भावप्रकाशिका/द्वितीयोऽध्यायः

← प्रथमोऽध्यायः भावप्रकाशिका
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

2.1.1

 

प्रत्यक्षादिप्रमाणगोचरादिति - न च साङ्खयाभिमतस्य कथं प्रत्यक्षगोचरत्वमिति शङ्कयम्, कार्यावस्थायां प्रत्यक्षसम्भ-वात्; अत एव वक्ष्यति प्रत्यगर्थवदिति । पदविवक्षितमाह-मुक्तव्यावृत्त्यर्थमिति । एकशब्दविवक्षितमर्थमाह -निमित्तोपादानरूपेति । शरीरगतदोषाणां शरीरिण्यस्पर्शः सर्वान्तरभूतमित्यनेन भाष्ये विवक्षित इत्यभिप्रयन्नवतारिकामाह - जगत्कारणत्व इति । वक्ष्यत इति - परैरुद्भाविता दोषाः परिह्मताः । इदानीं स्वपक्षरक्षणाय परपक्षाः प्रतिक्षिप्यन्त इति द्वितीयपादाद्यभाष्येणेत्यर्थः । चालयितुं शक्यत इति कम्पने चलिरितिघटादिपाठान्मित्वम् । तदेतदभिप्रेत्याह, विरोधे त्वनपेक्षं स्यादिति पाठश्चेत्समीचीनः । उक्तं हीति

2.1.1

 

भाष्यस्य पूर्वमेव अवतारितत्वादिति द्रष्टव्यम् । अतो व्याकुलत्वाद्वेदान्तवाक्यानामिति - अयमाशयः, श्रुतिस्मृत्योर्न श्रुतिस्मृतित्व-कृतं नियतं प्राबल्यदौर्बल्यम्, अपि तु श्रुतिस्मृत्योर्विरोधे श्रुतिर्बलीयसीत्युत्सर्गमात्रम्; तत्तु क्वचिद्बलाबलवैपरीत्यहेतुना अपोद्यते; अत एव तवेदं कृत्वा वेदि'रितिपदार्थधर्मभूतक्रमविषयश्रुतेः "क्षुत आचामे'दितिस्मृतेः धर्मिभूतपदार्थविषयत्वं प्राबल्यकारणमस्तीति बला-बलवैपरीत्यमाश्रितम् । यथोक्तं वार्तिककारैः दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदा हि विपरीतत्वं शिष्टाकोपे यथोदितम् । अत्यन्तबलवन्तोपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः' इति । तद्वदिहापि अव्यवस्थितार्थत्वव्यवस्थितार्थ-त्वरूपमन्यद्बलाबलवैपरीत्यकारणमस्ति । अत एव "यदृचा स्तुवत तदसुरा अन्ववायन् यत्साम्ना स्तुवत तदसुरा नान्ववायन् य एवं विद्वान् यत्साम्ना स्तुवते' इत्यत्र स्तुतिविधिरूपयोरुपक्रमोपसंहारयोः अप्रतिग्रहेष्टिगतयोरिव प्राप्तस्य प्राबल्यदौर्बल्योत्सर्गस्य यदृचा स्तुवत इत्यादिना किमसुरागमनहेतुतया ऋकनिन्द्यते, उत वशीकर्तुमशक्यानामपि वशीकरणहेतुतया ? अव्यवस्थितार्थकत्वात् । कापिलस्मृतेस्तु प्रधानकारणत्वैकविषयतया व्यवस्थिताथर्कत्वात् कापिलस्मृतेरेव प्राबल्यमिति । "वचनविरोध' इति

कापिलस्मृतिवचनविरोध इत्यर्थः । ततश्च वचनस्यैव न्यायाभासमूलत्वाद्वचनविरोधे न्यायस्य दुर्बलत्वादिति कथमुच्यत इति शङ्का

2.1.1

 

परास्ता । इममर्थमभिप्रेत्या-हेति - इदं वैषम्यमभिप्रेत्य वाक्यद्वयमुपात्तमित्यर्थः । तस्याप्तत्वे प्रमाणमुक्तमिति - "ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति न जायमानं न पश्येत्' इति हिरण्यगर्भस्येव कपिलस्यापि जायमानावस्थाप्रसृतभगवत्कटाक्षलब्धाप्रतिज्ञानाति-शयशालित्वप्रतिपादनादिति भावः । अन्यपरत्वमुक्तमिति - अत एतद्ग्रन्थानुसारादेतदुक्तं भवतीति ग्रन्थावतारिकायामपि साङ्खय-स्मृतीनामन्यपरत्वं किं न स्यादित्याक्षेपोऽपि न निवेशनीयः । साकल्येनानवकाशत्वमिति - यथा "यत्किञ्चित्प्राचीनमग्नीषोमीयाते-नोपांशुचरन्तीति सावकाशादुपांशुत्वविधेः मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायाम् इति । प्रायणीयादिगतमन्द्रादिस्वरविधेः अनव-काशत्वेन प्राबल्यं तद्वदिहापिनिरवकाशकपिलस्मृतेः प्राबल्यमिति भावः । तत्र परमकारणभूतस्यैवेति - अग्नीन्द्राद्याराधनात्मनां

कर्मणां भगवदाराधनरूपत्वस्योपपादयिषितस्य भगवतस्सर्वदेवतातादात्म्यमन्तरेणोपपादयितुमशक्यतवात्तादात्म्यस्य कारणत्व-

2.1.1

 

निर्वाह्रत्वात्तादात्म्यनिर्वाहकं कारण-त्वमुपपादयितुं तन्मुखेन भगवत एव "यतो वा इमानी'त्यादिलक्षणलक्षितब्राहृत्वं च प्रतिपादयितुं वेदान्तेषु सृष्टेः प्रलयपूर्वकत्वस्य प्रतिपादितत्वात्प्रथमं प्रलयदशामाहेत्यर्थः । सर्वदेवतातादात्म्योपपत्त्यर्थमिति - परमकारणत्वंवक्तुम् इत्यनेनान्वयः । सर्वथा साम्यव्या-वृत्त्यर्थमिति - कतिपयवस्तुविषयत्वेन साम्यव्यावृत्त्यर्थमित्यर्थः । उक्तं हि प्रकृत्यधिकरणे सुषुप्तावे- कदेशलयः । अत्र तु सर्वलय इत्यर्थ इति । सम्प्राप्ते सर्गकाल इति - "क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ' इति श्रीविष्णुपुराण-श्लोकः । लक्षणहेत्वोरिति - आर्जयन् वसतीतिवद्धेतौ शतृप्रत्यय इत्यर्थः ।

आसीदिदं तमोभूतमित्यस्यार्थमाह- पूर्वमविभक्ततमश्शरी-रक इति । व्यञ्जयन्नित्यस्यार्थमाह - व्यष्टिसृष्टीति । महाभूतादिवृत्तौजा इत्यस्यार्थमाह - स्वसङ्कल्पादिति । तमोनुदशब्दार्थमाह -

2.1.1

 

- विभक्ततमश्शरीरक इति । अत्र भूत्वेत्यध्याहार्यम्, अत्र तमोनुद इत्यत्र अकारादनुपपदात् कर्मोपपदो भवति, विप्रतिषेधेनेति इगुपदइतिकस्य अणाबाधाद्रूपासिद्धि-श्शङ्कनीया, मूलविभुजातित्वात्तत्सिद्धेः । ननु तमोनुद इति क्विबन्तं पञ्चम्यन्तपदम्, ततश्च आसीदिदं तमोभूतमिति पूर्वश्लोके प्रतिपादनात्, यदातमस्तदिति मन्त्रप्रतिपाद्यशिवात्तमोधिष्ठातुः अव्यक्तः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न; तथापि यस्य तमशश-रीरमित्यादिसुबालोपनिषद्वाक्यपर्यालोचनया भगवत एव तमश्शरीरकत्वेन देवतान्तरस्याप्रतीतेः परस्येष्टासिद्धेः । अव्यक्त इत्यस्या-र्थमाह - अव्यक्तावस्थेति । नन्वव्यक्तशब्दस्य नपुंसकलिङ्गस्य त्रिगुणे रूढत्वेपि पुल्लिङ्गाव्यक्तश-ब्दस्य तदुपस्थापकत्वे किं प्रमाणम्? नहि पङ्कजो वर्तत इत्युक्ते अर्श आद्यजन्ततया पद्मवतः प्रतीतिरस्ति, तं व्यञ्जयन्निति व्यक्तिवा-चिपदसमभिव्याहारादव्यक्तपदेपि व्यक्तयभावरूपार्थस्यैवोन्मेषात् । किञ्च प्रादुरासीदित्यस्य तमोनुद इति सन्निहितेनान्वयसम्भवे व्यव-हितेनाव्यक्त इत्येनेनान्वयस्य क्लिष्टत्वाच्च; ततश्च प्रलयकाले रूपादिहीनतया अव्यक्तः परमात्मा विभक्ततमश्शरीरकः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न; तस्याप्यर्थस्येष्टत्वेनादोषात् । अतीन्द्रियग्राह्रेत्यत्रातिशब्दस्येन्द्रियेणेन्द्रियग्राहेण वा समाससम्भवादुभ- यथाप्याचष्टे - इन्द्रियम-तीत्येत्यादिना । इन्द्रियमतीत्य वर्तमानेनेति - शास्त्रस्येन्द्रियातीतत्वं नाम इन्द्रियक्राह्रक्रहणशक्ति-

2.1.1

 

मत्त्वमिति भावः । शाब्द-प्राधान्यं चेति - "तस्मिन् जज्ञे स्वयं ब्राहृा' इत्यत्र ब्राहृशब्दस्य चतुर्मुखशरीरकभगवत्परत्वस्य तैरनभ्युपगमादिति भावः । अज एको नित्य इतीति - "अज एको नित्यो यस्य पृथिवी शरीरम्' इत्यादि वाक्य इत्यर्थः । अज इति निर्विकारत्वं "यस्याक्षरं शरीरम् यस्य मृत्युश्शरीरम्' इति कारणत्वमन्तर्यामित्वं चोक्तमिति भावः । विशब्दाथर्भूतविशेषं दर्शयति - जीवबुद्धयव्यवधानेनेति । अण्डान्तर्वर्तिपदार्थसृष्टौ तु हिरण्यगर्भादिजीवानां सिसृक्षारूपां बुद्धिमुत्पाद्य तद्द्वारा सृजतीति भावः ।

2.1.1

 

भूतशब्द सिद्धपर इति - भूमिशब्दो भावप्रधानः, ततश्चातिक्रान्ता सकलेतरप्रमाणसम्भावनाभूमिर्येन सोऽतिक्रान्तप्रत्यक्षादिसकलेत-

2.1.2

 

रप्रमाणसम्भावनाभूमिः, प्रत्यक्षादिप्रमाणानामविषय इति यावत् । स चासौ भूतार्थश्चेति समास इति भावः ।।

2.1.3

 

ननु ईश्वरत्वाभ्युपगमस्साङ्खयानामप्यविशिष्ट एव, सेश्वरसाङ्खयानामपि वाक्यात्तन्निराकरणस्यापि पूर्वाधिकरणे कर्तव्य-त्वादित्यस्वरसादाह; भाष्ये-योगस्य चाभिधानादिति । योगशास्त्रे प्रधानप्रतिपाद्यस्य श्वेताश्वेतरादिप्रत्यक्षश्रुतिषु मोक्षोपायतया विधानान्न साङ्खयस्मृतितुल्येति भावः । ननु सृज्यत्वश्रुतिब्र्राहृणः क्षेत्रज्ञत्वे कथं प्रमाणमित्याशङ्कयाह - कर्मकृतनामरूपाभ्यामिति । भगवद्वचनेनेति भावः। भगवदंशत्वमिति -शौनकेन प्रदश्र्यत इत्यर्थः । स्तम्बस्याप्यकर्मवश्यत्वप्रसङ्गादिति - ननु "आब्राहृस्तम्ब-पर्यन्ता जगदन्तव्र्यवस्थिताः । प्राणिनः कर्मजनित संसारवशवर्तिनः' इति श्लोके आब्राहृस्तम्बपर्यन्ता इति नैकं पदम्, आङो ब्राहृस्त-

2.1.3

 

म्बाभ्यामन्वये वैरूप्यपरिहारार्थमुभयत्राप्येकार्थत्वमाश्रयणीयं स्यात्, किन्तु स्तम्बपर्यन्ता इति पृथक् पदम् । इतरथा

पर्यन्तशब्द-वैयथ्र्यप्रसङ्गात्, ततश्च पर्यन्तपदस्वारस्यात्स्तम्बस्य माण्यन्तर्भावेपि न ब्राहृणोऽन्तर्भावो युक्तः, तत्राङो मर्यादार्थत्व सम्भवदिति चेन्न; अभिविधिसाहचर्यादभिविधित्वोपपत्तेर्वैरूप्याश्रयणस्यान्याय्यत्वादिति भावः । प्रविश्य च तथापूर्वामिति - अपूर्वाभितिछेदः । युक्तावस्थायामिति - योगदशायामित्यर्थः । कार्यस्मृत्यनुपपत्त्येति - महदहङ्कारादिकार्यविषयस्मृतेर्यथा मूलश्रुत्यनुपलम्भादप्रामा-

ण्यम्; एवं कारणप्रधानविषयस्मृतेरपीति सूत्र तात्पर्यार्थः । परैस्तु औपनिषदयोगसापेक्षाच्छØतिसंवादबाहुल्याच्च योगस्मृतिः प्रमाणमि-

2.1.3

 

त्यधिकाशङ्का युक्तिद्वयेन वर्णिता, तत्र प्रथमयुक्तेर्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानादिति भाष्येणोक्तत्वाद्द्वितीयां संवा-दबाहुल्ययुक्तिमनूद्य दूषयति - अधिकाशङ्कापरिहारौ परैरेवमुक्तावित्यादिना । तत्कारणं साङ्खययोगाधिगम्यमिति - नच साङ्खय-योगशब्दयोः ज्ञानपरत्वं शाङ्करभाष्ये वर्णितमितिवाच्यम्; प्रसिद्धार्थपरित्यागे हेत्वभावादितिभावः ।।

3.अधिकरणम्

 

शास्त्रस्य व्युत्पत्तिग्रहादिकार्यान्तरसापेक्षत्वादन्यापेक्षत्वं न सम्भवतीत्याशङ्कय व्याचष्टे - प्रमाणान्तरानपेक्षस्येति । प्रमित्यन्तरनैर-पेक्ष्यमिति - समानविषयप्रमित्यन्तरनैरपेक्ष्यमित्यर्थः । प्रमाणव्यवस्थापनमिति - नीलं नभ इति चाक्षु ज्ञानस्य नीरूपाकाशविषयत्वं

वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्, तद-पेक्षा च सर्वेषां प्रमाणानां समाना; शास्त्रस्य तु विशेषेण आकाङ्क्षासन्निधियोग्यताज्ञानाधीनप्रमाणभावस्य सर्व-त्रैव तर्कानुग्रहापेक्षा; उक्तञ्च मनुना "यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः' इति । तदेव हि तर्कानुगृहीतशास्त्रा-र्थप्रतिष्ठापनं श्रुत्या च "मन्तव्यः' इत्युच्यते । अथोच्येत-श्रुत्या च जगतो ब्राहृैककारणत्वे निश्चिते सति तत्कार्य-स्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते । यथा चेतनस्य सुषुप्तिमूच्र्छादिषु चैतन्यानुपलम्भः, तथा घटादिष्वपि सदेव चैतन्यमनुद्भूतम्; अत एव चेतनाचेतनविभाग इति । नैतदुपपद्यते; यतो नित्यानुपलब्धिरसद्भावमेव साधयति, अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः । यस्य हि क्वचित्कदाचिदपि यत्कार्यानुपलब्धिः, तस्य तत्कार्यशकिं्त ब्राुवाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशकिं्त ब्राूताम् । किञ्च वेदान्तैर्जगतो ब्राहृोपादान-ताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्तेश्चैतन्यस्य वाऽनुभूतस्य सद्भावनिश्चयः, तन्निश्चये सति वेदान्तै-र्जगतो ब्राहृोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम्, विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव न शक्यते । किं पुनः प्रकृतिविकारयोः सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्राहृोपादानताप्रतिपादनासम्भवं ब्राूषे ।

3.अधिकरणम्

 

नास्ति, अपि तु मेघादिविषयत्वमितिव्यवस्थापनमित्यर्थः । श्रेयस्करत्वप्रमितिजनकेति - विशेषरूपत्वेन शीघ्रप्रवृत्ते-

ष्टसाधनताप्रमितिसामग्रयवरुद्धवैधहिंसायां बलवदनिष्टसाधनताज्ञानसामग्रीनां शंभत इत्येवं सामग्रीविवेचनमित्यर्थः । अर्थस्वभाव-सामग्रीस्वभावनिरूपणयोव्र्यवस्थितविषयत्वमुक्ता एकैकस्मिन्विषये द्वयोरपि पर्यायेण वृत्तिस्सम्भवतीत्याह -वद्वार्थस्वभाववि-षयनिरूपणं नामेति । स्वप्नमूच्र्छादिष्वनुपलभ्यमान चैतन्यसत्तयावैशेषिकादिभिरनभ्युपेतत्वात्कथं प्रतिबन्दीकरणमित्याशङ्कयाह - वेदान्तिभिनित्र्यस्येति । वेदान्तप्रामाण्यमभ्युपगच्छतेति साङ्खयेन वेदान्तप्रामाण्यस्याभ्युपेतत्वाज्जगतो वेदान्तप्रतीतब्राहृोपादान-

2.1.5

 

कत्वसिध्द्यर्थं चैतन्ययोगोऽङ्गीकार्य इत्याशङ्कयाहेत्यर्थः । द्रव्यत्वावान्तरजातिविशेषस्सालक्षण्यमितीति - द्रव्यत्वसाक्षाद्य्वाप्यजात्या उपादानोपादेययोस्सालक्षण्यं विवक्षितमित्यर्थः । ततश्च पिण्डत्वकपालत्वरुचकत्वस्वस्तिकत्वादिना सालक्षण्याभावेपि न दोष इति ध्येयम् । तच्चात्र चेतनत्वमिति आत्मत्वस्य

द्रव्यत्वसाक्षाद्य्वाप्यजातित्वादिति भावः । दृश्यते तु चेतनत्वानुवृत्तिरप्यस्तीति - अत्र केचित्, कारणकोटौ विशेष्यभूतस्य ब्राहृणः कार्यकोटौ विशेषणभूतेष्वतेवचेतनेष्वप्युपादानत्वमुपपादनीयम्, अन्यथा तस्य सर्वोपादा-नत्वा-सिद्धेः, अत एव श्रुतिप्रक्रियायां यद्वा जगत इति निष्कर्षकशब्दः । ब्राहृशब्दो विशेष्यमात्रपर इत्यादिना कार्यकोटौ विशे-षणभूतस्य जगतः कारणकोटौ विशेष्यभूतब्राहृ प्रति उपादेयत्वशरीरत्वे स्त इत्याचार्यैरेव प्रतिपादितम् । ततश्च तत्र सालक्षणयाभावा-

2.1.7

 

दुपादानत्वं न सम्भवतीत्याक्षेपस्य चेतनांशे चेतनाशत्वानुवृत्तिरप्यस्तीति परिहारस्यासम्भवादेतत्सूत्रोक्तन्यायेन विलक्षणयोरप्युपा-दानोपादेयभावोऽस्तीत्येव परिहर्तव्यमिति वदन्ति । इति माक्षिकस्येति - मधुन इत्यर्थः । तत्तु क्रिम्यादौ नास्तीत्यर्थः । ननु द्रव्यत्व-साक्षाद्वाप्यजात्या सालक्षण्यस्य पूर्वं विवक्षितत्वात्तत्र कथं व्यभिचारः प्रदर्शित इति चेन्न; माक्षिकस्य पृथिवीत्वात् क्रिम्यादेश्चेतन-त्वेनात्मत्वात्तदानीमपि व्यभिचार एवेति भावः । किञ्च पार्थिवेभ्योऽरण्यादिभ्यः वह्नेस्सामुद्रजलात्पार्थिवस्य मुक्ताफलस्योत्पत्ति-दर्शनाद्य्वभिचारस्य तादवस्थ्यमिति द्रष्टव्यम् । असदिति चेन्न प्रतिषेधमात्रत्वात् । भाष्ये - कारणे परस्मिन् ब्राहृणि कार्यं जगदिति ।

2.1.8

 

