यत्वादिकं सद्वा-रकमुपपद्यते -इति भावः । अधिकारस्तादथ्र्यबोधनमिति - अधिकारो विनियोग इत्यभियुक्तेः-अधिकुर्वन्ति । विनियुञ्चत इत्यर्थः

3.2.19

 

इत्यभिप्रायः, विनियोगो हि व्यापारणम्, कर्मवश्यानेव ब्रााहृणादीन् तदर्थज्ञापनेन व्यापारयन्तीत्यर्थः, आह च - इतरनिषेध-व्यवच्छेदपर इति । सत्यज्ञानादिवाक्यस्य सर्वज्ञत्वादिगुणान्तरनिषेधपरत्वव्यवच्छेदपर इत्यर्थः ।। । ।। अथोशब्दः कार्त्स्न्यपर इत्यर्थ इति - अत्रार्थशब्दोऽभिप्रायपरः, अथो पीति सूत्रे "ओत्' इति प्रगृह्रसंज्ञायां "प्लुतप्रगृहृा अचि' इति प्रकृतिभावः । गुणविशेषनिषेध इति - "निष्कलं निष्क्रियम्' इत्यवयवक्रियादिरूपगुणविशेषनिषेधे सति निर्गुणमिति सामान्यनिषेधस्य तत्पर्यवसायित्वादिति भावः, न चैवं ब्रााहृणो न हन्तव्य इति निषेधस्यआत्रेयन्न हन्यादिति विशेषनिषेधपर्यवसायित्वं किन्न स्या- दिति वाच्यम्, अत्र गुणविशेषविधायकवचनसत्त्वेनासङ्कोचेन निषेधाप्रवृत्या विशेषपर्यवसानमपेक्षमाणस्य श्रुतेर्गुणविशेषनिषेधे पर्यवसानस्यावश्यकत्वात्, अत एव चोक्तम् । एकस्वभाव इत्यर्थ इति - "आकाशमेकं हीयथा' इत्यादिस्मृतौ पृथक् पृथक्

3.2.20

 

संयुज्य वघटादिषु वर्तमानमाकाशं तद्गतदोषाद्यसंस्पृष्टं यथा एकस्वभावमेव भवति, यथा नानाजलाधारेषु

प्रतिबिम्बिर्तोंऽशुमान् तथा अनेकस्थोऽप्यात्मा तद्गतदोषास्पृष्टतया एकस्वभाव एव भवतीत्युद्देश्यविधेयभाव इति भावः ।। 17 ।। ।। 18 ।।

तुल्यत्वाभावादिति - तुल्यत्वाभावप्रसङ्गादित्यर्थः, ततश्च सूत्रे न तथात्वमित्यत्र स्यादिति शेषोऽध्याहतव्र्य इत्याचार्याणामभि- प्रायः ।। 19 ।। ।।। ।। भाष्ये - पृथिव्यादिस्थानान्तर्भावादिति - अत्र प्रतीयमानादिति शेषोऽध्याहर्तव्यः, ततश्च प्रतीयमानात् पृथिव्यादिस्थानान्तर्भावाद् यत् प्रसक्तम् -वृद्धिह्यासभाकत्वम्, तन्निवत्त्र्यत इत्यर्थः, प्रतीतिश्च प्रमाभ्रमसाधारणी, ततश्च घटादि-ष्ववस्थिततया प्रतीयमानस्य वस्तुतोऽसतोऽप्यंशुमतः तद्गतदोषास्पृष्टत्वम्, तथा पृथिव्यादिस्थानस्थिततया प्रतीयमानस्य परमा-

3.2.21

 

त्मनः तद्गतदोषास्पृष्टत्वमुपपद्यत इत्यर्थः, एतेनान्तर्भावप्रयुक्ततद्दोषस्पर्शशङ्कायाः तदन्तर्भावशून्यांशुमद्दृष्टान्तेन कथमपनेयत्व- मिति शङ्काप्यपास्ता, तदन्तर्भावप्रतीतिप्रयुक्तशङ्काया एवात्रापनेयत्वात्, तत्र यथाऽन्तर्गततया प्रतीयमानस्यांशुमतो न तद्दोष-भाकत्वमिति दृष्टान्तोपन्याससम्भवाच्च, भाष्ये - द्वे वा व ब्राहृणो रूपे-इति, अत्र मूर्तशब्देन पृथिव्यप्तेजांसि, अमूमृर्तशब्देन वाय्व-न्तरिक्षे च कथ्यन्ते, उत्तरत्र "तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च अतोऽभूर्तं वायुश्चान्तरिक्षञ्च' इति श्रवणात् यथा महारजनं वासो यथा - पाण्ड्वाविदिक यथेन्द्रकोपो यथाऽग्न्यचिर्र्यथा पुण्डरीकम्' इत्यादिना आत्मनो मूर्तामूर्तानुभवजनितवासनाजन्य-विज्ञानविषयभूतस्वप्नरूपाणि च उपन्यस्य "अथात आदेशो नेति नेति' इति रूपद्वयमपि प्रतिषिध्य "सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम्' इति प्राणशब्दोपलक्षितस्य प्रपञ्चस्य व्यावहारिकसत्यत्वमुकत्वा ब्राहृण एव परमार्थसत्यत्वमुक्तमित्युपसं- ह्मतम् । वृहदारण्यक इति - अथ स्यादिति भाष्यप्रस्यार्थः ।। । ।। अत्र तु तैर्गुणैः यदेतावत्वमिति समासद्वयमप्यभिप्रेतम्,

3.2.22

 

ये ब्राहृणो विशेषाः प्राकृताः तद्विशिष्टतया ब्राहृणः प्रतीयमाना इयत्तेति च या ब्राहृण इयत्ता प्रकृतेति च भाष्ये दर्शनात् उक्तप्रकार-मात्रविशिष्टतया ब्राहृण इयत्ता प्रकृतेति, ननु गुणानां प्रकृतत्वेऽपि कथं तन्मात्रतन्मात्रगुणकत्वं प्रकृतम्? गुणान्तरनिषेधस्य अशब्र्दत्वात्' आह च तन्मात्रै इति न्यायविरुद्धत्वाच्चेति चेत् सत्यम्. "सर्वं वाक्यं सावधारणम्' इति न्यायेन गुणान्तरनिषेधविशिष्टतद्गुरणवत्वरूपविशिष्टस्य एतावत्वस्य प्रकृतत्वमभिप्रेत्य तथोकत्युपपत्तेः । एतावदित्येव वक्तव्यमिति - वस्ततस्तु न तदपि वक्तव्यम्, प्रकृतान् प्रतिषेधतीत्येवं चारिताथ्र्यादिति द्रष्टव्यम् । भूयिष्ठत्वमु- च्यत इति गुणभूयिष्ठत्वमुच्यत इत्यर्थः, ततश्च भूयो भूयो व्रवीतीति न क्रियान्वय इति भावः । सार्थसंग्रहमिति - अर्थसंग्रहयुक्तं विषयवाक्यमुपादात्तुं सौत्रं पदं पुनरप्युपादत्ते, अतो न पौनरुकत्यशङ्का कार्येति भावः । अचेतनजीवव्यावृत्तिरिति - अचेतनस्य

हेत्वन्तरं चाह -

3.2.26

 

जडरूपतया स्वरूपतो निकृष्टत्वम्, जीवस्य तु गुणतो निकृष्टत्वमियर्थः ।। ।। इति उभयलिङ्गाधिकरणम् ।।

ननु "द्वे वा व ब्राहृणो रूपे' इत्यत्र चिदचित्संवलनरूपस्यैव मूत्र्तामूत्र्तशब्दिततया कथं मूत्र्तामूत्र्तात्मकाचित्प्रपञ्चस्येति भाष्योक्ति-रित्याशङ्कय आह - चिदचिदात्मकेत्यादिना । भाष्ये - अहिकुण्डलन्यायेनेति, यथा ह्रहेंरहित्वेनाऽभेदेऽपि कुण्डलभावर्जु-भावरूपसंस्थानविशेषापत्त्या भेदः, एवं ब्राहृणः स्वरूपेणाभेदेऽपि कार्यप्रपञ्चरूपापत्त्या भेदः, न चाहेर्विश्रान्तिसञ्चारणादिप्रयु-क्तभोगविशेषलाभार्थं कुण्डलभावर्जुभावापत्तिर्भवतीति युक्तम्, ब्राहृणस्तु सर्वज्ञस्य सर्वशक्तिकस्य ज्ञानानन्दरहिताचित्प्रपञ्चता- पर्त्तिर्न युक्तेति वाच्यम्, नह्रहिवत् ब्राहृ स्वप्रयोजनार्थं प्रवर्तते, अपि तु प्राणिनामनुग्रहार्थम्, तदनुग्रहश्च भोगानुष्ठानाद्युपयुक्त-प्रपञ्चात्मतापत्त्यभावेन भवतीति तदात्मतां ब्राहृ प्रतिपद्यते । अचिद्धर्मप्रतिषेध इति - अज इत्यादिना जननाद्यचिद्धमप्र्रतिषेध

3.2.28

 

इत्यर्थः । पृथगधिकरणत्वे निदानं श्रोतव्यमित्यादि - यद्यपि "अतोऽनन्तेन तथा हि लिङ्ग'मिति सूत्रस्य परमसाध्योपसंहार-त्वप्रतिपादनमुखेन अधिकरणसमाप्तेराविष्करणात् प्रकृतैतावत्त्वमित्यादेः तादथ्र्यानन्तर्याभ्यां न पृथगधिकरणत्वमित्यादेर्वक्ष्य-माणत्वात् तत्रैव सूत्रे अनन्तरशब्देन ततश्शब्दो व्याख्यातः, भूयश्शब्देन भूयिष्ठत्वमुच्यत इति ततोभूयश्शब्दयोव्र्याख्यातत्वाच्च न श्रोतव्यान्तरमवशिष्यते, तथापि तदर्थस्य गहनत्वमभिप्रेत्य तथोक्तमिति द्रष्टव्यम् ।। । ।।

द्वितीये जगत्कारणत्वेति - जातेर्जगत्कारणत्वसर्वज्ञत्वाद्यसम्भवादितिभावः ।।

विशेषणतया यथांऽशत्वं तथेह जीवस्याचिद्वस्तुनश्च ब्राहृ प्रत्यंशत्वम् ।। 28 ।।

3.2.29

 

परे त्वित्यादि - अतत्प्रधानेभ्याहि बलीयांसीति । श्रुतिप्रतिपाद्ययोः एकत्वनानात्वयोः एकस्मिन् वस्तुन्यसम्भवात्, अन्यतरस्मिन् समाश्रयणीये एकत्त्वस्य मानान्तराप्राप्तत्वेन विधेयत्वस्य उचिततया एकत्वविधानाय प्रमाणान्तरसिद्धं नानात्वं तदङ्गतयाऽनूद्यत इत्यस्यैवार्थस्योचितत्वात्, भेददर्शने निन्दायाः श्रवणात् साक्षात् भूयसीभिः श्रुतिभिः अभेदप्रतिपादनाच्चाकारवद्व्रहृविषयाणाञ्च कासाञ्चित् श्रुतीनान् उपासनारूपत्वं कासाञ्चित् द्वैताभिधायिनीनां "द्वा सुपर्णा' इत्यादिश्रुतीनां बुद्धयुपाध्यस्तकत्र्तृत्वनिषेधमुखेन

3.2.29

 

निर्विशेषप्रतीत्युपयोगित्वमिति अतत्प्रधानभेदश्रुतिभ्यः तत्प्रधानानाम् अभेदश्रुतीनां प्राबल्यमित्यर्थः । "तर्हि निषेधप्रपञ्चं ब्राहृ कीदृशं तत्राह' इति क्वचित् पाठो दृश्यते, स तु चिन्तनीयः । "आह च तन्मात्र'मिति सूत्रेणापि निष्प्रपञ्चत्वस्यैव तन्मते प्रतिपि-पादयिषितत्वेन निष्प्रपञ्चत्वं सिद्धवत्कृत्य तत् कीदृशमिति जिज्ञासायां तस्य सूत्रस्यानवतारात् । पुरश्चक्रे द्विपद इति - पुरः पुराणि द्विपदोपलक्षितानि शरीराणि चक्रे, पुरः पुरस्तात्, चक्षुराद्यभिव्यक्तेः पूर्वमेव, स ईश्वरः पक्षी, लिङ्गशरीरस्य तैत्तिरीयादौ पक्षपुच्छादिसम्पादनात् पक्षीति लिङ्गशरीरमुच्यते, तदभिमानी पुरुष आविशत्-प्रविष्ट इत्यर्थः, ततश्च इयं श्रुतिः "अनेन जीवेन आत्मना अनुप्रविश्य' इत्यादि श्रुतिश्च परमात्मन एव अन्तर्भावादिति पूर्वसूत्रोक्तमुपाध्यन्तर्भावं दर्शयतीति हि सूत्रार्थ इति भावः । अन्यस्य नास्तित्वमिति - ब्राहृण इति शेषः "न ह्रेतस्मादिति नेत्यन्यत्परमस्ती'ति वाक्यम् "नेति नेतीत्यस्य निर्व- चनम्, न हि एतस्मात् ब्राहृणः व्यतिरिक्तमस्तीत्यतो नेत्युच्यते, न पुनः स्वयमेव नास्तीति कृत्वा नेतीत्युच्यत इति तस्य वाक्य- स्यार्थः । ततश्च यतोन्यत्परं नेतीति प्रतिषिध्यते । तस्य ब्राहृणः सिद्धमेवास्तित्वमिति न तस्य प्रतिषेध इति भावः । इदं वाक्य- मिति - न ह्रतस्मादिति नेत्यन्यत्परमिति वाक्यमित्यर्थः । अथ नामधेयमिति वाक्यविषयमिति - न ह्रेतस्मादिति नेत्य-न्यत्परमस्तीति वाक्यस्य इति नेत्येवंरूपान्यादेशनिषेधपरत्वेन ब्राहृान्यनिषेधपरत्वाभावेन ब्राहृपरिशेषकत्वासम्भवात्, अथ नाम-धेयमिति वाक्यस्यैव "ब्रावीति च भूयः' इति सूत्रखण्डविषयत्वम्, तत्र हि वाक्ये सत्यस्य सत्यमिति ब्राहृणः परमार्थसत्यत्वावेद- नात् । ब्राहृणोपि सूर्यप्रकाशाद्यवैशेष्यं तत्तुल्यत्वमिति - सूर्यप्रकाशादेरवैशेष्यं सूर्यप्रकाशाद्यवैशेष्यम् अवैशेष्यम्-विशेषरहि

3.2.29

 

तत्वम्, अङ्गुल्याद्युपाधिकृतर्जुवक्रत्वादिविशेषरहितत्वमिति यावत्,सम्प्रतिपन्नमिति शेषः, तत्तुल्यत्वं ब्राहृणोपीत्यन्वयः । सूर्य-प्रकाशादिवत् ब्राहृणोऽप्यवैशेष्यम्; निविर्शेषत्वम्, उपाधिकृतविशेषराहित्यमित्यर्थः । नतु सौत्रस्यावैशेष्यशब्दस्य तत्तुल्यत्वमि-त्येतद्विवरणमिति भ्रमितव्यम्, परैस्तथा अव्याख्यानात्, प्रकाशादिवदिति वतिप्रत्ययेनैव तुल्यत्वस्य प्रतिपादितत्वेन प्रकाशा- दिवच्च तुल्यत्वमित्यस्यासङ्गतत्वाच्चेति बोध्यम् । अवस्थाभेदादिति - "उभयव्यपदेशा'दिति सूत्रे जीवस्य परमात्मावस्थाभेद- त्वात् संराध्यसंराधकभावाविरोध उपन्यस्तः, "प्रकाशाश्रयवद्वे'ति सूत्रे तु जीवस्य ब्राहृैकदेशत्वेन तदंशत्वात् संराध्यसरोधक-भावस्समर्थित इत्यर्थः । अर्थान्तरत्वामिति-गन्धविधितन्निषेधश्रुत्योः प्राकृताप्राकृतगन्धविषयत्वेत विषयभेदः अङ्गीकार्य इत्यर्थः ।सार्वज्ञ्यादीनां स्वरूपपरवाक्यसिद्धत्वादिति - "यः सर्वज्ञः सर्ववित्'

इत्यादिवाक्यसिद्धत्वादित्यर्थः, इदमुपलक्षणम्, चतुष्पात्वषोडशकलत्वादीनां "बुद्ध्यर्थः पादवत्' इति न्यायेन उपासनार्थानां व्यावहारिकसत्यत्वाभाववत् सार्वज्ञ्यादीनाम् उपासनार्थत्वे व्यावहारिकसत्यत्वाभावप्रसङ्गाच्चेति द्रष्टव्यम् । अन्यतराप्रमाण्यमेवोक्तं स्यादिति - उक्तं हि-

3.2.29

 

को हि मीमांसको ब्राूयात् विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरस्त्वप्रमाणं भवेदिति । प्रतिज्ञानुगुणहेतुसिद्धौ तु नान्योन्यश्रय इति - साकारत्वनिराकारत्वरूपोभयलिङ्गत्वप्रतिषेधस्य साध्यत्वे निश्चिते तदानुगुण्येन सर्वत्र निर्विशेषप्रतिपादनस्यैव हेतूकर्तुमु-चितत्वेन योगैयतावशेन तस्यैवाध्यहारो युक्त इति भावः । एकत्वेन निर्देश इति - सदसत्त्ववदिति भावः । अतद्वचनत्वं च तदु-दाह्मतश्रुतौ नास्तीति - यद्यपि "यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुराणः, यश्चायम्, अध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुराणः, अयमेव सोऽयमात्मे'ति प्रत्युपाधिभेदवचनेनाभेदवचनत्वरूपमतद्वचनतत्वमस्त्येव, तथापि न तावता निर्विशेषत्वसिद्धिः, न हि सर्वत्रावस्थितस्य ब्राहृणः एकत्वमात्रेण शास्त्रप्रतिपादितानां तेजोमयत्वादीनां मिथ्यात्वसिद्धिरिति भावः । निर्विकारत्वा-नन्दरूपत्वेति - एतत् द्वयमप्यमृतमयशब्दफलितमिति भावः । अरूपवदित्यत्र वच्छब्दवैयथ्र्यमिति - मतुप्प्रत्ययवैयथ्र्यमिति भावः, न विद्यते रूपमस्येति बहुव्रीहिणैव मत्वर्थस्योक्तत्वात् उक्तार्थानामप्रयोग इति न्यायेन मतुप्प्रत्ययो व्यर्थ इति भावः । यद्यपि "उगवादिभ्यो यत्' इत्यत्र महाभाष्ये अनरवन्तिचक्राणीति प्रयुक्तं, तथापि यत्र बहुव्रीहिमत्वर्थयोःतुल्यार्थत्वं तत्र बहुव्रीहिरेव लाघ-वात् भवति, यथा अगुः-अनश्व इति, नतु- अगोमान् अनश्ववानिति भवति, यत्र त्वतुल्यार्थत्वं तत्र कृते मत्वर्थीयतदन्तेन नञ्समासः, यथा अहस्तीति, नह्रहस्त इत्युक्ते जातिपर्युदासप्रतीतिः, यत्रापि मत्वर्थीयेनार्थविशेषप्रतीतिः, यत्रापि तदन्तेन नञ्समासः, यथ अदण्डी अक्षत्री अवाग्मीति, दण्डछत्रसंयोगनिषेधस्य सम्यग्भाषितत्वनिषेधस्य च बहुव्रीहेरनवगमात्, अत एव कैयटे "उगवादिभ्यः' इत्यत्र अनराणीति वक्तव्ये जातिविशेषप्रतिपत्यर्थो मतुबनिर्देशः, अनराणीति ह्रुक्ते भग्नाराण्यपि चक्राणि प्रतीयेरन् तस्मात् अरवत्पर्युदासेन अनुपजातारचक्रप्रतीतिः-अनवरन्तीत्यनेन भवतीति अर्थविशेषसत्वात् मतुब् निर्देशः उपपादितः, अत्र तु अर्थभेदाभावात् मतुप्प्रत्ययो दुर्लभ इति भावः । तात्पर्यलिङ्गावगमाच्चेति - सद्विद्यायां सविशे- षत्व एव षड्विधतात्पर्यलिङ्गस्य प्रथमे सूत्र एव समर्थितत्वादिति भावः । औपाधिकाकारयोगे दृष्टान्तत्वादिति - ततश्च

3.2.29

 

प्रकाशवच्च औपाधिकाकारयोग इत्येव सूत्रं स्यादिति भावः । आस्त्रीबालं प्रसिद्धत्वादिति - यद्यपि स्वपक्षेऽपि समानोऽयं दोषः, तथापि स्वपक्षे पृथिव्यादिस्थानानवस्थितिपर्यन्तत्वात् आक्षेपस्य तस्यच अवश्यपरिहरणीयत्वाच्च तत्परत्वे न दोष इत्यभिप्रायः । चिह्नपर्यां यत्वाच्चेति - नचात्र लिङ्गशब्दस्य अन्यार्थदर्शनरूपलिङ्गपरत्वात् श्रुतेश्च तादृक्त्वसम्भवात् न दोष इति वक्तुं शक्यम्, उक्तार्थसाक्षात् प्रतिपादकस्य "ब्राहृवेद ब्राहृैव भवती'त्यस्यान्र्यार्थदर्शनरूपलिङ्गत्वाभावादिति भावः । प्रकाशादिवदिति सूत्रस्य तत्प्रयुक्तजीवभेदव्युदासकत्वाभावादिति - तथात्वे हीदं सूत्रद्वयं मतान्तरोपन्यासपरं स्यात्, तस्यैव निराकृतत्वादिति भावः ।

3.2.29

 

अपरे त्वित्यादि - स्वाप्नाद्यवस्थानां प्रकृतत्वादिति । ननु भाष्ये "भेदादिति चेति'ति सूत्रे देवादिदेहयोगरूपावस्थाभेदादित्ये-वोक्तम्, न तु स्वप्नाद्यवस्थाभेदादिति चेन्न, तत्र स्वप्नाद्यवस्थदेहयोगरूपावस्थाभेदस्यैव विवक्षितत्वेन दोषाभावादिति भावः । अन्ये त्वित्यादि - मधुविद्या वाक्य इति । वृहदारण्यके मधुविद्यावाक्ये "यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चा-

3.2.29

 

यमध्यात्म'मित्यादिभिर्वाक्यैः प्रतिपर्यायमेकत्ववचनादित्यर्थः, "न स्थानतोऽपी'त्यारभ्य "अरूपवदेव ही'त्यन्तं

ब्राहृस्वरूपाभेद-प्रतिपादनपरमेकमधिकरणं, "प्रकाशवच्चावैयथ्यर्'मित्यारभ्य "प्रकृतैतावत्व'मित्यतः प्राक् ब्राहृणो दीप्तिमत्ताप्रतिपादनपरमेकमधि-करणं, "प्रकृतैतावत्व'मित्यारभ्य "उभयव्यपदेशा'दित्यतः प्राक् रूपद्वयातिरिक्तं ब्राहृेति सिद्धान्तयन्ति, "उभयव्यपदेशा'दित्या- रभ्य "परमतस्सेतून्माने'त्यतः प्राक् ब्राहृजगतोरहिकुण्हलन्यायेन अत्यन्ताभिन्नतया उपादानोपादेयभावः, ईश्वरस्य तु निर्विकार- त्वात् तस्य जगतश्च मणिप्रभयोरिव शक्तिमच्छक्तिविक्षेपरूपेण उपादानोपादेय भाव इति वर्णयन्ति । व्रवीति च भूयोऽपीत्युपपाद-

3.2.30

 

नादिति । व्रवीति च भूय इत्यस्य सूत्रखण्हस्य पूवोक्र्तार्थोपपादकत्वमभ्युपगच्छता तेन खण्डेन तदुपपादनार्हं तस्यैव "प्रकृतैतावत्वं हि प्रतिषेधती'ति सूत्रखण्हऽप्रतिपाद्यत्वस्य वक्तव्यतया "व्रवीति च भूय' इति निर्दिष्टस्य सत्यमिति वाक्यार्थस्य रूपद्वयनिषेधेन प्रपञ्चातिरिक्तकारणरूपास्तित्वस्य च उपपाद्योपपादकत्वायोगादित्यर्थः ।। ।। इति अहिकुण्डलाधिकरणं ।।

3.2.31

 