तादात्म्येनेतिशेषः । कारणावस्थायां कार्यं जगत्का-रणात्मना न विद्यत इति असत उत्पत्तिप्रसङ्ग इत्यर्थः । कार्यकारणयोस्सजा-तीयत्वमेवेति - प्रतिषिद्धमितिशेषः । तस्य व्याख्या-नमस्येदमितिप्रत्यभिज्ञानार्हावान्तरजात्या सालक्षण्यनियमः प्रतिषिद्धः, न त्वेकद्रव्यत्वमित्यर्थ इति । अपीतौ तद्वत्प्रसंगादसमञ्जभसम् । भाष्ये - अपीतिपूर्वकसृष्टयादेः प्रदर्शनाथर्मिति । अत्र केचित् - प्रपञ्च-स्थितिकाले तद्दोषैर्दुष्टत्वेपि तत्प्रलये निर्दोषं कल्याणगुणविशिष्टं ब्राहृावतिष्ठत इति तद्विषयत्वं वेदान्तवाक्यानामुपपद्यते । चेत्रस्सुखं जीवतीतिवाक्यानामिव व्याध्यादिरहितकालविषयत्वमिति शङ्कानिराकरणार्थमपीताविति प्रत्यस्य सूत्रे विशिष्यग्रहणम् प्रलयेपि भाविकल्पभोग्यफलहेतूनां पाप्मनां सूक्ष्मरूपापन्नेषु जीवेषु सत्त्वावश्यम्भावात्तैर्दुष्टत्वं स्थिति-काल इव प्रलयकालेपि ब्राहृणः प्रसज्यत इति अपहतपाप्मत्वादिश्रुतीनामसामञ्जस्यमितिभाव इति वदन्ति । मत्वर्थीय प्रत्यय इति - भावप्रधानश्च निर्देश इति भावः । परोक्त-मिति - चेष्टाभोगेन्द्रियाश्रयत्वरूपं तार्किकोक्तं लक्षणत्रयमित्यर्थः । अन्तर्गतत्वमेवोपपादयति सुखदुःखेतीति । भोगाश्रयत्वे इन्द्रि-याश्रयत्वोक्तिरिति - यद्यपि सुखदुःखसाधनेन्द्रियाश्रयत्वमेकं लक्षणं सुखदुःखोपभोगसाधनत्वस्येन्द्रियविशेषणत्वात् तथाप्यर्थात्त-दपि सूचितामित्यभिप्रायः । मुक्तेश्वरशरीरस्येति - मुक्तेश्वरयोश्शरीरासम्भवद्योतनार्थमित्यर्थः । चेष्टाश्रयत्वोक्तिरिति - प्राण-

2.1.8

 

शरीरसंयोगासमवायिकारणक्रियाया एव चेष्टात्वादिति भावः । भोगायतनत्वं पृथग्दूषयतीति - पूर्वोक्तानि लक्षणानि पूर्वं न दूषि-तानि अपितु तेषां लक्षणानां सामाचीन्यं सिद्धवत्कृत्यैव चिदचितोस्तादृशलक्षणाभावाद्भगवच्छरीरत्वं न सम्भवतीति शरीरत्वमेव दूषितम् । भोगायतनलक्षणे त्वतिव्याप्त्या लक्षणमपि दूष्यत इति वैरूप्यं द्रष्टव्यमिति भावः । असम्भव- माहेति - चेतनेषु शरीरत-याभिमतेषु लक्षणस्याभावमाहेत्यर्थः । न त्वव्याप्त्यतिव्याप्तिसमभिव्याह्मतमसम्भवरूपं लक्षणं दूषणमिति मन्तव्यम् । इन्द्रियाधिष्ठाना-वयवनिषेधमुखेनेति - पाण्यादिमत एव शरीरत्वादिति भावः ।। सू नतु दृष्टान्तभावात् । असामञ्जस्यं प्रतिषेधता नेत्यनेनैव हेयसम्ब-न्धगन्धासम्भवस्य सिद्धतया तुशब्दस्य शरीरशरीरिभावसम्भवज्ञापकत्वमेव तुशब्दोत्रेति भाष्येपि विवक्षितमित्यभिप्रेत्याह -

नेतिपदेनैवेत्यादि । केचित्तु "तद्वत्प्रसङ्गादसमञ्जसम्' इति सूत्रेणापुरुषार्थसम्बन्धप्रसङ्गादसामञ्जस्यमिति शङ्कितेनेत्यनेनासामञ्जस्यं

2.1.9

 

निषिद्धयते, तुशब्देन तद्वत्प्रसङ्गादित्युक्तहेयसम्बन्धगन्धाभावः प्रदश्र्यत इति यथाश्रुतभाष्यमेव समर्थयन्ते - तच्च

तल्लक्षणमिति -

2.1.9

 

प्रवृत्तिनिमित्तभूतं लक्षणमित्यर्थः । अयं भावः, गोर्हि त्रीणि लक्षणानि, गमिकर्तृत्वरूपं व्युत्पत्तिलक्षणमेकं लक्षणम्, गोशब्दप्रवृत्ति-निमित्त गोशब्दप्रवृत्तिनिमित्तगोत्वव्यञ्जकं सास्नादिमत्त्वमेकम्, गोशब्दप्रवृत्तिनिमित्तभूतं गोत्वमेकमिति इह च शरीरशब्दव्युत्पत्ति-निमित्तलक्षणम्, विशरण कर्मफलभोगः इत्यादिकं तु सास्नादिवदुपलक्षणरूपलक्षणं न भवितुमर्हति, सास्नादिव्यङ्गयगोत्वरूपजा-तिवद्भोगेन्द्रियाश्रयत्वादिव्यङ्गयायाश्शरीरत्वजातेरभावादि इतीदमेव प्रवृत्तिनिमित्तभूतं लक्षणमिति पर्यवस्यतीत्यभिप्रेत्य कर्मफलहेतु-रित्यादिकं प्रवृत्तिनिमित्तलक्षणमिति प्रवृत्तिनिमित्तलक्षणत्वेन भाष्येऽनूदितमितिभावः । प्रथमोपात्तमिति - इन्द्रियाश्रयत्वादेर्मुक्त-

2.1.10

 

शरीरेषु सम्भवादितिभावः । नन्वाकल्पमिन्द्रियाणामवस्थानात् "तदन्तरप्रतिपत्तौ रहति' इत्यधिकरणे भूतसूक्ष्मेन्द्रियाणामनुवृत्ति-कथनाच्च कथमहल्यादिशरीराणामिन्द्रियाश्रयत्वाभाव इत्याशङ्कयाह - इन्द्रियाश्रयत्वं ज्ञानप्रवृत्तिजननेति । चेष्टेन्द्रियार्थाश्रय इति

अर्थशब्दो भोगपरः । नहि ज्ञानं ज्ञानविशिष्टेनेति - अयमर्थः, यदीयधर्मभूतज्ञानेन यद्धार्यं यन्नियाम्यं च तत्तस्य शरीरमिति विवक्षि-तम् । ततश्च यावइसुस्तं धार्ये यूकादौ गर्भस्थविनष्टजन्तौ वा नातिव्याप्तिः । प्रभाव्यावृत्तिरिति - प्रभायाः प्रभावता नित्यधार्यत्वादिति-

2.1.12

 

भावः । मृषावादिपक्षं दूषयति - तर्काप्रतिष्ठानादित्यादिकमिति । व्यपदेशाच्च क्रियायामिति - अस्यायमर्थः, "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच' इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्ता जीवः । ननु विज्ञानशब्देन नात्मनो व्यपदेशः, अपि तु अन्तःकरणस्येति चेत्; एवं सति निर्देशविपर्ययः स्यात् बुद्धेः करणत्वात्, विज्ञानेनेतिकरणविभक्तिनिर्देशस्स्यादिति । सूत्रत्रयं परै-स्त्वेवं व्वाख्यातमिति - इतरेषां सूत्राणामत्यन्तवैरूप्याभावान्न तानि दूषितानि, यद्यपि "असदिति चेन्न प्रतिषेधमात्रत्वात्' इति सूत्रे यदि विलक्षणाद्ब्राहृणो विलक्षणं जगदुत्पद्यते तर्हि प्रागुत्पत्तेः कार्यमसत्स्यादित्यसत्कार्यवादप्रसङ्ग इतिचेन्नैष दोषः । प्रागुत्पत्ते-

2.1.12

 

रसदितिवादस्य प्रतिषेधमात्रत्वात्प्रतिषेधस्य प्रतिषेध्य शून्यत्वान्निर्विषयत्वादित्यर्थः । प्रागुत्पत्तेः कार्यमसत्स्यादिति किं कार्यस्य कार-णात्मना सत्त्वं न स्यादित्यापाद्यते, उत कारणात्मतां विहाय स्वातन्त्र्#ेण? नाद्यः, कारणात्मना सत्त्वस्य प्रागुत्पत्तेरपि सत्त्वात् । न द्वितीयः, स्वातन्त्र्#ेण सत्त्वस्येदानीमप्यभावात्; अत उत्पत्तेः प्रागसदित्युक्तिरुक्तिमात्रमेव नार्थवतीत्यर्थो वर्णितः । तथापि तस्यार्थ-स्यात्यन्तविरुद्धत्वाभावादुपेक्षितम् । यथा स्वप्नदृगेकस्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्यगतत्वात्, एवमवस्थात्र-यसाक्षी एकः, अव्यभिचारी अवस्थात्रयेण व्यभिचारिणा न स्पृश्यते, मायामात्रं ह्रेतत् । यत्परमात्मनोऽवस्थात्रयभासनं रज्ज्वा इव सर्पादिभावेनेतिपरभाष्योक्तं दृष्टान्तमर्थतोऽनुवदति - स्वप्नतर्शी च पुरुषः स्वमायया न स्पृश्यत इति । अस्य चायमर्थः, एको जाग-रितसुषुप्त्योरनुवर्तमानः स्वप्नदृक् स्वप्नदर्शनरूपया स्वप्नोपादेयमाययोपादानभूतो यथा न स्पृश्यते, अवस्थान्तरेऽनुवृत्त्यदर्शनात्, एवमु-त्पत्तिस्थितिप्रलयरूपावस्थादर्शी परमात्मापि नावस्थात्रयेण संसृज्यते, अवस्थात्रयस्यापि मिथ्यात्वादिति । इदमस्योपादानमिति - इदमस्य भोगसाधनं मन इन्द्रियादीत्यर्थः । जडत्वानृतत्वपरित्यागाभावादिति - यद्यपि शाङ्करभाष्ये अत्यल्पं चेदमुच्यते, कार्यमपी-तावात्मीयेन धर्मेण कारणं संसृजेदिति स्थितावपि समानोयं प्रसङ्गः । कार्यकारणयोरनन्यत्वाभ्युपगमात् । "इदं सर्वं यदयमात्मेति' श्रुतिः त्रिष्वपि कालेष्वविशेषेण कार्यकारणानन्यत्वं ग्राह्रते, तत्र यः परिहारः कार्यस्य कार्यधर्माणां चाविद्याध्यारापितत्वान्न तैः कारणं संसृज्यत इति अपीतावपि समान इति अप्ययस्थित्ययोस्साम्यप्रतिपादनात्

कार्यकारणानन्यत्वप्रयुक्तदोषस्योद्भावनीयत्वे स्थूलत्व-

2.1.12

 

ह्यस्वत्वादिदोषाणामपि जडत्वानृतत्ववदापादयितुं शक्यत्वात् स्थूलत्वाद्याकारे परित्यक्तेपि जडत्वानृतत्वपरित्यागाभावादितिवैषम्यं किन्निबन्धनम् ? नहि स्थूलत्वादिदशायामैक्यम् अप्ययदशायां जडनैक्यमस्तीति तैरभ्युगतम् येनायं सरम्भस्सफलस्स्यात्, तथाप्य-पीतावितिसूत्रे अप्ययस्य विशिष्योक्तया तत्र किञ्चिद्वैषम्यं वक्तव्यमित्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यमिति - हस्तिशस्त्रादेरविप्रकर्षादिति - हस्तिशस्त्रादेरपि कायस्र्य ज्ञानोपादानकस्योपादानादनधिकदेशत्वादितिभावः । वर्तमानाविद्याया आदिमत्त्वं च भवेदिति - पूर्वा-विद्यायाः पूर्वं मुक्तिकाले नष्टत्वादितिभावः । बन्धमोक्षव्यवस्थोक्तिरिति - जीवोपाधिभूतानामविद्यानां नानात्वात् यस्य जीवस्य तत्त्वज्ञानेनाज्ञानं नष्टं तस्य मुक्तिः नान्यस्येति व्यवस्थोक्तिरित्यर्थः । पूर्वोक्तदोष इति - निवृत्ताविद्यानां पुनरुत्पत्तिस्यादित्यर्थः । उपाधिविरह एव भेद इतिचेदिति । यद्यपि निवृत्तोपाधित्वमेव भेद इति चेदिति पूर्वमेव शङ्कितम् तथापि दूषणान्तरदानाय पुनरु-

2.1.12

 

पन्यास इति द्रष्टव्यम् । अंशभेदस्याबाध्यत्व इति - उपाधिविरहरूपांशभेदस्य बाध्यत्व इत्यर्थः । क्षणमात्रमपसरणमपीति -मृषा-वादिमतमपरमार्थकञ्चुकाश्रयणादेकां कक्ष्यां सहते, भास्करमतं तु तावदपि न सहत इत्यर्थः । कार्यावस्थायामेवेति - मूलकारण-दशाव्यतिरिक्तदशायामित्यर्थः । आनीदवातमिति "अन प्राणने' आनीदिति सत्त्वलक्षणाननसम्बन्धकथनादितिभावः । विनाश-हेतुवैयथ्र्यप्रसङ्गादिति - प्रलयहेतुभूतसञ्जिहीर्षादिवैयथ्र्यप्रसङ्गादित्यर्थः । तद्वत्प्रसङ्गादसामञ्जस्यमिति - तद्वत्प्रसङ्गात्-शून्यत्व-प्रसङ्गादित्यर्थः । असच्छब्दवाच्यमपीति - कार्यावस्थमित्यनुषज्यते । अधिकरणद्वयेन निर्णीत इति - असदिति चेत् अपीता-

2.1.13

 

वित्यधिकरणद्वयेनेत्यर्थः । तदभावस्येति - सत्त्वाभावस्येत्यर्थः ।। एतेन शिष्टापरिग्रहा अपि व्याख्याताः तथा सति हीति-शिष्टाश्च ते अपरिग्रहाश्चेति व्याख्याने पूर्वोक्तप्रधानकारणवादस्यापि शिष्टापरिग्रहससिध्यति । शिष्टैरपरिगृहीता इति व्याख्याने तु वक्ष्यमाणानां वैशेषिकादिमतानामेव शिष्टापरिगृहीतत्वं पूर्वोक्तस्य प्रधानकारणवादस्य तु शिष्टपरिगृहीतत्वमित्येव प्रतीतेरितिभावः । प्रतिबन्द्या समाधत्ते कथं धर्मशास्त्रपरिगृहीतस्येति । ननु मीमांसान्यायविस्तर इति न्यायमतस्य परिगृहीतत्वेपि वैशेषिकमतस्य परिगृहीतत्वं नेत्याशङ्कयाह - नैयायिकोवैशेषिकश्चेति । शङ्कते - कारणत्वस्येति । पर भाष्ये-परमाणुकारणवाद इत्यादिना परमाणुत्वकीर्तने-

2.1.14

 

नान्यदपि शङ्काकारणं सूचितम् अल्पाधिकपरिमाणयोर्हि तन्तुपटादिषूपादानोपादेयभावो दृष्टः, नतु वैपरीत्यं दृष्टम् । अतस्त्रिसरेणुप्रभृतिषु पृथिवीलोकादिपर्यन्तेषु कार्येषु परमाणूनामेव कारणत्वं युक्तम्, नतु कार्येभ्योऽधिकपरिमाणस्य प्रधानादेरित्यानन्दगिरिणोक्तमनुवदति - तर्ककुशलताप्र-सिद्धेरिति । ।। इति शिष्टापरिग्रहाधिकरणम् ।।

चरमो विचार इति - न ह वै सशरीरस्येत्यर्थः । न त्वसाधारणतयेति भोक्तृत्वं किं सशरीरत्वप्रयुक्तम्, उत कर्मपारतन्त्र्यप्रयुक्तम् ?

2.1.14

 

इति चिन्ताया एव तदधिकरणकृत्यत्वादितिभावः । सूत्रभेदस्त्विति - सम्भोगप्रा-प्तिरित्यस्य भोक्त्रापत्तेरिति सूत्रस्य चेत्यर्थः । मुक्तिपाद इति - भावं जैमिनिरितिसूत्र इति भावः । भाष्ये - प्रचुरदन्दशूक इति । दन्दशूकशब्दो दन्दश्यत इत्यवयवव्युत्पत्त्यादंश-मशकादिपरः, नतु रूढ¬ा सर्पपर इति द्रष्टव्यम् । भोग्यस्य भोक्तृतापत्तिमिति - एकब्राहृोपादेयत्वेन भोक्तृभोग्ययोरुपादानभूत

2.1.14

 

ब्राहृानन्यतया भोक्तृभोग्ययोः परस्पराभेदप्रसङ्ग इत्याशङ्कय एकसमुद्रोपादानकतया समुद्रादनन्ययोरपि फेतनारङ्गयोः परस्परभेदवद्भो-क्तृभोग्यव्यवस्थेति परिह्मतमित्यर्थः । त्रयाणामपि वाचक इति - कारणान्तर्गतशक्तयविद्योपाध्युपहितस्येति कुदृष्टित्रयाभिहतानां त्रयाणामपि परामर्शादिति भावः ।। ।। इति भोक्त्रापत्यधिकरणम् ।।

2.1.15

 

तदसत्त्वमिति सूत्रं शिक्षणीयमिति - न विलक्षणत्वादित्यादिषु प्रपञ्चस्यापि प्रकृतत्वाविशेषेण तच्छब्देन प्रपञ्चस्यापि परामर्शः सम्भवतीति भावः । सन्मात्रस्य कारणादनन्यत्वं स्यादिति - कार्यस्य कारणानन्यत्वं नाम कार्यशब्दोपलक्षितस्य सन्मात्रस्य

2.1.15

 

कारणशब्दोपलक्षितत्वात्सन्मात्रादनन्यत्वमिति पर्यवसिताथर् इति भावः । पत्रपुष्पाद्युपादानत्वमिति - शाखागतपत्रपुष्पाद्युपादान-त्वमित्यर्थः । ननु शाखागतपत्रपुष्पाणां चन्द्रगतत्वे प्रमाणाभावात् चन्द्रोपादानकत्वाभावेपि प्रपञ्चस्याविद्यागतत्वमेव न ब्राहृगतत्व-मित्यत्र प्रमाणाभावात्, प्रत्युत ब्राहृण एव उपादानत्वग्राहकश्रुतिसत्त्वात् तदुपलक्षितस्य ब्राहृण उपादानत्वं वक्तुं सुशकमिति चेन्न, ब्राहृणो निर्विकारत्वश्रुतिबलेन तदसम्भवात् । न च विकारस्यापारमाथिर्कत्वात्तदविरोध इति वाच्यम्; अद्याप्यपारमार्थिकत्वासिद्धे-स्तथा निर्वाहायोगादिति भावः । यद्य्वतिरेकेणेति - "भावे चोपलब्धे'रितिसूत्रे भाव इत्येतदुपलब्धेरप्युपलक्षणम्, उपलब्धेरित्येतत् भावस्याप्युपलक्षणम्; तथाच भावे उपलब्धौ च भावदुपलब्धेश्चेत्यर्थः, ततश्च कारणभावे कार्यस्य भावात् कारणोपलब्धौ कार्योप-लब्धेश्च कार्यस्य कारणादनन्यत्वमिति व्याख्यातमित्यर्थः । धूमाग्न्योरिति - अग्निभाव एव धूमस्य भावः । आलोकोपलम्भे सत्येव रूपोपलम्भ इति एकैकसत्त्वेपि धूमस्य अग्न्युपलम्भानुविधाप्युपलम्भविषयत्वाभावात् रूपस्य चालोकसद्भावानुविधायित्वसद्भावाच्च न व्यभिचार इति भावः । जातीयव्यक्तयोरनेकान्तत्वाच्चेति - यद्यपि जात्युपलम्भ एव व्यक्तयुपलम्भ इति न नियमोऽस्ति, दूरत्वादि- दोषवशेन गोत्वब्रााहृणत्वाद्यग्रहेपि व्यक्तिग्रहणसम्भवात्; तथाप्यसति बाधके तदुपलम्भानुविधाय्युपलम्भवत्त्वमस्तीति भावः । निर-धिष्ठानभ्रमासम्भवनिराकरणेनेति - श्लोकः "स्वरूपानादित्वस्वपरघटने दुर्घटनता प्रवाहानादित्वं पुनरिति चतस्त्रो हि गतयः ।

2.1.15

 

असत्या विद्याया वदितुमनवस्थापरिह्मतौ मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ' इति दत्तोत्तरमित्यर्थः । सामान्यरूपमिति - जाति-रूपमित्यर्थः । उपाधिरूपमिति - अर्थक्रियाकारित्वप्रमाविषयत्वतद्योग्यत्वादिरूपमित्यर्थः । तदवस्थतन्त्वादिभाव एव प्रावर-णादिकार्यदर्शनादिति - पटावस्थतन्त्वादित एव प्रावरणादिलक्षणस्य घटकार्यस्य दर्शनात्तन्त्वादिरेव प्रावरणादेः

कारणम्; न तन्त्वादिव्यतिरेकेण पटादिः कश्चिदस्तीत्यर्थः । निर्विषयत्वप्रसङ्गमेवोपपादयति - सद्द्रव्यं हीति । तत्र दूषणमुक्तमिति

2.1.15

 

-

सत्यपीत्यादिना सर्वदा कारकव्यापारेण नोपरन्तव्यमित्यन्तेन भाष्येणेत्यर्थः । नहि घटार्थमारोपित इति । ननु वर्णनित्यत्वपक्षे उच्चार-णविशेषाणां वर्णविशेषव्यञ्जकत्वनियमवत्कारकव्यपारेष्वप्यभिव्यङ्गयनियमोपपत्तेः, वर्णनित्यत्वपक्षेपि रविकिरणैर्युगपदभिव्य-ङ्गययोर्नैल्योत्पलत्वयोः प्रदीपप्रभया उत्पलत्वस्यैवाभिव्यक्तिर्न नैल्यस्य, वियति विक्षिप्तकूपजलगतशौक्लयजलत्वयोः रविकिरणैस्स-होपलब्धावपि कूपान्तरावस्थितिसमये रविकिरणैर्जलत्वस्यैवाभिव्यक्तिरित्यादिव्यवस्थादर्शनादवस्थानां प्रतिनियतव्यञ्जकव्यङ्गयत्व-मुपपद्यत इति चेदुच्यते, केयमभिव्यक्तिः ? ज्ञानं चेत्तदा दण्डचक्रादिमेलनस्य घटज्ञानकारणत्वापत्त्या तदपनयनानन्तरं घटज्ञानादयो

न स्युः, आवरणापनयश्चेत् घटसामग्रया किमावरणमपनीयते ? ननु मृदि पूर्वस्थिता पिण्डावस्था, तस्या नित्यमेव स्थिताया

2.1.15

 

अपि घटावस्थायाआवरणं तदा आवृतत्वात् सा तदा न प्रतीयते; घटसामग्रया पिण्डावस्थोपमर्दे सति तिलपीडनेन तैलमिव अवघातेन तण्डुल इव दोहनेनपय इव खननेन कूपजलमिव प्रक्षालनेन पटशौक्लयमिव प्रतीयते । न च तथासति मुद्गरपातानन्तरमपि घटावस्थायाः प्रतीतिप्रसङ्गः, तदावरणभूतायाः पिण्डावस्थाया अपि तिरोहितत्वादिति वाच्यम्, मुद्गरपाताभिव्यक्तायाः कपालत्वावस्थायास्तदावर-णत्वात् । कारणेऽभिव्यक्तायाः कस्याश्चित्कार्यावस्थायास्तद्गतसकलकार्यावस्थान्तरावरणत्वाभ्युपगमात् । नच तथा सति कपालेषु कदादिद्घटकारणमेलने सति घटावस्थाभिव्यक्तिप्रसङ्गः, इष्टापत्तेः । कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनव्यापारैर्मार्दवं प्रापय्य दण्डचक्रादिमेलने घटावस्थाभिव्यक्तिदर्शनात् । नच दग्धपटानां पुनः पटभावो न दृश्यत इति वाच्यम्, तद्भस्मनां क्षितितल-पतितानां क्षितिप्ररूढकार्पासतरुफलपरिणतौ क्रमेण तेषां पटभावोपपत्तेः । न च तन्त्ववस्थायाः पटवस्थावरणत्वस्य वक्तव्यत्वाद्विरल-तन्त्वारब्धपटे तत्तिरोधानशङ्कानास्पदे पटावस्थाभिव्यक्तिर्न स्यादिति वाच्यम्; फलबलेन कुविन्दकृतसंयोगविशेषरहिततन्त्ववस्थाया-स्तदावारकत्वकल्पनात्, तस्मादविशेषिता विशेषिता वा पूर्वकार्यावस्थैव घटपटाद्यवस्थानामावरणमिति, नैतद्युक्तम्; तथा परिणाह-शालिनी पटावस्था कुविन्दव्यापारात्प्रागपि यथादृष्टेन स्थूलेनैव रूपेण सती तन्तुत्वेनाव्रियते, उत कूर्माङ्गवत्सङ्कुचितेन रूपेण सती ? नाद्यः यथा दृष्टरूपायाः पटावस्थायास्तन्तुषु कुविन्दव्यापारात्प्राग्व्यस्तेषु समस्तेषु वा विप्रकीर्णेषु संहतेषु वा पर्याप्त्यवृत्त्यसम्भवात् । न द्वितीयः, यथा दृष्टपटावस्थायाः आगन्तुकत्वापरिहारात् । न च वाच्यमनादिरेव सा पटावस्था अद्यतनेषु तन्तुषु न वर्तते, किन्तु

मूलकारण इति; तथा सति यत्रेदानीं भविष्यत्पटप्रादुर्भावप्रदेशे तन्तवो न सन्ति, तत्रावरणाभावेन तदभिव्यक्तिप्रसङ्गात् । न च तत्र

2.1.15

 

या काचन कार्याव-स्थाऽस्ति सैवावरणं स्यादिति वाच्यम्; तस्याः कुविन्दव्यापारानन्तरमपि सर्वत्रावर्जनीयत्वेन सवर्दा पटानभि-व्यक्तिप्रसङ्गः, तस्मात् कार्याणि सर्वाण्यपि सादीन्येवेति भावः।

मिथ्यात्वे हेत्वन्तरमिति - मिथ्यात्वं तु सदसद्विलक्षणत्वादन्यज्ज्ञाननिवत्त्र्यत्वादिकमितिभावः । व्यतिरेकिणं हेतुमाहेति उप-

2.1.15

 

लब्धिविनाशयोगित्वलक्षणं व्यतिरेकिहेतुमाहेत्यर्थः । पक्षेपि साधितत्वेनेति - प्रतिपन्नोपाधौ बाधितत्वरूपो बाधः उपाधेः पक्षवृत्तित्वेन साधव्यापकत्वादितिभावः । उपसंहारादितात्पर्यलिङ्गस्य प्रागनुक्ततया यथोक्तशब्देन परामर्शो न सम्भवतीत्यस्वरसादाह - यद्वा

किंशब्दत इति । यद्यपि नचागमावगतार्थस्य प्रत्यक्षविरोधः शङ्कनीय इति ग्रन्थस्योपरि किंशब्दतः प्रतीत्यभावादितिपक्षस्य नोत्थितिः सम्भवति, तथापि सम्भावनामात्रेणैवमुक्तमितिद्रष्टव्यम् । जीवाज्ञानपक्षमिति - "तदधीनत्वा-दर्थवत्' इतिसूत्रे अविद्यात्मिका सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी सूषुप्तिः, इतिशाङ्करभाष्यं व्याचक्षाणेन वाचस्पतिना जीवाधिकरणाप्यविद्या-

2.1.15

 

निमित्ततया विषयतया वेश्वरमाश्रयत इति ईश्वराश्रयेत्युच्यते, न त्वाधारतया विद्यास्वरूपे ब्राहृणि तदनुपपत्तेरितिप्रतिपादनात्, तत्रैव न वयं प्रधानवदविद्यां सर्वजीवेषु एकामाचक्ष्महे; येनैवमुपलभ्येमहि, किन्त्वियं प्रतिजीवं भिद्यते, तेन यस्यैव जीवस्य विद्यो-

त्पद्यते तस्यैव साऽविद्यापनीयते, न जीवान्तरस्य, भिन्नाधिकरणयोः विद्याविद्ययोरविरोधात् तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः, न चाविद्योपाधिभेदाधीनः जीवभेदः जीवभेदाधीनोऽविद्याभेद इति परस्पराश्रयादुभयासिद्धिरपि साम्प्रतम् । अनादित्वाद्बीजाङ्कुरादि-वदुभयसिद्धेः, अविद्यात्वमात्रेण एकत्वव्यवहार इति प्रतिपादनात् तथा "ज्योतिरुपक्रमा' दिति सूत्रे "यो योनिंयोनि'मितिवीप्सावशा-द्योनिशब्दिताविद्या प्रतिजीवं भिद्यत इति वाचस्पतिनोक्तेश्च वाचस्पत्यभिमतं जीवाज्ञानपक्षमुपन्यस्यतीत्यर्थः । अविद्याश्रयत्वोपपत्ते-रित्यन्तभाष्यस्यैव एतावानर्थ इति भावः । काल्पनिकत्वोपपत्तिरित्यस्य जन्मजरामर-णादिकाल्पनिकत्वपरतयोत्तरत्र व्याख्यास्य-मानत्वादिति द्रष्टव्यम् । अशुद्धिविषयभ्रमेणेति - शुद्धस्याविद्याश्रयत्वासम्भवादशुद्धय-धीनापि अविद्या अविद्याधीना च अशु-द्धिरित्यर्थः । भेदवादेप्यकौशलं विवक्षितमिति - सबहुमानावलोकनकत्तर्ॄणामित्यर्थः । उभयतोपि भ्रष्टैरिति - मतान्तरस्थस्य

2.1.15

 

मतान्तरस्थबहुमानलिप्सया उभयतो भ्रष्टत्वावश्यम्भावादित्यर्थः । भाष्ये-आगतोसि मदीयं मार्गमिति । ब्राहृाज्ञानवादमित्यर्थः । या जीवभेदकल्पिकेति - बद्धमुक्तव्यवस्थाहेतुतया जीवाश्रयतया च या अविद्याः सम्प्रतिपन्नास्तासामेव जीवभेदकल्पकत्वमस्तीतिपक्षम-नूद्य तत्कल्पकस्य तदाश्रयत्वासम्भवादिति पूर्वोक्तदूषणेनैव दूषयतीत्यर्थः । ततश्च पूर्वदूषणे जाग्रति कथं पक्षान्तरोपन्यास इति न

2.1.15

 

चोदनीयम् । यद्यप्यत्र कल्पिका अविद्या इतिबहुश आवृत्त्या पठ¬ते तस्य च निर्वाहःसम्भवति तथापि कल्पिकाविद्येति एवमित्वरहित पाठ एव समीचीनः लेखकदोषादन्यथापाठ इति द्रष्टव्यम् । पूर्वपूर्वजीवभावाश्रयाविद्येति-पूर्वपूर्वजीवभावः आश्रयो निमित्तं यस्या

2.1.15

 

इति बहुव्रीहिः,भ्रमाश्रय इत्यर्थ इति रजतकल्पकत्वं रजतभ्रान्त्याश्रयत्वमिति जीवकल्पकत्वमपि जीवविषयभ्रमाश्रयत्वमिति भावः । स्वेनैव सापेक्षत्वादिति - स्वस्यैव सापेक्षत्वे आत्माश्रयत्वमित्यर्थः । एतद्विभागहेतुरिति - सर्वज्ञस्यापि तस्यमायिनं त्विति मायि-

त्वावेदनान्मायाविद्ययोर्भेदोऽस्तीतिप्रतिपादनादितिभावः । तस्याश्चापरमार्थत्वादिति - मायायाः इच्छाधीनदर्शनानुपपत्तेरपरमार्थ-

त्वाच्चाविद्याकृतमेव तद्दर्शनमित्यर्थः । वक्ष्यमाणानुमानगर्भमिति - बन्धमोक्षव्यवस्था स्वपरव्यवस्थाश्च स्वाविद्याकल्पिता इत्यादि-

2.1.15

 

वक्ष्यमाणानुमानैः काल्पनिकत्वस्य सिदिं्ध मनसि निधायाहेत्यर्थः । तञ्च भेदवादिनञ्चेति - जीवाज्ञानवादिमते शरीराणां भिन्नभिन्न-जीवैरात्मवत्ताया मायैवात्मवन्तीत्यनभ्युपगमादितिभावः । नच प्रथमतृतीययोरप्यनुमानयो- र्भेदवादिनिरासकत्वं किं नस्यादिति

2.1.15

 

वाच्यम्; तन्मते अपारमार्थिकत्वात्कल्पितत्वादितिहेतोः असम्प्रतिपन्नत्वादिति द्रष्टव्यम् । सोपाधिकत्वकालात्ययापदिष्टत्वेति - प्रतिपन्नोपाधौ निषेधेन मिथ्यात्वसाधकव्यावर्तमानत्वहेतोः सोपाधिकत्वं मिथ्यात्वस्य प्रत्यक्षादिभिर्बाधः । ब्राहृव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे साध्ये मिथ्यात्वस्य मिथ्यात्वसाधनाद्य्वाहतिः । ब्राहृणो व्यावर्तमानाद्य्वावर्तमानतया अनैकान्त्यमित्यादिदूषणानि द्रष्टव्यानि ।

यदि बाधमात्रमेव हेतुरिति - यदि बाधमात्रमेवोपाधिरित्यर्थः । यथा दुर्दिने सायङ्कालभ्र-मान्वित इति । ननु दुर्दिने सायङ्कालभ्रम-

स्थले दुर्दिन रूपकालस्यैवोपाधिशब्दवाच्याधिष्ठानत्वाद्देशकालयोरुपाधित्वव्यभिचारस्य नेदमुदाहरणमिति चेत्, सत्यम्; अध्यस्य-मानकालव्यतिरिक्तस्यैवोपोधित्वमिति तात्पर्यात् । देशभ्रमे काल उपाधिरिति - सायङ्काले काञ्चीदेशं प्राप्त इति काल उपाधिः ।

2.1.15

 

काञ्च्यां सायङ्कालः संवृत्त इति देश उपाधिरिति द्रष्टव्यम् । प्रमाणमुक्तमिति - अबाधितं दृश्यमानमिति भाष्येण प्रत्यक्षं प्रमाणमुक्तमित्यर्थः । सा प्रतीतिर्मिथ्या चेदिति - सा प्रतीतिः भ्रान्तिश्चेदित्यर्थः । भ्रान्तिजनकत्वपक्षेऽपि कायर्कारणभावः सिद्ध एवेति दूषणे सत्येव दूषणान्तरमाह - बाध एव इति ।

भाष्ये-स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धेति । ननु कथमाश्रयभूतस्य हेम्न आश्रितस्य स्वस्तिकस्य च अभेदः । तत् कथं स्व-स्तिकहेमैक्यप्रतीतिर्घटतामिति चेन्न, गोत्वस्य हेम्नः ? स्वस्तिकावयवरूपत्वेपि द्रव्यत्वादिवत् अपृथक्सिद्धतया ? सत्त्वेन स्वस्तिकं द्रव्यमितिवद्धेमेति प्रतीतौ विरोधाभावादित्यत्र तात्पर्यात् । न हि परशरीरगत आत्मेति - अपरोक्षत्वे च चेष्टादिभिरनुमीयमानत्वं

2.1.15

 

न स्यादिति भावः । ननु चेतनादन्यस्य जडत्वदर्शनात् सर्वचेतनानामनन्यत्वमित्यस्य प्रागुक्तत्वात् यच्चो-क्तमिति भाष्यं न सम्भवती-त्याशङ्कयाह - सर्वं चेतनजातमहमेवेत्यादिना । अनिष्टप्रसङ्गमाहेति - मोक्षार्थश्रवणार्थप्रयत्ने अविद्याकायत्र्वस्योभयवादिसम्प्रति-पन्नत्वेन हेतुविधयानुमानरूपत्वाभावात् तर्करूपत्वं वाच्यमिति भावः । अभाविन्येव सा पश्चादिति - यदि इतः पूर्वं कस्यापि मुक्ति-र्नास्ति, केषाञ्चिन्मुक्तत्वप्रतिपादिकापि श्रुतिः स्वप्नवाक्यतुल्येत्युच्येत, तर्हि इतः परमपि कस्यापि मुक्तिर्न स्यात् प्रतिपादिकाश्रुतिः


2.1.15

 

स्वप्नवाक्यतुल्येत्यर्थः । यद्वा निर्विशेषज्ञानस्येति पूवÐस्मन् पक्षे निर्विशेषज्ञानस्य ज्ञातृत्वज्ञानगतत्वयोरभावाच्च न प्रतीतिभासव्यव-हारौ प्रतिहेतुत्वमित्युक्तम् । द्वितीये तु प्रतीयमानतयाप्रकारान्तरेण वा न हेतुत्वमुच्यत इति भिदा । पारमार्थिकापारमार्थिक-

2.1.15

 

शब्दाविति - प्रतिभासव्यवहारादेः पारमार्थिकत्वापारमाथिर्कत्वयोर्विषयाधीनत्वादिति भावः । तथात्वेन तेषामानन्त्य-

2.1.15

 

मिति - न्यूनाधिकभावेनानन्त्यमित्यर्थः । अत्र केचित्-दशघटाः सहरुां माषा इति सङ्खयावत्त्वं दृश्यत इत्यानन्त्याक्षेपभाष्यस्य आनन्त्यं दर्शयितुमिति तात्पर्यवर्णनमयुक्तमिति वदन्ति । दश घटाः सहरुां माषा इत्युक्तमिति - न त्वैकरूप्येण दश घटा दश

2.1.15

 

माषा इति वा सहरुां घटा सहरुां माषा इति वा उक्तमित्यर्थः । सिद्धान्ते- प्रतिजानतोऽभिप्रायमिति । ध्यानस्य विवक्षितत्वात् "सम्प्रतिभ्यामनाध्यान' इति नात्मनेपदम् । ननु भाष्ये-वाचेत्यस्य वाक्पूर्वकेण व्यवहारेणेत्यर्थः कथं वणिर्त इत्याशङ्कयाह - अजहल्लक्षणेयमिति । उभयोरपि हेतुत्वायेति - वाक्शब्दिताभिलपनस्य नामधेयप्रयोजनत्वेऽपि विकारप्रयोजनत्वाभावात् अज-

2.1.15

 

हल्लक्षणया व्यवहारपरामर्शीति भावः । जात्युक्तिरिति । श्लों "धर्मस्य तदतद्रूपविकल्पानुपपतः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमा भवेत्' इति तल्लक्षणम् । अवस्थैवोत्पत्तिरित्यभ्युपगमादिति । ननु घटत्वावस्थावस्थाया एवोत्पत्तिरूपत्वे यावद्घटावस्थत्वमुत्पद्यत

2.1.15

 

इति व्यवहारः स्यात्, न तुत्पन्न इति उत्पत्तेरनतीतत्वान्मृत्पिण्डोनश्यतीति च स्यात्, न तु नष्टः इति नाशस्यानतीतत्वादिति चेन्न;

घटत्वावस्थागताऽद्यक्षणसम्बन्धः घटत्वावस्थस्योत्पत्तिः पूर्वावस्थस्य नाश इत्यभ्युपगमेनादोषात् । ननु यस्यागन्तुकत्वमाद्यक्षणस-म्बन्धश्च न तस्योत्पत्तिः, यस्य च द्रव्यस्य नागन्तुकत्वं नाद्यक्षणसम्बन्धश्च तस्योत्पत्तिः लोकविरुद्धा काचन परिभाषा कृता स्यादिति चेन्न; श्रुतियुक्तयनुसारिण्या ईदृश्याः परिभाषाया एव शोभनत्वात् । पृथगुत्पत्तिनिरपेक्षा इति । ननु "छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति छन्दांसि जज्ञिरे तस्मात्' इत्यादीनां गुणक्रियोत्पत्तिप्रतिपादकानां नामरूपव्याकरणप्रतिपादकश्रुतीनां गुणक्रियाद्युत्पत्तिग्राहिसर्वलोकप्रत्यक्षादिप्रमाणानां च विरोधप्रसङ्गात्, अन्ततो गत्वा सर्वस्यापि ब्राहृापृथक्सिद्धतया पृथक्स्थिति-प्रतिपत्तिकार्यानर्हत्वेन ब्राहृव्यतिरिक्तस्यापि उत्पत्त्यभावप्रसङ्गेन सर्वप्रमाणसङ्क्षोभापत्तेः । न च ब्राहृापृऽथक्सिद्धस्य द्रव्यस्योत्पत्ति-सम्भवेपि द्रव्यभिन्नस्योत्पत्तिर्नास्तीति वाच्यम्; विनिगमकाभावात्सर्वप्रकरणविरोधस्याविशिष्टत्वादिति चेत्, सत्यम् न द्रव्यव्यतिरि-क्तानामागन्तुकधर्माणामुत्पत्तिरपलपितुं शक्यते । अभूत्वा भवनरूपोत्पत्तेर्लोकवेदसिद्धतया अपलपितुमशक्यत्वात् । अपि तु द्रव्ये तादृशोत्पत्तिर्नाभ्युपगन्तुं शक्यते । यदि वैशेषिकादिरीत्या मृदादिव्यतिरिक्तं तदुत्पाद्यद्रव्यान्तरमभ्युपेयते तदा कारणगुणप्रक्रमेण तस्य गुरुत्वान्तराधिकरणतया गुरुत्वद्वैगुण्यमुपलभ्येत । अपि च महति कनकसूत्रे कालायसृङ्खले वा लोहकारैः सङ्ग्रथ्यमाने तत्रान्त-राकण्डसूत्राणि खण्डृङ्खलानिच जायन्त इत्यभ्युपगन्तव्यम्, अन्यथा किञ्चिद्ग्रथनानन्तरमुपरि सूत्रृङ्खलग्रथने परित्यक्ते सति

ग्रथितभागे सूत्रृङ्खलव्यवहारो न स्यात् महासूत्रृङ्खलग्रथनानन्तरं खण्डिते तस्मिन् सूत्रृङ्खलव्यवहारश्च न स्यात् । एवञ्च यत्रो-पर्युपरि खण्डसूत्रृङ्खलग्रथनक्रमेण महासूत्रृङ्खलग्रथनं समापितम्, तत्र खण्डसूत्रृङ्खलवृन्दारब्धं महासूत्रृङ्खलमभ्युपगम्येत । तत्र

2.1.15

 