उभयलिङ्गात् ब्राहृण इति - यद्यप्येतदधिकरणपूर्वपक्षदशायां नोभयलिङ्गत्वं ब्राहृणः सुप्रतिष्ठितं, उभयलिङ्गस्थेमार्थत्वादस्याधि-करणस्य, तथापि पूर्वपक्षस्य अतिमन्दत्वात् उभयलिङ्गत्वं सिद्धवत्कृत्य एवमुक्तं, अत एव भाष्ये-कैश्चिद्धेत्वाभासैराशंक्येत्यु- क्तमिति द्रष्यव्यम्, भाष्ये-चतुष्पात् ब्राहृेति, षोडशकलब्राहृविद्यानां हि ब्राहृणश्चत्वारः पादा निरूपिताः "प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला एष वै सोम्य चतुष्कलः पादो ब्राहृणः प्रकाशवान्नाम । पृथिवीकलान्तरिक्षं कला द्यौः कला समुद्रः कला एष वै सोम्य चतुष्कलः पादो ब्राहृणः अनन्तवान्नाम, अग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कला एष वै सोम्य चतुष्कलः पादो ब्राहृणः ज्योतिष्मान्नाम, प्राणः कला चक्षुष्कला श्रोत्रं कला मनः कला एष वै सोम्य चतुष्कलः पादो ब्राहृण आयतनवान्नामे'ति, गवां पादेषु पुरस्तात् द्वौ खुरौ पश्चात् द्वौपाष्र्णी' इत्येकैकस्मिन् पादे चत्वारश्चत्वरोखुरांशास्सन्ति, ते कला शब्देन उच्यन्ते, प्राची प्रतीची दक्षिणोदीची दिगिति चतस्त्रः कलाः अवयवा इव कलाः स प्रकाशवान् प्रथमः पादः, तदुपा-सनायां प्रकाशवान् उपासको भवती'ति प्रकाशवान् पादः, पृथिव्यन्तरिक्षं द्यौस्समुद्र इति चतस्त्रः कलाः एष द्वितीयः पादोऽन-न्तवान्नाम, सोऽयमनन्तवत्वेन गुणेनोपास्यमानोऽनन्तवत्वमुपासकस्यावहतीति अनन्तवान् पादः, अग्नि-स्सूर्यश्चन्द्रो विद्युदिति चतस्त्रः कलाः स ज्योतिष्मान्नाम तृतीयपादः, तमुपासीनो ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः, प्राण-श्चक्षुः श्रोत्रं मन इति चतरुाः कलाः चतुर्थः पादः आयतनवान्नाम, तदुपासनादायतनवान् भवतीत्यायतनवान्नाम पादः, तदेवं चतुष्पाद् ब्राहृ अष्टा-

3.2.32

 

शफं षोडशकलं , भाष्ये -अनुन्मितस्यास्तितां द्योतयतीति, नन्वेतस्योन्मितत्वमात्रेण तत्प्राप्यस्य कथमनुन्मितत्वं, नह्रुन्मितेन

मृद्दार्वादिप्रचयात्मकेन सेतुना प्राप्यस्य प्रदेशान्तरस्यानुन्मितत्वमस्तीति चेत्-मैवं,यत्प्राप्यं मोक्षशास्त्रेषु अपरिमितं प्रसिद्धं, तस्यानेन सेतुना प्राप्यत्वरूपभेदेनास्तितां द्योतयति, चतुष्पात्त्वादीनामनुन्मितत्वात् ब्राहृणो वेदान्तप्रसिद्धादनुन्मितात् प्राप्यात् भेदोऽवसीयत इति पप्र्यवसितोऽर्थ इति भावः ।। । ।। भाष्ये-सेतुसामान्येनेति, अत्र सामान्यशब्दो भावप्रधानः, सर्वलो-कासङ्करकरत्वस्य "एषां लोकानामसम्भेदाये'ति श्रुत्रौ साधारणधर्मत्वेन श्रवणात् तद्गुणयोगेन तत्र सेतुशब्दो गौण इत्यर्थः ।। । ।। भाष्ये-पादोऽस्य विश्वाभूतानीति, अत्र पादस्यांशपरत्वेन स्वरूपोपदेशपरत्वात् बुध्यर्थत्वोक्तिः प्रौढिवादेनेति द्रष्टव्यम् । भाष्ये-ब्राहृणो वागादिपादव्यपदेश उपासनार्थ इति, ब्राहृप्रतीकस्य मनस आकाशस्य वावागादिपादव्यपदेश उपासनार्थ इत्यर्थः । एवं हि श्रूयते-"मनो ब्राहृेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्राहृेत्युभयामादिष्टं भवत्यध्यात्मञ्चाधिदैवतञ्चे'ति । "तदेतत् चतुष्पाद्व्रहृ वाक् पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतम्-अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभय-मादिष्टं भवत्यध्यात्मञ्चावाधिदैवतञ्श्चे'ति, तदेतत् चतुष्पाद् ब्राहृ, तदेतन्मान आस्यं ब्राहृ चतुष्पात् चत्वारः पादा अस्येति, कथं चतुष्पात्त्वं मनोरूपस्य ब्राहृण इत्यत आह - वाक्पाद इत्यादि । मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान्

वागादिभिस्सञ्च-

रत इति सञ्चरणसाधनतया मनसः पादाः, आकाशस्य ब्राहृप्रतीकस्य अग्निर्वायुरादित्योदिश इति चत्वारः पादाः, ते हि व्यापिनो

नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति भावः ततश्च अध्यात्मब्राहृप्रतीकस्य मनस अधिदैवतब्राहृप्रतीकस्य चाकाशस्य वा वागादिपादत्वव्यपदेशो यथा वस्तुतः मनस आकाशस्य वा वागादिपादत्वासंभवाद् उपासनार्थः तथा ब्राहृणोऽपि चतुष्पात्वषो-डशकलत्वाद्युपदेश उपासनार्थ इति भावः ।। निखिलजगत्कारणस्येश्वरस्येति - निखिलजगत्कारणेश्वरप्रतीकस्य मनस आका-

3.2.35

 

शस्य वेत्यर्थः ।। । ।। तत्रैवेति व्याख्येयं पदम् - समाधिकनिषेधः कृतस्स्यादिति । अयमेव सर्वस्मात्परः, अतोऽन्यः सर्वस्मात् परो नास्तीत्युक्तेः समाधिकनिषेधः सिध्यतीत्यर्थः । परत्वेन विवक्षितेति - अपरं परभूतरुद्रव्यतिरिक्तं यस्मात्परं नास्तीत्यर्थः । अपरशब्दाभावे हि रुद्रस्यापि परत्वनिषेधप्रसङ्गः, अतोऽपरशब्दास्यार्थत्वमिति भावः । अनन्यथासिद्धसङ्कोचकाभावादिति - अपर-शब्दस्य यस्मादिति श्रुतपञ्चम्यन्तपदान्वयेन एव समाभ्यधिकनिषेधकतया सप्रयोजनतसंभवेनान्यथा सिद्धत्वेनापरशब्दो न सङ्कोचक

3.2.36

 

इति भावः । तस्यान्यथासिद्धिः कथमित्याहेति - अन्यथासिदिं्ध वक्तुं प्रश्नमवतारयतीत्यर्थः, अतो निधायेति वत्वाप्रतिपाद्यनिधा-नसमानकर्तृकत्वोपपत्तिरिति द्रष्टव्यम् ।। । ।। उपपत्तेश्चेति सूत्रार्थमाह - ईदृश इति । नह्रनपायिना स्वरूपेण सम्बन्धः संयोगादि-

3.2.37

 

र्भवितुमर्हति, अपि तु भेदोपशमरूप एवेत्यर्थः । न हि कारणमेवेति - यदि हि कारणमेव सेतुः, कार्यमेव तत्प्राप्यमिति नियमस्-स्यात्, तदा सेतुवत्-प्राप्यभेद साधकस्य कायर्कारणभेदसाधकत्वमपि भवेत्, न त्वेतदस्तीतिभावः । तस्य भेदरूपत्वाभावा- दिति -सर्ववस्तुसामानाधिकरण्यानर्हत्वस्यैव वस्तुपरिच्छेदरूपत्वादित्यर्थः । अन्यथा ईश्वरद्वयप्रसङ्गादिति - अन्यथा स्वरूपभेदाभ्युपगम इत्यर्थः ।। ।। इति पराधिकरणम् ।।

पुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं, सर्वस्मात्परत्वं च । अतः परमुपासनं विवक्षन्नुपासीनानां परस्मा-

देवास्मात्पुरुषात्तत्प्राप्तिरूपमपवर्गाख्यं फलमिति संप्रति ब्राूते । तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम् अत एव परस्मात्पुरुषाद्भवतीति सामान्येन "फलमतः' इत्युच्यते #ः कुत एतत्? उपपत्तेः- स एव हि सवज्र्ञः सर्वशक्तिर्महोदारो यागदानहोमादिभिरुपासनेन चाराधित ऐहिकामुष्मिकभोगजातं स्वस्वरूपा-वाप्तिरूपमपवर्गं च दातुमीष्टे; न ह्रचेतनं कम्र्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ।। 37 ।।

3.2.38

 

सर्वस्मात् परत्वं प्राप्यत्वमिति पाठो दृश्यते, तस्यायमर्थः-प्राप्यत्वोपयुक्तं सर्वस्मात् परत्वं तत्कल्याणगुणान्तर्भूतमपीति आयु-र्घृतमितिवत् अभेदोपचारात् सामानाधिकरण्यनिर्देशः । तच्च कल्याणगुणगण इति - अन्तर्भूतमितिशेषः, समूहसमूहिनोरभे-दोपचाराद्वा सामानाधिकरण्यनिर्देशः कल्याणगुण इति पाठे तु नानुपपत्तिः । अत्र तु द्वारविशेषो निरूप्यत इति भिदेति - अतो न पूर्वोत्तरविरोधः, तत्र धर्मस्य द्वारतायाः कण्ठतोऽनुक्तेरितिभावः । उत कर्मोपासनाराधितादित्यादि - अत्र कर्माराधि- तत्वं-वाय्वादिदेवतारूपस्य, उपासनाराधितत्वं केवलस्य ब्राहृण इति योग्यतावशेन यथाक्रमेण सम्बन्धः, यथा शीतोष्णस्पर्शगु- णकं जलं तेजश्च, इति निर्देशे इति द्रष्टव्यम् । भाष्ये-नह्रचेतनं कर्मेति, अयं भाव, किं कर्मजनितस्यापूर्वस्य फलसाधनत्वम्? उत कर्मण एव तावत्पय्र्यन्तमवस्थतायित्वम्? उत फलस्यापि कर्मानन्तरमेवोत्पत्तिः? इत्यभ्युपेयते, उत विनष्टस्यैव कर्मणः कार्यजनकत्वमिति चतुर्धाविकल्पमभिप्रेत्य प्रथमं दूषयति, भाष्ये-नह्रचेतनमिति,

यद्यदचेतनं तत्सर्वं चेतनाधिष्ठितमेव प्रवत्र्तत इति प्रत्यक्षागमा-भ्यामवधारितत्वात् नापूर्वस्य फलहेतुत्वमित्यर्थः । द्वितीयं दूषयति - कर्म क्षणध्वंसीति । तृतीयं दूषयति - कालान्तरभावीति ।

3.2.40

 

अधुना स्वर्गोत्पत्तेः बाधितत्वादितिभावः । चतुर्थं दूषयति - भवितुमर्हतीति । विनष्टस्यापि कार्यजनकत्वे अतिप्रसङ्गः स्यादिति भावः ।। । ।। भाष्ये-कृप्यादिकं गात्रर्दनादिकं चेति, गात्रमर्दनादिकं साक्षात् सुखहेतुः, कृप्यादिकं तु परम्परया, शास्त्रं दर्श- यति-एवं वेदेऽपीति, क्कचित्पठ¬ते स तु न समीचीनः, शास्त्रं दर्शयति, तथा यजेतेति पठ¬ते, अयं तु पाठः समी- चीनः ।। । ।। अपयोरणशतयातनासाध्यसाधनभावेति - अपगोरणं-वदोद्यमः, शतयातना-नरकविशेषः, "यो ब्रााहृणायाप- गुरेत् तं शतेन यातया'दित्येतद्धि तस्मात् "ब्रााहृणाय नावगुरेत' इति निषेधविधेरर्थवादः, तत्र च "हेतुहेतुमतोर्लिङ्' इत्यनुशासन-बलात् अपगोरणशतयातनयोः साध्यसाधनाभावस्य अर्थवादप्रतिपन्नस्य स्वीकारादित्यर्थः । शर्कराञ्जनद्रव्यपशुविशेषादीति - अत्र विशेषशब्दश्शर्कराञ्जनद्रव्येणापि सम्बध्यते, "अक्ताः शर्करा उपदधाति' इत्यत्र शर्कराञ्जनसाधनद्रव्याकांक्षायां "तेजो वै घृत'मिति स्तुतस्य घृतस्यैवाञ्जनसाधनत्वेन स्वीकारात्, तथा "पशुना यजेत' इति सामान्यश्रुतस्य विशेषाकांक्षायां "छागस्य वपाया'मिति मन्त्रवर्णप्रतिपाद्यस्य छागरूपविशेषस्य च स्वीकारादित्यर्थः । देवतानामपि फलदत्त्वमस्त्विति - कर्मोपासना-

3.2.40

 

राधितस्य प्रसन्नस्य फलदत्त्वपक्षेऽपि कर्मानुष्ठानानन्तरमेव प्रसादः वक्तुं न शक्यते, परमस्वतन्त्रस्य प्रसादे सति फले विलम्बायो- गात्, प्रयाजादिभिरङ्गैः तदनुष्ठानानन्तरमेव प्रसादे सति प्रधानाननुष्ठानेऽप्यङ्गान्तरवैकल्येऽपि फलनिष्पत्तिप्रसङ्गाच्च, तस्मात् कर्मान्तरमपूर्वे निष्पादिते तस्य परिपक्वतया फलजननौन्मुख्यदशायामीश्वरस्य प्रसादो वक्तव्य इति भावः, भाष्ये-प्रामाणिका न सहन्ते इति, न च देवताप्रसादहेतुत्वपक्षेऽप्यपूर्वस्यापि द्वारत्वमकामेनापि स्वीकायर्मिति वाच्यं, भोजनादिना राजानमाराधायत्सु पुरुषेषु भोजनाङ्गभूतासनविशेषसमर्पणाद्युपचारैः प्रीतिविशेषस्योत्पादनवत्, प्रयाजादिमिरपीश्वरे प्रीतिविशेषस्य फलप्रदानहेतु-

3.2.40

 

भूतप्रीतिविशेषसम्पादकस्य उत्पत्तिसम्भवेन जीवसमवेताङ्गापूर्वकल्पने प्रमाणाभावादिति भावः ।। । ।। विग्रहाद्यभावमिति । आदिशब्देन तृप्तिप्रसादादयो विवक्षिताः । उपबृहण सिद्धत्वादिति । न तु ध्यान वत् मोक्षसाधनत्वादिति भावः ।

।। इति फलाधिकरणम् ।। 8 ।।

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां

भावप्रकाशिकायां तृतीयस्याध्यायस्य द्वितीयः पादः ।।

समुदिताधिकरणसङ्ख्यां - 82 - सनुदितसूत्रसङ्ख्या - 354 ।।



2.3.1

 

अयमर्थ इति - संगतिरित्ययमर्थ इत्युत्तरत्रान्वयः । कार्यविषये परोक्तेति - यद्यपि परस्परविरोधेन वेदान्तानामप्रामाण्यशङ्का परेषामिव वियत्प्राणाधिकरणेषु पूर्वपक्षत्वेन उद्भाव्यते, कार्यताप्रकारविरोधसमाधानमात्रपरत्वात्, तथा वियदनुत्पत्त्यादि-पूर्वपक्षोद्भावनपूर्वकं वियदुत्पत्त्यादिश्रुतीनां स्वार्थसमन्वये स्थूणानिखननन्यायेन साधिते सति विप्रतिषेधेन निरस्तानां सांख्यानां ह्मदि विपरिवर्तमानानां वेदान्तेष्वपि विप्रतिषेधप्रतिवन्दी दूरनिरस्ता भवति, अत एव विरोधाध्यायसंगतिरपि सिद्धा भवतीतिभावः । सूत्राभिप्रायविवरणमिति - न तु श्रुतिशब्दस्य श्रवणार्थत्वप्रतिपादनपरमितिभावः । श्रुतिनिर्देशस्वार

2.3.2

 

स्यादिति - गौणत्वस्य शब्दधर्मत्वेन प्रमितधर्मत्वाभावादितिभावः । निरवयवत्वस्यानित्यगुणसाधारणतया तत्रानैकान्त्य-परिहाराय द्रव्यत्वा-दित्युक्तम्, नचास्य हेतोरसिद्#िथः, क्कचिदपि तदभावस्य बुद्धावारोहासम्भवात्, अत्र वियत् नास्तीति निषेधस्य व्याहतत्वात्, "आकाशे चाविशेषात्' इति वैभापिकाधिकरणसूत्रे - इहेतिप्रत्ययवेद्यो देश आकाश इति व्यवस्थापितत्वात्, न च हेतोरप्रयोज्क-त्वम्, निरवयवस्य सवगतस्य समवाविकारणाद्यनिरूपणादितिभावः । तैत्तिरीयकतर्कविरुद्धेति - तैत्तिरीयकगततर्कविरुद्धेत्यर्थः ।। । ।। अस्तीति श्रुतिस्साधकतयेति - अस्तीत्यस्मिन्नर्थे श्रुतिः साधकतयेत्यर्थः । उत्पत्तिप्रमितिजननहेतुरेवेति - मानान्तरागोच-रत्वस्य श्रौतत्वानुगुणत्वादित्यर्थः । प्रत्यक्षसिद्धत्वमात्रेणेति - मानान्तरसिद्धत्वमात्रेणेत्यर्थः । प्रत्यक्षमनुमानं वेति - शब्दोऽद्रव्यातिरिक्तद्रव्याश्रित इत्यनुमानं वेत्यर्थः । अनुमानान्तरञ्चेति - आकाशं नित्यं निरवयवद्रव्यत्वादित्यनुमानान्तरमित्यर्थः । ननु सर्गाद्यसमयादच्छिन्नाकाशस्य पक्षीकारे तु तस्य श्रुत्यैकसमधिगम्यतया तस्यानुत्पत्तिसाधने धर्मिग्राहकमानविरोधः, आमाशमात्रपक्षीकारे तु धर्मिग्राहकमानबाधस्य कः प्रसंग

2.3.4

 

इत्यस्वरसादाह - निरवयवत्वहेतोर्महदादिष्विति । निरवयवत्वहेतोरिति -निरवयवद्रव्यत्वहेतोरित्यर्थः । संयोगविशेषवचनाच्चेति -निरवयवस्य संयोगाभावादितिभावः । सर्वगतद्रव्यत्वहेतोरिति - सर्वगतत्वादित्युक्ते नैयायिकमते प्रमेयत्वादिप्रत्यासत्तिजन्य-ज्ञानस्य सर्वगोचरत्वेन सर्वगततया तस्मिन् व्यभिचाराभावार्थं द्रव्यत्वादिति वाच्यमिति भावः ।। "तपसा ब्राहृेति तपसा ब्राहृ विजिज्ञासख" इति वाक्ये ब्राहृशब्दो मुख्यः, तपो ब्राहृेति वाक्यशेषे तु ब्राहृज्ञानसाधनत्वेन गौण इति भावः । मुख्यामुख्यविष- यतत्वाभावादिति - "अन्वयादिति चेत्स्यादवधारणात्' इत्यत्र अन्नमयादिषु आत्मशब्दा अपरमात्मबुध्द्या नोपचारतः प्रयुक्ताः, अपि तु परमात्मबुद्धयैव, "अन्तः प्रविष्टः शास्ताजनानाम्' इति तत्तदन्तः प्रवेशेन नियन्तृत्वामात्मत्वम्, तत्र प्राणमये अन्न-

2.3.6

 

मयात् अन्तरात्मत्वमात्रेण परमात्मत्वबुद्धिः जाता, तस्यापि अन्तरदर्शनेन तत्रापि परमात्मबुद्धिर्जाता, पूर्वत्र तु निवृत्ता; यस्यादन्यदन्तरं नास्ति र्सक्षणादिकञ्च श्रुतम्, तस्मिन् परमात्मबुद्धिः आत्मबुद्धिश्च प्रतिष्ठिते, एवञ्च पूर्वत्रापि परमात्मबुद्धि-विषय एव आत्मशब्दप्रयोगात्, सर्वेष्वपि पय्र्यायेषु आत्मशब्दः परमात्मविषय एव, न तु औपचारिक इति वक्ष्यमाणत्वात्, तत्र्यायेन " अन्नं ब्राहृ" इत्यत्र ब्राहृशब्दस्यापि ब्राहृबुद्धया प्रवृतत्वान्न भाक्तत्वम्, यथा शुक्तौ रजतबुद्धया प्रयुज्यमानस्य रजतशब्दस्य नौपचारिकत्वं तथेत्यर्थः । उभयत्रापि समाधिभङ्ग इति - अनुपङ्गश्रवणावृत्त्योः वृत्तिद्वयविरोधरूपसमयभङ्गः कार्य इत्यर्थः ।। । ।। ।। कार्यतयैवाव्यतिरेको विवक्षित इति भाव इति ।। ननु नित्यविभूत्यादीनामकार्यत्वेऽपि प्रतिज्ञया अहानिवत् आकाशस्य अकार्यत्वेऽपि प्रतिज्ञाया अहानिर्न प्रसज्यते, न च "येनाश्रुत"मित्यादौ अश्रुतादिशब्दा नित्यविभूतिव्यतिरिक्त-पराः, उत्तरत्र "सदेव सोभ्येदमग्र आसीत" इति इदङ्कारगोचरस्यैव ततः पूर्वसन्मात्रतापक्षिप्रतिपादनादिति वाच्यम् । इदंशब्द- स्य प्रत्यक्षादिप्रमाणोपस्थापिरसर्ववस्तुपरामर्शतया नित्यविभूत्यपरिग्रहे बीजाभावात्, इतरथा अतीन्द्रियपदार्थानां

सर्वविज्ञा-नप्रतिज्ञाविषयत्वं न स्यात्, ततश्च त्यक्तव्यम्वा नित्यविभूतीनां नित्यत्वम्, स्वीकत्र्तव्यम्वा आकाशस्यापि नित्यत्वमिति

2.3.9

 

न, अस्य दोषस्य सर्वैरपि समाधेयत्वात्, इतरथा अविद्यावद् आकाशस्यापि अनाद्यध्यस्ततया अजन्यत्वमस्तु, ब्राहृाव्यति-रेकेऽपि तद्वदेव उपपद्यत इत्युक्तौ समाधानस्य मृग्यत्वात्, न च कल्पतरौ - "तथा प्राण"इत्यत्र प्राणानामविद्यावद् अनाद्य-ध्यस्तत्वे साक्षिण्यव्यवधानात् सुपुप्तावपि उपलम्भप्रसङ्गः इत्युक्तम्, तत्र्यायादत्रापि सपुप्तावपि उपलम्भप्रसङ्ग इति वाच्यम् । अनाध्यद्यस्तेश्वरवत् उपपत्तेः, जीवान्तराविद्यावदनुपलम्भोपपत्तेश्चानन्यथासिद्धप्रमाणवलात् अविद्याजन्यत्वमभ्युपगन्त- व्यम्, आकाशे न तथा, प्रत्युत्पत्तिश्रुतिरेववर्तत इति, यदि तर्हि प्रकृतेऽपि नित्यविभूतावपि समानमेतत्' । अवान्तरसाध्य-विषयहेतुभेदानामिति - "असद्वयपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषाद् युक्तेः शब्दान्तराच्च" इत्यादाववान्तरसाध्यविषयत्-

2.3.9

 

वात्,असमस्तपदोपात्तहेतूनामप्येकसूत्रप्रतिपाद्यत्वं दृष्टं परमसाध्येऽपि समस्तपदोपात्तहेतूनामेकसूत्रप्रतिपाद्यत्वं दृष्टम्, "कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च" इत्यादिप्विति भावः । इदञ्च चशब्दाभावस्थल इति द्रष्टव्यम्, तेन "वाङ्मनसि दर्शनाच्छब्दाच्च" उपादानाद्विहारोपदेशाच्च" इत्यादौ परमसाध्ये असमस्तपदोपात्तहेनूनामपि एकसूत्रप्रतिपा- द्यत्वं दृश्यत इति न चोदनीयम् ।। । ।। ननु काय्र्यत्वं सिद्धवत्कृत्य कथं विभागशब्दिता उत्पत्तिः समथ्र्यते । विकारशब्दि-तकार्यत्व एव विवादादितरथा उत्पत्तावप्यविवादादिति चेत् न, छान्दोग्ये क्कचिद्विकारेषु उत्पत्तिवादाभावस्य गतिप्रदर्शन-भावपरत्वेनाऽददोषात् । परे त्वित्यादि - परमसाध्यत्वाभावादिति । विप्रतिषेधमात्रस्य स्वतोऽनिष्टत्वाभावेन तस्यैव पूर्वपक्ष-पय्र्यवसानभूमित्वाभावादित्यर्थः । न विप्रतिषेधमात्रं पूर्वपक्षितम्, नाप्युत्पत्तिसिद्धान्त्येकदेशिनतं कृत्वेति पाठः, यद्यपि कल्पतरौ - एवमध्यायपरिसमाप्तेः प्रथमं विप्रतिषेधादप्रामाण्येन पूर्वपक्षः, तत एकदेशिमतेन व्याख्या ततः सिद्धान्त इति दर्श-नीय इत्युक्तम्, तथापि तस्य ग्रन्थस्याधुनिकत्वात् तन्नोद्धाटितामिति द्रष्टव्यम् । हेतुतया उपन्यासोऽनुपपन्न इति - ननु वाच-स्पतिना तैत्तिरीयके वियदुत्पत्तिश्रुतिः यद्यप्यस्ति, तथापि तस्याः प्रमाणान्तरविरोधात्, बहुश्रुतिविरोधाच्च गौणत्वम्; ततश्च

2.3.9

 

मुख्यार्थश्रुत्यभाव एवाश्रुतेरित्यस्यार्थः, ततश्च "वियदश्रुतेः' "गौण्यसम्भवात्, शब्दाच्च, स्याच्चैकस्य ब्राहृशब्दवत्' इति सूत्रचतुष्टयमपि सिद्धान्त्येकदेशिमतमस्त्विति पूर्वपक्षसूत्रम्, तस्य च आकाशसृष्टिप्राथभ्यपअतिपादकं तैतिरीयके, तेजस्सृ-ष्टिप्राथम्यप्रतिपादकञ्च छान्दोग्येऽस्ति, अतः श्रुत्योः परस्परप्रतिषेध इति व्याख्यातमिति चेत्, सत्यं व्याख्यातम्, तत्तु

2.3.9

 

शाङ्करभाषेयविरुद्धमिति भाष्टाभिमतयोजनयैव दूषितमिति द्रष्टव्यम् । पृथक् परिहरणीयत्वाभाताच्चेति - ननु "वायुश्चान्तरिक्ष-ञ्चैतदमृतम्' इति उभयसाधारण्येन अमृतत्वमुक्ता पुनः वायोः विशि#ेष्योच्यते "सैषाऽनस्तमिता देवता यद्वायुः' इति अतो-ऽभ्यासाद्वायोरमृतत्वं विवक्षितमिति ज्ञायते, अभ्यासे भूयस्त्वमर्थस्य भवतीति न्यायात्, अधिकाशङ्काव्यवृत्यर्थमतिदेशाधि-करणमेवास्तु, नतु पृथभ्योगकरणमुत्तरार्थमिति सामाधानं युक्तम्, तेनसि विशेषपक्षपाताभावात् "तेजोऽतस्तथाहृाह' इत्- येव वूत्रयितव्यम्' अहङ्कारस्तथेत्याहेति वा वक्तव्यम् । महदहङ्कारादीनामपि तन्मिन्नधिकरणे विषयत्वस्य भाष्य एव वक्ष्य-माणत्वात्, अतः पृथग्योगकरणमुत्तरार्थमिति नातीव युज्यत इति चेत् सत्यम्, महदहङ्काराकाशवाय्वादिसाधारणावेव पूर्वो-

2.3.10

 

त्तरपत्तौ, तथापि "तदैक्षत तत्तेजोऽसृजत"इति बहुभवनसङ्कल्पपूर्वकसृष्टेः स्फुटप्रतिपादनेन सिद्धान्तावतरणस्य सौलभ्यं पय्र्यालोच्य "तेजोऽतस्तथा ह्राह' इति सूत्रयिष्यन् तदर्थेऽधिकाशङ्कामाद्येऽप्यतिदिशति "एतेन मतिरिश्वा व्याख्यात;' इति, अतो न किञ्चिदवद्यमित्युत्पश्यामः ।। इति वियदधिकरणम् ।।

।। सृष्टयनन्तरानुप्रवेशकृतमौपचारिकमिति ।। कादाचित्कानुप्रवेशनियमन मात्रेण शरीरत्वोक्तिः, नतु यावत् सत्तं धाय्र्यत्वादि-कमभिप्रेत्य येन तन्मूख्यं स्यादिति भावः ।। । ।।

2.3.13

 

ननु "तेजोऽतस्तथा ह्राह' इति न्यायसाम्ये अप्सु पृथक् सूत्रकरणं किमर्थमिति चेत् न, तथा ह्राहेत्यंशस्य साम्येऽपि तेजसि विषये "तदैक्षत" तत्तेजोऽसृजत इत्यस्य परम्परयाऽप्युपपत्तिरिति परिहर्तव्यम् । अप्सु "ततेज षक्षत" तदापोऽसृजत" इति प्रथमश्रुततजश्शब्दानु#ासारात्, "तस्माद्यत्र क्कचन शोचति स्वदेते हि पुरुषः तेजस एव तद्धयापोऽजायन्त" इति वाक्यशे-षश्रवणाच्च ईक्षण #ं गौणमिति वा "अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या'मिति न्यायेन वा निवोदव्यमिति पूर्वपक्षिणो

2.3.15

 

निर्वाहभेदप्रकारसत्वात् पृथक् सूत्रकरणसार्थक्यात्, न च पृथिव्याः पृथक् सूत्रं व्यर्थमिति वाच्यम् । अत्र पअथिवीशब्दयोः विरोधपरिहारार्थतया तदापि पृथक् सूत्रणमिति गन्तव्यम् ।। । ।। तच्छरीरकत्वं श्रौतमित्याहेति - तच्छरीरकस्य कारणत्वं श्रौतमित्याशय इत्यर्थः, "यः पृथिवीमन्तरो यमयति" इति तदधिष्ठितवस्तुन एव कार्यकरत्वश्रवणादिति द्रष्टव्यम् । तेषाम-पीक्षणपूर्वकसृष्टिसिद्धय इति - अत्र केचित् पूर्वग्रन्थे ईक्षापूर्वकसृष्टयुपपाद्यतयोक्तस्य तच्छरीरकत्वस्य ईक्षापूर्वकसृष्टिसिध्द्य-र्थत्वकथनमयुक्तम्, ततश्च महदादीनामपि परमात्मशरीरत्वप्रतिपादकवचनं दर्शयति, सुबालोपनिषदि चेति - इत्येवावतरणि-का देयेति च मन्यन्ते ।। । ।। ।। आनन्य्र्यरूपक्रमप्रतीतेरिति - यद्यपि पौर्वापर्य एव क्रमः, नतु अव्यवधानलक्षणमानन्तय्र्यम्,

2.3.17

 

तथापि आनन्तय्र्यरूपाव्यवधानविशिष्टपौर्वापय्र्यलक्षणक्रमप्रतीतेरित्यर्थे बाधकाभावात्, न च क्रियाद्वारकमेव पौर्वापय्र्यं वक्तव्यमिति वाच्यम्, तथा सति "त्तस्माज्जायत्' इत्यस्य सृष्टयुन्मुखादित्यर्थः प्रतीयते, ततश्च, सृष्टयौन्मुख्यस्य प्राणाद्युत्पत्तेश्च क्रमिकत्वद्वारा तदाश्रययोः कार्यकरणयोरपि इत्यदोषात् । इत्यन्वयाभिप्रायेणेति नतु "एतस्माज्जायते प्राणः ततो मनः सर्वेन्द्रियाणि' इत्यन्वय इति भावः ।। । ।।

2.3.17

 

भाष्ये - भङ्कत्वा व्यपदिश्यत इति, अस्मिन् पक्षे "भञ्जोऽवमर्दने' इति धातोःक्तिनि सति भक्तिः भङ्गः भकत्या प्रयुक्त इति भावः । पुर्वसाध्येनानन्दमयादिति, "पृथिवी' इति सूत्रे पृथिव्यत्पत्तेरेव साध्यत्वात् तत्र च अधिकाररूपशब्दान्तराणामत्र -

2.3.17

 

शब्दवाच्यपृथिवीत्वहेतुत्वेऽपि पृथिव्युत्पत्तावहेतुत्वादिति भावः । अभिमानिचेतनानुप्रवेशनिबन्धनत्वस्य चोक्तत्वादिति - ततश्च स्वतश्चैतन्यं नास्तीति भावः । ननु वाचस्पतिना तेज आद्यधिष्ठानदेवतानां परमेश्वराधिष्ठितानामेव भूतसर्गे प्रवृत्तिः, उत

2.3.17

 

तदनधिष्ठितानामिति विचारप्रवृत्तिरिति चेन्न, तस्य तद्भाष्यविरुद्धत्वात् "परात्तु तच्छØते'रित्यादिना कृतकरत्वाच्च तदना-

दृत्य यथाश्रुतभाष्य एवदूषणमुक्तमिति द्रष्यव्यम् । एकशब्देन विवक्षितत्वे कारणाभावादिति - न च प्राणशब्देन बुद्धिरुच्यते, बुद्धिर्नाम निश्चयहेतुभूतान्तःकरणावस्था संशयहेतुभूतान्तःकरणावस्थं मन इति तयोर्भेदः,तत्र ज्ञायते अनेनेति व्युत्पत्त्या सौत्रविज्ञानशबब्देन प्राणशब्दितबुद्धेरिन्द्रियाणाञ्च ग्र्रहणम्, मनश्शब्देन मनसो ग्रहणञ्चच सम्भवतीति वाच्यम्, एता-दृकल्पनायां प्रमाणाभावादिति भावः । जीवस्य परस्मादात्मन उत्पत्तिः,वियदादीनामस्ति नाÏस्त वेत्युत्तरसूत्रेण वक्ष्यति, देहाश्रयौ तावत् जीवस्य स्थलौ उत्पत्तिप्रळयौ न स्त इत्यनेन सूत्रेणावाचदिति परभाष्योक्तमाह - अत्र देहाश्रयाविति ।

2.3.17

 

शरीरजन्मविनाशयोः जीवगतत्वशङ्कायाअनुदयादिति - ननु देवदत्तादिनामधेयं तावत् जीवस्य, न शरीरस्य, तन्नाम्ने शरीराय श्राद्धकरणानुपपत्तेः; तस्मात् मृतो जातो देवदत्त इति व्यपदेशस्य मुख्यत्त्वं मन्वानस्य पूर्वपक्ष इति वाचस्पत्ये स्पष्टमेव जीवभेदं सिद्#ॅधवत्कृत्य देहभिन्नजीवस्य देहोत्पत्तिविनाशानुयाय्युत्पत्तिविनाशवत्वं पूर्वपक्षीकृत्य सिद्धान्तित इत्याभिधानात्, शाङ्करभेष्येऽपि शरीरानुयायिविनाशिनि जीवे - इति, तद्भेदसिद्धवत्कारणेवै देहे उत्पद्यमाने जीवोऽप्युपपद्यते, नश्यति तस्मिन् स्वयमपि नश्यतीति पूर्वपक्षप्रतीतेः तस्यैवार्थस्य देदाश्रयौ तावज्जीवस्य स्थूलोत्पत्तिप्रलयो#ै न स्त इति भाष्येऽनुवाद्यमानत्वात्, देदाश्रयावित्यस्यापि देहोत्पत्तिविनाशवित्येवार्थप्रतीते कथमयं प्रपञ्च इति चेत्, सत्यम्, देहानुविविधायिविनाशित्वे जीवस्वरूपस्याभ्यमाने "नात्मा श्रुते'रित्वनेन पौनरुकत्यात् देहोश्रया उत्पत्तिविनाशावित्यस्य यथाश्रुत एवार्थः स्वीकर्तव्यः,

2.3.17

 

गत्यन्तरामावादित्यभिपेत्यैवमुक्तमितं द्रष्टव्यम् । अन्ये त्वित्यादि - प्रलयावस्थापुरुषस्य चेति । प्रलयावस्थस्य भोक्त्रंशस्य चेत्यर्थः । अस्य पाठक्रमस्येति - त्वदभिमतस्य सूत्रपाठक्रमस्य कुत्रापि अप्रसिद्धत्वादित्यर्थः । सर्वेषामुत्पतिं्त च पूवर्पक्षीकृत्येति - सर्वेषामुत्पत्तिर्वा स्यात्, सर्वेषामनुत्पत्तिर्ता स्यादिति पूर्वपक्षीकृत्येत्यर्थः, । मनस्याकाशमेव चेति प्रयोगाच्चेति - एतस्माज्जायत इति श्रुतौ यदि मनश्शब्दो मनः परः तदाऽऽकाशस्य इन्द्रियेषु इन्द्रियाणाञ्च मनसि मनसश्च प्राणशब्दितमहत्तत्त्वे च लयः कीत्र्यत इति भावः । आकाशादिषु क्रमविवक्षादर्शनादिति - "खं वायुज्र्यातिराप" इत्युत्तरवाक्ये क्रमविवक्षादर्शनादिति भावः । पदार्थनिर्देशमात्रञ्च अत्र वागादिक्रमविवक्षाप्रतीतेरभावादिति भावः । अहङ्काराज्जातानीत्यर्थ इति - अहङ्कारात स्वादीनि

2.3.17

 

साक्षाज्जातानि, इन्द्रियाणि तु स्वादिद्वारा जातादीत्यर्थ इति भावः। अतो विरोध इति - "इन्द्रियेभ्यः परा ह्रर्थाः' इति श्रुत्यनुसारेण "सर्वेन्द्रियाणि च स्वं वायुज्र्योतिराप" इत्यत्र विरोधस्य परिह्मतत्वात्, मनश्शब्दिताहङ्कारस्य महतश्च मध्ये "मनसस्तु परा बुद्धिः, बुदिं्ध तु सारथिं विद्धि, विज्ञानसारथिर्यस्तु' इति बुद्धिविज्ञानाब्दितं तत्त्वान्तरं प्रतीयत इति विरोध इत्यर्थः । मनश्शब्दः वाच्येति - "मनसस्तु परा बुद्धिः' इति श्रुतपरापरभावो यथा कथञ्चिन्निर्वोढव्य इति भावः । नभः प्रकृतयस्स्युरिति चेदिति - ततश्च अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतिविरोध इति भावः' । इन्द्रियमेव मन इति - अन्तरिन्द्रियमेव मनः नाहङ्कार इत्यर्थः । न चैवं " इन्द्रियेभ्यः परा ह्रर्थाः' इति इन्द्रियापेक्षया परत्वेन प्रतिपादितादथात् इन्द्रियविशेषस्य मनसः कथं परत्वमिति शङ्कयम् आकारान्तरेण परापत्वयोरूपपत्तेरिति भावः, । औचित्यभङ्गप्रसङ्गादिति - आत्मशब्दस्यैव महत्त्वेन विशेषणस्योचितत्वादिति भावः । अर्थविरोधत्वादिति -प्रकृतिमहदहङ्काररूपार्थप्रतिपादकत्वात् अस्य सन्दर्भस्य वशीकार्यप्रकरणबाधो युक्त इति चेदित्यर्थः । प्राचीनाधिकरणेति - आनुमानकाधिकरण इत्यर्थः ।।

।। इति तेजोधिकरणं सामाप्तम् ।।

2.3.19

 

नियतधर्मधर्मिभाव उपपद्यत नेति - धम्र्यपेक्षया अधिकदेशस्य धर्मत्वं सम्भवति नेति चिन्तायां निवेशनीयम् । अस्यार्थस्य

"अविरोधश्चन्दनवत्, गुणाद्वा लोकवत्, इति सूत्रोपारूढतया तस्यावश्यं वक्तव्यत्वात् । विप्रकृष्टार्थग्रहणाग्रहणासम्भवेनेति - सर्वाङ्गीणवेदनासम्भवेन आत्मनो विभुत्वस्य वक्तव्यतया तस्य च नित्यज्ञानाश्रयत्वेन नित्यत्वोपलब्धिप्रसङ्ग इत्यर्थः । भाष्ये-ज्ञानस्वरूप एव न ज्ञानमात्रम्, नापि जडस्वरूप इति ज्ञातृत्वे साधितेऽपि न जडत्वव्यावृत्तिः, नैयायिकैज्रडत्वाभ्युपगमात्, तथापि

2.3.20

 

"यावदात्माभावित्वाच्च' इति च शब्देन सिद्धिमभिप्रेत्य उक्तमिति द्रष्टव्यम् । भाष्ये-यदुक्तं ज्ञातृत्वे स्वाभाविके सतीति, ननु स्वा-भाविकज्ञातृत्वे कथं विभुत्वनिराकरणमुपयुज्यते, विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वात्, "नित्योपलब्ध्यनुपलब्धी'ति सूत्रोक्तन्यायेन विभुत्वस्य आगन्तुकज्ञानाश्रयत्वज्ञानरूपत्वस्वाभाविकज्ञत्वरूपसर्वपक्ष-विरुद्धत्वेन विशिष्य सिद्धान्तिनामपि निरा-करणायत्वात्, तत एव नैकाधिकरणत्वमपि "उत्कान्तिग्कयागतीना'मित्यादेः युज्यते, अणुत्वसमर्थनस्य स्वाभाविकज्ञातृत्वानुपयुक्तत्वात् कथञ्चिदुपयोगमाश्रित्यैकाधिकरण्याश्रयणे "कत्र्ता शास्त्रार्थवत्वा'दित्यस्य ज्ञातृत्वकत्र्तृत्वसमर्थनार्थस्य कुतो नैकाधिकरण्यम्, यदि कत्र्तत्वनिराकरणं ज्ञातृत्वोपयुक्तं तर्हि तन्निराकरणार्थानामेकत्रैव निवेशनीयतया "ज्ञोऽत एव, व्यतिरेको गन्ववत्, पृथगुपदेशात्, तद्गुणसारत्वात्तद्वयपदेशः, यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्,पुंस्त्त्#ादिवत्त्वस्य सतोऽभिव्यक्तियागा'दिति ज्ञत्वं समाप्य "उत्क्रान्ति-गत्यागतीनाम्, स्वात्मना चोत्तरयोः, नाणुरतछØतेरिति चेन्नेतराधिकारात्, स्वशब्दोन्मानाभ्याञ्च, अविरोधश्चन्दनवत्, अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वा लोकवत्, नित्योपलब्धि'रित्येव सूत्रन्यासः स्यादिति चेत्, उच्यते- यदुक्तं विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वादिति-सत्यमेतत्, तथापि पूर्वपक्षिणः तथाभिमानसम्भवेन तत्खण्डनस्य कर्तुं यक्तत्वात्, यदुक्तं "कत्र्ता शास्त्रार्थवत्वात्' इत्यस्याप्यैकाधिकरण्यमिति, तत्र ज्ञातृत्वं हि ज्ञानाश्रयत्वं न तु कर्तृत्वं, प्रत्ययस्याश्रयत्वमात्रार्थकत्वात्, अस्तु वा कथञ्चिदुपयोगः, नैतावता ए#ैकाधिकरण्यं, तस्य सूत्रकदनभिमत्वात्, प्रकृते तु ज्ञत्वाणुत्वसमर्थनसूत्राणां परस्परान्तरिततया करणादेवावसीयते-ए#ैकाधिकरण्यं सूत्रकृदभिमतमिति, इतरता त्वदुक्तरीत्या महत्वनिराकरणसूत्राणां बुद्धिसौकर्याय सङ्कीर्णतयैव निवेशः स्यात्, अतः सर्वं समज्जम् ।। । ।। "स यदा तेजोमात्रास्समभ्याद-

2.3.23

 

दाना ह्मदयमेवापक्रामति शुक्तमादाय पुनरेति स्थान'मिति परोक्तगतिश्रुत्यनुपन्यासे हेतुमाह - उत्क्रान्तिशब्दानन्तरेति । ।। । ।। भाष्ये-शरीरविभोगरूपत्वेनेति, उत्क्रामणं हि अपसर्पण इव मरणे विनिरूढम्, तच्चातलतोऽपि सतः कर्मक्षये देहस्वात्म्यनिवृत्त्या उपपद्यते, गत्यागत्योश्चलेन निरूढयोः कर्तृस्वभावरूपत्वादिति भावः ।। । ।। भाष्ये-अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य

2.3.26

 

श्रूयत इति उद्धरणञ्च पृथक्करणम्, बालाग्रशतभागस्ये'ति अवयवावयविनोरवयवस्य पृथक्करणं श्रूयते, श्राव्यते प्रदश्र्यत

2.3.32

 

इत्यत इत्यर्तः, ततश्च पृथक्करणाश्रवणयोः श्रुतिकत्र्तृकत्वात् समानकत्र्तृत्वोपपत्तिरिति द्रष्टव्यम् । आराग्रम्-चर्मभेदिसूच्यग्रम् ।। । ।। "ननु-उक्तं ज्ञानमेवात्मेति' "विज्ञानात्मा पुरुष'

इत्यादिश्रुतिष्वित्यर्थः ।। । ।।

विशिष्टवाचिना शब्देनेति - ज्ञानविशिष्टवाचिशब्देनेत्यर्थः ।। । ।।

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

आत्मा कुत्रचिदुपलभ्यत इति - आत्मा शरीरान्त उपलभ्यते, तथा बहिर्नोपलभ्यत इत्येतत् "अहमिहैवास्मि सदने न जानान' इति सर्वलौकिकानुभवसिद्धम्, न चैतत्पक्षद्वयेऽपि उपपद्यते, ज्ञानेरूपः सर्वगत आत्मेति पक्षे किं उपलभ्यानुपलभ्यस्वभावः, उत उपलभ्यैकस्वभावः, उतानुपलभ्यैकस्वभावः । आद्ये दहेस्यान्तरे उपलब्ध्यनुपलब्धी स्वाताम्, द्वितीये सर्वत्रोलब्धिस्स्यात् । तृतीये अनुपलब्धिः स्यात्, दहेस्यान्तरुपलभ्यस्वभावः अन्यत्रानुपलभ्यस्वाभाव इति व्ववस्था न युज्यते, न ह्रेकस्य क्कचिदेशे स्वप्रकार-मन्यत्र नेति शक्यते वक्तुमिति भावः । एवं जडत्वपक्षेऽपि दूषणं द्रष्टव्यम् । भाष्ये-सर्वैः करणैः सर्वदा संयुक्तत्वेनेति, नन्विदं सिद्धान्तेऽपि समानभेव, नित्यानां मुक्तानाञ्च धर्मभूतज्ञानानामनन्तानां सर्वत्र विद्यमानत्वात्, धर्मभूतज्ञानामपि सर्वात्मसम्ब्धत्वात् मध्ये इदमेदतदीयमिति नियन्तुमशक्यत्वात् कथमेतदिति चेन्न, "श्रुतेस्तु शब्दमूलत्वात्' इति न्यायेन श्रुतिप्रतिपन्ने अर्थे यथा श्रुत्यभ्युपगन्तुं युक्तम्, इतरथा न युज्यत इत्यत्र तात्पर्यात् । ज्ञशब्दस्यापि व्यक्तिवाचित्वाभावादिति - "इगुपधज्ञा प्रिय- किरः कः' इति कप्रत्ययस्य कत्र्तरि कृ'दिति कत्र्रर्थेऽनुशिष्टत्वादिति भावः । अविकृतब्राहृण एवेति - आविकृतब्राहृण एवोपाधिना जीवभावेनावस्थानादनुत्पन्नत्वेनेति योजना । तस्य चैतन्यस्वरूपत्वादिति - ब्राहृणः चैतन्यस्वरूपत्वात् तदभिन्नस्य जीवस्यापि चैतन्यस्वरूपत्वमिति भावः । साध्यतया प्रकृतेति - पूर्वाधिकरणे साध्यतया प्रकृतेत्यर्थः । साक्षादेव ज्ञानस्वरूपत्वसाधकत्वभावादिति - इदमुपलक्षणम्, परम्परयाऽपि साधकत्वं नास्ति, न ह्रनुत्पत्त्युपपादकस्य ब्राहृानन्यत्वस्य चैतन्यस्वरूपत्व-

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

साधकत्वमस्तीति एतावतानुत्पत्तेः परम्परया उपयोगेऽस्तीत्यपि द्रष्टव्यम् । तस्य ज्ञानस्वरूपत्वञ्चेति - ब्राहृणो ज्ञानस्वरूपत्वञ्चे-त्यर्थः । परमसाध्येति - जीवचैतन्यस्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यर्थः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्तम् अनुत्प-त्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्राहृानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनु-च्छित्तिधर्मेत्यत्र बहुब्राीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन परामर्शे तासामेव श्रुतीनाम् उत्क्रान्तिसूत्रेऽप्यनुवृत्तौ - उत्क्रान्तिगत्यागतीनाम्

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

श्रुतिभ्य इत्यस्यार्थस्य सम्भवाददोषः; तथापि ताभ्य इत्यस्य विशेष्यतया श्रुतिभ्य इत्याध्याहारोऽप्यवश्यापेक्षितः, अतः इहापि -ताभ्यः श्रुतिभ्यः इति पदद्वयाध्याहारादिति भावः । कारकव्यापारवैयथ्र्यमिति - चक्षुरादिव्यापारजीवचैतन्य-स्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यर्थः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्तम् अनुत्पत्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्राहृानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमिति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनुच्छित्तिधर्मेत्यत्र बहुव्रीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन वैयथ्र्यमिति भावः । तदा-श्रितेष्विति - तदाश्रयो मुख्यः प्राणः, तदाश्रिता इतरे प्राणा इति भावः । सङ्घातरूपस्य इति - उपाधेः सङ्घातरूप इत्यर्थः ।

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

सुषुप्तिप्रलययोरप्रबोधेनेति - सुषुप्तिप्रलययोरन्तःकरणादेः लीनत्वादित्यर्थः । आत्मेन्द्रियविषयसन्निधानान्नित्यमुपलब्धिरिति - आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्यते, अत असत्यपि हेतुसमवधाने फलाभावः नित्यमेवानुपलब्धिः प्रसज्येत, अत आत्मेन्द्रियविषयसन्निधाने सत्यपि कादाचित्कोपलम्भाभावस्य कारणव्यतिरेकप्रयोज्यत्वात्,

2.3.33

 

कारणान्तरसमवधाने कारणव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगिता अन्तःकरणं स्वीकार्यमिति भावः । अन्यतरनियमो वेऽन्यथेति सूत्रखण्डं व्याचष्टे । आत्मनीन्द्रियेऽपि वेति ।। ।। इति ज्ञाधिकरणम् ।।