सूत्रृङ्खलनिर्माणार्थं यावत्सु वर्णकालायसं लोहकारहस्ते दत्तम् । तावत उपादानस्य गुरुत्वं तदारब्धखण्डसूत्रृङ्खलानां गुरुत्वानि तदारब्धमहासूत्रृङ्खलानां प्रत्येकं गुरुत्वानि तदारब्धमहासूत्रृङ्खलगुरुत्वं चेत्यतिमहत्तरं गुरुत्वमापद्येत, तस्मान्मृत्पिण्डखण्डसूत्र #ृङ्खल व्यतिरिक्तं घटशरावमहासूत्रृङ्खलं तत्त्वतो नास्तीत्येवाभ्युपगन्तव्यम्, किञ्च उभयसम्प्रतिपन्नावस्थयैवोपपत्तौ अवस्थान्तरवतो द्रव्यान्तरस्याप्युत्पत्तिकल्पने गौरवात् । पूर्वाह्ने मृत्पिण्डात्मना स्थितैव मृत् अपराह्ने घटाद्यात्मतां भजत इत्यबाधितप्रत्यभिज्ञासिद्ध-त्वाच्चासतो द्रव्यस्योत्पत्तिर्नास्ति । तत्रोत्पत्तिवादास्तु अवस्थामात्रनिबन्धना इत्यत्रैव नः संरम्भ इति न कश्चिद्दोषः ।

सद्वारकत्वा-दविरोध इति - एकस्मिन् ब्राहृण्यनेकत्वावस्थायाः सद्वारकत्वादितिभावः । तन्त्वादिसाधारणं पारमार्थिकं च परि-हारमाह - काल-भेदाच्चाविरोध इति । ननु विरलतन्त्वारब्धपटे एकस्मिन्नेव काले कथमेकत्वानेकत्वयोर्युगपदुपलम्भः ? एकस्मिन् धर्मिणि विरुद्धधर्मद्वयासम्भवादिति चेन्न, एकस्मिन्नेव वृक्षे मूलाद्यवच्छेदकभेदेन संयोगतदभावसत्त्ववत्कुविन्दकारितसंयोगविशेषा-वच्छेदेन तन्तुषु पटत्वमेकत्वं च तन्तुत्वावच्छेदेनानेकत्वं चेत्युपपत्तेः । ननु कुविन्दकारितसंयोगाः तन्तुत्वसङ्कीर्णा एवेति कथं विरु-द्धधर्मावच्छेदक-त्वमिति चेन्न; एकस्मिन्नेव वह्नौ आद्र्रेन्धनप्रभववह्नित्वावच्छेदेन व्याप्तेः, सदसङ्कीर्ण वह्नित्वावच्छेदेन व्याप्यमानस्य च, आर्देन्धनप्रभव वह्नित्वावच्छेदेन व्याप्यत्वावच्छेदकत्वति वह्नित्वे अविशेषितवह्नित्वत्वावच्छेदेन व्याप्यतावच्छेदकत्वाभावस्य न वृत्त्यभ्युपगमात् । एवं कार्यकारणानन्यत्ववादेपि एकस्मिन्नेव द्रव्ये तन्तुत्वावस्थाप्रापकसंयोगविशेषावच्छेदेन तन्तुत्वं तन्तुत्वावच्छे-देनन अनैकत्वं च पटत्वप्रापकतन्तुसंयोगविशेषावच्छेदेन पटत्वं तदवच्छेदनैकत्वं चेति पटत्वतन्तुत्वयोरेकत्वानेकत्वयोश्च समावेशो-पपत्तेनर् कश्चिद्दोषः एवम् । उपादानोपादेययोः तृणच्छदिषोरिष्टकाप्राकारयोश्चानन्यत्वेपि तृणत्वच्छदिष्ट्वादिसमावेशे अविरोधो द्रष्टव्यः । इयांस्तु विशेषः, छदिषि तृणानां तदीयतनुत्वाद्याकारस्य प्राकारे इष्टकानां चतुरत्वाद्याकारस्यानुपलम्भः, विरलतन्त्वारब्धे तूपलम्भ इति ।

भाष्ये-स एवेदमिदानीमिति । अत्र वक्तव्यं प्रथमसूत्र एवोक्तम् । सदेव एकमेवाद्वितीयमिति वाक्यस्य सजातीयविजातीयस्वगत-भेदनिषेधः क्रियत इति मते अनुपपत्तिमाह - नहि सजातीयेति । कार्यकारणयोरनन्यत्वं च लब्धमित्याह-आत्मनो बहुभवनं सङ्क-ल्प्येतेति पाठश्चेत्समीचीनः शङ्काविशेषव्युदासकत्वादिति । ननु सेयं देवतेति उत्तरश्रुतिसन्दर्भस्य व्यष्टिप्रतिपादनमुखेन निखिलज-गदुपादानत्वप्रतिपादनद्वारा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वहणार्थप्रवृत्तितया कथं पूर्वसन्दर्भप्रतिपादितार्थशङ्काविशेषव्युदासकत्व-मितिचेत्-सत्यम्; तस्यापि सम्भवतस्त्यागायोगादितिभावः । चेतनांशैक्यानुपपत्तिमभिप्रयन्नाह -नामरूपविभागाभावेनैकत्व-मितीति । सच्छब्दस्य जगत्परत्वे तदैक्षतेत्यादिभिर्विरोध इत्यभिप्रयन्नाह-बहुभवनसङ्कल्परूपेक्षणमिति पाठश्चेत्समीचीनः । स तु

2.1.15

 

कारणावस्थायामेकत्वादिति - शरीरशरीरिभावस्य भेदगर्भत्वादिति भावः । शक्तौ हस्तिकवाटयोरित्यादि-हस्तिकवाटयोरुप-

2.1.15

 

पदयोः शक्तौ गम्यमानायां "हन्तेष्ठक्' हस्तिघ्नो भटः, हस्तिनं हन्तुं शक्य इत्यर्थः । एवं कवाटघ्नश्चोर इत्यपि द्रष्टव्यम् । "शकि लिङ् च' शक्तयर्थोपाधिकार्थवृत्तेर्धातोर्लिङ् च, चकारात्कृत्याश्च, भवान् खलु भारं वहेत् भवता खलु भारो वोढव्यः, वोढुं शक्य इत्यर्थः । कृत्प्रत्ययान्तराणामिति - अन्तरशब्दो विशेषवाची । कृत्प्रत्ययविशेषाणाम्-कृत्यत्प्रत्ययाणामित्यर्थः । कृत्याश्चेत्यनुवृत्तेः । भाष्ये-पाचकादिष्वगत्येति । कदापि पाकमकुर्वति शक्तिमात्रेण यत्र पाचकशब्दः प्रयुज्यते तत्र पाचकशब्दस्य लक्षणेत्यर्थः, नतु तादात्विकपाकाभावमात्रेण पाचकशब्दस्य लक्षणेति मन्तव्यम् । तृजादिषु वर्तमानकालोपा-दानमध्यापकवेदाध्ययनाथर्मिति वार्तिकेन पूर्वपक्षं कृत्वा न वा कालमात्रे दर्शनादन्येषामिति वार्तिकेन धात्वर्थस्य वर्तमानत्वाभावेपि ण्वुलादिप्रत्ययसाधुत्वस्य समर्थितत्वादिति द्रष्टव्यम् । नचैवं सुप्ते शास्त्रज्ञादिशब्दमुख्यत्ववत्सुप्तिस्थानीयप्रलयदशापन्ने सन्मात्रब्राहृणिसर्वज्ञादिशब्दस्य सार्वदिकज्ञानाभावेपि साधुत्वसम्भवात् ज्ञानस्य नित्यत्वं न सिध्द्येत् । नहि यश्शास्त्रज्ञस्तमानयेत्युक्ते शास्त्रज्ञानस्य नित्यत्वमस्ति, न वा तद्दशायां ज्ञान-

2.1.16

 

मस्तीति वाच्यम्; "स्वाभाविकी ज्ञानबलक्रिया च' इत्यत्र भावार्थल्युडन्तज्ञानादि-शब्दस्य शक्तय-र्थत्वाभावेन लक्षणत्वावश्यम्भावादिति भावः । यद्वा अध्येष्यमाणशास्त्रेऽधीतविस्मृतशास्त्रे वा शास्त्रज्ञं इति प्रयोगा-भावेन शास्त्रज्ञादि-शब्दस्य वस्तुतो वर्तमानविषयत्वमेव सुषुप्तादौ तत्प्रयोगश्च वर्तमानत्वोपचाराल्लक्षणया, अत एवोत्सृष्टसृजि पुरुषे रुाग्विशब्दस्य व्यव-हाराभावात् अकुर्वति मृत्पिण्डे कार्यजनननिमित्तस्य कारणशब्दस्य न मुख्यत्वं तदा तत्प्रयोगस्तु लाक्षणिक इति मीमांसकोक्तेरकुर्व-द्दशायां पाचकशब्दो लाक्षणिक एव । न चेह तथाश्रयणं युक्तम्, मुख्यार्थत्वे सम्भवत्युपचारस्य अन्याय्यत्वादिति भावः । काशस्य कुशत्वेन कुशस्थानेवलम्बनमिति - यद्यपि काशस्य कुशस्यावलम्बनं काशकुशावलम्बनम् तथापि प्रकृते अस्यार्थस्य उचितत्वादेवमुक्तमिति द्रष्टव्यम् । प्रत्यभिज्ञाप्रत्यक्षसिद्धानन्यत्वमिति - प्रत्यभिज्ञारूपप्रत्यक्षसिद्धानन्यत्वमित्यर्थः ।। सामा-नाधिकरण्येन प्रत्यभिज्ञानस्याभिमतत्वे युक्तिमाह - समवायिकारणानुवृत्तिमिति । स्वपक्षासाधकत्वादिति विद्धान्तसाधकत्वादि-

2.1.17

 

त्यर्थः । नहि घटस्थे जल इति - यद्यपि हिरण्यत्वस्य पृथिवीत्वादिवत्कुड¬ावयवे कुण्डले च सत्त्वाभ्युपगमेन कुण्डलं हिरण्यमिति नोपादानोपादेया भेदसाधिका, तथापि पिण्डावस्थं तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञाया अस्मिन्सूत्रे अभेदसाधकत्वेन विवक्षितत्वादितिभावः ।। सोयमितिज्ञानं प्रत्यभिज्ञेति - प्रत्यभिज्ञा हि द्विविधा, तदर्थविशेष्यका इदमर्थविशेषणिका इदमर्थविशे-ष्यका तदर्थविशेषणिका च, यदा संस्कारस्य प्राधान्यमिन्द्रियस्योपसर्जनत्वं तदा तदथर्विशेष्यकत्वम्, इन्द्रियस्य तु प्राधान्ये इदमर्ध-विशेष्यकत्वं तदर्थविशेषणकत्वं च; ततश्च पूर्वसूत्रे तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञायाः प्रमाणतयोपादानात्तदर्थविशेष्य-

2.1.18

 

कत्वम् । अÏस्मस्तु सूत्रे "सदेव सोम्येद'मिति श्रुत्यर्थस्य विवक्षितत्वात् इदमर्थस्य विशेष्यत्वं सद्रूपतापत्तेर्विशेषणत्वमिति मतमाश्रि-त्यैवमुक्तमिति द्रष्टव्यम् । सोयमिति या प्रत्यभिज्ञा सा पूर्वोक्ता, अयं स इति या प्रत्यभिज्ञा सा अत्रोच्यते इति पाठश्चेत्समीचीनः । अयं स इति ज्ञानमभिज्ञा सा अत्रोच्यत इति पाठे तु न समीचीन्यम्, अत एवायं स इति विपरीतप्रत्यभिज्ञेति सर्वार्थसिद्धौ व्यवह्मतम् । श्रुतिसिद्धमिति - वाचारम्भणमितिश्रुतिसिद्धमित्यर्थः । यद्यपि ज्ञानव्यपदेशभेदेन पूर्वोत्तरसूत्रयोर्भिदा पूर्वमेव वर्णिता, तथापीति ज्ञानव्यपदेशयोः श्रुतिसिद्धत्वलोकसिद्धत्वरूपविशेषणान्तरमप्यस्तीति प्रदश्र्यत इति द्रष्टव्यम् । प्रदेशेषु निर्वाहमाह, तदैकाथ्र्यादिति-ग्रन्थस्यानन्तरं युक्तेश्चेतीति प्रतीकोपादानं दृश्यते, न तस्य प्रयोजनं पश्यामः । कालविशेषविशिष्टदेशविशेषत्वमिति - यस्मिन् देशे यस्मिन् काले परैघर्टाभावोभ्युपगम्यते, तत्कालविशिष्टदेशविशेषत्वमेव घटात्यन्ताभाव इत्यर्थः । अल्पत्वविशेषितदेशान्तरसंसर्गइति

2.1.19

 

परिच्छिन्नस्य घटस्य युगपद्देशद्वयेप्यवस्थातुमशक्तस्य देशान्तरसंसर्गोस्य देशस्य घटात्यन्ताभाव इत्यर्थः । साधिते सतीत्यर्थ इति - साधितप्रायो सतीत्यर्थः । ततश्च साधितत्वे दृष्टान्तोपन्यासेन साधनीयांशाभावात् दृष्टान्तवैफल्यं स्यादिति शङ्का परास्ता ।। यथा विशिष्टवस्तुनीति - यथा चिदचिद्विशिष्टे अंशभूते ब्राहृण्येकत्वं विशिष्टत्वस्य कृत्स्नव्यक्तित्वात्, विशेषणत्वेनांशभूतानां चिदचितां प्रत्येकं भेदः, एवं विशिष्टत्वस्थानीयं पटत्वं विशेषणत्वस्थानीयं तन्तुत्वमित्यभिप्रायः । कृत्स्नतन्तुवृत्तिना पटत्वेनेति - तन्तुष्वेव तन्तुत्वावच्छेदेनानेनकत्वं पटत्वावच्छेदेनैकत्वमित्यर्थः । नन्वतिरिक्तपटानभ्युपगमे तन्तुषु पटाशत्वव्यवहारः कथम् ? तन्त्वन्तरं प्रति तन्त्वरस्यांशत्वाभावादित्याशङ्कयाह - पृथगवस्थानदशायामिति । अंशिन एकत्वं चेति - सङ्घातो विशषष्यमंशी च । तन्तवो-विशेषणभूताः अंशाश्चेतिभावः । पटस्य प्रादेशिकविशेषणानि भवन्तीति - तन्तुपटयोरभेदेपि तन्तून्प्रति प्रादेशिकविशेषणत्वा-भावेपि पटं प्रति प्रादेशिकविशेषणानि भवन्ति । आकारभेदसत्त्वादितिभावः । प्रादेशिकविशेषाः कादाचित्का इति - कादाचित्का

2.1.20

 

एवेत्यर्थः । स्वाभाविकांशवादोपि निरस्त इति - स्वाभाविकांशसद्भावे केचन प्रादेशिकविशेषा नित्या अपि स्युरितिभावः । गगना-दिव्यापकपदार्थानामिति - गगनादिरूपव्यापकपदार्थानामित्यर्थः । गगनादीनां क्षणिकत्वमेवोपपादयति । परिणामविशेषादि-त्यादिना ।।

2.1.23

 

अर्हशब्दो मुक्तव्यावृत्तिपर इति - सुखदुःखयुक्तात्प्रत्यगात्मनोऽधिकमित्युक्ते मुक्तादाधिक्यं न प्रतिपादितं स्यादित्यर्थः । ननु उभ-येपीतिसूत्रस्य कथमादिपदग्राह्रत्वम् ? तस्य भेदप्रतिपादनमात्रप्रवृत्तत्वेन प्रकारप्रकारिभावाप्रतिपादकत्वादित्याशङ्कयाह - उभये-पीत्यादिसूत्रमिति । घटकवाक्यविषयमिति - यो विज्ञाने तिष्ठन्नित्यादिना शरीरशरीरिभावप्रतिपादनादितिभावः । भाष्ये-अवि-द्यावियुक्तावस्थामभिप्रेत्येति । नित्यशुद्धवद्धमुक्तस्वभावस्य ब्राहृणो जीवाद्भेदं वर्णयन्तीत्यर्थः । एवं हि तत्र परेषां भाष्यम्; यत्सर्वज्ञं सर्वशक्ति ब्राहृ नित्यमुक्तशुद्धबद्धस्वभावं शारीरादधिकमन्यत् तत् वयं जगतः रुाष्टृ ब्राूम इति । ततश्चाविद्यावियुक्तावस्थामभिप्रेत्येति वदन्तं प्रति किमविद्यावियुक्तस्य वा, तत्संसृष्टस्य वा ? इतिविकल्पमुखप्रवृत्तोत्तरभाष्यस्य कथं प्रवृत्तिः ? कथं वा ब्राहृणो जीवाद्भेदे

2.1.23

 

वक्तव्ये जीवस्य ब्राहृणो भेद इति शङ्काद्वयं निरवकाशम्, तस्य वाक्यस्य नित्यशुद्धस्वभावस्य ब्राहृणो जीवप्रतियोगिकभेदस्य प्रतिपादनपरत्वेनादोषादिति द्रष्टव्यम् । तत्र परभाष्ये नित्यशुद्धबद्धमुक्तस्वभावमितिविशेषणादविद्यावियुक्तस्येति पक्षस्योत्थानम् सर्वज्ञं सर्वशक्तीतिविशेषणात् अविद्यापरिकल्पितस्येतिपक्षस्योत्थानमिति पक्षद्वयसम्भवं ह्मदि निधाय विकल्प्य दूषयतीत्याह - जीवादविद्यावियुक्तस्येत्यादि । अकल्पितजीवस्वरूपज्ञानस्येति - परमार्थप्रत्यगभिन्नब्राहृस्वरूपज्ञानाय विचारस्य कर्तव्यतया जिज्ञासासूत्रे प्रतिपादनादित्यर्थः । अबाधिते भेदव्यवहारे "सोन्वेष्टव्यः स विजिज्ञासितव्यः' इत्येवञ्जातीयेन भेदनिर्देशेनावगम्यमानं ब्राहृणेऽधिकत्वं हिताकरणादिदोषं निरुणद्धीति परभाष्योक्तमर्थादनुवदति - किञ्च तत्त्वमस्यादिवाक्यार्थप्रतिबोधनात्प्रागीश्व- रस्य भेदेन प्रतिपाद्यमानस्य-हिताकरणाद्यप्रसक्तिरिति । भेदेन प्रतिपाद्यमानस्य-भिन्नतया निर्दिश्यमानस्येत्यर्थः । ननु भेदसत्त्वेपि तान् जीवानात्माभिन्नाननुभवतो हिताकरणादिदोषः किं न स्यादित्याशङ्कयम्, सत्यम्, अयं परमात्मा सर्वज्ञत्वात् यथा जीवान् वस्तुत आत्मनोभिन्नान्पश्यति एवं तत्त्वत एषां सुखदुःखादिवेदनासंयोगोऽस्ति अविद्यावशात्तेषां तद्वदभिमान इति पश्यति तथा च तेषां सुखदुःखादिवेदनायामपि अहमुदासीन इति । न च बन्धनागरनिवेशेपि अस्ति काचित्क्षतिमर्मेति । न हिताकरणादिदोषा-पत्तिरिति वाचस्पतितोक्तमनुवदति-मिथ्याभूतैर्जीवगतदोषैरिति । अस्यायंभावः, यथा ईश्वरः सर्वज्ञत्वात्स्वाभिन्नतया जीवान्पश्यति तथा सर्वज्ञत्वादेव तद्गतांश्च दोषान् मिथ्यात्वेन पश्यत्येवेति तस्य संसारप्रवर्ततेपि स्वाभिन्नस्य दुःखाप्रसक्तेः हिताकरणादिदोषप्रसङ्ग इति । यदा तत्त्वमसीत्येवञ्जतीयकेन भेदनिर्देशनाभेदः प्रतिबोधितो भवति, अपगतं तदा जीवस्य संसारित्वम्, ब्राहृणश्च रुाष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यज्ज्ञानोदयेन बाधात् कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषा इति भाष्यमनुवदति - ऐक्यज्ञानोदयात्पश्चादिति । वक्तॄणामित्यादि - अयं भावः, तत्त्वमस्यादिवाक्यजन्यज्ञानात्प्राग्भेदव्यवहारः,

2.1.23

 