2.3.33

 

सेतुं जन्तुमितिवदिति - औणादिके तुमुन्प्रत्ययान्तः "य एवं वेति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।।' इति चेदिति गीतावचनादिति भावः । भाष्ये-"शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्स्वयं प्रयोगस्स्या'-दिति जैमिनिसूत्रम्, अस्यार्थः यस्मात्-शास्त्रफलं स्वर्गादिकं प्रयोक्तरि भवति "स्वर्गकामो यजेत' इति शास्त्रप्रामाण्यात्, तस्मात्

2.3.37

 

स्वयं प्रयोगे कत्र्ता स्यादिति ।। । ।। भाष्ये- स यथा सहाराजेति प्रकृत्येति, "स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत' इति स्वप्नविषया श्रुतिः प्राणान् गृहीत्वा जागरितस्थानेभ्य उपसंह्मत्य स्वे शरीरे यथेष्टं सञ्चरतीत्यर्थः । शरीरप्रेरणे चेति - शरीरे ग्रथष्टसञ्चारे शरीरप्रेरणमपि सिद्धमिति भावः ।। । ।।

2.3.39

 

त्वन्मते बुद्धयुपधानात्पूर्वमिति - स्फटिकलौहित्यस्य जपाकुसुमसन्निधानोपाधिनिबन्धनत्वं जपाकुसुमसन्निधानात् प्राक् स्फ- टिके सत्यापि लौहित्याभावदर्शनात् उपपद्यते, सत्यपि जीवेऽन्तःकरणोपाधिसन्निधानात् प्राक् यदि कत्र्तत्वन्नोपलम्येत, तदा-ऽन्तःकरणस्य जीवगतकत्र्तत्वोपाधित्वं वक्तुं शक्यते, न च तथास्तीत्यर्थः । विज्ञानशब्दस्य बुद्धिमात्रविषयत्वनिर्बन्धश्चेति - यस्त्वयं व्यपदेशो दर्शितः "विज्ञानं यज्ञं तनुते' इति स हि बुद्धेरेव कत्र्तत्वं ज्ञापयति । विज्ञानशब्दस्य तत्र प्रसिद्धत्वादिति "यथा च तक्षोभयथा' इति सूत्रे यध्द्याख्यानं तदनुपपन्नमित्यर्थः । परिहत्र्तव्याभावमेवोपपादयति । हितबुध्द्यैव सर्वं चेतनः करोतीति - नाम्नि विवाद इत्युक्तमिति । यत् करणभिन्नं कत्र्ततया त्वयाऽन्तःकरणमित्यभिलप्यत इति तदेव मया जीव इत्यभिलप्यत इत्यर्थः । चित्तमनसोरिवेति - यथा प्राप्तकालानुरूपबोधरूपस्य चेतयितृत्वलक्षणस्य चित्ताख्यस्य मनोवृत्तिविशेषस्य मनसश्च प्रकृतिविकृतिभावोपदेशो नान्ति, एवं बुद्धेः मनोवृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो नास्ति, एवं बुद्धेः मनो-वृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिरेव वाहङ्कार इति मनोबुध्द्यहङ्काराणां प्रकृतिविकृतिभावापदेश इति भावः । अतः प्रकृतेरन्यत्वेन समाधिविधानमेव विवक्षितमिति - यद्यपि भोक्तृत्वशून्यायाः प्रकृतेः कमर्फलभोक्तृत्वानुसन्धानेन यागादिप्रवृत्तिवत् प्रकृति-

2.3.41

 

भिन्नत्वसमाधावपि न दोषः तथापि प्रकृतिकत्र्तृकस्य प्रकृतेरहमन्योऽस्मीति समाधेः भ्रान्तिरूपतया मोक्षहेतुत्वं न स्यादिति भावः । स्त्रक्चन्दनाद्युपयोग इति - स्त्रक्चन्दनादिधारण इत्यर्थः ।। ।। इति कत्र्रधिकरणम् ।।

2.3.41

 

गुणत्रयोद्भवाभिभवविशेषवासनाविशेषविषयसन्निधीनां रुचिविशेषहेतुत्वं क्रमेणोपपादयति । तथाहीत्यादिना - वस्तुस्वभाव-विशेषरूपेति । वस्तुसन्निधि विशेषरूपत्वेत्यर्थः ।। इति परयत्ताधिकरणम् ।। । ।।

2.3.42

 

तत्र शरीरवाचिशब्दस्येति - श्रुतिविप्रतिपत्त्या शरीरित्वमेवाक्षिप्य समाधीयत इति भावः । भाष्ये-न प्रतितिष्ठतीति, अनन्यत्वाधि-कत्वयोः परस्परविरुद्धयोरविरोधस्य अंशांशिभावेनैव समाधेयत्वादिति भावः, अपृक्सिद्धप्रकारत्वमेव ह्रंशत्वं; तत्र पृथक्सिद्धत्वेन-नन्यत्वसमर्थनं, प्रकारत्वेन भेदसमर्थनम्, अपृथक्सिद्धत्वप्रकारत्वाभ्याम् मिलिताभ्याम् उभयव्यपदेशमुख्यत्वसमर्थनमित्यर्थः ।

2.3.42

 

प्रभाप्रभावतोरिवापृथक्सिद्धांशांशित्वनिर्णयेनेति - यद्यपि तदनन्यत्वमिति सूत्रे समर्थनीयमनन्यत्वं कारणावस्थस्य कार्याव- स्थस्य चाभेदं, न तु जगद्व्रहृणोरंशांशित्वरूपं; तथापि सूक्ष्मचिदचिच्छररिकेण स्थूलचिदचिच्छरीरकस्यानन्यत्व स्य समर्थनीयतया अंशत्वरूपशरीरत्वं जगतः समर्थनीयम्, तत्र च चिदंशस्यांशत्वमिह साध्यते, अचिदंशस्यांशत्वन्तु अहिकुण्डलाधिकरणे साध्यते इति दृष्टव्यम् । भाष्ये "ब्राहृदाशा ब्राहृदासा ब्राहृेमे कितवा' इति, दासाः- धीवराः, कितवाः- द्यूतकृतः । उत्कृष्टैः सामानाधिकरण्य इति - श्रुताध्ययनसम्पन्नः साक्षाद्विष्णुरित्युक्ते स्तुतिपरत्वनुपपद्यते, निकृष्टसामानाधिकरण्यं तु न ब्राहृणः स्तुतये

2.3.44

 

भवति, विरुद्धत्वात्, नापि दासादीनां स्तुतये, तेषां स्तुत्यनर्हत्वात्, नापि ब्राहृणो निन्दायै-ब्राहृणो निन्द्यत्वाभावात्, नापि दासादी-नां निन्दायै वा-असम्भवात्, तस्माद्व्रहृणः दासादिसामानाधिकरण्यमभेदस्य तात्त्विकत्वमेव द्योतयतीत्यर्थः । भाष्ये-कुर्वाणेन भ्रमि-तव्यमिति, कुर्वाणत्वेन भ्रमितव्यम् कुर्वाणमिव ब्राहृ भ्राम्यति, नोपदिश्यत इति पय्र्यवसितोर्थः । शङ्कते - जीवब्राहृणोरिति ।। । ।।

2.3.45

 

भाष्ये-मन्त्रे सूत्रेऽप्यंश सति एकवचनमिति, मन्त्रे सूत्रेऽपि पार्दोश इत्येकवचनमित्यर्थः । पराकत्वेन च भेदो गृह्रत इति - इद-मुपलक्षणं परात्मसु भेदग्रहसिध्द्यर्थम् "शक्तयः सवर्भावानामचिन्त्यज्ञानगोचराः' इत्युक्ततीत्या शकत्यादिलक्षणः परस्परभेदः प्रत्य-क्पराकत्वातिरिक्तोऽप्यस्तीति द्रष्टव्यम् ।। । ।। भाष्ये-एकस्त्वेकदेशत्वं ह्रंशत्वमिति, यद्येवं विशेष्यस्यापि परमात्मर्नोऽशत्वप्रसङ्गः, विशिष्टवस्त्वेकदेशत्वाविशेषात्, ततश्च जीवपरयोरविशेषत्वप्रसङ्गः, किञ्च ममैवांशो जीवलोके जीवभूतः' इति विशेष्यभूतपरमात्मानं प्रत्येकदेशत्वं जीवस्य प्रतीयते, न तु विशिष्टं प्रति, ममेत्यस्य विशिष्टपरत्वे प्रमाणाभावात्, इश्वरांशत्वं हि स्वरसतः प्रतीयत इति वक्ष्यमाणत्वाच्च, विशिष्टे विशेषणमंश इति लोकप्रतिसिद्धतयाऽयमेवांश इत्युपदेशवैयथ्यात्, तदर्थं समानाधिकरणत्वस्यापि व्यर्थत्वात्; किञ्च "जीवभूतः सनातनः' इति विशिष्टजीर्वेऽशत्वकीत्र्तनं व्यर्थम् । ईदृशांशत्वस्य चिदचित्साधारण्यात्, अत एवाचितः पार्थक्येनांशत्वसमर्थनपर-महिकुण्डलाधिकरणमपि व्यर्थमिति चेत्-न, अंशत्वस्य नियाम्यशेषत्वलक्षणशरीररूपत्वस्य इहाधिकरणे समर्थनीयत्वात्, वक्षयति च विशेष्यस्य प्रधानतयांशित्वोपपत्तिरिति - अहिकुण्डलाधिकरणेऽचिर्तोशत्वसमर्थनेऽपि न

2.3.47

 

तेनाऽस्य गतार्थता, भिन्नत्वाभिन्नत्वांशत्वप्रतिपादकश्रुतिविरोधसमाधानप्रकारत्वादस्याधिकरणस्य, अतो मुख्भेदान्न गतार्थता, अत एव "अवस्थितेरिति काशकृत्स्न' इत्यनेनापि न गतार्थता, एकवस्त्वेकदेशत्वं ह्रंशत्वमित्यस्याष्यत्रैव तात्पय्र्यम्, यद्यपि अपृथक्सिद्धत्वलक्षणमठशत्वं समथ्र्यते, तर्हि अपृथक्सिद्धविशेषणभूतचिदचिद्गतदोषाणां ब्राहृणि परस्परं चाप्रसक्तेः तत्परिहारा-र्थानां "प्रकाशादिवत्तु नैवं परः' "अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्' इत्यादीनामानर्थक्यमिति चेन्न, अंशपदश्रवणमा- त्रात् विशेष्यैकदेशत्वरूपांशत्वमिह विवक्षितमिति भ्रान्त्या प्रवृत्तां शङ्कामभिमतांशत्वप्रदर्शनेन निराकरोतीत्युक्तौ दोषाभावात् । भानुर्मानुमानिति अत्र केचित् यथा घटाश्रये घटे प्रयुक्तौ घटघटवच्छब्दौ न तुल्यार्थौ, एवं प्रभारूपभानुमन्तराश्रये भानौ प्रयुज्यमानौ

2.3.52

 

भानुभानुमच्छब्दौ न तुल्यार्थौ, यदि च भानुशब्दः प्रभावचन एव सन् पर्यवसानवृत्त्या जातिगुणादिशब्दवत्प्रभावद्वचनस्स्यात्, तर्हि मत्वर्थप्रत्ययनिरपेक्षसामानाधिकरण्यं स्यात्, तस्माज्जात्यादिवाचकाः शब्दा उदाहाथ्र्या इति वदन्दि । परे त्वित्यादि - जीवेश्वरसम्बन्धनिरूपणमिति । किं स्वामिभृत्यवत् सम्बन्धः? उताग्निविस्फुलङ्गादिवत् इति निरूपणमित्यर्थः । स्वात्मानं प्रत्यंशत्वानुपपत्तेरिति - विशिष्टस्य विशिष्टं प्रत्यंशत्वानुपपत्तेरित्यर्थः । वस्तुनिस्वतोंऽशभेदाभावेनेति - आकाशस्य तु स्वतः

2.3.52

 

स्वांशत्वादुपहितानुपहितभेद उपपद्यत इति भावः । अयुक्तावस्थायामिति - योगराहित्यदशायामित्यर्थः । अनन्वयस्य वक्तुमश-क्यत्वाच्चेति - नियोज्यत्वानन्वयस्य वक्तुमशक्यत्वाच्चेत्यर्थः । परिच्छन्नत्वे सति अनुपलभ्यमानत्वमणुत्वमिति - नत्वणुपरि-माणत्वमिति भावः । अन्तःकरणोपाधिकत्वानुपपत्तेरिति - इदमुपलक्षणम् "प्रदीपवदावेशस्तथाहि दर्शयति, इत्यधिकरणे काय-व्यूहस्थलेऽन्तःकरणभेदमभ्युपगम्यान्तःकरणभेदेऽपि प्रतिसन्धानस्याभ्युपेतत्वादिति द्रष्टव्यम् । गोमहिषहेमाद्यंशित्वाभावादिति

2.3.52

 

ननु भूतलस्याधारत्वादिलक्षणप्राधान्ये विवक्षितेऽपि भूतलस्य गोमहिषादिकमंश इति व्यवहारो न दृश्यते, देवदत्तादेः दण्डकुण्डला-देश्च विशेष्यविशेषणभावलक्षणप्राधान्यविवक्षायामपि देवदत्तस्य दण्डकुण्डलादिकमंश इति व्यवहारो न दृश्यते, द्रव्यस्वामिन्यंशि-त्वव्यवहारास्तु समुदायापेक्षया विभुत्वद्रव्यस्यांशेनैतत्स्वामित्वात् देवदात्तादेः, न तु स्वामित्वादिलक्षणप्रामाण्यप्राधान्यमात्रात्, तथा सति क्रयदानादिलब्धगोमहिष्यादिस्वामिनि अंशित्वव्यहारप्रसङ्गादिति चेन्न, अत्रांशशब्दस्य शरीरमथर् इति प्रागेवोक्तत्वा-ददोषात्, केचित्तु पटारम्भकतन्तुषु घटावच्छिन्नाकाशे यङ्कच्छिन्नपाषाणशकलादौ सर्वत्रांशशब्दव्यवहारेऽनुगतं प्रवृत्तिनिमितं तदे-कदेशत्वमेव, अतः चिदचिद्विशिष्टस्यैव ब्राहृशब्दार्थतया चिदचितोः तदेकदेशतया तदंशत्वमुपपद्यते, केवलविशेष्यमीश्वरं प्रति

2.3.52

 

नांशत्वम्, "ममैवांशः' इत्यादावपि विशिष्टाभिप्रायेणैवांशत्वम्, न चैवमीश्वरस्यापि जीववदंशत्वप्रसङ्गः, अल्पेकदेशेंऽशत्वव्य-वहारदर्शनेन ब्राहृणोऽधिकत्वेनांशत्वव्यवहाराप्रसक्तेरिति वदन्ति ।।

इत्यंशाधिकरणम् ।। 7 ।।



3.4.1

 

किमाचारदर्शनादिलिङ्गानुगृहीतमिति लिङ्गशब्दः प्रमाणमात्रपरः, आचारदर्शनादिरूपशेषत्वग्राहकप्रमाणानुगृहीतमित्यर्थः, एवमुत्तरत्रापि लिङ्गशब्दः प्रमाणमात्रपरो द्रष्टव्यः, इतरथा "तच्छØते'रिति सूत्रोक्ततृतीयाश्रुतेरसङ्गृहीतत्वप्रसङ्गात् । केचित्तु-"यदेव विद्यया करोती'त्यादिरपि वर्तमाननिर्देशतया अन्याथर्दर्शनरूपलिङ्गमेव, न चैवं सति "तच्छØते'रित्यस्य लिङ्गमिदम्, प्राप्तिरुच्यताम्' इत्यवतारिकाभाष्यतट्टीकाग्रन्थविरोय इति वाच्यम्, अस्याभ्युपेत्यवादत्वादिति वर्णयन्ति । अनैकान्तिक-त्वाभाव इति - आचारदर्शनादीनां विद्यायाः कर्मशेषत्वानन्यथासिद्धत्वसाधकत्व इत्यर्थः, नन्वाचारदर्शनादीना-मनैकान्तिकत्वाभावे विद्या क्रत्व-र्थेत्येतावतैव फलफलिभावस्य परिपूर्णतया तदनुगृहीतसामानाधिकरण्येनेत्यादिरुत्तर-ग्रन्थसन्धर्भो व्यर्थ., शेषत्वसिद्धयुपजीव-

3.4.2

 

भावावगमस्य कथं शेषत्वसाधकत्वम्, अन्योन्याश्रयप्रसङ्गात्, तथाहि "आचारदर्शनादित्यादिपूर्वपक्षसूत्रपञ्चकोक्तन्यायेन विद्यायाः कर्मशेषत्वे सिद्धे पार्वणहोमयोः कालार्भेज्यात्वे आरादुपकारकत्वप्रसङ्गात् सामवायिकत्वलिप्सयाकर्मसमुदाये-ज्यात्वाङ्गीकारवत् सामवायिकाङ्गत्वे सम्भवति आरादुपकारकाङ्गत्वस्याऽन्याय्यत्वादिति न्यायेन कर्तृसंस्कारमुखेन शेषत्वस्योचितत्वात्, "आत्मा द्रष्टव्यमः' "आत्मानमुपासीत' इति द्वितीयातव्यप्रत्ययादिना आत्मसंस्कारत्वावगमात्, आत्मनः कमर्सु कर्तृतया उपयोगसम्भवे सक्तुन्यायेन विनियोगस्याऽयुक्तत्वात्, कर्तृसंस्कारमुखेन उपासनस्यक्रतुशेषत्वं न्याय्यम्, अतः कर्मक्रर्तुः वेदान्तविहितोपासनकर्मभूतब्राहृाभिन्नत्वम्, अतश्च "तत्त्वमसि' इति सामानाधिकरण्यनिर्देशो-ऽपि अनुगृहीतो भवतीत्येवं शेषत्वसिद्धयुपजीवित्वात् जीप्रहृाभेदस्य कथं तस्य शेषित्वोपपादककोटौ निवेशनमिति चेत्-अत्राहुः, नह्राचारदर्शनादीनां लिङ्गत्वसद्भावमात्रे विद्यायाः क्रत्वर्थत्वसिद्धिः, लिङ्गानामनुग्राह्रप्रमाणसापेक्षत्वात्, अनुग्राह्रस्य च "आत्मानमुपासीत्' इत्यादिवाक्यादन्यस्याभावात्, तत्र चात्मानमित्यस्य कर्तृजीवतिरिक्तविषयत्ववाक्य-विधया क्रत्वर्थत्वबोधकासम्भवेन तस्य वाक्यस्य लिङ्गानुग्राह्रवाक्यविधाया क्रत्वर्थत्वबोधकत्वसिद्धेः जीवस्य ब्राहृाभेदमन्तरेणाऽसम्भवात् उत्तरग्रन्थस्य साफल्यादिति । केचितु- सत्यं शेषत्वोपपाद्य एव जीवब्राहृभेदः, तथापि न तत्साधितेन जीवब्राहृाभेदेन पुनस्तदेव साध्यते, येनान्योन्याश्रयः स्यात्, किन्तु शेषत्वसाधितेन जीवब्राहृाभेदेन कमर्कर्तृ-संस्कारमुखेन शेषत्वं साध्यते, तावत्पर्यन्तो हि पूर्वपक्षः, न शेषत्वमात्रपर्यवसितः, "शेषत्वात्पुरुषार्तवातः' इति सूत्रेऽपि कर्तृसंस्कारद्वारा शेषत्वं विवक्षितमिति भाष्याभिप्रायात् अस्याधिकरणस्य जीवब्राहृाभेदप्रतिपादनपर्यन्ततया तथैव सूत्राभिप्राग्रस्य वक्तव्यत्वादिति वदन्ति । प्रतिबन्धनिवृविद्वारकमिति - "अमृत इह भवती'ति निर्दाषत्वश्रवणादित्यर्थः । उभयमप्यभिहितमिति - प्रतिबन्धनिवअविरिष्टप्राप्तिश्चेत्यर्थः ।। । ।। अधीत्य स्त्रास्यश्नि#ेति ज्ञानमपि कमर्शेषत्वेनाऽवगत-मिति - इदमाचारदर्शनादिति सूत्रपञ्चकोक्तस्योपलक्षणम्, अत्रापि भिन्नकमः, क्रमशेषत्वेनाऽप्यवगतमित्यर्थः । तस्स्वरूपप्रतिपादनपरमिति - तत्स्वरूपोपासनप्रतिपादनपरमित्यर्थः । पृथक्फलसाधनत्वान्न कर्माङ्गस्वमिति - यद्यपि क्रत्वर्थस्य श्रुतिलिङ्गादिमिरवगत्वादेव नास्याः शङ्काया अवतारः, तथापि विद्यायाः क्रत्वर्थत्वे "आत्मानमुपासीत' इत्यादिवाक्यमपि प्रमाणयितुमियं शङ्काऽवतारितेति द्रष्टव्यम् । यद्वा

3.4.2

 

तेषां लिङ्गमात्रत्वेन प्रापकप्रमाणत्वासमभवादित्यत्र तात्पर्यमिति द्रष्टव्यम् । भाष्ये-ननु च कर्तृसंस्कारमुखेनेत्यादिशङ्का-परिहारौ नोपपद्येते, यदि हि "यस्य पर्णमयी जुहूभर्वति' इत्यादिवत् "आत्मानमुपासीत' इत्यादिवाक्येन क्रत्वर्थत्वं बोध्यतेत्, तदा आत्मनो जुह्वादिवत् क्रत्वव्यभिचरिततया क्रतूपस्थापनसमर्थत्वात् जुहूपदस्य क्रत्वपूर्वीयजुहूपलक्षकत्ववत् आत्मशब्दस्य क्रत्वपूर्वलक्षकत्वात् क्रत्वथत्र्वमित्येवं क्रत्वर्थत्वे वाक्यं प्रमाणीकृतं स्यात्, तदा चेमौ शङ्कापरिहारौ युज्येते, न हि तथा प्राग्वाक्यं प्रमाणतयोपपादितम्, अपि तु आचारदर्शनादिलिङ्गेन "यदेव विद्यये'ति श्रुत्या च क्रतुशेषत्वमव-मम्यते, "आत्मा द्रष्टव्यः' इत्यात्मशेषता चावगम्यते, ततश्चोभयसामञ्जस्याय प्रोक्षणस्य

प्रकरणावगतक्रत्वङ्गभावस्य द्वितीयाश्रुत्याऽवगतव्रीहिशेषभावनिर्वाहाय व्रीहिसंस्कारद्वारा क्रत्वर्थत्ववत् उपासनस्यापि कर्तृसंस्कारद्वारा कर्मार्थत्वं निर्वोऽव्यमित्यस्योपक्षिप्तत्वेन "आत्मानमुपासीत' इत्यस्य वाक्यविधया कर्मार्थत्वपयन्र्तप्रतिपादकत्वस्याऽनुपक्षिप्त-त्वादिति केषाचिन्मन्दाशङ्का पराकृता । अत्र वाक्यस्यापि "अतः कर्तुः संस्कारद्वारेण विद्यायाः क्रतुशेषत्व'मिति भाष्ये प्रमाणीकरणात् । भाष्ये-द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्-इति, "यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' "यदाङ्क्ते चक्षुरेव भ्रातृवयस्य वअङ्क्ते यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानाय भ्रातृव्याभिभूत्यै' इत्यादिविधिविधेयेषु वाक्यप्रकरणावगतक्रत्वङ्गभावेषु पर्णतादिद्रव्येषु अञ्चनादिसंस्कारेषु प्रयाजादिकमर्सु च फलश्रवणमर्थवाद इति पूर्वतन्त्रे निर्णीतम् । न ह्रन्यशेषमन्यशेषं भवतीति - लौकिकवैदिक-

3.4.4

 

कर्मसाधारणस्याऽऽत्मनो वैदिककर्माव्यभिचरितत्वं न सम्भवतीत्यर्थः । तदसाधारणमेव हि तदङ्गमिति - तत्प्रत्यभि-ज्ञापकमित्यर्थः ।। । ।। गुणमुख्ययोर्विरोध इति अङ्गप्रधानयोः दीक्षणीयासोमयोः "य इष्टया पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेत्' इत्येकस्मिन् पर्वकाले प्रसक्तौ प्रधानस्यैव पर्वकालकर्तव्यत्वम्, न दीक्षणीयायाः-इति पूर्वतन्त्रे विर्णीतत्वात् सोमयागेषु सुत्यप्रयोगस्य अहोरात्रव्यापित्वात् विद्यायाश्चाऽन्वहं शीलनीयतया विरोध-सद्भावात् विद्यायाः प्रधानत्वे तत्त्यगेन कर्मणामनुष्ठानं नोपपद्यत इत्यर्थः । ननु विद्ययेति तृतीयाश्रुतेः न शेषत्वप्रमाणत्वम्, तृतीयया साधनत्वमात्रप्रतिपादनेऽपि समाहितसाधनत्वरूपशेषत्वाप्रतिपादनादित्याशङ्कय श्रुतिमात्रस्य तत्राप्रमाणत्वे-ऽपि श्रुतिलिङ्गादिसहितचोदनायाः प्रमाणत्वं

3.4.6

 

सम्भवति "कत्र्तुस्समीहितं येन सिद्धयत्यङ्गं तदुच्यते । प्रमाणञ्च विधिस्तत्र श्रुतिलिङ्गादिसंयुतः' इत्यभियुक्तोक्तेरित्यभि-प्रयन्नाह - आगमप्रमाणस्य श्रुतिलिङ्गादयोऽनुग्राहका इति । श्रुतिलिङ्गाद्यनुगृहीतस्य विधेः प्रमाणत्वमित्यर्थः ।। । ।। नेयं श्रुतिरिति - विद्यापदश्रुतिरित्यर्थः, न तु प्रकृता तृतीया श्रुतिरिति भ्रमितव्यम् । विद्यामात्रविषया हीयं श्रुतिरिति - य एव वन्हिमान्देशः स एव धूमवान् इतिवत्, यदेवेति सर्वनामावधारणाभ्यां हि व्याप्तिरवगम्यते, यदेव कर्म करोति यद्यत्कर्म करोतीत्यर्थः, ततश्च कर्ममात्रे विद्या साधनत्वेन विधीयते, ततश्च विद्यायाः सर्वकर्माङ्गत्वं विद्याशब्दस्योद्गीथविद्यामात्र-विषयत्वेनाऽवकल्पत इति विद्याशब्दस्य सर्वविद्याविषयकत्वमेव वक्तव्यमिति, अतोऽपि सर्वविषयत्वं विद्याशब्दस्यति द्रष्टव्यम् ।। । ।। "आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाऽभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्याय-मधीयानो धार्मिकान्विदधत' इति छान्दोग्ये श्रूतये, आचार्यकुलवासी सन् वेदमधीत्य यथाविधानं-स्मृत्युक्तनियमैयुक्त इत्यर्थः । स्मृत्युक्तनियमेष्वपि गुरुशुश्रूषायाः प्राधान्यमुच्यते-गुरोः कर्मातिशेषेणेति, कर्मानवरुद्धकालेन वेदमधीत्येते-यन्वयः, अभिसमावृत्य-गुरुकुलान्निवृत्येत्यर्थः, कुटुम्बे-गार्हस्थ्याश्रमे स्थित्वा, गार्हरथ्येऽप्यविस्मरणार्थं वेदाभ्यासंकुर्वन्नेव धार्मिकान्विदधत्-पुतष्यि#ादीन् धर्मनिरतान् कुर्वन् धर्मोपयुक्तानर्थान् सम्पादयन्निति वा, एवमर्थज्ञानपर्यन्ताथ्ययनवतः कर्मसु निरतेर्विधानात् अर्थज्ञानं कर्माङ्गमित्येवं परे वर्णयन्ति । आचार्यास्तु "भुकत्वा सानन्दमास्ते' इत्यादौ सान-न्दमित्यास्यान्वेतुं योग्यत्वेऽपि न पूर्वनिर्दि#ेष्टेन वत्वाप्रत्ययान्तेनाऽन्वयः, अपि तु उतरेणास्त इत्यनेनैवेत्येवं दर्शनात्, यथाविधानं गुरोः कर्मातिशेषेणत्यस्य न पूर्वेणादीत्येत्यनेनाऽन्वयः, व्यवहितान्वयदोषप्रसङ्गश्च, अतो "ब्राहृचारी वेदमधीत्य उपेत्याऽऽह्मत्य गुरवेऽनुज्ञातो दारान्कुर्वीत विद्यान्ते गुरोरर्थेन निमन्त्र्य कृत्वाऽनुज्ञातस्य वा स्नान'मित्यादि-स्मृत्यनुसारात् "आचार्याय प्रियं धनमाह्मत्य प्रजातन्तुं मा व्यवच्छेत्सीः' इत्यादिश्रुत्यनुसाराच्च गुरोर्यथाविधानमाचार्यस्य नियमनमनतिलङ्घय तस्य कर्तव्यं कर्माति-शेषेणअशेषेणाऽभिसामावृत्य निर्वत्यर् इत्येवार्थो वक्तव्य इत्यभिप्रेत्य निश्शेष-मिति व्याचक्रुः, अतिशेषेणेत्यत्र अतिरर्थाभावे वर्तते, अतिमर्यादोऽमर्याद इत्यर्थदर्शनात् । न च "गुरोः कर्मातिशेषेण जपे'दिति स्मृत्यैकरूप्यात्, तद्वदेव कर्मातिशेषशब्दस्यापि कर्मातिशेषशब्दस्यापि कर्मातिशिष्टकालपरत्वं वक्तव्यमिति वाच्यम्, शेषातिशेषशब्दयोः भिन्नार्थत्वेन तत्प्रत्यभिज्ञानभावात् तस्य

3.4.8

 

नैष्ठिकब्राहृचारिविषयत्वात् अस्मदुक्तार्थस्य स्मृत्यनुगुणाचार्योक्तार्थत्वमेव वक्तुं युक्तम् । अविवक्षितार्थत्वादीति - तात्पर्यासिद्धयादिदोषपरिहारार्थमित्यर्थः, अर्थावबोधसुद्दिश्य शब्दोच्चारणे हि लोके वाक्यानां तात्पर्यमवगम्य तन्निर्वाहाय मुख्यार्थासम्भवे लक्षणादिकं कल्प्यते, नतूच्चारणमात्रेण, अत एव गौरश्वः पुरुषो हस्तीति पादानामुच्चारणमात्रेण लक्षणा न कल्प्यते, यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते, तदेव तन्निर्वाहार्थम्, अयं गौर्वलवर्दः अश्वो वेगवान् पुरुषो नियतचेष्टः हस्ती महावलः- इत्यश्वादिपदानां लक्षराध्याहारादिकं कल्प्यते, एवञ्च वेदवाक्यानामर्थावबोध-मुद्दिश्य उच्चारणाभेवे तात्पर्यासिद्धया तन्निर्वाहार्थं लक्षणागौणवृत्यध्याहारव्यवधारणकल्पनोच्छेददोषप्रसङ्गादवश्यं वेदेऽ-प्यर्थावबोधमुद्दिश्य उच्चारणस्य वक्तव्यत्वात् वेदे च लोक इव रागप्राप्तस्यार्थावबोधोद्देश्यकोच्चारणस्या भावात् विधिप्रयुक्त-मेव तदाश्रयणीयम्, विधिश्चाध्ययनविधेरन्यो न दृश्यत इति तेनैवाऽर्थावबोधमुद्दिश्य गुरुमुखोच्चारणानूञ्चारणरूपमध्ययनं विधीयत इत्यकामेनापि स्वीकार्यम्, तत्समानार्थत्वात् "आचा-र्यकुलद्वेदमधीत्य' इत्यत्रापि तथोक्तमिति भावः । स्नात्वा जुहुयादिति - वत्वाप्रस्ययेन सति सम्भवे कर्तृकारकैक्यावगमात् तस्य च प्रयोगैक्य एव सत्वात् प्रयोगैक्यस्य चाङ्गाङ्गि-भावमन्तरेणानुपपत्तेः, कालाथर्सायोगस्य सति मत्यन्तरे अयुक्तत्वाच्चेति भावः । ननु अङ्गाङ्गिभावे सत्यपि औपनिषद-ब्राहृाविद्याया एवाङ्गित्वे किं न स्यादित्यत आह - न हि क्रतुज्ञानस्येति । पूर्वभागार्थज्ञान-तुल्यत्वादौपनिषदार्थ-ज्ञानस्येत्यर्थः ।। । ।। ननु उपात्तेषु वेदान्तवाक्येषु "यस्सर्वज्ञः' इत्यादीनां स्वरूपोपदेशपराणां सत्वेन वेद-नोपदेश-परेष्विति भाष्ये, कथमुच्यत इत्यत आह - उपासनवाक्योपमोगित्वादित्यादिना ।। । ।।

3.4.9

 

अङ्गित्वे ह्रननुष्ठानं नोपपद्यत इति - ननु अङ्गत्वेप्यननुष्ठानं नोपपद्यत एव, यदिचानभिसंहितफलकर्मण एवाङ्गत्वं न' तस्या-ऽनुष्ठानमिति, तर्हि तस्यवाङ्गित्वमप्यस्तु इति चेत्, तथा पूर्वपक्षिणोऽनभिप्रेतत्वादिति भावः ।। । ।।

3.4.11

 

भाष्ये-प्रस्तुतोद्गीथविशेषनिष्ठत्वादिति, विशेष्यत इति विशेषः, उद्गीथशब्दः उद्गीथविद्यापरः, ततश्च यच्छब्दस्य उद्गीथविद्याक्रियमाणसोमयागनिष्ठत्वादित्यर्थः, केचित्तु उद्गीथाख्यकर्मपरत्वेअपि न दोषः, प्रबलकर्मान्तराप्रतिबद्धफल-जनकत्वरूपं वीर्यवत्तरत्वमुद्गीथेन सम्भवति, उद्गीथस्याङ्गत्वेन फलजनकत्वाप्रसक्तेरिति वाच्यम्, करणानुग्रहस्यैवाङ्ग-कार्यत्वेन तादृशफले वीर्यक्तरवस्य प्रबलकर्मान्तराप्रतिबद्धस्य सम्भवादित्याहुः । एकपदसामथ्र्यं हि श्रुतिरिति - अत्रैकपद-मसहायंवाचि "अभिधातुं पदेऽन्यस्मिन् निरपेक्षो रवः श्रुतिः' इत्यभियुक्तोक्तेः स्वत एव निश्चयसमर्थत्वमिति यावत्, इयांस्तु विशेषः, समभिव्याह्मतपदान्तरसापेक्षत्वेन श्रुतित्वमित्यध्वरमीमांसकाः, सङ्कोचकाभावात् प्रापकप्रमाणान्तरनैरपेक्ष्यमपि श्रुतिकोटौ निविशत इत्याचार्याणामभिप्रायः, अत एवानुवादस्सन्निहितपरामर्शीति वाचोयुक्तिर्युक्तिमती, अनुवादस्याऽपि श्रुतिरूपत्वे सन्निध्यनुरोधेन सङ्कोचस्य क्लेशेन निर्वा-ह्रत्वात् । केचित्तु श्रुतिर्न सम्भवतीत्यर्थ इत्यस्य सति सम्भवे अनुवादस्य सन्निहितगामित्वात् प्रकृताप्रकृतग्राहिणी श्रुतिर्न सम्भवतीत्यर्थ इति व्याचक्षते ।। । ।।

3.4.12

 

अग्निशब्दस्य तावन्मात्रे प्रसिद्धिस्वारस्यादिति - जुह्यादिशब्दवत् क्रत्वपूर्वीयत्वस्यानादरणीयत्वात्, अयम्भावः, क्रत्व-पूर्वीयत्वं हि न शकत्या उपस्थाप्यम्, अपि तु लक्षणया, सा च मुख्यार्तानुपत्तौ सत्यामवकल्पते, "यस्य पर्णमयी जुहूर्भवति' इत्यत्र तु जुहशब्दस्य जुह्याकृतिमात्रे पर्यवसायित्वेन तस्याः पर्णतामन्तरेणापि सम्भवात् जुहूस्वरूपमात्र-पर्यवसितपर्णताया आनर्थक्यप्रसङ्गेन जुहूपदस्य क्रत्वपूर्वीयलक्षणाश्रयणेऽपि अग्निशब्दस्य "नक्तं गार्हपत्यमादधाति' इत्यादिवाक्यपर्यालोचनया संस्मारव्शि#ेषविशिष्टवचनतया तावन्मात्रपर्यवसितत्वेपि आनर्थक्यप्रसङ्गेन जुह्यादिवत् क्रत्वपूर्वीयलक्षणाया अनावश्यकतया क्रतुपर्यन्तत्वा-भावादित्यर्थः । शब्दस्वारस्यामिति - शब्दस्वारस्यमिति तव्यप्रत्यय-स्वारस्यमित्यर्थः,

तव्यप्रत्ययेन स्वाध्यायशब्दवाच्यवेदा-ख्याक्षरराशेः शोपित्वावगमादिति भावः । वेदमधीत्य स्नास्यन्निति - यद्यपि समावर्तनाङ्गकलापस्यैव अध्ययनानन्तर्थं शब्दार्थः, न तु समावर्तनस्य, यदि कत्वाप्रत्ययेन स्नानस्या-ऽध्ययनानन्तर्थं प्रतिपिदापयिषितं स्यात्, तदा पकत्वा भोक्ष्यमाणः स्नाति-इत्यादौ स्नास्य पाकपूर्वभावित्ववत् गोष्ठप्रवेशादिनामध्ययनप्राग्भावित्वस्याऽपि प्रसङ्गात्, तथापि समावर्तनाङ्गानामानन्तर्थे समावर्तनस्याऽप्यानन्तर्यमिति भावः । स्वोपयोग्यर्थज्ञानस्येति - स्नानोपयोग्यर्तमानस्येत्यर्थः, न च तावन्मात्रस्यैवाऽवसरप्रदः स्यात्, नान्य-स्येति, वाच्यम्, तुल्यन्यायतया स्नानानन्तरमेव दारपरिग्रहस्य कर्तव्यत्वेन दारपरिग्रहमारभ्य चाग्निहोत्रादेर्नैरन्तर्येण अनुष्ठयतया तस्यप्यवसरप्रदत्वसम्भवादित्यर्थः, ननु समावर्तनदारपरिग्रहादेरप्यथज्र्ञानसाध्यतया तस्य च मीमांसामन्तरेण असाध्यत्वात्, अध्ययनशब्दस्य अर्थज्ञानपरत्वाभावे समावर्तनदारपरिग्रहादेरप्यनिष्पत्तिप्रसङ्गादित्यत आह - यावदर्थमानमिति । "न

3.4.13

 

शूद्राय मतिं दद्यात्' इत्यध्ययनस्यार्थज्ञानपर्यन्तत्वपक्षेऽपि "स्वाध्यायोऽध्येतव्यः' इत्यध्ययननियमस्य स्वशास्वामात्र-विषयतया स्वतीयेतरशास्वाविहिताङ्गजाते तदध्ययनविधिमन्तरेणैव तत्तदध्येतृभ्यो गृहीत्वानुष्ठानं युक्तमिति त्रैवणिर्केष्व-भ्युपेतत्वात्, शूद्रं प्रति सर्वासामपि शाखानां स्वीयेतरत्वात् तदध्ययनाभावेपि तदध्येतृभ्यो गृहीत्वा कर्मानुष्ठानं को वारयेत्, ननु शूद्रस्य क्रत्वनुष्ठानापेक्षितं ज्ञानं कार्त्स्न्#ेनाक्षेप्यम्, त्रैवर्णिकानान्तु स्वाशाखेतरशाखाविहिताङ्गमात्रविषय-मित्याक्षेपलाघवात् क्रतुविषयस्तानेवाऽधिकुर्वन्ति, न शूद्रमिति चेत्, एवं तर्हि यस्य कर्मणो यस्यां शाखायां विधानं "भूयस्त्वेनोभयश्रुति' इति न्यायेन प्रधानस्य्रापि विधानम्, शाखान्तरे तु किञ्चिदङ्गविधानम्, तत्र कर्मणि तच्छास्वा-ध्यायिनामेवाऽधिकारेः स्यात् ज्ञानाक्षेपलाघवात्, न तु शाखान्तराध्यायिनाम्, यस्य कर्मणः तदङगस्य कस्यचित् यस्यां शाखायां विधानं नास्ति, किन्तु शाखान्तर एव साङ्गस्य तस्य विधानम्, तत्र कमर्णि तच्छास्वाध्यायिनामधिकारो न स्यात्, शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कार्त्स्न्#ेनाऽऽक्षेप्यत्वात्, तस्मात् त्रैवर्णिकानामपि ज्ञानाक्षेपस्य सम्प्रतिपन्न-तया तद्वदेव शूद्रस्यापि कर्मानुष्ठानोपयोगिज्ञानाक्षेपसम्भवात् तत्तद्वेदविद्भयोऽवगत्य कर्मानुष्ठानमुपपद्यत एवेति अध्ययनस्य अथज्र्ञानपर्यन्तत्वे शूद्राधिकारस्य अनिवार्यतया "तस्माच्छूद्रो यज्ञेऽनववलृप्तः' इत्यादिनिषेधविधिरेव शरणी-करणीय इति भावः । अध्ययनशब्दवाच्यव्यतिरिक्तत्वाद्विद्याया इति - अध्ययनफलव्यतिरिक्तत्वात् विद्याया इत्यर्थः ।। । ।।

3.4.16

 

अर्थज्ञानदर्थान्तरत्वं कर्मेतिकर्तव्यताकत्वच्चेति - कर्माङ्गत्वानर्हवक्यार्थज्ञानादर्थान्तरभूतायाः कर्माङ्गत्वस्वभाववत्तया "कुर्वन्नेव' इति वाक्यस्य अङ्गभूतकर्मविषयत्वेनाऽप्युपपत्तिरस्तीत्युक्तमित्यर्थः ।। । ।। भाष्ये-येषां नोयमात्माऽयं लोकः- इति, लोक इव प्रत्यक्ष इत्यर्थः, एके-वजसनेयिन इत्यर्थः ।। । ।। नह्रङ्गेनाऽङ्गिन इति - नन्वेवं सति कर्मणो विद्याङ्गत्वमपि न स्यात्

3.4.19

 

अङ्गिना अङ्गोपमर्दस्याऽप्ययोगादिति चेन्न, येषां कर्मणां निवत्र्यत्वं तेषां विद्याङ्गत्वानभ्युपगमात्, न चैततत्परेणाऽपि कर्मभेदाभ्युपगमेन सुवचमिति वाच्यम्, जैमिनिना उपनिषदां जीवातिरिक्तब्राहृपरत्वमपह्नुत्य देहातिरिक्तात्मपरत्व-मभ्युपगम्य तद्वेदनं पारलौकिकसर्वकर्माङ्गमित्यङ्गीकृतत्वात्, तन्मते विद्यावितत्र्यकर्मणामपि पारगौकिकात्मवेदन-साध्यत्वाविशेषेण विद्यां प्रत्यप्यङ्गि-त्वस्य वक्तव्यत्वात्, अङ्गनाऽङ्गिन उपमर्दो न सम्भवतीति भावः ।। । ।। भाष्ये-प्रकृतं प्रणवेन ब्राहृोपासनं स्तूयते-इति, प्रकरिष्यमाणमित्यर्थः, "ओङ्कारेण सर्वा वाक् संतृण्णा ओङ्कार एवेदं सर्वम्'इत्युतरत्र प्रणवोपासनस्य विधित्सितत्वादिति भावः । भाष्ये-तेषामाश्रमाणामिति च्छेदः, ननु परामर्शेऽपि आश्रमा गम्यन्त एव, सत्यं गम्यन्त, स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः; न प्रत्यक्षया श्रुत्या, प्रत्यक्षश्रुतिविरोधे च "विरोधे त्वनपेक्ष्यं स्यात्' इति नयेन सिद्धम्, अथवा अन्धपङ्ग्वादिकर्मानधिकृतविषया स्यात्, ।

3.4.19

 

ननु गार्हस्थ्यस्यापि परामर्शमात्रम्, "यज्ञोऽध्ययनं दान'मिति, ततश्च तदपि न सिद्धयेदिति चेत्-सत्यम्, एवं गृहस्थं प्रत्येव सर्व-कर्मणां श्रुतिषु विधानात् श्रुतिप्रसिद्धमेव तदस्तित्वम् । भाष्ये-"येचेमेरण्ये' इति देवयानविधिपरत्वादिति, "तद्य इत्थं विदुः ये चेमेरण्ये श्रद्धा तप' इत्युपासते तेऽर्चिषमभिस्भवन्ति' इति देवयानविधिषरत्वादित्यर्थः, "एतदेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति' इत्ययन्तु लोकसंस्तवः, न पारिव्राज्यविधिरिति भावः । भाष्ये-योऽग्निमुद्वासयते'-इत्यादिकेति, आदिशब्देन "आचार्याय प्रियं धमामाह्मत्य प्रजातन्तुं माव्यवच्छेत्सीः नापुत्रस्य लोकोस्ति, इत्यादि गृह्रते ।। । ।। भाष्ये - अथ गृहस्थाश्रमस्थानुवादः-इति, अन्यतः प्राप्तेरभावेन अनुवादत्वासम्भवेन यद्स्यैव विधिपरत्वमभ्युपेयते, तदितरेषामपि समानमिति भावः । परामर्शपक्षे विधानपक्षे तुल्यमित्याद्युपसंहारभाष्यानुसारात्, न च स्तुत्यर्थतया-ऽनुवादसाम्यं प्रमाणान्तरप्राप्तिसाम्यं चोभ्यं सूत्राभिप्रेतमिति टीका-विरोध इति वाच्यम्, वर्षकृतं दुभिक्षमितिवत् प्रमाणान्तरप्राप्त्यभावकृतं साम्यमिति तदर्थात् इहैव विधिपक्षाश्रयणमिति पर्यव-सितोऽर्थः । केचित्तु परामर्शपक्षे विधानपक्षे चेति भाष्यस्य मानान्तराप्राप्तपरामर्शपक्षे मानान्तरविहितपरामर्शपक्षे चेत्यर्थः, नत्वत्रैव विधित्वपक्ष इत्यर्थः, तस्यपक्षस्योत्तरसूत्रप्रतिपाद्यत्वाभावात् । न च अस्मिन् सूत्रे पक्षद्वयस्याप्यनुपक्षेपे "विधिर्वाधारणव'दित्यत्र वाशब्स्याऽवदारणार्थत्वप्रतिपादकभाष्यासामञ्जस्यम्, पूर्वत्र पक्षद्वयोपक्षेप एव अवधारखस्वारस्यादिति वाच्यम्, अप्रयोजकत्वादिति वदन्ति । भाष्ये-तपो ब्राहृचर्यमिति सर्वैश्शब्दैरिति, यद्यपि श्रुतौ "ब्राहृचार्याचार्यकुलवासी' इति ब्राहृचारिशब्द एव श्रूयते, तथापि ब्राहृचारिधर्म एव ब्राहृचर्यशब्देनाभिधीयते इत्युत्तरभाष्यानुरोधात् ब्राहृचारिशब्दस्य ब्राहृचर्यपरत्वात् ब्राहृचर्यमित्युक्तमिति द्रष्टव्यम् । भाष्ये-ब्राहृचर्यतपसोः गृहस्थस्यैव सम्भवादिति, "यज्ञोऽध्ययन'मिति निर्दिष्टस्य गृहस्थस्य सम्भवादित्यर्थः । अत उपकर्वाणेऽपि सम्भवात् गृडस्थस्यैवेत्येवकारोऽनुपपन्न इति चोद्यं निरस्तम्, एवकारस्वेतरव्यवच्छेदक-

3.4.20

 

त्वामावात् । भाष्ये-त्रित्वेन सङ्गह्रेति, अत्र स्कन्ध शब्दो यद्याश्रमपरो न स्यात् ततो यज्ञादीनां आतिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्खया व्यवस्थाष्यते, एकैकाश्रमोपगृहीतत्वे त्वाश्रमधर्माणां त्रित्वाच्छक्यं त्रित्वो व्यवस्थापयितुमिति, आश्रमप्रतिज्ञो-पपत्तिरिति भावः ।। । ।। भाष्ये -दिष्टाग्निहो#ि#े-इति, मृताग्निहोत्र इत्यर्थः, दिष्टाग्निहोत्रे श्रूयते "उपरि हि देवेभ्यो धारयति' सत्ये-षोऽनुवादः, वर्तमानोपदेशात् हिशबतदाच्चाराच्च उपरिधारणप्राप्तेः हविषोऽभ्यर्हितद्रव्यत्वात् प्रच्छादनं येन केन चित्प्राप्नोति, ततः "स्त्रुक्दण्डे सधिमुपसङ्गृह्राऽनुद्रवति' इतिवाक्यान्तरप्रतिपत्तौ समिन्नियम्यते, तस्मादनुवाद इति प्राप्ते समिधो हविराच्छादनास-

3.4.20

 