ततः पश्चान्न भेदव्यहार इति वक्तुं युक्तम् "तद्यो देवानां प्रत्यबुध्यत स एतदभवत्' इत्यादिश्रुतेः । "शुकस्तु मारुताच्छीघ्रां गतिं कृत्वा अन्तरिक्षगः । दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्' इत्यादिशुक्तमुक्तत्वप्रतिपादकप्रमाणाच्च शुकादीनां तत्त्वज्ञानावश्यम्भावात् शुकादीनां जातेपि तत्त्वज्ञाने इतरेषां यथापूर्वं भेदव्यवहारस्य स्थितत्वात् यस्य तत्त्वज्ञानं तस्य न भेदप्रतिभास इत्येव वक्तव्यम् । ततश्चेश्वरस्य तत्त्वज्ञाने विद्यमानेपि भेदप्रतिभाससंसारतन्त्रप्रवतर्कत्वादिकं न स्यादिति । भेदेन प्रतिपत्तेरिति - ल्यप्लोपे पञ्चमी, भेदप्रतिपत्तिमपेक्ष्येत्यर्थः । ईश्वरस्य तत्त्वमस्यादिवाक्यार्थानवबोधाधीनभेदप्रपित्त्यधीनरुाष्टृत्वनिबन्धनदोषपरिहारोऽनुपपन्न इत्यर्थः । रुाष्टृत्वे सति हिताकरणादिदोषः परिहार्यः । तत्त्वमस्यादिवाक्यार्थानवबोधाधीनभेदप्रतिपत्त्यधीनरुाष्टृत्वस्यैवाभावेन सृष्टिनिब-न्धनहिताकरणादि#ोषाप्रसक्तया तत्परिहारो न प्रतिपाद्यः स्यादितिभावः । दोषपरिहारोऽनुपपन्न इति - ननु परभाष्ये अश्मादिवच्च तदनुपपत्तिरिति सूत्रे पाषाणत्वाद्यविशेषेपि वज्रवैडूर्यसूर्यकान्तादिवैचित्र्यवद्वृक्षे पत्रपुष्पादिवैचित्र्यवत्स्वप्नदृश्यभाववैचित्र्यवज्जीव-प्राज्ञपृथक्तवमनुपपन्नमित्युक्तम् । तच्च सूत्रं हिताकरणादिदोषप्रसक्तिनिवारकतया परैव्र्याख्यातम् । यदि ब्राहृविवर्ततो जीवः स्या- द्धन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्गइत्यत आह - अश्मादिवच्च तदनुपपत्तिरिति । वाचस्पतिना अश्मादिवच्च तदनुपपत्तिरिति सूत्र-स्यावतारितत्वेन तस्य सूत्रस्य चिदचिद्वैचित्रीमात्रप्रतिपादनहिताकरणादिदोषपरिहारपरत्वाभावेन वक्ष्यमाणदोषाणां प्रसक्ति- रितिचेत् सत्यं वाचस्पतिना तथा व्याख्यातम्; न तु तदुपपत्तिमत्, हिताकरणादिदोषप्रसङ्गे तदवैचित्र्यशङ्काया अनुत्थितेः तत्प-

2.1.24

 

रिहारस्यावक्तव्यत्वात्, न विलक्षणत्वादित्यादौ कृतकरत्वाच्च, अतो वाचस्पत्युक्तस्यानुपपन्नतामभिप्रेत्य यथाश्रुतभाष्यदूषणमुप-न्यस्तम् । कर्मारब्धेनेति - शरीरेणेतिशेषः ।कर्मवश्येनेति - जीवेनेतिशेषः । तत्रास्कार्यवादनिराकरणं दृश्यत इतीति - तत्रा-सत्कार्यवादनिराकरणस्यापि दर्शनादित्यर्थः । ।। इतरव्यपदेशाधिकरणम् ।। सङ्कुचितवृत्तित्वशङ्कयोत्थानादिति उपकरणान्त-रसद्भावदशायां सङ्कल्पस्य सत्यत्वेपि तद्राहित्यदशायां सङ्कल्पस्य सत्यता नास्तीति सङ्कोच इत्यर्थः । किं बाह्रकरणसापेक्षत्व-

2.1.25

 

मुच्यते, उतान्तः करणसापेक्षत्वम् ? आद्ये क्षीरादौ व्यभिचारः । द्वितीये कालादृष्टाद्यनन्तकारणसद्भावान्न ब्राहृणस्रुाष्टृत्वविरोध इत्यभिप्रयन्नाह, भाष्ये-यथा क्षीरजलादेरिति । वैदिकं दृष्टान्तमाहेति - क्षीराचेतनस्य कार्यजनने ब्रााह्रकारणे निरपेक्षत्वेपि चेतनस्य बाह्रकरणान्तरसापेक्षत्वमस्तीत्याशङ्कय वैदिकदृष्टान्तमाहेत्यर्थः । भाष्ये - सुखग्रहणायेति प्रतिपत्तव्यमिति । परमितशक्तीनां देवा-

2.1.26

 

दीनामपि श्रुतिवशात्तादृशसामथ्र्येऽभ्युपगम्यमाने किमु वक्तव्यं सर्वशक्तेः परस्य ब्राहृणः इति ग्रहणायेत्यर्थः ।।

2.1.29

 

"श्रुतेस्तु शब्दमूलत्वा'दिति सूत्रेण पौनरुक्तयमाशङ्कयाह । श्रुत्या निरवयवत्वेति - नन्वपहतापाप्मेत्यादीनामपि धर्मिवैलक्ष-

2.1.31

 

ण्यद्वारा सर्वशक्तियोगलक्षणधर्मवैलक्षण्यापादकत्वस्यापि सम्भवात् सत्यकामस्सत्यसङ्कल्प इत्यस्य विशेष्यसर्वशक्तियोगप्रतिपा-दकत्वकथनं भाष्ये कथमित्याशङ्कयाह - एवं धर्मिवैलक्षण्यादिति । आसन्नेति - धर्मिवैलक्षण्याद्धर्मवैलक्षण्यमात्रं सिध्येत्, नतु सर्वशक्तियोगरूपधर्मविशेषः । पारिशेष्यादिना तत्सिद्धिस्तु विलम्बिता । सत्यसङ्कल्पत्वलक्षणकार्यलिङ्गसर्वशक्तिप्रतीतिस्तु शीघ्रं

2.1.31

 

भवतीतिभावः । चन्द्रद्वित्वाभावेपि चन्द्रो बहुधा विभज्य इति पाठो दृश्यते, वस्तुतस्तु चन्द्रानेकत्वाभावेपि चन्द्रोऽनेकधाप्रतीयत इत्यर्थः । वस्तुतोऽनेकत्वशून्यस्यापि चन्द्रस्य तिमिरकल्पितानेकत्ववदिति पर्यवसितोर्थः । नात्मा श्रुतेरित्यादि । एषु सूत्रेषु श्रुति-शब्दादिपदस्य मिथ्याविषयत्वाभावस्य सिद्धत्वादित्यर्थः । नित्यसम्पन्नत्वादिति - ततश्च सुषुप्तिकाल इत्यनुपपन्नमिति भावः । तस्यैन्द्रियिकत्वादिति - ततश्च द्रष्टव्य इति विधिवैयथ्र्यमिति भावः । द्वितीयपक्षे परिहारमाशङ्कते - यदेव ब्राहृेति । ननु सर्वत्रा-परमार्थभूते अविद्यासंसर्गे विद्यमानेपि परमार्थभूताविद्यासंसर्गाभावान्न कृत्स्नप्रसक्तिरित्याशङ्कते - न तावता अविद्यानिर्मुक्त-ब्राहृसिद्धिरिति । परिणामोपयोगिन्या अविद्यया वियुक्तब्राहृासिद्धिरित्यर्थः । सर्वमपि ब्राहृ जगदाकारेण परिणमेतेत्यर्थः । यादृ-शोऽभिमत इति - जगदाकारेण परिणामोपयोगी यादृशोभिमत इत्यर्थः । कायप्र्रयोजककारे विद्यमाने तदप्रयोजकाकारनिवृत्ते-रप्रयोजकत्वे दृष्टान्तमाह - यथा स्वप्नदृष्टेति । किञ्च किमविद्याकल्पितेति - ननु शाङ्करभाष्ये अविद्याकल्पितेन नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्राहृपरिणामादिसर्वव्यवहारास्पदत्वं प्रतिपाद्यते, पारमार्थिकेन

2.1.31

 

च रूपेण सर्वव्यवहारातीतमपरिणतमेव तिष्ठत इति #ृङ्गग्राहिकयानिर्वचनीयस्य नामरूपलक्षणभेदस्यैव अविद्याकल्पितरूपत्वेन प्रदर्शितत्वात् तथा वाचस्पत्येपि नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामव्यव-हारास्पदं ब्राहृ पतिपद्यते । न च कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकजनस्य द्वित्वकल्पनं चन्दमसो द्वित्वमावहति । द्वित्वानुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः । तस्माद्वास्तवपरिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्राहृणोऽनुपपत्तिमावहतीति स्पष्टं प्रतिपादितत्वाच्च कथमस्य विकल्पस्यावकाशः? अस्तु वा कथञ्चिदवकाशः; तथाप्यविद्याविशिष्टस्य वा तदुपलक्षितस्य प्रधा-नस्य वा अविद्याकल्पितरूपभेदशब्दार्थत्वे तेषामवयवत्वमेव सिध्येत्, न तु सावयवत्वम् यथा देवदत्तो यज्ञदत्तेन पितृमानित्युक्ते यज्ञदत्तस्य पितृत्वमेवायाति न तु पितृमत्त्वम्; एवमविद्याकल्पितरूपभेदेन सावयवमित्युकतै अविद्याकल्पितरूपभेदस्यावयवत्वमेव सिध्येत्, न तु सावयवत्वमिति चेन्न; अविद्याकल्पितरूपभेदेन सावयवत्वमित्यस्याविद्याकल्पितरूपभेदयुक्तं यत्सावयवत्वमि-त्यस्याप्यर्थस्य सम्भवात्, तत्र च सावयवत्वेन प्रतिपिपादयिषितम् अविद्याकल्पितनामरूपयुक्तं ब्राहृ किमविद्याविशिष्टम्, उतो-पलक्षितम्, उत प्रधानं वेति विकल्पसम्भवान्नानुपपत्तिः, किमविद्याकल्पितं किमविद्याविशिष्टमिति ग्रन्थे अविद्याकल्पितं रूपं यस्येति बहुव्रीहिः, ततश्चाविद्याकल्पितनामरूपयुक्तमित्यर्थः । अतो नानुपपत्तिरिति द्रष्टव्यम् । तदुभयविरोधपरिहार इति - कृत्स्न-प्रसक्तिनिरवयवत्वपरिहार इत्यर्थः । पाश्चात्यसूत्रद्वयार्थस्येति - सर्वोपेता च । विकरणत्वान्नेतिचेदिति सूत्रद्वयार्थस्येत्यर्थः ।

2.1.33

 

उपपाद्यकोटिघटकमिति - सर्वकारणत्वोपपाद्यत्वान्नामरूपोपेतत्वस्येत्यर्थः । ननु निरवयवस्य सर्वकारणत्वे श्रुतिवाक्यस्यैव साक्षा-दुपपादकत्वात्तदेवास्मिन्विवक्ष्यताम्, किं सवर्शक्तियोगोपन्यासेनेति । कन्तुकाद्यारम्भस्य लीलात्वं युक्तमित्यादि - ननु केवलं

2.1.35

 

लीलैकप्रयोजनाः कन्तुकाद्यारम्भा दृश्यन्ते । जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति कन्तुकारम्भजन्मस्थितिध्वंसादेर्लीलप्रयो-जनकत्वप्रतिपादकभाष्ये विद्यमाने तदनादरेण कन्तुकाद्यारम्भस्य लीलात्वं युक्तम् । यत्नगोरवाभावाज्जगद्य्वापारस्य लीलात्वम-नुपपन्नमिति कथं व्यापारस्यैव लीलात्वकथनमिति चेत्-अत्र केचित्; "क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमितिचापरे देवस्यैष स्वभा-

2.1.36

 

वोयमाप्तकामस्य का स्पृहा' इति माण्डूक्यश्रुतौ सृष्टेर्लीलाथत्र्वस्य परपक्षत्वोपन्यासात् लीलाशब्दोत्रानायासकर्मपरः, लीलामात्र-मेतस्य भारत्रयधान्यवहनमिति । तत्रापि प्रयोगदर्शनात्, यथा अङ्गुलिचालनादयोऽनायाससाध्याः क्रियाः, न प्रयोजनापेक्षाः । अत एव न तत्र प्रयोजनप्रश्नः, तत्प्रश्नेपि तूष्णीमेवोत्तरम्, एवं परमात्मनोप्यनायाससाध्याः सृष्टयादिक्रियाः, न प्रयोजनापेक्षाः, अत्र च "अखिलभूवनजन्मस्थेमभङ्गादिलीला' इत्याद्यपद्यस्यैव साक्षित्वात् केवललीलैकप्रयोजनाः कन्तुकाद्यारम्भाः ध्वंसादेर्लीलैव प्रयोजनमिति भाष्यस्यापि स्वस्य स्वयं दास इतिवत् स्वस्य स्वयमेव प्रयोजनमित्यर्थे तात्पर्यमित्येवाचार्याभिप्रायं वर्णयन्ति ।।

2.1.36

 

स्वान्यत्वज्ञानाच्चेति न लीलासम्भव इत्युत्तरत्रान्वयः । विषमसृष्टया सम्बन्धमर्हतीति - ननु पररीत्या ईश्वरेण सृष्टेत्यर्थः । नहीश्व-रश्चेत् कर्मसापेक्ष इति नियमो नहीत्यर्थः । एवं सृष्टिश्चेदित्युत्तरवाक्येपि द्रष्टव्यम् । समष्टितत्त्वसृष्टाविति - ननु कार्यमात्रे जीवदृष्टस्य कारणत्वात्तत्रापि कर्मसापेक्षत्वं शक्यते वक्तुमिति चेन्न; मुक्तापेक्षितमाताश्चित्रादिभोग्यसृष्टौ व्यभिचारेण सर्वत्र कार्ये तत्सापेक्षत्वा-भावादिति भावः । सूत्राभिप्रायो भवतीत्यभिप्रायेणाहेति - सूत्राभिप्रेतो भवतीत्यभिप्रायेणोक्तवानित्यर्थः । सूत्रमप्यधिकरणा-न्तरमाहुरिति - यद्यपि मृषावादिमतेपीदं सूत्रमधिकरणान्तरमिति कल्पतरौ व्यक्तमुक्तम्, तथापि भाष्यभामत्योरप्रतीतत्वादेवमुक्त-मिति द्रष्टव्यम् । प्रलयात्ययज्ञानजन्मत्वादिति - प्रलयोऽतीत इति ज्ञानजन्यत्वादित्यर्थः । योग्यतान्तरानुपपत्तेरिति - प्रबोध-

2.1.36

 

शक्तेरपि योग्यतारूपत्वादितिभावः । प्रलयकालात्ययज्ञानादीति - प्रलयकालात्ययं



2.2.1

 

भाष्ये - मूलप्रकृतिर्नाम सुखदुःखमोहात्मकानीत्यादि । यथाहुः सांख्याः - "प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयमिथुनप्रवृत्तयश्च गुणाः । सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणमेव तमः प्रदीपवच्चार्थतो वृत्तिः' । अयमर्थः - गुणाः सत्त्वरजस्तमांसि प्रीत्यप्रीतिविषादात्मकाः क्रमात् सुखदुःखमोहात्मानः क्रमादेव प्रकाशप्रवृत्तिनियम

2.2.1

 

प्रयोजनाः स्वच्छं सत्त्वं प्रकाशयति प्रकाशकार्ये सत्त्वं प्रवर्तयति । रजोगुणो लघोः सत्त्वगुणस्य रजसा सर्वत्र प्रवर्तने प्रसक्ते यथाकार्यं गुरुः तमोगुणो नियच्छति । ततश्च तमोनियतं रजः क्कचिदेव प्रवर्तयति, तेन क्कचिदेव प्रवर्तितं, सत्त्वं किञ्चिदेव प्रकाशयति । अतो न सर्वं सर्वदा सर्वस्य प्रकाशत इति व्यवस्था । एवं गुणानां प्रयोजनं स्वरूपं च उक्तं, तेषां व्यापार उच्यते । अन्योन्याभिभवाश्रय जननमिथुनवृत्तयश्च । वृत्तिः व्यापारः प्रत्येकमभिभवादिभिः सम्भध्यते, अन्योन्याभिभववृत्तयो गुणाः तेषामन्यतमेन प्रयोजनवशात् उद्भूते नान्यतमोऽभिभूयते, तथा सत्त्वं रजस्तमसी कदाचिदभिभूय शान्तां वृतिं्त लभते, एवं रजः सत्त्वतमसी अभिभूय घोरां स्ववृत्तिम्, तथा तमः सप्तवरजसी अभिभूय मूढां स्ववृत्तिमिति अन्योनयाश्रयवृत्तयश्च गुणाः, यदपेक्षया यस्य व्यापारो भवति स तस्याश्रयो विवक्षितः, अन्योन्यजननवृत्तयश्च गुणाः - अन्यतमनान्यतमो जन्यते, जननमत्र परिणामविशेषः, अन्योन्यमिथुन्वृत्तयश्च अन्येन्यसहचराः अविनाभूता इत्यर्थः । "अन्योन्यमिथुनाः सर्वे सदा सर्वत्र गामिनः । नैषामादिस्सम्प्रयोगो वियोगो वोपलभ्यते' इति हि तदागमः । सत्त्वं लघु प्रकाशकमिष्टं सांख्याचार्याणाम्, तत्रानलपवना-दीनामूध्र्वज्वलनतिर्यग्गमनादिहेतुः धर्मो लाघवम्, सत्त्वतमसि रजसा स्वकार्योन्मुखेन कार्येते इत्येतद्रजसा उपष्टकत्वम्,

2.2.1

 

तदुपपादकं विशेषणं चलमिति । रजस्सक्रियमक्रिययोः सत्त्वतमसोः कार्योन्मुखावस्थापादकमिति चलविशेषणेन दशिर्तम् । तमस्तु गुरु, अत एव स्वयं चञ्जलतया लघु सत्त्वमपि चालयद्रजो गुरुणा तमसा तत्र प्रवृत्तिप्रतिबन्धकेन क्कचिदेव प्रवृत्तिमत्क्रिर्या इति वरणकं नियामकं तमः, परस्परविरोधिनामप्येषामेककार्यकरणत्वमितयुच्यते, प्रदीपवच्चार्थतो वृत्तिः - यथा वर्तितैले पावकविरुद्धेपि मिलिते सह पावकेन रूपप्रकाशनमार्यं कुरुतः, एवं सत्त्वरजस्तमांसि परस्परविरुद्धान्यप्यर्थवशात्सह कार्यं कुर्वतीति उपष्टम्भकम् । धारणमिति सत्त्वतमसोः कार्यौन्मुख्यापादकत्वमेव रजसो धारकत्वमितिभावः । भाष्ये - सर्वज्ञज्ञानमूल इति । पारुषेय इति यावत् । भाष्ये - एकमूलत्वमवश्याभ्युपगमनीयमिति । प्रपञ्चस्य प्रधानकारणमूलकत्व-कल्पनायां तदैक्यल्लाघवम् । परमाणुकारणकत्वकल्पनायाम् एकस्य परमाणोस्सर्वकारणत्वायोगेन कारणबहुत्वकल्पना-वश्यम्भावात् गौरवमित्येकमूलकमित्यत्राभिप्रेतम् । भाष्ये - षड्भिः - पाश्वैरिति । यथा दशदिक्सम्बन्धि दशा प्रदेशबन्तो-ऽङ्गुल्यादयः परस्परं संक्ष्लिष्यमाणा एकया महादिशा विदिग्द्वयेनावच्छिन्नैः प्रत्येकं त्रिभिस्त्रि#ाभिः प्रदेशैः सम्बन्ध्यन्दे, एवं तन्त-वोपि संक्ष्णिष्यमाणा प्रत्येकमसंयुक्तस्वपाश्र्वयुक्ताः स्वाधिकपरिमाणं पटादिकार्यमारम्भन्ते तथा निरवयवेषु परमाणुषु संयुज्य-मानेषु#े असंयुक्तप्रदेशसम्भवात्तेषां स्वाधिकपरिमाणकार्यारम्भकत्वं न स्या#ि#ादत्यर्थः । भाष्ये - भेदानां परिणामादिति । अयं हि

2.2.1

 

श्लोको वाचस्पतिना एवं व्याख्यातः - स्यादेतत्, व्यक्तेद्व्यक्तमुत्पद्वयत इति कणभक्षाक्षचरमादयः । परमाणवो हि व्यक्ताः, तैद्वर्यणुकादिकमेण पृथिव्यादिलक्षणं कार्यं व्यक्तमारभ्यते, प्रथिव्यादिषु च कारणगुणकमेण रूपाद्वयत्पत्तिः तस्माद्वयक्ताद्वय-क्तस्य तद्गुणानां चोत्पत्तेः कृतमव्यक्तेनादृष्टचरेणेत्यत आह - भेदानामिति । भेदादीनां विशेषाणां महदादीनां भूम्यन्तानां मूलकारणमस्त्यव्यक्तमकुतः? कारणकार्यविभागात् । अविभागात् वैश्वरूपस्य, कारणे सत्कार्यमिति स्थितम् । तथाच यथा कूर्मशरीरे सन्त्येवाङ्गानि निस्सरन्ति विभज्यन्ते । इदं कूर्मशरीरं एतान्यस्याङ्गानीति, एवं निविशमानानि

तस्मिन्नव्यक्तानि भवन्ति, एवं कारणान्मृत्पिण्डात् सुवर्णपृत्पिण्डाद्वा कार्याणि घटमुकुटादीवि सन्त्येव विभज्यन्ते, सन्त्येव पृथिव्यादीनि कारणात्तन्मात्राद्विभज्यन्ते, सन्तयेव तन्मात्राण्यहङ्कारात्कारणात्, सन्नेव चाहङ्कारः कारणान्महतः सन्नेव च महान् परमाव्य-क्तादिति ।सोऽयं कारणात् परमाव्यक्तात् साक्षात्पारम्पर्येण विश्वस्य कार्यस्य विभागः, प्रतिसर्गे तु भृत्पिण्डं वा घत्तभुकुटादयो विशन्तोऽव्यक्तीभवन्ति "तत्कारणस्वरूपमेवानाभिव्यक्तयन्ति कार्यमपेक्ष्याव्यकं भवतीति, एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति, एवं तन्मात्राण्यहङ्कारं विशन्ति अहङ्कारमव्यक्तयन्ति, एव महङ्गारो महान्तभाविश-न्महान्तमव्यक्तयति, महान, प्रकृतिं स्वकारणमाविशन् प्रकृतिमव्यक्तयति, प्रकृतेस्तु न क्कचिन्निवेश इति सा सर्वकार्याणामव्य-क्तमेव । सोयमविभागः प्रकृतौ वैश्वरूप्यस्य कार्यस्य । तस्मात्कारणे कार्यस्य सत एव विभागाविभाभ्यामव्यक्तं कारमस्ति; इतश्चाव्यक्तं कारणमस्तीत्याह - शक्तितः प्रवृत्तेश्चेति । कारणशक्तितः कार्यं प्रवृर्तत इति सिद्धम् । अशक्तात्कारणात्र्कार्यस्यानु-