मर्थत्वात् स्त्रुक्दण्ड इत्यनेन हविषः प्राक्देशस्य प्राप्तत्वेऽपि हविष उपर्यप्राप्तत्वात् विधिरिति स्थितं तृतीये । "वीरहा वा एष देवानां योग्निमुद्वासयते' इति, एषेति च्छेदः, भाष्ये-अविरक्तविषया एवेति, गृहस्थस्यं उत्सर्गोष्यिपूर्वकत्यागे दोषदर्शनात् अविहितत्यागविषयैव दोषश्रुतिः, ततश्च प्रविव्रजिषोर्विरक्तस्य त्यागविधिसद्भावात् विहितस्त्यागो न दोषावहः, न च कर्माधिकृतान्धपङ्गुबधिरादिविषया पारिव्राज्यश्रुतिरिति वक्तुं शक्यम्, अविशेषश्रवणात्, जावालश्रुतौ "व्रती वा अव्रती वा स्त्रातको वा अस्त्रातको वा उत्सन्नाग्निरनग्निको वा' इति पृथग्विधावात् । अतः प्रतिपन्नं गार्हस्थ्य "प्रमादादज्ञानाद्वा उद्वासयितुं प्रवृत्तं प्रति वा अविरक्तं प्रति वा' इतिश्रुतिरुपपन्नेति भावः । परे त्वित्यादि - एकाधिकरण्यमित्यादि । यद्यपि कल्पतरावधिकरणभेदः सूचितः, तथापि भाष्यमामत्यारेनुक्तत्वादेवमुक्तमिति द्रष्टव्यम् । इत्यादौ विषय इति - विषयवाक्य इत्यर्थः । देव-दत्तयज्ञदत्तौ मन्दप्रज्ञावित्यादि - अन्यतरः कश्चिदित्यर्थः, ननु च शाङ्करभाष्ये-नह्रेवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्तु तर्यार्महाप्राज्ञ इति, भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्राज्ञ इतीदृशोकत्यसम्भवपरतैव प्रतीयते नत्वीदृशीमुक्तिमभ्युपगम्य यज्ञदत्तस्योच्यमानत्व-निषेधपरत्वमिति चेन्न, न ह्रेवं भवति, वह्यिस्सेककरणमित्युक्ते वह्येस्सेककरणत्वमित्युच्यमानत्वं न सम्भवतीत्यस्याऽर्थस्य फलितत्वदर्शनात् फलितार्थमादायाऽनुवादोपपत्तेः । किञ्च दाष्र्टान्तिके "त्रय एते पुण्यलोका भवन्ति' "ब्राहृसंस्थो-ऽमृतत्वमेति' इति श्रुतावुक्तेरितद्धतया उकिं्त सिद्धवत्कृत्यैवेदृश्योकत्या उच्यमानत्वं न प्राङ्निर्दिष्टानाम् । अपि तु ततोऽन्यस्य परिव्राज

इत्यस्मिन्नर्थ एव दृष्टान्तस्योपन्यसनीयतया दृष्टान्तेऽप्युकिं्त सिद्धवत्कृत्यैव प्राङ्निर्दिष्टानां वोच्यमानत्वं दृष्टम्, अपि तु ततोन्यस्यैवेति, एवमुपन्यासस्योचितत्वेन तत्रैव शाङ्करभाष्यस्यापि तात्पर्यमभिप्रेत्य तथा-ऽनूदितमिति द्रष्टव्यम् । प्रकृताश्रमन्नयेति - केवलयौगिकानाम् आग्नेयीन्यायेन सन्निहितगामित्वादिति भावः ।

3.4..21

 

कालभेदेनेति - पूर्वं मन्दप्रज्ञस्यैव इदानीं शास्त्राभ्यासपाटववशेन महाप्राज्ञत्वसम्भवादिति भावः । धम्र्यन्तरोपस्तापकेति - अन्यतरश्चासौ शब्दश्च अन्यतरशब्दः, नत्वन्यतर इत्ययं शब्द इति भ्रमितव्यम्, ततश्च निर्दिष्टमन्दप्रज्ञापेक्षया धम्र्यन्तरो-पस्थापकस्ववत्क्यनिर्दिष्टपदद्वयान्यतरभूतमहत्पदसमभिव्याहारादित्यर्थः । यौगिकस्येति - यौगिकस्यापीत्यर्थः । इह तु ब्राहृसंस्थशब्दातिरेकेणेति - त्रिष्वेवाश्रमेषु ब्राहृसंस्थश्चेदमृतत्वभाग्भवतीत्यर्थकत्वेपि विरोधाभावादित्यर्थः । किञ्च ब्राहृसंस्थपदस्य चतुर्थाश्रमपरत्वे उध्र्वरेतस आश्रमा न सन्ति "त्रयोः धर्मस्कन्धाः' इति तु विधेयब्राहृसंस्थतास्तुतये अनुवादमात्रमित्येवमर्थकतया प्रयुक्तस्य "परामर्शं जैमिनिरचोदना'दिति सूत्रस्थ व्याहतार्थत्वप्रसङ्गः, तथा हि सति ब्राहृसंस्थताविधिरेव संन्यासविधिरूपत्वेन उध्र्वरेतसामाश्रमस्य सिद्धत्वेन पूर्वपक्षासिद्धान्तयोरप्रवृत्तेरिति द्रष्टव्यम् । अत्र परमंसस्य शिखोपवीताद्यावश्यकत्वं शतदूषण्यामाचायैरेव प्रपञ्चितमिति नात्र प्रयत्यते ।। । ।। ।। इति पुरुषार्थाधिकरणं ।।

अनन्तराधिकरणद्वयमिति - पुरुषार्थाधिकरणापेक्षयेति शेषः । भाष्ये-परमः पराथ्र्य इति, परमात्मप्रतीकत्वात्परमः परस्य ब्राहृणः अर्थं स्थानमर्हतीति पराथ्र्यः । पूर्वं सप्तानां रसानामिति - "एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ॠग्रस ॠचस्साम रसः साम्न उद्गीथरसः' इति पृथिव्यादीनां सप्तानां पूर्वं रसानां कीर्ति-तन्वादित्यर्थः । भाष्ये-अत्र प्रतिपादितमुपासनपरत्वमित्यादि, नन्वस्मिन्नधिकरणे "स एव रसानां रसतमः' इत्यादिवाक्यानामु-पास्यविशेषसमर्पकत्वम्, उत स्तुतिपरत्वमित्येव चिन्ता प्रक्रियते, न तु "ओमित्येतदक्षरमुद्गीथमुपासीत' इत्यादिवाक्यानामपि

3.4..21

 

उपासनविधिपरत्वमस्ति, नेति विचारः प्रवर्तते, तेषां वाक्यानामनुदाह्मतत्वादिति चेत्-भैवम्, रसतमादिवाक्यानामपि स्तावकत्वमिति पूर्वपक्षिणो द्वेधाभिप्रायः, अत्र "उद्गीथमुपासीत' इति नोपासनं विधीयते, उद्गीथविधिसिद्धानुष्ठानौ-पयिकज्ञानसामान्यवाची उपासनशब्दः, अतोऽनुवाद एव । अतश्च रसतमादिवाक्ये समभिव्याह्मतविध्यभावेन तदेकवाक्य-तया स्तावकत्वाभावेन उद्गीथपदोपस्थापितक्रतुपकरणगतोद्गीथविथ्येकवाक्यतयैव रसतमादिवाक्यानां स्तावक्रत्वम् । न च स्तावकवाक्यानां स्तुतिविधिसमभिव्याहारनियमोऽस्ति "एतद्व्राहृणान्येव पञ्च ह वीषि यद्व्राह्रणानीतराणि' इत्यतिदिष्टे-ष्वर्थवादेषु व्यभिचारादित्येकः पक्षः, "उद्गीथमुपासीत' इत्युपासनाविधिमभ्युपेत्य तदेकवाक्यतया तत्स्तावकत्वम् नोपासनाविषयसमर्पकत्वम् । "ओमित्येत-दक्षर'मित्यनेनैव उपासनविषयसमर्पणादिति द्वितीयः पक्षः, तत्र द्वितीयपक्षे उपासनानां सद्भावेपि प्रथमपक्षे उपसनाविध्यभावात् अत्र प्रतिपादितमुपासनाविधिपरत्वमित्येतत्तदभिप्रायेणेति द्रष्टव्यम् । स्तुतिर्ह प्रमाणान्तरप्राप्तेति - "विरोधे गुणवादः स्यादनुवादोऽवदारिते । भूतार्थवादस्तद्धानात् अर्थवादस्त्रिधा मतः' इति वाक्यविद्भिरुक्तत्वात्, मानान्तरविरोधे गुणवादो यथा "यजमानः प्रस्तरः' "ग्रावाण।प्रवन्ते' इत्यादौ । मानान्तरावधारिते अनुवादो यथा "अग्निर्हिमस्य भेषज'मिति । साधकबाधकप्रमाण-

3.4.23

 

भावे भूतार्थवादो यथा - "वज्रहस्तः पुरन्दरः' इत्यादौ । अप्राप्तगुणविधानेन वेति - अप्राप्तधर्मोपदेशेन भूतार्थवादेनेत्यर्थः । अतश्च कथं गुणविधायकस्यार्थवादान्तर्भाव इति शङ्का न कार्या - अत्र तु तथा सन्निहतत्वाभावेनेति । "एतद्व्राहृणान्येव पञ्च हर्वीधि' इत्यादिवचनबलात् पञ्चसञ्चरविध्येकवाक्यत्वमिति भावः ।। । ।। भाष्ये-विधिपरत्वमेव न्याय्यमिति, विस्पष्टविधिविभक्तिश्रवणात् ध्यानपर्यायस्योपासनस्थाऽफ्राप्तत्वाच्च उपासनविधिपरत्वमेव न्याय्यम् । ततश्च

समभिव्याह्मतोपासनविध्येकवाक्यत्वे सति नासमभिव्याह्मतोद्गीथविध्येकवाक्यत्वं युक्तमित्यर्थः । नन्वस्तु समभिव्याह्मतोपासनविध्येकवाक्यत्वं, तथापि स्तुत्यर्थेत्वेनान्वयः किन्न स्यादिति शङ्कमुपसंहारव्याजेन निरस्यति, भाष्ये-तस्मादुपासनविधानार्था एताश्श्रुतय इति, उपास्यत इत्युपासनम्, कमर्णि बहुवचनात् ल्युट् उपास्यविधानार्था इत्यर्थः, यद्वा उपासने विषयविधानार्था इत्यर्थः, उपासनविषयसमर्पकतया प्रवृत्तिविशेषपरत्वेन सम्भवति व्यर्थप्रयासस्तुत्यर्थत्व-कल्पनायोगादिति भावः ।। । ।। ।। इति स्तुतिमात्राधिकरणम् ।।

शङ्कया सङ्गतिरिति - विचारणात्सङ्गतिरित्यर्थः, ननु "दक्षिणत आहवचीयस्य हिरण्यकशिपावसीनोऽभिषिक्ताया पुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीत प्रथमेऽहनि "मनुर्वैवस्वतो राजा' इति पारिप्लवशब्दस्याऽऽख्यानाभिधायकत्व-दर्शनात् कथमाख्यानानां पारिप्लवनामकशस्त्रार्थत्वपूर्वपक्ष इत्यत आह - पारिप्लवा आख्यानानि इह पारिप्लवशब्देन आख्यानशंसनं विवक्षितमिति - शंसनम् शस्त्रम्, आख्यानसाध्यं शसमि#ित्यर्थः । परिप्लुत्य परिप्लुत्य शंसनमिति पारिप्लव-शब्दस्य शस्त्रेपि वृत्त्युपपत्तेरिति भावः, भाष्ये-विद्याविशेषप्रतिपादनार्थानीति "ते हैते माहशाला महाश्रोत्रियाः रुामेत्य मीमांसांचक्रुः' इत्याख्याभिकया विद्यायाः परमात्मविषयत्वरूपविशेषप्रतिपत्तेः "मटचीहतेषु कुरुष्वाटक्या सह जायया' इत्याख्यायिकया विद्यायां भक्ष्यनियमनादिरूपविशेषप्रतिपत्तेर्दर्शनात्तदर्थानीत्यर्थः, तथा आख्यायिकाश्रवणे अनवहिता-नामपि अवधानसम्पादनेन प्रतिपत्तिसौकर्या-

3.4.24

 

र्थानीत्यर्थः, ननु पारिप्लवे वाक्येन विनियुक्तानामपि सन्निधेर्विद्यार्थत्वमपि स्यादिति शङ्कां निरस्यति, भाष्ये-न विद्याप्राधान्यं न्याय्यमिति, "वेधाद्यर्थभेदा'दिति न्यायविरुद्धमिति भावः । ननु "ऐ वाव प्रथमो यज्ञो यज्ञानां यज्जयोतिष्टोमः तस्मादेतेनेष्ट्वा अथान्येन यजेत' इत्यत्राऽन्यशब्दस्य ज्योतिष्टोमेतरसर्वक्रतुपरामर्शिनः "यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते स त दीपयति यः पञ्चदशम्' इत्यादिवाक्यशेषगतत्रिवृदादिस्तोमकक्रतुसङ्कीर्तनानुसारेण तावन्मात्रे सङ्कुचितवृत्तित्वापत्त्या अनेकस्तोमकानां क्रतूनां ज्योतिष्टोमात् प्रागप्यनुष्ठानं स्यादिति, ततश्च "एकस्तोमे वा क्रतुसंयोगात्' "सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम्' इति पूर्वपक्षसिद्धान्तसूत्राभ्यां प्रवर्तितेन पाञ्चमिकाधिकरणेन विरोधः स्यात्, तस्मादुपक्रमगतसवश्र्रुत्या विद्याप्रकरणगतःरूपानानामपि कर्मसु विनियोगात् पारिप्लवार्थत्वमेव स्यात्, न विद्यार्थत्व-मित्यस्वरसादाह - प्रकरणोपात्तेति । उपक्रमानुसारेण उपसंहारनयनस्यौत्सर्गिकत्वेऽप्यत्रानन्तशाखागतशंसनस्य अशक्यत्वेन स्वत एव उपक्रमगतसर्वश्रुतेः सङ्कोचकापेक्षासत्वात् वाक्यशेषेण चापेक्षितसमर्पणात् वाक्योषगतेष्वाख्यानेषु सङ्कोचः, यथा-"अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते' इत्यत्र सवर्शब्दस्याऽसङ्कुचितसर्वपरत्वासम्भवेन सङ्कोचका-पेक्षायां ज्योतिष्टोमे प्रकृतेषु ॠत्विक्ष्वेव सङ्कोचः, न सर्वेषाम् । किञ्च यद्युपक्रमगतसर्वश्रुत्या आख्यानानां सर्वेषां गृहीतिस्स्यात्, तदा "मनुर्वैवस्वतो राजा' इत्यादिवाक्यशेषविशेषणमनर्थकमेव स्यात्, न चार्थवत्वे सम्भवति आनर्थक्यं युक्तम्, अतः सङ्कोचः । "यो वै त्रिवृदन्यम्' इत्यादिवाक्यशेषस्तु संयोगमात्रेणैवोपपद्यते, अन्यशब्देन चाविशेषः प्रतीयते, त्रिवृदादीनामनेकस्तोमकेष्वपि विनापि व्याप्त्या संयोगमात्रेण दीपकत्वं सम्भवतीति वैषम्यमस्तीति द्रष्टव्यम् ।। । ।। हिरण्यदक्षिण्यत्ववांक्येनोति - रजतहिरण्यस्येत्यर्थः, तस्माद्धिरण्यमिति श्रुतेरिति भावः ।। ।। इति पारिप्लवार्थाधि-करणम् ।।

3.4.25

 

भाष्ये-उध्र्वरेतसो यज्ञाद्यभावादिति, "ये चेमेरण्ये श्रद्धा तपः इत्युपासते' इति विद्यासम्बन्धबोधकवाक्यानामान्यपयर्-माश्रयणीयमिति भावः, यदि च अवश्यमूध्र्वरेतसां विद्यासम्बन्धो वक्तव्यः' तर्हि अङ्गानुप्रकृतीविद्यायाः फलानवाप्तेः अङ्ग-भूतयज्ञाद्यनुष्ठानस्य आवश्यकत्वात् तदर्थं दारान्तरं परिगृहद्याधानं कर्तव्यम् । न च दारपरिग्रहे सति उध्र्वरेतस्त्व-विरोधापत्तिः, विद्याङ्गकर्मार्थं दारपरिग्रहेपि भीष्मवदूध्र्वरेतस्त्वोपपत्तेः, "सोयमुपनयन्नादधीत होमसंयोगात्' इति पूर्व-तन्त्राधिकरणपूर्वपक्षरीत्या पूर्वपक्षः, तत्र हि उपनयनाङ्गहोम आहवनीये कर्तव्यः, अस्मिन्दारपरिग्रहे सति उपनयनविधि-पूर्वकविद्याग्रहणोत्तरकालविहितो दारपरिग्रहः प्रजार्थो भविष्यतीति पूर्वपक्षः प्रवर्तितः, तद्वदत्रापि, नचाश्रमधर्मैतेव विद्याङ्गसिद्धेः यमाद्यनुष्ठानार्थम्, आदानदारसङ्गूहयोराक्षेषो न प्राप्नोतीति वाच्यम्,

यज्ञेनेत्यादितृतीयाश्रुत्या विशिष्य यज्ञादीनामपि विद्याङ्गत्वविधानात्, कर्मत्यागश्रुतिस्तु विद्याङ्गकमर्विषया । सिद्धान्तस्तु केवलपुत्रार्थमिव केलधर्मार्थं दार-सङ्गहायोगात् "धर्मे चार्थे च नातिचरितव्ये'ति स्मृतेः, भीष्मस्य तु धर्मप्रजोभयार्थे दारपरिग्रहे निर्वृत्त एव पितृप्रीत्यर्थ-मूध्र्वरेतस्त्वप्रतिज्ञया पुत्रोत्पादनान्निवृत्तौ सत्यां दाराणां धर्मार्थत्वमात्रमवशिष्यमिति तेन यज्ञाद्यनुष्ठानम्, न तु ऊध्र्वरेतस्त्वप्रतिज्ञानन्तरं केवलधर्मार्थदारसङ्ग्रहः, श्रुतिस्मृतिसिद्धनिकेतनत्वादिसंन्यासधर्मपर्यालोचनया न संन्यासिनो दररपरिग्रहादिकमुपपद्यत इति भावः । विद्यया फलोत्पत्तौ न कर्मापेक्षेति - क्रत्वर्थत्वाभावेन स्वशेषिभूतकर्मापेक्षा नास्तीत्यर्थः, निगमनप्रयोजनमाह - इदञ्च निगमनमिति ।। । ।। ।। इति अग्नीन्धनाद्यधिकरणम् ।।

3.4.26

 

यज्ञादिश्रुतेरश्ववत्, यज्ञादीनां ज्ञानसाधनत्वे सत्येव-इत्यदिभाष्यमयुक्तम्, प्रकृतिप्रत्यययोर्मध्ये प्रत्ययार्थप्रादान्येन इच्छायामेव तृतीयया साधनत्वप्रतीतेरित्यत्राह - परमसाध्येच्छया विनेत्यादि । नन्वन्नद्वेषेण काश्र्यं प्राप्तस्य तत्परिहारा-यान्यविषयौन्मुख्यलक्षणायामिच्छायां सत्यामपि उत्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषात्, तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधवत् निरतिशयानन्दं ब्राहृ तत्प्राप्तौ विद्यासाधनमित्यर्थे प्राजीनबहुजन्मानुष्ठितानमिसंहितनित्य-नैमित्तिककर्मोपसञ्जातचित्तप्रसादमहिम्ना सम्पन्नविश्वासस्य पुरुषस्य ब्राहृावाप्तौ तत्साधनविद्यायाञ्च औन्मुख्यलक्षणाया-मिच्छायां स्यामपि अनादिमवसञ्चितानेकदुरितदोषेण आस्तिककामुकस्य हेयकर्मणीव विषयभोगप्नावण्यं सम्पादयता प्रतिबन्धाद्विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धादिनिरासपूर्वकमिच्छासम्पादकयज्ञादिविधान-मुपपन्नतरमिति चेन्न, सत्यम्, यद्यनेन वाक्येन कर्मणामिच्छादिसंयोगः प्रतिपाद्यते, तदा श्रुतनिर्वाहाय कथञ्चिदियं प्रणाड¬ाश्रीयेत, नत्वेतदस्ति, नत्वेतदस्ति, प्रकृतिप्रत्ययार्थयोर्मध्ये प्रत्ययार्तस्य प्राधान्यमित्यौपगवादिदृष्टसामान्य-न्यायापेक्षया इच्छाविषयतया शब्दबोध्य एव शब्दसाधनान्वय इति स्वर्गकामादिवाक्ये क्लृप्तविशेषन्यायस्य बलीयस्त्वात्, "अश्वेन जिगमिषति' "असिना जिधांसति' इत्यादिलौकिकप्रयोगे न अश्वादिरूपसंधनस्य "तसिद्वजिज्ञासितव्यं' "निदिध्यासितव्यम्' इत्यादिवैदिकप्रयोगे च तव्यप्रत्ययार्थीभूतविधेश्च सन् प्रत्यया-

3.4.26

 

भिहितेच्छाविषय एव गमनान्वयस्य क्लृप्तत्वाच्च प्रकृत्यभिहितायां विद्यायामेवाऽन्वयस्य क्लृप्तत्वादिति भावः । उत्पत्ता-वपेक्षैव सूत्रप्रतिपाद्येति - यद्यपि परैः पूर्वसूत्रे फलोत्पत्तावनपेक्षत्वमस्मिन्सूत्रे विद्योत्पत्तौ कर्मापेक्षितत्वमित्येवोक्तम्, तथाप्यश्ववदित्यत्र यथाऽश्वो न लाङ्गलाकर्षणे विनियुज्यते, रथचर्यायान्तु युज्यते, एवमाश्रमकर्माणि विद्यया फलोत्पत्तौ नापेक्ष्यन्ते, उत्पत्तौ त्वपेक्ष्यन्त इति, भाष्योक्तत्वात् फलोत्पत्तावनपेक्षाष्यस्मिन्नधिकरणे प्रतिपाद्यत इत्यभिप्रेत्य दूषणमुक्तमिति द्रष्टव्यम् । अनन्तराधि-करणपूर्वपक्षहेतुरिति - आद्यसूत्रापेक्षया अनन्तराधिकरणे इत्यर्थः ।। । ।।

।। इति सर्वापेक्षाधिकरणम् ।।

3.4.27

 

दूषयति - शङ्का तावदयुक्तेति । तथापीति वैयथ्र्यमिति - यमाद्यपेक्षयैव शमदमादेर्विरोधप्रसक्तिसत्त्वेन तदनुपेक्षया साकं विरोधाभावात् विरोधसूचकस्य अपीत्येतस्य वैयथ्यम्, ततश्च तथापीत्यस्य यज्ञाद्यपेक्षायामपीत्येवार्थो न तु यज्ञाद्यपेक्षत्वेपीत्यर्थ इति

3.4.28

 

भावः । पूर्वसूत्रविवक्षितस्येति - स्तुत्यर्थपरत्वनिरासस्येत्यर्थः । ततोपि वरमिति - विविदितषासंयोगसमर्थनपरे पूर्वसूत्रे स्तुत्यर्थत्वनिरासस्याऽपेक्षिततया तत्रैव तन्निरासस्योचितत्वादिति भावः ।। । ।। ।। इति शमदमाद्यधिकरणम् ।।

अस्ति नेति विचार्यत इति - प्राणविदामिति शेषः । प्राणविद्यानिष्ठस्यापीति - ननु वामदेव्योपासननिष्ठस्य "न काञ्चन परिहरेत्तद्व्रत'मिति सर्वस्त्र्यपरिहारानुमतिदर्शनात्, किं पुनन्र्यायेन ब्राहृविदामपि सर्वस्त्र्यपरिहारप्रसङ्गः । यदि च विद्यान्तरप्रकरणे श्रुतस्य विद्यान्तरान्वये प्रमाणाभावात् वामदेव्योपासनाङ्गस्य सर्वस्त्र्यपरिहारस्य न ब्राहृविदः प्रसक्तिरस्तीति,

तर्हि प्राणविद्याङ्गभूतस्य सर्वान्नीनत्वस्य न ब्राहृविदि प्रसक्तिरस्तीति चेन्न, वामदेव्योपासने "न काञ्चन परिहरेत्तद्व्रत'मिति सर्वस्त्र्यपरिहरणे विस्पष्टविधिविभक्तिश्रवणेन विधेयत्वावगमेपीह तादृशविधिप्रत्ययाभावेन सर्वान्नीनत्वस्य्राङ्गत्वेन विधानाभावेन "एवंविदि पापं कर्म न श्लिष्यते' इत्यादिवत् "न ह वा एवंविदि किञ्चनाऽनन्नं भवति' इत्यत्रापि अभक्ष्यभक्षणकृतदोषाभावमात्रप्रतिपादनपरत्वे सिद्धे किमिदं । कामकृतेष्यभक्षणे दोषाभावप्रतिपादनपरम्, उत प्रामादिक एवेति चिन्ताया एवास्मन्नधिकरणे प्रवृत्ततयगा तत्र च प्राणविद्यायाः कामकारस्थलेऽपि अन्नदोषास्पर्शरूपफल-सामथ्र्ये पूर्वपक्षिणोपक्षिप्ते सति यदि प्राणविद्याया अपि ईदृशं सामथ्र्यम्, तर्हि सर्वविद्यश्रेष्ठाया ब्राहृविद्याया अपि कामकृताभक्ष्यभक्षणकृतदोषासस्पर्शहेतुत्वं किन्न स्यादिति यदि कश्चिच्चोदयेत्, तम्प्रति तदपि पूर्वपक्षिणो नानिष्टमित्येवं परत्वादस्य ग्रन्थस्य न दोषगन्ध इति ध्येयम् । पूर्वपक्षभिप्रेतेति - यद्यपि प्राणविद्याविषयविचारे न ब्राहृविद्याया सङ्गति-रस्ति, तन्मात्रपर्यवसितत्वादस्य विचारस्य, नहि ब्राहृविदः सर्वान्नीनत्वसदसद्भावयोः पूर्वोत्तरपक्षफलत्वपिति शक्यते वक्तुम्, सिद्धान्ते ब्राहृविदः सर्वान्नीनत्वाभावस्य प्राणविदः सर्वान्नीनत्वाभावे साधकत्वोपन्यासेन फलत्वासम्भवात् । ब्राहृविदामपीति - ननु ब्राहृविदां दोषसत्त्व्#ेपि "न ह वा एवंविदि किञ्चनाऽनन्नं भवति' इति प्राणविदां दोषाभावकीर्तनान्ना-

3.4.30

 

भक्ष्यभक्षणदोष इति चेन्न, "एवंविदि पापं कर्म न श्लिष्यते' इति ब्राहृविद्विषयेति दोषाभावदर्शनसाम्यात्, यदि च "नाविरतो दुश्चरितात्' इति दुश्चरितस्य निषिद्धतया तद्वचनं प्रामादिकविषयमिति, तर्हि "प्राणसंशयभाषन्नो योऽन्नमत्ति यतस्ततः । लिष्यते न स पापेन पद्मपत्रमिवाम्भसा' इति तस्मात् "ब्रााहृणः सुरां न पिबेत्' इत्यादिक्लृप्तसामान्य-शास्त्राविरोधेनैव "न ह वा एवंविदी'ति शास्त्रस्य कल्प्यविधिभावस्य निर्वाह्रत्वात्, यद्वा नायं फलविधिः, क्लृप्तो हि विशेषविधिः सामान्यविधिं बाधते, अत्र क्लृप्तसामान्यविधिविरोधे " न ह वा एवं विदि किञ्चनानन्नं भवति' इत्यस्य फलविधिकल्पनायोगेन अर्थवादत्वस्यैव युक्तत्वात्, न चैवं "एवंविदि पापं कर्म न श्लिष्यते' इत्यादेरपि स्तुतिमात्रत्वप्रसङ्गः, पाष्मनामश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फलविधित्वस्य वक्तव्यत्वात्, प्राणविद्यायाश्च च्येष्ठत्वश्रेष्ठत्वादिफलकत्वेन फलाकाङ्क्षाया अभावात्, "स होवाच किम्मेऽन्नं भविष्यतीति यत्किञ्चिदिद-माश्वम्य आशकुनिम्य इति होचुः तद्वा एतदनस्यान्नम्' इति श्वपर्यन्तप्राणिजाते विहितस्य प्राणविद्याङ्गस्य प्राणान्नत्व-चिन्तनस्य स्तुतिः क्रियते "न ह वा एवंविदि किञ्जनानन्नं भवति' इति, अतः फलविधित्वाभावात् प्राणविदः प्राणात्यय एव सर्वान्ननुमतिः, अनाविष्कुर्वत्रन्वद्या'दित्यत्र क्लृप्ततैव विशेषविधेः "नाविरतो दुश्चरिता'दिति

3.4.32

 

विशेषशासि#ेण सङ्कुचितविषयत्वम्, इह तु क्लृप्तसामान्यशास्त्रानुरीधेन "न ह वा एवंविदि' इत्यस्य विधिकल्पनाभङ्ग इति विवेकः, केचित्तु परमतवद्वामदव्योपासकस्य सर्वस्त्र्यपरिहारवत् प्राणविद्यानिष्ठस्य तदङ्गतया सर्वान्नानुमतिर्विर्धीयत इति पूर्वपक्षं कृत्वा सिद्धान्तमपि तथैव वणयन्ति, परापरमतदूषणपरस्य टीका ग्रन्थस्य च परापरोक्तसूत्राक्षरयोजनामात्रदूषण-परतया विरोधप्रसङ्गो नास्तीति प्रतिपादयन्ति । ज्ञानस्य फलत्वादिति - अङ्गभूतज्ञानस्य फलत्वेन कीर्तनादपापश्लोप-श्रवणवदर्थवाद इत्यर्थः ।। । ।।

।। इति सर्वान्ननुमत्यधिकरणम् ।।

3.4.33

 

किं विद्याङ्गभूतानीति - विद्याङ्गभूतान्याश्रमकर्माणि नवेति विचारः, आश्रमकर्माणीत्यस्य विवरणं केवलाश्रमिणोपीति, न तु विद्याङ्गभूतान्याश्रमकर्माणीति पक्षनिर्देश इति मन्तव्यम्, विद्याङ्गभूतानामाश्रमकर्भत्वस्यैवाऽस्मिन्नधिकरणे सिषाधयिषितत्वादिति द्रष्टव्यम् । केवलाश्रमाङ्गत्वमिति - आश्रमशब्देन तद्वान् पुरुष उच्यते, आश्रमनि#ेष्ठपुरुषार्थत्व-मित्यर्थः, अथवा केवल आश्रमो यस्येति बहुव्रीहिः पुरुषो अन्यपदार्थः । कर्मान्तरत्वे सतीत्यादि - अयमि#ान्वयः-नित्या-नित्यसंयोगविरोधप्रसङ्गेन एकस्य कर्मणो विनियोगपृथकत्वस्याप्यभावेन च कर्मान्तरत्वे सति विद्याभ्गसूतानां केवलाश्रमाभ्गत्वासम्भवात् तान्यमुसुक्षोर्नानुष्ठेयानि, विनियोगपृथकत्वेन नित्यानित्यसयोगविरोधाभावात्,

कर्मान्तरत्वं नास्ति चेत्, विद्याङ्गानामेव तेषां केवलाश्रमाङ्गत्वस्भवात् केवलाश्रमिणोप्यनूष्ठेयानीति । अनुष्ठानञ्च विरुद्धमिति - वास्तवस्य विरोधस्य न वाक्यसहरुोणापि निवृत्तिर्यक्तेत्यर्थः, एतेन, "एकस्य तूभयत्वेसयोगपृथकत्वम्' इति पूर्वतन्त्राधि-करणमपि आक्षिप्तं द्रष्टव्यम् ।। । ।। नित्यानित्यसंयोगविरोधपरिहारः सूत्रद्वयफलमिति - अयम्भावः - सिद्धरूपेस्तुनि नित्यत्वानित्यत्वादेरिव नित्यत्वकाभ्यत्वयोर्न वस्तुतो विरोधः, षोडशिग्रहणे कर्तव्यत्वाकर्तव्यत्वर्यारिव सम्भवात्, अपितु एकस्य वाक्यस्य उभयबोधकत्वासम्भवात्, विध्येकावसेये च प्रमाणान्तराप्रवृत्तेः विरोधो वक्तव्यः, अत्र तु विनियोवक-प्रमाणद्वयमप्यस्ति, तत्र प्रमाणद्वयवशादुमयार्थत्वेन विरोध, ननु विद्याया नित्यसमीहितफलत्वाभावतदङ्गत्वेना-ऽनुष्ठीयमानस्य नित्यत्वं न स्यात्, ततश्च विद्यार्थत्वं कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यपयोयोऽपि पृथकर्तव्यः, न चैवं नित्यप्रयोगस्यैवाऽनित्यत्वं स्यादिति, चेन्न, अथा स्वर्माथेर् ह्रग्निहोत्रप्रयोगः काभ्यो नैमित्तिको वा नित्यमधि-

3.4.35

 

रुत्यैव निविशत इति न्यायात नित्यप्रयोगं विकृत्य प्रयोगस्य उभयत्राप्यविशेषात् नित्यविधेः प्रयोजकत्वमात्रं बाधित्वा निविशते; यथा "यदि राजन्यं वैश्यं वा याजयेत् स यदि सोमं विभक्षयिष्येत्, न्यग्रोधस्तिभिनीराह्मत्य ताः संपिष्य दध्नयुन्मृज्य तमस्मै मक्ष प्रयच्छेन्न सोमम्' इति नित्यं सोमं विकृत्यैव निविशते, न तावता नित्यप्योगस्याऽनित्यतापत्ति, एवमिहापि न विरोध इति भावः । न त्वेकस्येति - फलमिति शेथः ।। । ।। भाष्ये-कर्मस्वरूपभेदे प्रमाणाभावाञ्चेति, मासाग्निहोत्रे सन्निहिताग्निहोत्रहोमासम्भवेनाऽनुवादत्वासम्भवेन विधित्वे सिद्धे विहितस्य विधानायागेन विहितात्प्रसिद्धा-ग्निहोत्रहोमात् अस्य होमस्याऽन्यत्वसिद्धौ तत्र वर्तमानमाख्यातपरतन्त्रमग्निहोत्रमिति नाम्ना प्रसिद्धाग्निहोत्रप्रत्यभिज्ञापन-समर्थमिति तत्र प्रकरणभेदात् कर्मान्तरत्वमस्तु नाम्, इह तु यज्ञादिषु विधेरश्रवणात् विद्यायामेव विधिश्रवणेन न प्रसिद्धयज्ञापेक्षयैषा भेदः, नन्विहापीष्यमाणविद्योद्दोन यज्ञादिकमेव विधयम्,न तु विद्या, तस्याः फलत्वेन विधेयत्वा-यागात् अग्निहोत्रतुल्यत्वमेव, न च प्रसिद्धस्यैव यज्ञादेः फलसम्बन्धितया विधानमस्त्विति वाच्यम्, तर्हि प्रसिद्धस्यैवाग्नि-होत्रस्य माससम्बन्धितया विधानप्रसङ्गात् । अतो मासाग्निहोत्रभेदवत् इह यज्ञादिशब्दोपात्तस्य प्रसिद्धयज्ञादेरनन्वत्वे प्रसिद्धयज्ञादीनां मध्य कस्य रूपमतिदिश्य इति दुज्र्ञानत्वात्, यज्ञादिनाम्ना द्रव्यदेवताद्यतिदेशे देवतोद्देश्यकद्रव्यत्याग-त्वादिरूपयज्ञादि#ाब्दप्रवृविनिमित्तप्राप्तेरनिवार्यत्वेन विधेयस्य कर्मणो यज्ञादिभिन्नत्वासम्भवाच्च, "यज्ञोऽध्ययनं दानमिति प्रथमः' "यज्ञानां यपयज्ञोस्मि "भोक्तारं यज्ञतपसाम्' इत्यादिष्विव प्रसिद्धयज्ञादिपरत्वमेव युक्तमिति भावः ।। । ।। आदि-शब्दो यज्ञादिवाक्पर इति - यज्ञादीनां प्रतिपादकं वाक्यं यज्ञादिवाक्यं "कषाये कमर्भिः पके' इत्यादिकं गृह्रते । अङ्गत्वं वदतेति अयमिहान्वयः-अङ्गत्वं वदता "यज्ञेन दानेने'त्यादिना ये निर्दिष्टाः तानेवाङ्गत्वेन किञ्चित्कारं वदद्वाक्यमपि यज्ञादि-

3.4.37

 

पर्यायधर्मकर्मादिशब्देन निर्दिशतीत्यर्थः इति । ततश्च तत्रापि वाक्ये प्रसिद्धविलक्षणधर्मभ्रान्तिः कार्योति भावः । सिद्धवदिति - सिद्धवन्निदेशरूपादित्यर्थः । "अग्निहोत्रं जुहोति' इत्यादौ हि साध्यावस्तार्थाभिधायित्वस्वभावेना-ऽऽख्यातेनापूवर्म् रूपमुत्पाद्यते, नैव कृदन्तेषु यज्ञादिशब्देष्वित्यर्थः ।। । ।। ।। इति विहिंतत्वाधिकरणम् ।।

अकृतदार इति - समावृत्य अकृतविवाह इत्यर्थः ।। । ।।

3.4.39

 

भूयोधर्माल्पधर्मकयोः भक्तिप्रपत्त्योव्र्यभिचारादाह - शक्तमिति । पारिव्राज्यव्यावृत्त्यर्थमिति - ननु मृतभार्यस्याकृतदारस्य वा दारालाभेन दारसाध्याश्रमासम्भव्रेपि सन्यासाश्रमस्य सम्भवात् किमित्यनाश्रमित्वं स्त्रोदव्यमिति शङ्काव्यावृत्यर्थम् अवैराग्ये सतीत्युक्तमित्यर्थः । परे चेत्यादि - आश्रमबहिष्ठनम्नचर्यास्मरणपरमिति । आश्रमासाधारणधर्मबहिर्भूतनग्नचर्या-स्मरणपरमित्यर्थः, यद्यपि शाङ्करभाष्ये सवर्तकप्रभृतीनाच्च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इति महायोगित्वस्यैव स्मर्यमाणत्वमुक्तम्, न तु नम्नचर्यायाः, तथापि

नग्नचर्यावदो महायोगित्वं स्मयर्त इत्युक्ते महायोगिनो नग्नचर्या स्मर्यत

3.4.40

 

इत्युक्तप्रायत्वात् तथोक्तमिति द्रष्टव्यम्, ननु नग्नचर्यायोगात् अनपेक्षिताश्रमकर्मणां महायोगित्वं स्मर्यत इति किमभिप्रेतम्, नग्न-चार्यायोगात् महायोगित्वं स्मर्यत इत्यन्वयोंऽभिप्रेतः,ततश्च "अपि स्मर्यते' इति सूत्रस्य "विशेषानुग्रहश्च' इतिसूत्रस्य चासाधा-रणधर्मानुग्राह्रत्वपरत्वम्, उत न्गचर्यायोगादनपेक्षिताश्रमकर्मणामित्यन्वयो-ऽभिप्रेतः, ततश्च "अन्तरा चापि तु तद्दृष्टेः' इति- सूत्रस्य च "अपि स्मर्यत' इति सूत्रस्य चाश्रमकर्मानपेक्षत्वपरत्वमिति विकल्पमभिप्रेत्य प्रथमं दूषयति । विद्यायास्साधारणधर्मा-नुग्राह्रत्व इति - अतस्सूत्रदूयस्येति । साधारणधर्मानुग्रह-परत्वमिति शेषः, द्वितीयं दूषयति - उन्मत्तचर्यास्मरणेनेति । दृष्टे सम्भवतीति - आश्रमकर्मसाध्यस्यादृष्टस्थानेनानुत्पत्तेः माहात्म्याच्छादनं दृष्टमेव प्रयोजनमिति भावः । विध्यन्तरादर्शनादिति - "तपसा ब्राहृचर्याण श्रद्धया विद्यया आत्मानमन्विष्ये'दिति भावः ।। । ।। ।। इति विधुराधिकरणम् ।।

3.4.42

 

अवकीर्णिपशुश्च तद्वदिति - "अवकीर्णिपशुश्च तद्वदाधानस्याऽप्राप्तकालत्वात्' इति जैमिनिसूत्रम्, अवकीर्णिनां ब्राहृचयर्-प्रच्युतानां "ब्राहृचार्यवकीर्णी नैॠतं गर्दभमालभेत' इति स्मृतिविहितनैर्ॠतपशुरूपं प्राश्चित्तं सिद्धंकृत्व तत्राऽग्नि-र्वचारितः, तदधिकरणमित्थम्-"यदाह्यवनीये गुहोती'ति सर्वेषां होमानामाहवनीयाधारत्वविधेरवकीर्णी ययाऽवकीर्णः, तया सह वा भार्यामधिगम्य वा अग्नीनाधाय आहवनीये अवकीर्णिपशुं करोतु इति पूर्वपक्षं कृत्वा "जायापती अग्निमादधीयाताम्' इत्याथानस्य दम्पत्तिकर्तृकत्वस्मरणेन परिस्त्रया सहाग्न्याधानासम्भवात् "अविष्लुतब्राहृचर्यो लक्षण्यां स्त्रियमुद्वहेत्' इत्यस्खलितब्राहृचर्यस्य विवाहविधानेन अकृतप्रायश्चितस्य विवाहायोणाच्च अग्न्याधानासम्भवात् उपनयन-होमवत् लौकिकाग्नावेवावकीर्णिपशुरिति पूर्वाधिकरणे लौकिकाभावेव उपनयनहौजः समावर्तनानन्तरं नुतस्यदारपरिग्रहस्य उपनयनात्पूर्वमसम्भवेन अग्न्याधानरहितस्य माणवकस्याऽऽहवनीयाभावात् लौकिकाग्नावेवोपनयनहोम इति निरूपितम्, तदर्थस्सूत्रे तद्विदिति परामृश्यते ।। । ।।

इदञ्चोद्यसूत्रमिति - अस्योपपातकत्वप्रतिपादनपूर्वकप्रायश्चित्तसद्भावप्रतिपादनमुखेन ब्राहृविद्याधिकारप्रतिपादनपरत्वा-देवमुक्तम्, प्रायश्चित्तसद्भावमात्रप्रतिपादनपरत्वे तु सिद्धान्तसूत्रत्वमेव, नहि सामान्यमुखेन प्रवृत्तौ नैर्ॠतपशुः "आरूढो नैष्ठिकं धर्मम्' इति स्मूत्या विशेषविषययापि न सङ्कोचमर्हति, स्मृतेर्नैष्ठिकरूपब्राहृचारिविशेषविषयत्वेऽपि "प्रायश्चित्तं न पश्यामि' इति

3.4.42

 

स्मृत्या विशेषविषययापि न सङ्कोचमर्हति, स्मृतेर्नैष्ठिकरूपब्राहृचारिविशेषविषयत्वेऽपि "प्रायश्चित्तं न पश्यामि' इति प्रायश्चित्तदर्शनाभावेन प्रायश्चित्ताभावानुमानम्, तेन च श्रुत्यनुमानमिति विलम्बद्वयमस्ति "यो ब्राहृचार्यवकिरेत्' इति प्रायश्चितश्रुतेः सामान्यमुखेन प्रवृत्ततया सामान्यद्वारा विशेषपर्यवसानमित्येक एव विलम्ब इति प्रायश्चित्तश्रुतेरेव बलीयस्त्वम्, ततः "प्रायश्चित्तं न पश्यामि' इति स्मृतिस्संव्यवहार्यतापादकप्रायश्चित्ताभावपरैवाभ्युपगन्तव्या, ततश्च प्रायश्चित्तसद्भावमात्रपर्यवसितत्वेन चोद्यसूत्रत्वं तन्मुखेन विद्याधिकारप्रतिपादनपर्यन्तत्वमस्य सूत्रस्य प्रकृतोपयोगा-द्वक्तव्यमित्यभिप्रेत्य चोद्यसूत्रत्वमुक्तमिति द्रष्टव्यम्, ननूपकुर्वाणस्येव नैष्ठिकादीनां मध्वशननिषेधस्यादर्शनात् कथं साम्यमित्याशङ्कयाह - भाष्ये तदुक्तं स्मृतिकारैरिति । प्रायश्चित्तञ्च परामृशतीति - ननु प्रायश्चित्तं न प्राङ्#िर्दिष्टम्, ब्राहृचर्याग्नीन्धनभैक्षचरणसत्यवचनमधुमांसगन्धमेंदिस्यप्नेञ्चनाभ्यञ्चनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नान-दन्तधावनहर्षनृत्तगीतादिवर्जनस्यैव प्राङ्निर्दिष्टत्वात्, तद्वयाख्यातृभिश्च उत्तरेषामप्याश्रमाणामिदं वृत्तं द्रष्टव्यम् किमविशेषेण नेत्याह - अविरोधीति । यत्स्वाश्रमाविरुद्धं द्यूतादिवर्जनं तदेव भवति, नतु विरुद्धम्, अतो नाग्नीन्धनं प्रव्रजिते प्राप्नोति, न गुरुकुलवासो वैस्वानसे प्राप्नोति न ब्राहृचर्यं गृस्थे प्राप्नोतीति व्याख्यातम्, ततश्च प्रायश्चितस्या-ऽप्रकृततया नैतच्छब्दस्यप्रायश्चित्तपरामर्शित्वं सम्भवति, अत एव स्वश्रमाविरोधिशब्दः स्त्रीसंसर्गादिनिमिवप्रायश्चितादेः

गृहस्थेष्वनापातार्थ इति ग्रन्थोष्यसङ्गतः,स्त्रीसंसर्गादिनिमिवप्रायश्चित्तादेः प्रागनुक्तेरिति चेदत्राहुः, ब्राहृचर्यस्याऽतिदेशे "गर्दभेनावकीर्णी निर्ॠतिं चतुष्पथे यजेत् तस्याजिनमूध्र्ववालं परिधाय लोहितपात्रस्सप्त गृहान् भैक्षं चरेत् कर्माचक्षाणः सम्वत्सरेण शुध्येत्' इति प्रायश्चिवप्रकरणे वक्ष्यमाणस्य प्रायश्चित्तस्य सापवादकमेकं शास्त्रं "कार्यकालं संज्ञापरिभाषम्' इति न्यायेन तदेकवाक्यतापन्नतया ब्राहृचर्योपदेशे तत्प्रायश्चित्तमप्यतिदिष्टं भवतीत्यभिप्रायेण प्रायश्चित्तञ्च परामृशतीत्युपपत्तेरिति, ननु ब्राहृचर्ये निर्दिष्टे "गर्दभेनावकीणी'ति प्रायश्चित्तप्रकरणगतस्योपदिष्टातिदिष्टब्राहृचर्य-साधारण्येनोपदेशत एव प्राप्तिसम्भवात् "उत्तरेषां चैतदविरोधि' इत्यनेनातिदेशो व्यथर् इति चेत्, नूनं भवान् "अनारम्य विदानानां प्रकृतौ वा द्विरुक्तत्वा'दिति न्यायमनालोचितपूर्वी, तथाहि सति उपदिष्टातिदिष्टजुहूसादारण्येन पर्णताया अपि प्राप्तिप्रसङ्गात् यदि चयेनादिदेशेन जुहूः प्राप्यते तेनैव पर्णताया अपि प्राप्तिसम्भवात् द्विरुक्तिदोषप्रसङ्गेन विकृतौ पर्णतोपदेशो व्यर्थः, यद्येवमुपकुर्वाणस्यापि ब्राहृचर्यं नोपदिष्टं, "प्रागुपनयनात् कामचारवादभक्षो हुतान्ब्राहृचारी' इत्यनुपनीतस्यैव ह्रुपदिष्टम्, उपकुर्वाणे तु "उक्तं ब्राहृचर्यमग्नीन्धनभैक्ष्चरणे'-त्यादिना अतिदिष्यते, अत उपकुर्वणस्यापि ब्राहृचर्यमतिदिष्टमिति कृत्वा अनुपनीतब्राहकमचर्य एव प्राश्चिवमुपदेशतः प्राप्नोति, नोपुर्वाणब्राहृचर्येऽपीति चेत्, मादूदू ब्राहृचर्यमुपदिष्टं, माच भूत्प्रायश्चित्तमपि, तथाप्यनुपनीते उपदिष्टस्य प्रायश्चित्तस्य "उक्तं ब्राहृचर्यमबग्नीन्धनभैक्षचरणे' त्यनेनोपकुर्वणेऽतिदिष्टतया तस्य "उत्तरेषां चैतदविरोधी'त्यनेन परामर्शे दोषाभावात्, ननु "अतातोऽग्निमग्निष्टोभेनानु-यजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेण' इत्युपदेशत एव अग्नेरग्निष्टोमोक्थ्यादिसाधारण्यमुपदिश्यते, ततश्च तदाश्रिताः श्येनाकृत्यादिगुणकामाः सर्वसाधारणा भवन्तीतिवत् "उत्तरेषां चैतदविरोधी'त्यस्यापि "तमुक्थ्येन तमतिरात्रेण' इत्यादिनिर्देशतुल्यतया ब्राहृचर्यस्य उपदेशत एव प्रायश्चित्तस्य सर्वसाधारणत्वेन नातिदेशतः प्राप्तस्य प्राप्तिरिति चेन्न, इष्टापत्तेः, अतिदेशतोऽपि प्राप्तिमपेक्षमाणानामुपदेशतः प्राप्तिर्लभ्यते चेत्, कथमनिष्टाय सा स्यात् ।। । ।।

3.4.43

 

भाष्ये-कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवतीति, "बालप्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृश्च स्त्रीहन्तृश्च न संवसत्' इति मनुवचनम्, न संवसेत्-अन्योन्यं गृहभोजनादिसंव्यवहारं न कुर्यादित्यर्थः । नास्मिन् लोके प्रत्यापत्तिर्विद्यते, कल्पषं तु निहन्यते "प्रायश्चित्तैरषत्येनो यदज्ञानकृत भवेत् । कामतो व्यवहायस्र्तु वचनादिह ज्जायते' इत्यादिस्मरणात्, अज्ञानकृतञ्च यद्भवेत् तत्प्रायश्चित्तैरषैति, तत्कामाच्चेत् वचनादव्यवहार्यस्तु जायत इत्यर्थः, अतश्च "प्रायश्चित्तं न पश्यामी'ति स्मृतेरपि तदनुगुण एवार्थ इत्यर्थः । परे त्वित्यादि - प्रत्यवरोधः पूर्वाश्रमप्राप्तिः । विद्याधिकारा-नधिकारसिद्धमिति - पूर्वेणान्वयः । पूर्वा-श्रमधर्मस्वनुष्ठानचिकीर्षयेति - पूर्वाश्रमधर्मेषु यागहोमादिषु सुखानुष्ठेयताप्रयुक्तचिकीर्षयेत्यर्थः । रागादिनेति - गृहस्थोहं पत्या-दिपरिवृतस्स्यामित्याशयेनेत्यर्थः । नियमश्रुत्येति - नेषां-तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः-इति सूत्रपाठ इत्यर्थः, तद्भूतस्य-उध्र्वरेतस आश्रमा-न्प्राप्तस्य, नातद्भावः- न ततः प्रच्युतिः, न ततः प्रत्यवरोह इति यावत्, "अत्यन्तमात्मानमाचार्यकुले-ऽवसादयन्नरण्यमियात् न पुनरेयात्' इति नियमादित्यर्थः । "यथा ब्राहृचर्यं समबाप्य गृही भेवेत् गृही भूत्वा वनी भवेत्' इत्यारोहवचोदर्शनवत् अवरोहवचसो अदर्शनादिति भावः, आभावाच्च-शिष्टाचाराणामभावच्चेत्यर्थः, इत्येवं नियश्रुत्या अतद्रूपेणाऽभावेन च प्रत्यवरोहाप्रामाणिकत्वं सिद्धान्तयन्तीत्यर्थः, तदप्रामाणिकत्वं सिद्धान्तयन्तीत्यस्यानन्तरं "न च