त्पत्तेश्शक्तिश्च कारणगता न कार्यस्यानमिव्यक्तत्वादन्या, नहि सत्कार्यपक्षे कार्याव्यक्तताया अन्यस्यां शक्तवस्ति प्रमाणम्,

2.2.1

 

अयमेव हि सिकताभ्यस्तिलानां भेदः, यदेतेष्वेव तिलेषु तैलमनागतावस्थं न सिकतास्वि#ाति । स्यादेतत् - शक्तितः प्रवृतिः कारणकार्यविभागाविविभागौ च महत एव परमाव्यक्तत्वं साधयिष्यतः । कृतं ततः परेणाऽव्यक्तेनेत्यत आह -"परिणामा' दिति - परिकितत्वात्, अव्यापित्वादितियावत् । विवादाध्यासित भेदाः अव्यक्तकारणवन्तः परिमितत्वाद्धटादिवद्, घटादयो हि परिमितापृदाद्यव्यक्तकारणका दृष्टाः । उक्तमेतद्वयथाकार्यस्याव्यक्तवस्था कारणमेवेति, यत्तु महतः कारणं तत्परमाव्यक्तं ततः परतराव्यक्तकल्पनायां प्रमाणाभावात्, इतश्च विवादाद्यासिता भेदाः अव्यक्तकारणवन्तः समन्वयात्, भिन्नानां सरूपता समन्वयः, सुखदुःखमोहसमन्विता बुद्धयादयोऽध्यवसायादिलक्षणाः प्रतीयन्ते यानिच यद्रुपसमन्वितानि तानि तत्स्वभावाव्य-क्तकारणकानि, यथा मृद्धेमरूपसमन्विता घटमुकुटादयो मृद्धेमापिण्डाव्यक्तकारणका, इति कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् तस्यचाविरूद्धत्वात्सोपि ग्राहृु एवेति द्रष्टव्यम् । प्रत्यनुमानोपयोगिनीव्याÏप्त शिक्षयतीति - अत्र प्रत्यनुमानं दर्शयति । न भवदुक्तमिति पाठः समीचीन इति केचिद्वदन्ति । सुखदुःखादिहेतुत्वमिति मन्तव्यमिति - न तु तेषामेव सुखादिरूपत्वम्, तथा सति गुणत्रायाश्रये पटादौ सुखी दुःखीत्यादिप्रयोगरुासंगात पटादीनामेव सत्त्वरजस्तमोरूपत्वमिति सांख्यमते पटः सुखं दुःख्-

2.2.1

 

मित्यादिप्रतीतिप्रयोगप्रसंगाच्च; न च विषयस्य दुःखादिरूपत्वाभावे तज्ज्ञानादान्तरसुखादयो न स्यादिति वाच्यम्, विषयस्ये-च्छादिरूपत्वाभावेपि तज्ज्ञानादिच्छाप्रयत्नोदयात्तदुभयस्याप्युपपत्तेः । सुखदुःखाज्ञानवशात्सुखमाहात्मकत्वे लाघवादिकार्य-वशात् अन्यात्मकत्वस्यापि कल्पनाप्रसंगेन त्रैगुण्यावस्थाभङ्गप्रसंगाच्च । न च सुखलाघवप्रकाशानां दुःखोपष्टम्भप्रवर्तनानां मोगौरवावरणानां चैकैकगुणसमजबन्धित्वकल्पनायां प्रमाणमस्ति । येन त्रैगुण्यव्यवस्थाभङ्गो न स्यात् तथा सति सुखदुःख-मोहानामपि एकगुणसम्बन्धित्वकल्पनोपपत्तेः, विरोधस्य प्रतियोगिभेदेन च सुपरिहरत्वात्, परेणापि सुखादिरूपोद्भवे तद्भेदस्यैव शरणीकरणीयत्वाच्चेति भावः ।।

2.2.3

 

अवस्थाया अवस्थानतदभाववादस्यावस्थाया उत्पत्तितदभाववादस्य तुल्यतया

अयुक्तत्वं मन्वानो अवस्थोपलक्षितद्रव्यत्यावस्थानाभावपरतया व्याचष्टे । प्रतिसर्गावस्थोपलक्षितेति - अवधारणगर्भमिदमिति - यद्यपि नात्रावधारणगर्भत्वमाश्रयणीयम्, समस्तपदेनैवावधारणप्रयोजनस्य लब्धत्वात्तथापि उपायस्योपायान्तरादूषकत्वादिति

2.2.3

 

द्रष्टव्यम् । तया स्वातन्त्र्यहानिरिति -तथा परिणामविशेषापत्त्या स्वातन्त्र्यहानिरित्यर्थः । अतो निर्दयत्वहितुरनैकान्तिक इति -

2.2.3

 

दया चेत् गुणः ततश्च निर्दयत्वे निर्गुणत्वं स्यादिति हेतुरनैकान्तिक इत्यर्थः । जीवानां फलान्वयराहित्यञ्चेति । जीवस्य परत-

2.2.4

 

न्त्रत्वे कर्मफलान्वयो जीवस्य न स्यादिति दूषणं चेत्यर्थः । उपजीव्यापदीति । उपजीवकानामुपजीव्यदुःखासहिष्णुत्वं स्वप्रयो-जनभङ्गनीत्यैव । तत्रापि स्वार्थनिरपेक्षत्वे दयात्वमिष्टमेवेति भावः । सततयुक्तानामित्यत्रेति - अत्र वक्तव्यं सर्वं प्रथमसूत्रे एवेक्तम् । केवलदार्वादिव्यावृत्त्यर्थमिति - प्रीहणस्य काष्ठस्सन्निहितस्य तृणस्य क्षीराभावददर्शनाच्चित्सन्निधिमात्रमेवोप-गन्तव्यामित्यर्थः । न च तदपि पक्षीकायर्मिति - अचेतनं चेतनाधिष्ठितमेव प्रवतर्त इत्यनुमानेन तृणादिरपि पक्षीक्रियतामिति न वाच्यमित्यर्थः । तावतेति - चित्सन्निधिमात्रेणेत्यर्थः ।। । ।। प्रहीणं वेतीति - अस्य तद्दूषितमिति पूर्वेणान्वयः । एवमुत्तर-त्रापीति द्रष्टव्यम् । भाष्ये - व्यभिचारप्रदर्शनायेति । पयोदृष्टान्ते व्यभिचारपरिहारप्रदर्शनायेत्यर्थः । मशकेभ्यो धूम इतिवत् ।।

2.2.9

 

भाष्ये - प्रधानोपभोगार्थमितिश्लोके प्रधानस्य दर्शनापेक्षया कर्मत कर्माणि षष्ठीति भावः ।। अनुमितिरेवार्थतो बुद्धिस्थेतीति - अनुमामेन प्रधानसिद्धयभ्युपगमेपीतिभाष्यस्यानुमित्यभ्युपगमेऽपीत्यर्थ इति भावः भाष्ये - संघातपरार्थत्वादित्याति अव्यक्तम-हदहङ्कारप्रभृतयः सुखदुःखमोहात्मकतया संघाता इति सिद्धम्, ततश्च यथा शयनासनादीनां संघातत्वात्परार्थत्वम्, एवं तेषामपि पाराथ्र्यं वक्तत्यमित्यर्थः । ननु पाराथ्र्यमस्तु तथापि संघातान्तरं प्रत्येव पाराथ्र्यमस्तु न त्वसंहतात्मानं प्रति इत्यत्राह - त्रिगुणा-दिविपय्र्ययादिति । अयमभिप्रायः, संहतस्य संहतार्थान्तरत्वे तस्यापि संहतत्वेन पाराथ्र्यस्य वक्तव्यतयाऽनवस्था स्यात्, अतः

2.2.9

 

सुदूरं गत्वाऽपि असंहत आत्मा शेषितयाऽभ्युपगन्तव्यः । ततश्च तादृशे आत्मनि संहतत्वं व्यावर्तमानं स्वव्याप्यत्रिगुणादिकमपि व्यावर्तयति, तत्रादिपदेन "त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मिव्यक्तम् । तथा प्रधानं तद्विपरीतश्तथा च पुमान्' इतिश्लोकार्थो विवक्षितः; तस्यायमर्थः- त्रयो गुणाः सुखदुःखमोहा अस्येति त्रिगुणम् तदनेन सुखादीनामात्मगुणत्वं पराकृतम्, अविवेकि यथा प्रधानं स्वतो न विविच्यते, एवं महदादयोऽपि प्रधानान्न विविच्यन्ते तदात्मकत्वात्, अथवा सम्भूयकारिता अविवेति न किञ्चिदेकं कार्ये पय्र्याप्तमपि तु सम्भूयाहुः, विज्ञानमेव विषयाकारमिति तान्प्रत्याह - विषय इति । विषयो ग्राह्रः विज्ञानभिन्न इति यावत् । अत एव सामान्यं साधारणम् विज्ञानरूपत्वे तु विज्ञानानामसाधारणत्वात् विषया अप्यसाधारणा भवेयुः तथाच नर्तकीभ्रूलताभङ्गे एकस्मिन् बहुना प्रतिसन्धानन्न स्यात्, अचेतनम् स्पष्टोऽर्थः । प्रसवधमिर् परिणामशाणीत्यर्थः, एवम्भूतं व्यक्तं महदादि, तद्धमार्न प्रधानेऽप्यतिदिशति - तथा प्रधानमिति, शिष्टं स्पष्टम् । एतादृशाकारविपय्र्यादित्यर्थ इति - इतश्च पुरुषोऽस्ति, अधिष्ठानात्; त्रिगुणात्मकस्य रथादिवदधिष्ठेयत्वस्यावक्तव्यत्वात्, अन्योधिष्ठितापेक्षित इत्यर्थः । भोक्तृ-भावात् सुखदुःखभोक्तृभावादित्यर्थः । सुखदुःखेच्चनुकल,प्रतिकूलवेतनीये, ततश्च सुखदुःखयोरनुकूलनीयेन च प्रकूलनीयेन च केचिद्भवितव्यम्, स चात्मा कैवल्यार्थप्रवृत्तेश्च, कैवल्यम् - आत्यन्तिकदुःखप्रशनम्, न च तत्त्रिगुणात्मकस्य वस्तुनः सम्भ-वति स्वाभाववियोगप्रसंगादित्यर्थः - तस्माच्च विपर्यासादिति । त्रिगुणादिविपर्ययादिति पूर्वश्लोकोक्तादित्यर्थः । ततश्चायमर्थः - पुरुस्यात्रिगुणत्वात्, विवेकित्वात्, विषयत्वात्, असाधारणत्वात्, चेतनत्वात्, अप्रसवधर्मित्वाच्चेति - अत्र चेतनत्वविष-यत्वाभ्यां साक्षित्वदृष्ट्त्वे सिद्धयतः, चेतनो हि दृष्टा भवति, नाचेतनः, दुःखसाक्षी च दर्शितविषयो भवति, न तु विषयस्य साक्षित्वम्, अत्रिगुणत्वादेव, आत्यन्तिकदुःखत्रयाभावरूपकैवल्यम्, अत्रैगुण्यादेव च माध्यस्थ्यसिद्धिः । त्रैकुण्यसुखदुःखयोः सत्वात् रागद्वेषसत्त्वेनौदासीन्यरूपमाध्यस्थ्यन्न सिद्धययेत्,विवेकित्वाच्च अकर्मकत्वं सिध्द्येत् पुरुषविमोक्षनिमित्तमितिवत् "वत्सविवृद्धिनिमितं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृ#ृत्तिः प्रधानस्ये'ति श्लोकः । नानाश्रयप्रकृतिरिति - नानाश्रया प्रकृतिरित्यर्थः । न तु चेतनस्याकर्तृत्वेन अहं जानामि, अहं करोमि, इति कर्तृत्वचैतन्ययोः सामानाधिकरण्यानुभवः कथमित्याशङ्कय चैतन्यकर्तृत्वयोर्भिन्नाधिकरणत्वस्य युक्तिसिद्धत्वात् सामानाधिकरण्यप्रतीतिभ्र्रान्तिरित्याह - तस्मात्तत्संयोगा-दिति । तस्मात् कर्तृत्वचैतन्ययोर्भिन्नाधिकरणत्वस्य युक्तिसिद्धत्वादित्यर्थः । तत्संयोगात् - चेतनसंयोगात्, अचेतनलिङ्ग-

2.2.9

 

मन्तःकरणादिकं चेतनावदिव भवति, तथैवोदासीनोऽप्यात्मा कर्तृभूतत्रिगुणरुाव्यसन्निधानात्कत्र्तेव भवतीत्यर्थः । "पुरुषस्य दर्शनार्थमित्ययं श्लोकः पूर्वमेव व्याख्यातः । भाष्ये - जननमरणप्रतिनियमादिव्यवस्थासिद्धयर्थमिति, "जन्ममरणकरणानां प्रतिनियामाद् अयुगपत्प्रवृत्तेश्च । जीवबहुत्वं विद्धम् त्रैगुण्ये'ति सांख्यश्लोकः, अयमर्थः - देहेन्द्रियादिसम्बन्धो जन्म, तत्त्यागो मरणम्, करणानि इन्द्रियाणियद्येक एव परुषः सर्वभतस्स्यात्तर्हृेकस्मिन् जायमाने सर्वेऽपि जायेरन्, एकस्मिन् भ्रियमाणे सर्वेऽपि भ्रियेरन्, एकस्मिश्चान्धे बधिरे वा तादृशा भवेयुः, अयुगपत् प्रवृत्तेश्च । एकत्रशरीरे यतमाने, पुरुषे स एव सर्वशरीरेष्वेक इति सर्वत्र प्रयतेत, ततश्च सर्वाण्यपि शरीराणि युगपच्चलयेत्, त्रैगुण्यविपर्ययाच्चापि - त्रय एव गुणाः त्रैगुण्यं स्वार्थे ष्यञ्, तस्य विपर्पयः - अन्यथाभावः । केचित् खलु सत्वबहुला यथोध्र्वरेतस।, केचिद्रजोबहुला यथा मनुष्याः, केचित्तमोबहुला यथा तिय्र्यग्योनयः, नेयं व्यवस्था पुरुषैक्ये सम्भवतीत्यर्थः । ननु कारणावस्था प्रधानस्था प्रधानस्य कायर्गजद्गूपेण परिणतौ चेतना-धिष्ठाननिरपेक्षशङ्कानिराकरणाथश्र्र न "पयोम्बुव"दिति सूत्रम्, अपि तु तच्छङ्कानिराकरणम्' अन्यत्राभावाच्च न तृणा'दिव- दिति सूत्र एव करिष्यते, इदञ्च सूत्रम् अप्रवृत्तेश्च इति पूर्वसूत्रोक्तायाः पुरुषानधिष्ठिताचेतनस्य पुरुषार्थानुगुणप्रवृत्त्यनुपपत्तेः ।

2.2.9

 

आक्षिप्य समर्थनपरं किन्न स्यादित्याशङ्कयाह - पुरुषार्थसिद्धयनुगुणत्वदूषणस्येति । एकं करणं त्रीणितानीति - कचित्त्रीण्यन्तः

2.2.9

 

करणानि बुद्धिरहङ्गारो मन इति वर्णसन्त, कचिङ्बुद्धिरूपान्तःकरणमितिवर्णितमित्यर्थः । तद्वाचित्वस्वातस्वाच्चेति - #ीवप्रतिषेये परं कार्यम्' इति सूत्रे परस्परविरोधप्रसिद्धेः दर्शिति#िवादितिभावः । हेतुमदनित्यभित्यादि - आश्रितं कारणाश्रितमित्यर्थः । लयं

2.2.10

 

गच्छतीति लिङ्गं तनमूलं स्यादिति प्रकृतेर्मूलं स्यादिस्यर्थः ।। इति रचनानुपपत्त्यधिकरणम् ।। । ।।

दूष्य समुच्चयोऽभिप्रेत इति - गगननित्यत्वादि दूष्यसमुच्चयोऽभिप्रेत इत्यर्थः । महद्दीर्घशब्दौ भावप्रधानाविति । ननु भाव-प्राधान्यानाश्रयणेऽपि पदार्थतायच्छेदकभेदादेव द्वन्द्वोस्त्विति चेन्न, पदार्थभेदं विना पदार्थतावच्छेदकभेदमात्रेण द्वन्द्वस्य भाष्यकृता निराकृतत्वात् "चार्थे द्वन्द्व' इति सूत्रैर्भाष्यकृता याज्ञीयकश्चायं वैयाकरणश्चेत्यादिषु पदार्थतावच्छेदकभेदाद्दून्द्व-माशंक्य "शेषो बहुब्राीहि' रिति सूत्रात् शेष इत्यस्यानुवृत्तेः तस्य समानाधिकरणसमासविषयत्वेन शेषत्वाभावात् तदप्राप्तेरुपपादितत्वात्, सत्यपि पदार्थतावच्छेदकभेदेन द्वन्द्वसमासे महद्दीर्घशब्दयोः समानाधिकरणत्वेनाप्रसक्तेरनिवार्यत्वा-च्चाऽतो भावप्रधान एवायं निर्देश इति भावः । ननु महद्दीर्घशब्दाभ्यां महत्वदीर्घत्वयोर्विवक्षितत्वे ह्यस्वपरिमण्डलशब्दावपि भावप्रधानौ स्याताम् ततश्च ह्यस्वपरिमण्डलाभ्यां महत्वाणुत्वोपपत्तिवदित्यर्थः स्यात्, न चेत्थं वैशेषिकैरभ्युपगम्यते

2.2.11

 

"कारणबहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महत्' इति कारणादसूत्रे महत्वकारणानां परिगणितत्वादित्याशंक्याह - एवं भावप्रधानाभ्यामिति । अत्र कारणद्वयोपादानमिति ननु निरवयवात् परमाणोद्वर्यणुकोत्पत्तिवादेऽनुपपत्तिसत्वेन परमाणोद्वर्यणुकोत्पत्तिवद् अन्यत् तदभ्युपगतं सर्वमसमञ्जसमित्येतावति वक्तव्ये ह्यस्वाद् द्वयणुकात् महद्दीर्घत्र्यणुकोत्पत्तिः किमिति दृष्टान्तीक्रियते तत्रानुपपत्त्यभावादि#ाति चेन्न, द्वयणुकात्परस्परसंयोगे तदवयवानामति संयोगावश्यम्भावेन षण्णामपि परमाणूनाम् एकपरमाणुमात्रपरमाणत्वापत्तेरिति दूषणस्य द्वयणुकात् ह्स्वात् महदीर्घत्र्यणुकोत्पत्तिसत्वेन

2.2.12

 

तस्यापि दृष्टान्तीकरणीयत्वादिति दृष्टव्यम् ।। । ।। सिद्धेऽपीश्वर इति - अयम्भावः तत्पक्षे हि प्रलये सृष्टयभावः कस्य कारणस्य कैवल्येनोपपादनीयः,न तावददृष्टस्य, प्रलयेऽपि तस्य सत्वात्,नाप्यद्#ृष्टविपाकस्य,तत्पक्षे फलकालागमस्य वा प्रति-बन्धककर्माभावसाहित्यस्य वा विपाकशब्दार्थत्वात्, तस्य सर्गकाल इव मलयकालेऽपि अनन्तप्राणिगतानन्तकर्ममद्ये केषु च कर्मस्ववर्जनीयत्वात् नापीश्वरसिसृक्षाया नित्यसर्वविषयायाः तदिच्छायाः कदापि सिसृक्षारूपत्वानपायात् सृ:ट¬ुप-योग्यदृष्टविपाकोपाधानरूपपारिभापिकसिसृक्षात्वस्यापि प्रलयसाधारणत्वात् ; न च प्रलयकाल एव प्रति- बन्धक इति वाच्यम्, प्रलय एव न सम्भवतीति वदन्तम्प्रति प्रलयाधारकालस्य सृष्टिप्रतिबन्धकत्वोक्तेरसंगतत्वात् ; न च कल्पावसानप्रभृति-द्विपराद्र्धकालः पूर्वसर्गकालसमानपरिमाणः प्रतिबन्धक इति वाच्यम्, सिद्धान्त इव क्षणलवनिमेषादिलक्षणस्वाभाविककाल-परिणतिविशेषानभ्युपगमात् ; सूर्यगतिलक्षणकालोपाध्यभावेन च एतावान्कालो द्विपराद्र्धकाल इति वक्तुम-शक्यत्वात् । सिद्धान्ते तु यथाशास्त्रं स्वाभाविकानां कालपरिणतिविशेषाणां क्षणलवादिभेदानां द्विपरार्धकालं जगत्सृजानीति, ततो द्विपराद्र्धकालं निरन्तरगतास्विन्नं जगद्विश्रमयानीत्येवंलक्षणसिसृक्षा सञ्जिहीर्पालक्षणेश्वरेच्छापरिणामविशेषस्य चाभ्यु-पगमान्नानुपपत्तिरिति ।। । ।। ननु समवायापलापे संयोगस्याप्यपलापः किन्न स्यादित्याशंक्याह - संयोगस्त्विति ।

2.2.13

 

धर्मिकल्पनातो वरमिति । अत्र कलृप्तम् समवायं परिकल्प्य तस्य च सम्बन्धत्वकल्पनापेक्षायाः कलृप्तानापेवायुतसिद्धस्वरूपाणां सम्बन्धमात्रत्वकल्पनमेव लध्वित्यर्थः । ननु समवायपक्षे समवामस्वतूपं तद्गतं सम्बन्धत्वञ्चेति द्वयमेव कल्पनीयम्, स्वरूप-सम्बन्धपक्षे तु अवयवावयविगुणाद्यनुगतस्य एकस्य सम्बन्दत्वस्याप्तवाद् अनन्तानि सम्बन्धत्वानि कल्पनीयानि इत्यस्ति, समवायकल्पने लाघवम्, नचाययवादिस्वरूपेषु तत्तदभावादिकं प्रति सम्बन्धत्वमपि कलृप्तमेवेति वाच्यम् । अभावादिनि-रूपितासम्बन्धत्वस्यावयवादिषु कलृप्तत्वेऽपि अवयवादिनिरूपितसम्बन्धत्वस्य कलृप्तवादिति चेत्, तर्हि समवायेऽपि तत्तन्नि-रूपकभेदेन सम्बन्धत्वस्यापि भिन्नतया अनन्यस्यापि कल्पनाप्रसंगात्, ननु तन्तुनाशे तन्तनिष्ठमवयाविगुणक्रियादिकं

2.2.15

 

नश्यति, नतु तन्तुनिष्ठमपि तृणाति, अत्र विनिगमकापेक्षायां तन्तुसमवेतनाशत्वमेव प्रयोज्यमिति समवायः स्वीकार्य इति चेत् न, तन्तुनाशे तन्त्वयुतसिद्धाधेयनाश इत्युपपत्तेः ; न चैवं तन्त्वयुति#ेसद्धस्य पटध्वंसस्यापि नाशप्रसंग इति वाच्यम् तर्हि त्वत्पक्षेऽपि तन्तुसमवेतजात्यादिनाशप्रसंगात् यदि तु समवेतानित्यनाशत्वं प्रयोज्यं तर्हि ममापि तुल्यम्, ध्वंसस्य नित्यत्वादित्यलमतिचर्चया । स्वरूपाभावादनित्यवमिति - समवायनित्यलवादिमते घटगतरूपस्य लागे घटमतसमवायस्थ नित्यतया

2.2.16

 

नाशभावेऽपि रूपनिरूपिरसम्बन्धत्वन्नास्तीति वक्तव्यम्, यदि च रूपनिरूपितसम्बन्धत्वमपि समवायस्य स्वरूपमेव स्यात्

2.2.17

 

तर्हि रूपनिरूपितसमवायत्वापायो नाम समवायापाय इत्येव प्रथ्र्यवसन्नमिति तस्यानित्यत्वं स्यादित्यर्थः ।। । ।। गन्धरस-रूपस्पर्शगुणेति - गन्वरसरूपस्पर्शा गुणा यस्या सा गन्धरसरूपस्पर्शगुणा ।। । ।। समुदाये कार्यविशेषे शरीर इति - तार्किका हि जाठरागपिना पच्यमाचानां मुत्पीताहारौषधरसद्रव्यरूपसागवयवानां प्रतिक्षणोपचयापच-यवैषम्यादवयवी शरीरमपि प्रतिक्षणमुपचयापचयवद् अन्यद्भवति, यद्यपि प्रतिक्षणं शरीरस्योपचयापचयदर्शनन्नास्ति तथापि वर्षाधारानिपातैः तटाकजलस्येव घटीयन्त्रोत्क्षेपणैः कूपजलस्येवान्ते तद्दर्शनादलौकिकं प्रतिक्षरं किञ्चित् किच्चिद् उपचयापच-यज्ञानमस्त्येव, चन्द्रतारकादीनां मुहूत्र्तादिकालव्यवधानेन बहुदेशान्तरव्याप्तिदर्शनात् प्रतिक्षणं स्वदेशान्तरप्राप्तिज्ञानवदित्यभ्युपगच्छन्ति; एवं प्रतिक्षणमवश्यम्भाविभिः खननपूरणादिभिः भूगोलकस्य नदीजलसंसर्गशीकरोत्पतनैः समुद्रजलस्य चोपचयापचयवतः क्षणिकत्वमभ्युपगच्छन्तीति भावः । भाष्ये - चतुर्विधा इति माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसञ्ज्ञाश्चतुविधा बौध्धाः, ते सर्वेऽपि आदिबुद्धस्य शिष्याः ते क्रमेण सर्वशून्यत्वबाह्रार्थानुमेयत्वाबाह्रार्थप्रत्यक्षत्ववादिनः, तत्र बुद्धया विविच्यमानानां स्वभावो नावधार्यते, अतो निरभिलप्यास्ते निरस्वभावाश्च दशिर्ताः । यथा यथा विचाय्र्यन्ते विशीय्र्यन्ते तथा तथा - इत्यादिन्यायैः गुरुणा सर्वशून्यत्वं बोधितेषु#े शिष्येषु ये गुरूक्तं तथैवाङ्गीकृत्य पय्र्यनुयोगं नाकुर्वन् ते गुरूक्तस्य श्रद्धयाऽङ्गीकरणाद् उत्तमाः; तत उपय्र्यनुयोगाकरणाद् अधमाश्चेत्युत्तमाधमत्वयोगात् "मध्यमां स्थितिमास्थिताः' इति

2.2.17

 

माध्यमिकाः; ये तु बाह्रार्थानां शून्यत्वमङ्गीकृत्य कथं विज्ञानस्याऽपि शून्यत्वं जगदान्ध्यप्रसंगादिति पय्र्यनुयोगमकुर्वन् ते गुरूक्ताङ्गीकरणस्याचारसञ्ज्ञया बौद्धमते परिभाषितस्य तत उपय्र्यनुयोगस्य योगसञ्ज्ञया तन्मते परिभापितस्य सद्भावाद् योगाचाराः, गुरुणा तान्प्रत्यान्तरं विज्ञानमात्रमस्ति, तदेव नीलाद्याकारम्, नतु तद्वयतिरेकेण बाह्रं नीलादिकमस्ति,सहो-पलम्भनियमेन नीलादीनां तत्तद्विज्ञानादीनां चाभेदसिद्धेः, गवाश्वावत् तन्नियमाभावप्रसंगात्, तदेव विज्ञानात्मकं नीलादि-कमनादिवासनावशात् वहिर्वदवभासत इति बोधिते कथं सर्वथैव बाह्रार्थस्य शून्यत्वं बाह्रस्य नीलादेरवभासात्, अहमुल्लेस्वेन विज्ञानस्यान्तरतया इदमुल्लेखेन नीलादेर्बाह्रतया च भेदेन भासमाने सहोपलम्भनियममात्रस्याप्रयोजकस्य अभेदसाधनाक्ष-मत्वात् सहत्वोक्तयैव भेदानुमतेश्चेति यैः पय्र्यनुयुक्तं तान् प्रति सत्यमस्ति बाह्रं नीलादिकम्, न तु तत्प्रत्यक्षम्, अनुत्पन्नस्य अविद्यमानस्य प्रत्यक्षायोगात्, उत्पन्नस्य क्षणिकस्य स्थित्यभावात्, किन्तु उत्पद्यमानं नीलादिकं विज्ञानेऽर्पयित्वा नश्यति ततो विज्ञानगतेनाकारेणातीतं नीलादिकमनुमीयत इति बोधिते सति तैरित्थं शिष्यप्रश्नानुराधेन कियत्पय्र्यन्तमुपदेशसूत्रं प्रवर्तिष्यत इति सूत्रस्यान्ते पृष्टे गुरुणाभिहितं भवन्तः सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति; अतस्ते सौत्रान्तिकाः । ततो विज्ञान-नुमेयं बाह्रमितीयं विरुद्धाभाषा तस्यैव विज्ञानस्य तद्विषप्रत्यक्षत्वात् प्रत्यक्षस्य कस्यचिदपि अर्थस्याभावे व्याप्तिसम्वेदन-स्धानामावेनानुमाप्रवृत्तेश्च इति यैः पय्र्यनुयुक्तम् ते वैभाषिकाः, तान् प्रति बाह्रप्रत्यक्षत्वमप्युपदिष्टमिति चतुर्विधा इति भावः । चैत्तं रागादिकमिति - विज्ञानस्कन्धव्यतिरिक्तं स्कन्धचतुष्टयञ्चैत्तमित्यर्थ #ः । चित्तचैत्तशब्दनिर्दिष्टं पञ्चस्कन्धीरूपमित्यो - रूप-विज्ञानवेदनेति । ज्ञौद्धोक्तमहमित्याकारकमालयविज्ञानगिन्द्रियादिजन्यं रूपादिविषयञ्च ज्ञानम् एतदृ#ू#ंम् प्रवाहापन्नदण्डायमानं विज्ञानस्कन्ध इति वाचस्पतिनोक्तत्वात्, रूपादिज्ञानमपि विज्ञानस्कन्ध इति वदन्ति, सञ्ज्ञास्कन्धः सविकल्पकप्रत्यय इत्यर्थः । कुण्डली ब्रााहृण इत्येव रूप इत्यर्थः । शाङ्करभाष्यञ्चति - यद्यपि रूप्यमाणः पृथिव्यादयो बाह्राः, तथापि कायस्थत्वाद्वा, इन्द्रि-

2.2.18

 

यसम्बन्धाद्वाभवन्त्वाध्यात्मिका इति वाचस्पतिमोक्तत्वात्, शाङ्करमाप्येऽप्युक्तप्रायमित्यर्थः । कदिदमाहेति । अन्यतरः पक्षो

प्राद्य इति भावः । प्रस्त्वन्तरत्वानम्युपगमादित्यर्थ इति । अभ्युपगमे तु नामान्तरेण आत्मैव वाभ्युपगत इति भावः । स्कन्धा-नामुपपन्नत्व इति - यद्यप्यणूनामुपपन्नत्वेऽपि अणुसंयोगभूतादेरनुपपत्तिवत् स्कन्धानामुपपन्नत्वेऽपि तत्समुदायात्मा पञ्चस्कन्धी नोपपद्यत इति शक्यते वक्तुम् तथापि रूपस्कन्धरूपस्य भूतेन्द्रियविषयलक्षणस्य अणुहेतुसंघातस्य अस्मिस्सूत्रे निराचिकीर्षित-तया तत्समुदायापत्तेरत्रापि दूष्यत्वादिति भावः ।। । ।। वृत्तिसिद्धः पाठ इति - ततश्चेतरेतरप्रत्ययत्वाद् उपपन्नमिति चेत्

2.2.18

 

नोत्पत्तिमात्रनिमित्तत्वादिति पाठस्तु असाम्प्रदायिक इति पाठः । प्रत्ययशब्दो हेतुवानीतिः - तन्मते प्रलयशब्दस्य पारिमा-षिकत्वादिति भावः । ननु क्षणिकस्य चित्तसन्तानस्य कथं देशान्तरगमनकुक्षिप्रवेशादय इत्याशङ्कयाहः -दीपसन्तानस्येवेतिः । अत्र तृष्णा वाक्कायचेष्टेति क्कचित्पाठो दृश्यते, तत्र मध्ये लेखकदोषात् प्रन्थलेशः यतितः । एवं हि वांचस्पतिप्रन्थः- वेदनाया सत्यां कर्तव्यमेतत् सुखं पुनमर्येत्यध्यवसानं तृष्णाभाव इति, उपादानं वाक्कायचेष्टा भवन्ति, ततो भवो भवत्यस्माज्जन्मेति भवो धम्र्माधमौ, तद्धेतद्धेमस्कन्धप्रादुर्भावो जातिः । जातानां स्कन्धानाम् अपरिपाको जरास्कन्धानां नाशो मरणम्, प्रियमाणस्य साभिपङ्गस्य पुत्रकलत्रादिषु अन्तर्दाहश्शोकः तदुत्थः प्रलापः परिदेवनम्, पञ्च विज्ञानकार्यसंयुकप्तमसाध्वनुभवं दुःखं मानसं च दुखं दौर्मनस्यमिति, ननु वाचस्पत्ये - जन्मादिहेतुका अविद्यादयः अविद्याहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानास्-सन्तीत्युक्तम्, भाष्ये तु वेदनाद्यविद्याद्योरेवेतरातराश्रयणं प्रदृश्यते, किमत्र विनिगमकमित्याशङ्कय उभयथापि#ि नार्थभेद इत्याह - अविद्यादिभिर्वेदनादय इति । ।।। ।। क्षणिकपदार्थवाचीति - बौद्धमते वस्तुतः कालाभावेन खतो भङ्गरघटादेरेव क्षणपरिकल्प-

2.2.20

 

नानिमित्ततवा क्षणिक इति व्यवहियमाणो घट एव क्षण्यत इति व्युत्पत्त्या च क्षण इत्यपि व्यवहियत इति भावः । भाष्ये - न कस्यचिदर्थस्य ज्ञानविषयत्वमिति, वर्तमानत्वग्राहिप्रत्यक्षविषयत्वान्न स्यादित्यर्थः ।। । ।। भाष्ये - इन्द्रियसम्प्रयोगज्ञानयौग-पद्यम् पसज्येतेति, वर्तमानत्वग्राहिप्रत्यक्षविषयस्योत्तरघटक्षणस्य इन्द्रियसम्प्रयुक्तपूर्वघटक्षणस्य च एकक्षणवृत्तित्वे इन्द्रिय-

2.2.22

 

सम्प्रयोगज्ञानयौगपद्यप्रसंगेन काय्र्यकारणयौगपद्यप्रसं इत्यर्थः ।। । ।। भाष्ये - प्रतिसंख्याप्रतिसंख्यानिरोधशब्दाभ्याम् अभिधीयेतेति, संख्याबुद्धि। नाशप्र्रतीपा संख्या प्रतिसंख्या, तयः निरोधः प्रतिसंख्यानिरोधः। सन्तभिममसन्तं करोमीत्येवंरू- बुद्धेः प्रतीतत्वम् तद्भिन्नो निरोधः । यद्वा संख्य्#ाविषयः तस्य प्रतिकूला तदसत्वग्राहिणी लौकिकानां बुद्धिः प्रतिसंख्या तया विषयीक्रियमाणषो निरोधः प्रतिसंख्यानिरोधः तद्विपरीतो निरोधोऽप्रतिसंख्यानिरोध इति भावः ।। । ।। भाष्ये - न च

2.2.23

 

जगत्तुत्थात्मकत्वं भववद्भिरभ्युपेयत इति, उत्पत्तिदशायामपीत्यर्थः । उत्तरक्षणे तु निरन्वयविनाशेन तुच्छतापत्तेरभ्यपग-तत्वादिति दृष्टव्यम् । ननु जगतस्तुच्छेदुत्पत्तिर्नेङ्गीक्रियते, येन तुच्छात्मकत्वं स्यादित्यत आह - सता निरन्वयविनाश - इति ।। । ।। भाष्ये - ताभ्यां सह तुच्छत्वेनेति, "आकाशं द्वौ निरोधौ च नित्यं नियमसंस्कृतमिति सहपरिगणितस्येत्यर्थः । भाष्ये - श्येनादिपतनदेशत्वेनेति, नचात्रेति श्येनपतनाधारतया प्रतीयमानालोकाभाव एवास्त्विति वाच्यम्, अत्रालोक अत्रान्धकार इति आलोकान्धकाराधारतया प्रतीयमानस्य आलोकाभावरूपत्वासम्भवादितिभावः । भाष्ये - न च पृथिव्याद्य-भावमात्रमिति, निविडद्रव्याभावारूपावकाश एव अकाशशब्दार्थ इति वक्तुं शक्यम् । अत्यन्ताभावस्तु पृथिव्यादीनान्न सम्भव-तीति - केषाञ्चिदुत्पत्स्यमानानां प्राग्भावस्य केषाञ्चिदुत्पन्नानां ध्वंसस्य च सत्वेन सर्वेषामत्यन्ताभावसम्भवादिति भावः ।

2.2.24

 

इदनुपलक्षणम्, प्राग्देशे निविडद्रव्यमस्ति, प्रत्यग्देशे तन्नास्तीति निविडद्रव्यतदभावाधारतया प्रतीयमानस्य प्राग्देशादे-र्निविडद्रव्याभावरूपावकाण्त्वासम्भवेन प्राग्देशादिबुद्धिबोध्यस्याकाशस्यावशायाभायुपगन्तव्यत्वादित्यपि दृष्टव्यम् । ननु नीरूपस्याकाशस्य कथमिह श्येन इत्यादि चाक्षुषप्रत्यक्षविषयत्वमित्याशङ्कयाह, भाष्ये - त्रिवृत्करणोपदेशेति ।। । ।। भाष्ये - अन्त्यघटक्षणसत्वात् पूर्वघटक्षणसत्वानीति, अन्त्यघटक्षणात् पूर्वघटक्षणाः विनाशिनः घटक्षणत्वात्, अन्त्यघटक्षणवदितिपर्य-वसितोर्थः । घटक्षणतत्सत्वयोरभेदात् सत्वमिति व्यवह्मतमिति दृष्टव्यम् । अत एव वक्ष्यति -अन्त्यक्षघटक्षणस्य हेतुतो विना-शदर्शनादित्यादि । प्रकरणसमत्वमुक्तमिति - पूर्वं साध्यविपरीतस्यापि साधकमित्युक्तम्, इदानीं साध्यविपरीतस्यैव साधक-

2.2.24

 

मित्युच्यत इति भेद इति भावः । व्यापारासम्भवादिति - व्याख्येयं पदम्, व्यापाराश्रयत्वव्यापारहेतुत्वयोरन्यतराभावे व्यापारि-त्वमेव न सम्भवतीति भावः । समीहितविपर्ययसाधन इति - विपर्ययमात्रसाधन इत्यर्थः । ततश्च किञ्चेत्यादिना विरुद्धत्वमुच्यते, ततत्पूर्वमाष्येण प्रकरणसमत्वमुच्यत इति भेद इति भावः । भाष्ये - मुद्गरादिहेतुतूपनिपातादिति, प्रागिति शेषः; आमुद्गरादिहे-तूपनिपातादिति पाठस्तु सुगम एव; भाष्ये विनाशस्य कपालोत्यत्तिव्यतिरिक्तत्वाभ्युपगमेपीति योजना, ननु प्रत्यभिज्ञायाः किमिन्द्रिवं कारणम्, उत संस्कारः, न तावदिन्द्रियम्, तत्तांशे सन्निकर्षाभावात्, नापि संस्कारः, अननुभूते तत्तांशे संस्का-रासम्भवातथ, इत्याशङ्कयाह, - न च प्रत्यभिज्ञाया इति । एकज्ञातयैवावभासमानत्वादिति - तदिदं साक्षात्करोमीत्यनुभववलात् सर्वांशेऽपि साक्षात्कारत्वमेव, न च तत्तांशे सन्निकर्षाभावात् प्रत्यक्षत्वाभावश्शङ्कनीयः, संयुक्तविशेषणतायाः संस्कारस्य वा प्रत्या-सक्तित्वोपपत्तेः, यदि च तयोर्न प्रत्यासक्तित्वं तर्हीदं रजतमिति ज्ञानस्य धर्मंशे प्रमात्ववत् तत्तांशे परोक्षत्वेऽपि बाध-काभावादिति दृष्टव्यम् । । । ।।

भाष्ये - ज्ञाने स्वाकारं समप्र्येति, एवं हि तन्मतास्थितिः, अर्थेन्द्रियसन्निकृष्टे सति तेनार्थेन जायमानं ज्ञानम्

2.2.25

 

अपरोक्षरूपं न बाह्रार्थविषयकं किन्तु तदेव ज्ञानमर्थवत् नीलाद्याकारं भवति, तच्च ज्ञानं स्वप्रकाशतया स्वात्मानं स्वप्रकाशतया स्वात्मानं विषयीकुर्वन् स्वगतं नीलाद्याकारमपि विषयीकरोति, अतो न नीलादिज्ञानस्वापरो-क्ष्यविरोधः, नापीन्द्रियव्यापारानुविवानविरोधश्च, तदनन्तरं ज्ञानगतनीलाद्याकारेण बाह्रार्थानुमितौ सत्यां तद्वशात् बाह्रार्थ-प्रवृत्तिर्भवति, नापरोक्षज्ञानात्, यथा वायुनिषेवणार्थिनः शास्वाचलनं दृष्टवा वृक्षमूले प्रवृत्तिः न चाक्षुषशाखाचलनज्ञानात्, किन्तु तन्मूलकवायुसञ्चारानुमानदिति, ततश्च यस्मिन्नपरोक्षज्ञाने विषयस्य स्वाकारसमर्पकत्वं न तस्मिन् ज्ञाने बाह्रार्थस्य विषयत्वम्, यत्र चानुमितौ विषयत्वं न तत्र स्वाकारसमर्पकत्वम्, अनुमितिपूर्वक्षणे इन्द्रियसम्प्रयुक्तस्य घटक्षणस्य नष्टत्वा-दिति चेन्न स्वाकारसमर्पणादिपरम्परया हेतुत्वेन विषयत्वमिति भावः । योगाचारमतमाशङ्गयेति - इदमत्तरसूत्रे स्पष्टीभविष्यति । भाष्ये - नीलज्ञानसन्तताविति, अनुवर्तमानायामिति शेषः, । न केवलं धर्ममात्रस्येति - इदमुपलक्षणम्, परोवर्तिगतनीलादि-संक्रमणे तद्गतबाह्रत्वजडत्वादीनां संक्रमप्रसंगः, न चेष्टापत्तिः, तथा सति स्फटिके लौहित्यसंकात्तौ तद्विराधिनः शौक्लयस्यान-