3.4.43

 

अधिकारिकमपि' इत्यधिकरणान्तरं नैष्ठिकादीनामाश्रमभ्रष्टानां प्राश्चित्तसम्भवासम्भवपरं वर्णन्तोऽसम्भव इति सिद्धान्तयन्तीति केषुचित्पाठो दृश्यते, सत्वग्रन्थः, तदंशे उत्तरत्र दूषणस्य कस्याप्यनुक्तेः, परमते च "न चाधिकारिकमपि पतानानुमानात्तदयोगात्' इति सूत्रेण प्रायश्चित्तासम्भवं पूवर्पक्षीकृत्य "उपपूर्वमपीत्येके भावमशुनवत्तदुक्तम्' इति सूत्रेण प्रायश्चित्तासम्भवं पूर्वपक्षीकृत्य "उपपूर्वमपीत्येके भावमशनवत्तदुक्तम्' इति प्रायश्चित्तसद्भावस्सिद्धान्तितः, "बहिस्तूभयथापि' इति सूत्रञ्च कृतप्रायश्चित्तानामप्यसंव्यवहार्यतापादनपरं कृथगधिकरणम् । अतो नायं परमतानुवादो

भवितुमर्हतीति लेखकदोषायत्तः, केचित्तु "वहिस्तूभयथापी'त्यधिकरणे कृतप्रायश्चित्तस्याप्यसंव्यवहार्यताप्रतिपादनात् संव्यवहार्यतापादकप्रायश्चित्तासम्भवपरोऽवं ग्रन्थ इत्याहुः । सद्भावे प्रमाणविरुद्धत्वे चेति - प्रामाणिकत्वाप्रामाणिकत्वयो-रित्यर्थः, प्रामाणिकत्वरूपप्रथमाधिकरणपूवर्पक्षोत्थापकाभावात् प्रथमाधिकरणसंशयोनुपपन्न इति भावः । मूलविचार इति - मूलभूतप्रायश्चित्तविचारे निर्णायकोत्तरसूत्रप्रतिपाद्यन्यायगर्भतयैक-

3.4.45

 

मतधकरणमित्यर्थः । प्रच्युतिरस्ति नेतीति विचार इति - प्रच्युतिः प्रामाणिकी अप्रामाणिकी वेति विचार इत्यर्थः ।। । ।।

।। इति तद्भूताधिकरणम् ।।

कर्माङ्गाश्रयाणीत्युक्तमिति - प्रणयनाश्रितगोदोहनस्यैव उद्गीथाश्रितस्य उपासनस्याऽङ्गत्वाभावात्-उद्गीथस्याऽऽश्रयत्व-मात्रतयाऽङ्गित्वाभावादित्यर्थः । भाष्ये-उद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः इति, इदमुपलक्षण "तया कार्मोर्थसंयोगात्' इत्यधिकरणे "यदि कामयत वर्षुकः यर्जन्यस्स्यादिति नीचैस्सदो मिनुयात्' इति विहितानां सदोमानाश्रितानां गुणानां फलं यजमानगाम्येव, यथा "त्र्यहं नाश्नीया'दित्यादिकं तपः सत्यप्याध्वर्यवसमाख्याने याजमानम्, तपसः प्रधानफलसिद्धयर्थत्वात् प्रधानफलस्य च याजमानत्वात्, तथा कर्माङ्गफलमपि यजमानगाम्येव, कुतः? अर्थसंयोगात् "यजेत' इत्यात्मनेपदेन संङ्गप्रधान-

3.4.45

 

फलस्य यजमानगामित्वश्रवणात् अङ्गाश्रितफलानामपि परम्परया तत्साध्यत्वादिति समर्थितत्वात्, अङ्गाश्रितोपासनफलं यजमानगाम्मेव, अतो "वर्षति वर्षति हे'त्यादीनामपि वृष्टयादिफलानां यजमानगामित्वं सिद्धमिति द्रष्टव्यम् । तदाश्रयस्य गोदोहनस्येति - स आश्रयो यस्येति बहुव्रीहिः, यत्र हि गुणः कारकतां प्रतिपद्यते, स आश्रय इति निर्वत्र्य एव मीमांसकानामाश्रयत्वव्यवहारात् निर्वर्तकतयोपादानं कर्तुमशक्य इत्यर्थः ।। । ।।

भाष्ये-फलसाधनभूतस्येति, भूतस्य प्राप्तस्येत्यर्थः, फलसाधनगोदोहनोपासनादिगुणकामयुक्तस्येत्यर्थः । यद्वा-साङ्गस्येत्येतद् अङ्गाश्रितानामप्युलक्षणम्, ततश्च "तस्मै हि परिक्रियते' इति सूत्रे हिरष्यर्थः उद्गीथाद्युपासनमाÐत्वज्यम्, तस्माद् अपि परिर्कियते' ॠत्विगिति सूत्रार्थ इति भाष्यकृतामाशयः । भाष्ये-साङ्गं कर्म ॠत्विग्मिरनुष्ठेयमित्यवगम्यत इति, न चैवं प्रधानस्य, द्रव्यत्यागात्मकस्य यागस्यापि ॠत्विक्कर्तृकत्वप्रसङ्ग इति वाच्यं, यजमानद्रव्यस्य त्यागे ॠत्विजामसामथ्र्येन लिङ्गबलात् हविस्त्यागदक्षिणादानादिव्यतिरिक्त एव ॠत्विजां कर्तृत्वमिति सामथ्र्यादवसीयते । नहि ॠत्विजान्येनेति - यदि शकत्यशकत्योरेव कर्तृनियमे नियामकत्वम्, तर्हि अध्वय्र्वादिना कार्यस्यापि यजमानेनापि कर्तुं शक्यत्वात् याजमानत्वप्रसङ्गः, अतश्च "शास्त्र फलं प्रयोक्तरि' इत्याधिकरणं द्वितीयपूर्वपक्षन्यायेन अशक्तस्यैव यजमानस्य ॠत्विक्द्वारा कर्तृत्वमित्यापतेत्, तस्मात् परिक्रयवचनब-लादेव अङ्गानां यजमानभिन्नकर्तृकत्वं वक्तव्यम्, तादृशं वचनमुपासनेप्यविशिष्टमिति भावः । वचननिबन्धनमिति "गोदोहनेन पशुकामस्य प्रणयेत्' इत्यध्वर्युकर्तुकप्रणयने गोदोहनस्य कारकत्वविधायकवचनबलादित्यर्थः, गोदोहनस्याऽप्यध्वर्युकर्तृकव्यापा-रविषयत्वाभावे तत्कारकत्वासम्भवा-दिति भावः । प्रकृते तु परिक्रयवचनबलात् ॠत्विक्कर्तृकत्वसिद्धिरिति द्रष्टव्यम् - अङ्गत्वे सति हि ॠत्विक्कर्तृकत्वमिति । दक्षिणानतानामअत्विजां साङ्गप्रधानानुष्ठानापरपर्यायभावनाशब्दवाच्यप्रयोगाङ्गत्वान्न गुणकामेषु कर्तृत्वं सम्भवतीत्यर्थः । ॠत्विक्कर्तृककर्मोपयोगित्वेनेति - अङ्गभूतस्याऽप्युपासनस्य क्रतुप्रयोगाद्वहिरनुष्ठातुमशक्यत्वेन तत्प्रयोगमध्यपातित्वा-विशेषात् परिक्रयस्य च चिकीर्षितसर्वाथत्र्वावगमाच्च उद्गीथोपासनस्यापि ॠत्विक्कर्तृकत्वं सिद्धमिति भावः । प्रोक्षणादि-वदिति - "नीजैस्सदो मिनुया'दिति प्रतिपादितसदोमानादिगुणाः आदिपदेन परामृश्यन्ते । अग्रयप्रायन्यायादिति - "तत्सामान्यादितरेषु तथात्वम्3 इति न्यायादित्यर्थः, अग्रयप्रायन्यायोऽपि अत्रैव पर्यवसितः, "तस्मादुहैवंविदुद्गाता ब्राूयादिति एवंविदन्तरादित्ये अन्रक्षिणि चोपदिष्टं परमात्मरूपं सर्वपापोदितत्वादिधर्मैः, देवलोककामावाप्तिफलाभ्यां सह विद्वान् उद्गाता यजमानं प्रति ब्राूयात् कं ते काममैहिकमामुष्मिकं किं फलमुद्दिश्य आगायानीति, तत्फलानुकूलोपासनसहितं गानं करवाणीति,

3.4.46

 

हि यस्मात् एष एवोद्गाता कामगानस्य अभिमतफलसाधनोपासनसहितगानस्य ईष्टे व एवंविद्वानधिदैवताध्यात्मोपदिष्ट-परमात्मस्वरूपं विद्वान् साम गायतीत्यर्थः । अत्र उद्गातृकर्तृकमेवोपासनं यजमानगामिफलजनकमिति स्पष्टं प्रतीतेः ॠत्विजां परिक्रीततया यजमानस्य प्रयोजककर्तृत्वसम्भवेन "शास्त्रफलं प्रयोक्तरि' इति न्यायस्थाऽप्यविरुद्धत्वादिति भावः ।। । ।।

।। इति स्वाम्यधिकरणं ।।

मननस्य प्रवृविरूपत्वेऽपीति - यमादिवदिति शेषः, उतार्थान्तरं मननरूपमित्यस्यानन्तरं मुनिशब्दस्य प्रकृष्यमननशीले व्यासादौ प्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति नेतीति पाठोस्ति चेत् समाचानः । किं मनन विधातुं योग्यमुत नेति - सर्वाश्रमधर्माङ्गकविद्यासहकारितया विद्याङ्गभूतसर्वाश्रमधर्मवदिति शेषः, तस्यैवैतदधिकरणकृत्यत्वात्, अत्र च-अतस्सर्वेष्वाश्रमेषु स्थितस्यैवेत्युपसंहारभाष्यस्यैव साक्षित्वात् । किं मननस्येति - मननशब्दो निदिध्यासनपरः, उत्तरत्रापि तथैवेति द्रष्टव्यम् । यज्ञादिश्रुतिविरोध इति - आश्रयमधर्मप्रतिपादकयज्ञादिश्रुतिविरोध इत्यर्थः, नचाऽस्याश्शङ्कायाः प्रकृतासङ्गतिश्शङ्कया, सर्वाश्रमाङ्गक-

3.4.46

 

विद्यायां सर्वाश्रमधर्मवत् तत्सहकार्यन्तरतया मौनं विधीयत इत्यस्य प्रकृततया प्रकृतासहतेरभावात् । किं कतिपयोक्ति-रनुक्तानादरमूलैव स्यादिति - वाजसनेयके "यक्षं चरे'दिति पारिव्राज्यधर्मोपदोः, "कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः' इत्यादि छान्दोग्यविहितगार्हस्थ्यधर्मादिपरिसङ्खयार्थः, एवं छान्दोग्यगतागार्हस्थ्यधर्मश्रुतिरपि वाजसनेयविहितसन्यासा-श्रमधर्मादिपरिसङ्खयार्थः । स्वप्रदेशानुक्तधर्मप्रतिक्षेपार्थ इति यावत् । मननस्य यज्ञादिश्रुतिविरुद्धतया विधातुमयोग्यत्वा-दित्यादि - अयमर्थः निदिध्यासनस्य सर्वाश्रमधर्मनिरपेक्षतया सर्वाश्रमधर्माङ्गकविद्यायाम् आश्रमधर्मदृष्टान्तेन मननस्य विधातुमयोग्यत्वात् "अथ मुनि'रिति मुनिशब्दो मननविधायकत्वायोगेन प्राप्ततपाण्डित्यानुवादीति मौश्रमनूद्यत इति फलं स्यादिति,-एवं हि क्रमः, किमस्मिन् वाक्ये मौनं विधीयते, उतानूद्यते, किं पाण्डित्यमेव मौनम् उतार्थान्तरं मननरूपमिति, किं मुनिशब्दस्य प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति, नेति, तथा किं मननं सर्वश्रमधर्माङ्गकविद्यासहकारितया विद्याङ्गभूतसर्वाश्रमधर्मवद्विधातुं योग्यमुत नेति, तदर्थं च विद्या किं सर्वाश्रमधर्माङ्गिका, उत नेति, तदर्थञ्च विद्यायाः सर्वाश्रमधर्मविरोधोऽस्ति, नेति, किं विद्या सर्वकर्मप्रतिक्षेपिका, नेति, किं वाजसनेयके "भिक्षाचर्यं चरेत्' इति पारिव्राज्यधर्मोपदेशः, छान्दोग्ये "कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः' इति गार्हस्थ्यधर्मोपदेशश्च स्वस्वप्रदेशानुक्तपरस्पराश्रमधर्मप्रतिक्षेपार्थः, उतानुक्ताश्रमधर्मप्रदर्शनार्थ इति, यदा परस्परप्रतिक्षेपार्थः, तदा विद्यायाः सर्वाश्रमधर्मसापेक्षतया सर्वाश्रमधर्माङ्गकत्वसम्भवात् सर्वाश्रमधर्माङ्गिकायां विद्यायां सर्वाश्रम

3.4.47

 

धर्मबन्मननं विधातुमयोग्यम्, यदि च प्रकृष्यमननशीले व्यासादौ मुनिशब्दप्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति, तदं पाण्डित्यस्या-ऽप्राप्तत्वात् विधेयत्वमिति, भाष्ये-विद्यासहकारित्वेन गृह्रेत इति, अत षव विध्यादिवदिति दृष्टान्तोपादानं सहकार्यन्तरत्वांश एव, न तु विधित्वांशेपीति भावः, सहकार्यन्तरविधित्वांशे विद्यादेः दृष्टान्तत्वं वक्तव्यमिति यद्यभिलाषः, तदा विध्यादिवदित्यस्य बाल्यपाणिडत्यवदित्यर्थो वर्णनीय।, तयोर्मौनविध्यादित्वादिति द्रष्टव्यम् । भाष्ये-पक्षेण प्रकृष्य-मननशील इति, पक्षेण प्रयोगः पाक्षिपप्रयोग इत्यर्थः । यद्वापक्षः-परिग्रहः, "पक्ष परिग्रहे' इति धातुः आदरेण स्वीकारः, तेन हि गमनं प्रकृष्यते, प्रकर्षश्च मननस्य स्नेहपूर्वकतया चिरविरहितनायिकानायकविषयस्येव निरन्तरमनुवर्तमानत्व-रूपमुपासनालम्बनस्य शुभाश्रयस्य भगवद्विग्रहादेः पुनः पुनः संशीलनम्, तदपि विद्यानिष्पत्त्यर्थमेव, सति ह्रस्मिश्र उपासनकालेऽपि तद्विषयचित्तैकाग्रयात् विद्या दृढिभवति, यस्योपासनव्यतिरिक्तकालेषु चिन्तान्तरावेशः तस्योपासन-कालेऽपि चेतसि समवान्तरचिन्तितविषयन्तरानुप्रवेशात् न विद्या दृढीभवेदिति भावः, भाष्ये-परिशुद्धं च परिपूर्णं विदित्वेति, उहापोहक्षमा धः, षण्डा, सा अस्य सञ्जातेति पण्डितः, तस्य कर्म पाण्डित्यम्, श्रवणमननान्तरं

तदभ्यास-पाटववशात् लब्धया ऊहापोहक्षमया नवनवोन्मेषशालिन्या अतिभयाश्रुतमतार्थानुकूल्येन सर्वकालोपनिषतात्पर्य-प्रतिषांपनपरम्, भाष्ये-यावदायुषं गार्हस्थ्यधर्मेणेति, आवदायुर्यस्येति अहुव्रीहिणा आवदायुश्शब्दः

3.4.48

 

कालपरः "कालाध्वनो'रिति द्वितीया - मौनं ज्ञानातिशयरूपमित्यर्थ इति । मौनं वानप्रस्थमित्यत्र तु आश्रमवाचिपदान्तरसहाच-र्यात् पारिशेष्यात् तत्रोत्तराश्रमपरत्वेपि इह मौनशब्दस्य ज्ञानातिशयार्थवाचित्वमेवेति भावः । बाल्यादिप्रधान्रेपीति - बाल्यादिप्रधाने सत्यपीत्यर्थः । उपदेशाविशेषादिति - "तप एव द्वितीयो ब्राहृचार्याचार्यकुलवासी तृतीयः' इत्यादिनेत्यर्थः । बहुवचनमिति - सौत्रं बहुवचनमित्यर्थः । षष्ठयन्ताध्याहारप्रसङ्ग इति - दर्शपूणमासादीनां विध्यादिवदित्यर्थः, ननु विध्यादिशब्दः प्रधानवाची, विध्यन्तशब्दाद्रङ्गवाची, ततश्च विध्यादिवत् विध्यादाविव अधाव इवैत्यर्थ इति आचस्पत्युक्तेर्नोक्तदोषावकारः इति चेन्न, विध्य-

3.4.48

 

न्तशब्दस्य अङ्ग इव विध्यादिशब्दस्य न प्रधाने प्रसिद्धिरिति तात्पर्यात् । तत्कारिषु प्रयोगादिति -मुनिशब्दस्येति शेषः, शङ्कते । तच्च विद्यावतस्सिद्धमिति - निष्पन्नविद्यस्य शुभाश्रयममनं सिद्धमेव, तदभावे विद्यानिष्पत्तेरभावादित्यर्थः । प्रारब्धविद्यविषयत्वादिति - निष्पन्नविद्यविषयत्वाभावादित्यर्थः । ब्रााहृणशब्दश्च न जातिवाचीति - पूर्वपक्षे ब्रााहृण-शब्दस्य जातिवचनत्वात् कथं ब्रााहृण इत्यत्र यथा न विधेयत्वं, एवं "अथ मुनि'रित्यत्रापीति पूर्वपक्षे उपन्यस्तब्रााहृण-शब्दजातिवचनत्वस्य सिद्धान्ते अप्रतिक्षेपात् ब्रााहृणशब्दस्य जातिवाचित्वं परेषां सिद्धान्तेऽप्यभिमतमिति मत्वा इदं दूषणमुक्तमिति दृष्टव्यम् । न च कल्पतरौ ब्रााहृणः ब्राहृाहमस्मीति साक्षात्कारवानित्यर्थ उक्त इति वाच्यम्, तस्याधुनिकत्वात् । तृतीयसूत्रव्याख्यानमप्ययुक्तमिति -भास्करीत्यमिति शेषः । पारिव्राज्यप्रस्तावादिति - परिव्राज्यस्य प्रकृतत्वादित्यर्थः । मौनस्य परस्ताद्वार्हस्थ्यस्येति - दहरविद्यायां

3.4.49

 

छान्दाग्ये "मौनमित्याचक्षते ब्राहृचर्यमेव तत्' इति मौनोपदेशानन्तरं सर्वान्ते "स सल्वेवं वर्तयन्' इति गार्हस्थ्येनोप-संहारादित्यर्थः । द्वितीयसूत्रनिर्वाहो दत्तोत्तर इति - परमतदूषणावसरे इति शेषः ।। । ।। ।। इति सहकार्यन्तरविध्यधि-करणम् ।।

3.4.50

 

भाष्ये-बालस्य यत्स्वभावानाविष्काररूपं कर्मेति, नचानाविष्करणस्याऽभावरूपस्य कथं बाल्यशब्दार्थत्वमिति शङ्कनीयम्, आविष्करणविरोधिक्रियाविशेषस्यैवानाविष्करणाब्दार्थत्वात् । एतदाश्रमनिष्ठस्य विशेषतो नियमदर्शनादित्यर्थ इति - ब्राहृविद्यानिष्ठस्येत्यर्थः ।। । ।। ।। इत्यनाविष्काराधिकरणम् ।।

भाष्ये-ऐहिकमभ्युदयफलमुपासनमप्रस्तुतप्रतिबन्धे इति, अयमत्रान्वयः-अभ्युदयफलमुपासनम्, अप्रस्तुतप्रतिबन्धे ऐहिकं भवतीति अभ्युदयफलं मुक्तिव्यतिरिक्तफलमित्यर्थः, एवं मुक्तिफलानियम इति मुक्तिफलकचिन्तान्तरस्य प्रस्तोष्यमाणत्वा-दिह तद्वयतिरिक्तमुपासनं सर्वं विवक्षितम्, ऐहिकम्-इह जन्मनि भवम्, ऐहिकमित्यस्यैव विवरणम् अनन्तरमिति, अस्मिन्नेव जन्मनीत्यर्थः, न च सौत्रस्यैहिकशब्दस्य साध्यनिर्देशपरत्वे किमैहिकफलोपासनं स्वसाधनपुयकर्मानन्तरमेव उत्पद्यत इत्यैहिकशब्दस्य पक्षविशेष-णत्वस्फलोरकटीकाविरोध इति वाच्यम्, टीकागतैहिकशब्दस्य ऐहिकामुष्मिक-साधारणपलमात्रलक्षकस्य सौत्रैहिकपदात् भिन्न-त्वात्, ऐहिकशब्दं हि लोके इह जन्मनि भवेपि प्रयुञ्जते, सौत्रस्त्वैहिकशब्द इह जन्मनि भवे वर्तते, तत्रैव प्रसिद्धिप्राचवात्, अत व योगसिध्यधिकरणे कारीर्यभिचारादेरैहिकत्वमेव स्वर्गस्या-मु#ि#ेमकत्वमेव, पशुपुत्रादिरूपस्य फलस्यासति प्रतिबन्धे ऐहिकत्वम्, सति तु प्रतिबन्धे आमुष्मिकत्वमिति व्यवस्थापयन्ति, तत्रैहिकत्वं नाम एतजन्मयोग्यत्वम्, आमुष्मिकत्वं नाम जन्मान्तरभोग्यत्वम्, नत्वहलौकिकत्वं पारलौकिकत्वं पारलौकिकत्वं वा पशुपुत्रादेः पारलौकिकत्वाप्रसिद्धेः, ततश्च सौत्रस्यैहिकशब्दस्य साध्य-

3.4.51

 

निर्देशपरत्वमेव युक्तम्, पक्षविशेषणत्वाभ्युपगमे ऐहिकपदस्य ऐहिकफलसाधनोपलक्षकत्वं वक्तव्यम्, तत्राप्यामु#ि#ेमकफलोपा-सनसङ्ग्रहायोपलक्षपरत्वमाश्रयक्षयम्, साध्यवाचि च पदमध्याहर्तव्यम्, तस्य साध्यनिर्देशपरत्वे उपासनरूपस्य पक्षस्य प्रकृतत्वादेव नाध्याहारमपेक्षते इति सामञ्जस्यमस्ति, केचित्तु-अस्मिञ्जन्मनि सम्भवतीत्येतीवन्मात्रं न साध्यं येनेदं साध्यसमर्पकं स्यात्, किन्तु सादनानुष्ठानकालाव्यवहितोत्पत्तिकत्वम्, अत एव हि पुण्यानन्तरभेवोत्पद्यत इति भाष्यम्, अतश्च सर्वर्था साध्य-वाचिपदमध्याहर्तव्यमेव, ततश्च प्रकृतिमडलान्तर्वर्तिभोगफलकम्, इहशब्दो हि सन्निकृष्टार्थवचनः मुक्तप्राप्यमगवल्लोकापेक्षया प्राकृतभोगस्तानभोगोपकरणानां सन्निकृष्टत्वेनैहिकाब्दवाच्यत्वोपपत्तेः, नचैवं स्वर्मेष्वैहिकपदप्रयोगापतिः, एतादृशार्थविवक्षया प्रयोगे दोषाभावात् ।। । ।। ।। इति ऐहिकाधिकरणम् ।।

ऐहिकोपासनविषयत्वाभावमात्रे विरोध इति - अस्मन्मते मुक्तिव्यतिरिक्तफलकोपासनविषयत्वात् पूर्वाधिकरणम् ऐहिकोपा-

3.4.51

 

सनमात्रविषयत्वम्, परमते तु सर्वविषयत्वमिति विरोध इत्यर्थः । तद्देहपात इति - विद्यादेहपात इत्यर्थः । आपरोक्ष्ये तारतम्य-सम्भवादिति -साध्यतारतम्याभावेपि साधनतारतम्यसत्वात् विलम्बाविलम्बरूपानियम उपपद्यत इति भावः ।। । ।।

।। इति मुक्तिफलाधिकरणम् ।।

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतिप्रकाशिका-

व्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य चतुर्थः पादः ।।

समाप्तश्चाध्यायः ।।

समुदिताधिकरणसङ्ख्या - 123- समुदितसूत्रसङ्ख्या 468 ।।