2.2.27

 

वभासवत् बाह्रार्थत्वजडत्वादिसंक्रान्तौ तसद्वरुद्वज्ञानत्वान्तरत्वादेरनुपम्भप्रसंगादित्यपि दृष्टव्यम् ।। इति समुदायधिकरणम् ।। 3 ।। चरमज्ञानं विजातीयोत्पादनशक्तमित्यर्ध इति शक्तेः कार्येण कारणेऽनुमेयत्वादितिभावः । न च कपालाकारज्ञानस्य घटाकार-

2.2.27

 

ज्ञानप्रवाहो न वासनेति तस्य न वासनाजन्यत्वं समर्थितं स्थादिति वाच्यम् व्यवहितस्य कालान्तय्र्यकपालज्ञानप्रवाहस्य वासना-त्वासम्भवात् मनुष्यशरीरानन्तरं तिय्र्यभ्योर्नि गतस्य मनुष्यजन्मव्यवीहततिय्र्यग्योनिवासनायाः कार्यकरत्वदर्शनादिति भावः । बहिर्वदवासो भ्रमकृत इति - यथा उपरि स्थिनानां नक्षत्राणां भूमिष्ठत्वङ्गमः तद्वदिति भावः । भाष्ये - सहोपलम्भनियमाच्चेति, नीलादिकं ज्ञानाभिन्नं ज्ञानसहोपलम्भनियमत्वात्ल ज्ञनवत् द्वितीरचन्द्रवच्चेत्यनुमानमिह विवक्षितम्, तत्स्ववचनाविरुद्धम्, साहित्यस्यार्थभेदहेतुत्वादिति भाष्यं व्याचष्टे, साहित्य #ं द्वयोरेवेत्यारभ्य - असाधारणानैकान्तिकत्वमित्यन्तेन, भाष्ये तदर्थव्य-

2.2.30

 

वहारयोग्यतैकस्वरूपस्य ज्ञानस्य तेन यः सहोपलम्भनियमः तस्मादवैलक्षण्यसाधनमिति तच्छब्दानुरोधेन यच्छब्दमध्याह्मत्य एकवाक्यतया अन्वयो वक्तव्यः ।। । ।। ।। इति उपलब्ध्यधिकरणम् ।।

2.2.30

 

अन्यथा वेति पक्षस्य भाष्ये दूषराभावामाशङ्कयाह - उभयात्मकत्वेचेति । पराभ्युपगमप्रकारेणेति - सिद्धान्त्यभ्युपगतप्रकारेणे-त्यर्थः । ननु "नेष्टं तदपि धीराणां विज्ञानं पारमार्थिकम् । एकानेकस्वमावेन वियोगाद्वियदव्जवत् । न सन्नासन्नसदसन्नचाप्य-नुभयात्मकम् । चतुष्कोटिविर्निमुक्तं तत्वं माध्यमिका विदुः । इति चतुप्कोटिविर्निमुक्तस्यैवोक्तेः कथं सत्वासत्वयोः एवं तावदित्याशङ्कय चतुष्कोरितिर्निमुक्तत्वमपि सदात्मना असदात्मना सदसद्विलक्षणात्मना च असत्वमिति असत्वकोटावेव

2.2.30

 

पर्यवस्यतीत्यभिप्रायेण आह - न हि शून्यवादिन इति । उभयात्मकत्वे च अवस्थान्तरापत्तिरेव उक्ता स्यादिति अमुमर्थं सिंहा-वलोकितकेनोपपादयति । घटस्स्वापेक्षयेत्यादिना- अणुहेतुको भूतभौतिकसंहतिरूप इति -अणुहेतुको भूतभौतिकसंगो बाह्रः, चित्तच्चैत्तात्मा आन्तरः पञ्चस्कन्धारम्भः पञ्चस्कन्धीरूपश्च समुदायो बाह्र उभयहेतुकः समुदाय इति परैरपरैश्चोक्तमित्यर्थः । ज्ञानमिथ्यात्वार्थसत्यत्वयोरन्यतरप्रसंगादिति - उभो रैक्यज्ञानस्य सत्यत्वेऽर्थस्यापि सत्यत्वं स्यात्, अर्थस्य मिथ्यात्वे ज्ञानस्यापि

2.2.30

 

मिथ्यात्वं स्यादित्यर्थः । यद्वाऽर्थेनाश्रेयणेनेति - यद्यपि शाघ्कयभाष्ये नेयं व्याख्यास्पष्टं प्रतीयते; अर्थानुपलब्धिपरतयैव

2.2.31

 

व्याख्यातत्वात् । वासनानुपलब्धिपरतया व्याख्यानादर्शनात्, तथाऽप्यभिप्रेतत्वसम्भवाद्वाएवनुक्तमिति दृष्टव्यम् ।

अन्ये त्वित्यादि - शून्यवादिनिरासपरतया व्याख्यातसिति; "नाभाव उपलब्धेः' "वैधम्र्याच्च न स्वप्नादिवत्' इति सूत्रद्वयं सिद्धान्त इव तन्मतेऽपि योगाचारमतनिराकरणपरत्वात् नोद्भावितमिति दृष्टव्यम् । अर्थसद्भावप्रतिधेधरूपेण वैषम्यस्येति - ज्ञानास्तित्वं वैभाषिकसौत्रास्तिकयोगाचाराणां त्रयाणामपि सामानम्, तत्र चाद्ययोरर्थस #ूद्भावप्रतिषधवादि निराकरणमिष्ट -मिति भावः । नापि स्वयमसदिति - असतः पदार्थात् उतपत्तिर्नास्ति, असतः पदार्थस्योत्पत्तिर्नास्तीति प्रतिज्ञाद्वयं सूत्रे विवक्षितमिति भावः ।। ।। इति सर्वथानुपपत्त्यधिकरणम् ।।

2.2.31

 

भाष्ये - पञ्चास्तिकाया इति चेति, अस्तीति कायन्ते शब्द्यन्त इत्यस्तिकायव्युत्पत्तेरिति भावः । भाष्ये - आकाशस्तिकाय इति, आकाशास्तिकायमपि द्वेधा वर्णयन्ति, लोकाकाश आलोकाकाए इति, उपय्र्युपरि स्थितानाम् आलोकानामन्तर्वत्र्ती लोकाकाशः, तेषानुपरि मोक्षस्यानमालोकाकाशः तत्र न लोकाः सन्ति उक्तञ्च "गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते त्वालोकाकाशमार्गगाः' ।। भाष्ये - मोक्षोपायश्च गृह्म#ीत इति, यद्यपि सम्वरशब्देनैव मोक्षसाधनमप्युक्तमेव, आस्त्रवो भवहेतुस्स्यात् सम्वरो मोक्षकारणमिति तथापि सम्वरशब्दविवक्षितमोक्षकारणविशेषातिरिक्तस्योपायस्याऽपि संग्रहार्थमिदमुक्तमिति दृष्टव्यम् । भाष्ये - भोगोपकरण-मिन्द्रियादिकमिति "आस्त्रवः कर्मणा बन्धः निर्जरस्तद्विमोचन"मिति जिनदत्तवचनं मतान्तराभिप्रायेणेति दृष्टव्यम् । भाष्ये - घातिकर्मचतुष्टयमघातिकमचतुष्टयञ्चेति, ज्ञानावरणीयं दर्शनावरणीयं मोहनीयम् आन्तरायकं चत्वारिघातिकर्माणि, वेदनीयं नामिकंगोत्रिकम् आयुष्कञ्चेति चत्वार्यघातिकर्माणि, तत्र सम्यग्ज्ञानं न मोक्षसाधनं नहि ज्ञानाद्वस्तुसिध्धिः, अतिप्रसंगादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते, आहितदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयम्, बहुषु विप्रतिषिद्धेषु तीर्णकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणीयम् बहुषु विप्रतिषिद्धेषु तीर्थकरैरूप- दर्शितेषु मोक्षमार्गेषु विशेषानवधारणीयम् मोहनीयं कर्म, मोक्षमार्गप्रवृत्तानां विघ्नकरं विज्ञानमान्तरायिकं कर्म, "तानीमानि श्रेयोहन्तृत्वात् घातिकर्माणि उच्यन्ते, शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयस्वरूपं आयुः काय इति कथयति इत्युत्पा-

2.2.31

 

दनद्वारेणेत्यायुष्कम्, तस्य देहाकारेण परिणामशक्तिर्गोत्रिकम्, शक्तौ सिद्धायां तस्मिन् बीजे कलिलबुद्बुदात्मतारम्भक-क्रियाविशेषो नामिकम्, धत्र्रीवबीजस्य तेजः पाकवदीषिद्धनीभावशरीराकारपरिणामहेतुर्वेदनीयमिति चत्वाथ्र्यपि श्रेयो हन्तृत्वाभावात् अघातीनीति तेषां प्रक्रिया, भाष्ये - तप इति, तप्तशीलारोहणादिकमित्यर्थः । भाष्ये - सम्वरो नामेति, सम्वृणोति इन्द्रियप्रवृत्तिमिति व्यत्पत्त्या गुप्तिसमित्यादिकं मोक्षसाषनं सम्वर इत्युच्यते, कायवाकानोनिग्रहो गुप्तिरिति जैनानां परिभाषा, भूमिगतं जन्तुर्हिसापरिहाराय प्रहते मार्गे सम्यगादित्यरश्मिप्रकाशिते निरीक्ष्य सञ्चरणम्, मितभाषणम्, नियताहारनिषेवणमित्यादिकं समितिरिति परिभाष्यते । भाष्ये - आत्मस्वरूपाविर्भाव इति निवृतसमस्त-क्लेण्स्य लोकाकाशा-वस्थानं मोक्षमित्येके, पञ्चरमुक्तशुकस्येव जलनिमज्ज्नप्रक्षीणपङ्कलेपः शुष्कालाबुफलस्येव धर्माधर्मास्तिकायबद्धविनिर्मुक्तस्य सततोध्वैगमना मोक्ष इति केचिदाचक्षते। भाष्ये - स्यादस्तीति, स्याच्छब्दो तिङन्त-प्रतिरूपको नैकान्त्यद्योतकः सत्त्वासत्त्व-सदसद्विलक्षणत्वरूपाश्चत्वारः पक्षाः, तत्र च सदसद्विलक्षणत्वसत्वासत्व-सदसत्वमेलनैः अयः पक्षाः इत्येव सप्तपक्षवादिभिः उत्प्रेक्षितुं शक्याः, ते सर्वेऽपि पक्षाः जैनैः स्वाङ्गीकृतसर्वपदार्थेषु हीषदीषदङ्गीक्रियन्ते । पय्र्यायोऽवस्थेति - तन्मते पर्याण्शब्दस्य अवस्थासु परिभाषितत्वादिति भावः । द्रव्यस्य सत्वादिकमुपपन्नमित्यर्थ इति - भास्करादिमत इव जात्यात्मना एकत्वं व्यक्तयात्मनाऽनैकत्वमित्याद्यविरोध-निर्वाहकाकारान्तरमनपेक्षितमितिभावः, ननु सत्वासत्वादिसमावेषस्य आकारभेदेनैव परेण उपन्यस्ततया सर्वस्यैव सत्वासत्वसमावेषस्यानुक्तेः कथं तत्प्रतिषेध इत्याशङ्कयाह - सत्वासत्वविरोधो नाकारभेदेनेति । भाष्ये - तदानीमेव नैतद्विपरीतेति, ननुएकस्मिन्नपि देशकालाद्युपाधिभेदेन यथा सत्वासत्वादिविरुद्धधर्मसमावेशः, तथा

2.2.31

 

उपाधिभेदं विनाष्यस्तु, तत्र लोकसिद्धानि प्रमाणानि सन्तीति चेदिहापि सन्त्येव प्रपञ्चसत्वासत्वादिकं व्यवस्थापयत् तैस्तैर्वादिभिरुपपादितानि तानि तानि प्रमाणानि, अत एवोक्तम् - स्याद्वादमञ्जर्याम्, "अन्योन्यपक्षप्रतिपक्षभेदात् यथा परे मत्सरिणः प्रथानाः । न यानशेषा न विशेषमिच्छन् न पक्षपातिस्समयस्तथा ते' इति वस्तुतो देशकालाद्युपाधिभेदोऽपि सर्वत्र न सम्गवति, स देश इह नास्ति, स काल इदानीन्नास्तीत्यादिप्रतीतौ देशकालाद्युपाध्यन्तराभावात्, तत्राप्युपाध्यन्तरान्वेषे-णाऽनवस्थानात्, इतरानङ्गीकार इत्थम्, परं गुडजिह्विकान्यायेन देशकालाद्युपाधिभेदमन्तर्भाव्य सत्वासत्वप्रतीतिरुपन्यस्यते, वस्तुतो सवमृष्यमाना सा निरुषाधिक एव सत्वासत्वादिसङ्करे प्रमाणम्, अत एव स्याद्वादिनो "घटोऽस्ति घटो नास्ति पटस्सन् पटोऽसन्' इत्यादि प्रत्यक्षप्रतीतिमेव सत्वासत्वाद्यनैकान्तिके प्रमाणमुपगच्छन्ति । सर्वमनैकान्तिकं वस्तुत्वात् चित्रपट-वदित्यानुमानमपि प्रमाणयन्ति । नहि चित्रपटे नीलपीताद्यसङ्करार्थं प्रदेशभेद आश्रयितव्यः, प्रदेशभेदासङ्करार्थं उपाध्यन्त-रान्वेषणेऽनवस्थानात्, एतेन संयोगतदभावाद्यसङ्करोपि प्रत्याख्यातः, तस्मात्सर्वं वस्त्वनैकान्तिकमेवेति स्याद्वादरहस्यमिति चेत् - उच्यते, परस्परधर्मसमावेशे सर्वानुभवसिद्धस्तावदुपाधिभेदो नापह्योतुं शक्यते लोकमर्यादामनुसरता देशकालादिसत्व-निषेधेऽपि देशकालाद्युपाध्यवच्छेदोऽनुभूयत एव, इह आत्माश्रयः परस्पराश्रयोऽनवस्था वा न दोषः, यथा प्रमेयत्वाभिधेय-त्वादिप्रवऽत्तौ, यथा च बीजाङ्कुरादिकार्यकारणभावे विरुद्धर्मसमावेशे सर्वदोषाधिभेदं प्रत्याचक्षाक्षस्य चायमस्याः पुत्रोऽस्याः पतिरस्याः पिता अस्याः श्वशुर इत्यादि व्यवस्थाऽपि न सिद्धयेदिति कथं तत्र तत्र स्याद्वादिनो मातृत्वाद्युचितानं व्यवहारान् व्यवस्थयाऽनुतिष्ठेत् सर्वबहिष्कार्योऽपमनेकान्तवाद इत्यत्तं विस्तरेण, । नास्तित्वशङ्कानिरवकाशेत्यर्थ इति - ततश्च कालस्या-स्तिकायशब्दवाच्यत्वं कुतो न भवेदिति भावः ।। । ।। एवंशब्दं व्याचष्ट इति । अध्याह्मत्य व्याचष्ट इत्यर्थः । भाष्ये - हस्त्यादिशरीरेऽवस्थितस्येति, हस्त्यादिशरीरात् पिपीलिकादिशरीरं प्रविशतस्तत्रामान्तमंशं विहाय प्रवेशस्स्यादिति जीवस्य

2.2.33

 

पूर्वावस्थातो विकल्पत्वरूपमकार्त्स्न्यं प्रसज्येतेत्यर्थः । इदमुपलक्षणम्, मशकदेहात् मातङ्गदेहं प्रविशतः व्यापनसमर्थ-परिमाणं नास्तीति तत्र तस्य सर्वाङ्गीणसुखादिकं न स्यात्; किञ्च जीवस्य देहेपरिमाणत्वे योगसिद्धस्य कायव्यूहपरिग्रहे कृत्स्नदेहव्यापित्वं न सम्भवतीति तस्य अनेककायाधिष्ठानत्वं न स्यादित्यपि दृष्टव्यम् ।। । ।। अवस्थाभेदेनाविरोथवर्णन इति - अवस्थाभेदोपग-माभ्यामविरोधवर्णने प्रसक्ते विकारित्वमुपपादयन्तीति योजना, एवं हि परेषां सूत्रावतारिकाभाष्यम् । अथ पर्यायेन बृहच्छरीर-प्राप्तौ केचिज्जीवावयवा उपगच्छन्ति, तनुशरीरप्राप्तौ केचिदपगच्छन्ति इत्युच्यते, तत्राप्युच्यते न च पय्र्यायादप्यविरोधो विकारादिभ्यः'इति । वृक्षादिगतवृद्धिक्षयादिव्यावृत्तिरिति - न ह्रत्र सूत्रे पय्र्यायशब्देन वृद्धिक्षयौ विवक्ष्येते, येनावयवोपगमापगमयोवश्यम्भावस्स्यात्, किन्तु सङ्कोचविकासावेव, जैमिनैरपि सङ्कोचविकासमात्रस्यैवाभ्युपगतत्वाति भावः । निरुपाधि-

2.2.34

 

कधर्मत्वादिति - "विज्ञातुर्विज्ञातेर्विपरिलापा #े विद्यते' इति नित्यत्वस्य शास्त्रप्रतिपन्नत्वात् "श्रुतेस्तु शब्दमूलत्वात्' इति न्यायात् यथाप्रमाणमभ्युपगन्तव्यत्वात्, युक्तयनुसारेण कल्पयतां तु जैनानामयं दोषो भवत्येवेति भावः । ।। । ।। अत्र परैरात्मकालगताद्यमध्यपरिमाणे नित्ये, आत्मपरिमाणत्वात्, अन्त्यपरिमाणवत्, ततश्च वयाणामपि आद्यमध्यमान्त्य-परिमाणानां नित्यत्वात् सर्वशरीरेषु तुल्यत्वं स्यात्; न तु शरीरभेदेनावयवोपचयापचयलक्षणपरिणामभेदः, अत्र पक्षे सौत्र उभयशब्द आद्यमध्यमपरिमाणपरः, परिमाणत्रयाभ्युपगमादिति एका व्याख्या, द्वितीया तु मोक्षकालगतात्मपरिमाणस्य नित्यत्वात्, तस्य च भूत्वाभावित्वानुपपत्तेः, प्रागपि तदस्तीति तद्विरुद्धपरिमाणायोगात्, आद्यं मध्यमञ्च परिमाणं तदेवेति आद्यमध्यमकालयोरपि एकपरिमाण एव जीवः स्यात्, न च शरीरभेदेन परिमाणभेदस्स्यात्, अत्र च पक्षे सौत्र उभयशब्द आद्यमध्यमावस्थापरः, न तु पूर्वपक्षवत् आद्यमध्यसपरिमाणपरः, परिमाणभेदाभावात् - सति व्याख्याद्वयं कृतम् । तदेतदनुवदति । अन्त्यावस्थितेश्चान्त्यपरिमाणस्य नित्यत्व इत्यादिना - अत्र चाऽन्त्यपरिमाणस्य नित्यत्वे आत्म -परिमाणत्वाविशेषेण आद्यमध्यमपरिमाणयोरपि नित्यत्वादविशेषः, एकशरीरपरिमाणता च स्यात्, एकशरीरत्वं नित्य-सकलपरिमाणः स्यात्, ततश्च उपचितापचितशरीरप्राप्तिर्न स्यादिति परे, अन्त्यपरिमाणस्य नित्यत्वे तस्याभूत्वाभावि-त्वानुपपत्तेः प्रागापि तदस्तीति तद्विरुद्धपरिमाणाविरोधायोगाध् आद्यं मध्ममञ्च परिमाणं तदेवेति उभयोराद्यमध्यमावस्थयोः

2.2.34

 

अन्त्यपरिमाणस्य नित्यत्वादविशेषः सर्वदाऽणुत्वमेकरूपं महत्वं स्यादिति, ते चापरे च योजनान्तरमाहुरिति पाठः समी चीनः, एवं विविच्यकल्पतरुणा व्याख्यातत्वात्, अर्थौचित्याच्चेति वदन्ति । भेदाभेद इति नाममा#ि#ं कृतं स्यादिति - अत्र क्रमो विवक्षितः, अभेदो भेद इति च नाममात्रं कृतं स्यादित्यर्थः । बहुप्रतियोगिकमिति - घटत्वं बहुसाधारणमित्युक्ते बहुत्वस्य भेदगर्भत्वात् साधारण्यं भेदसहमिति भावः । साधारणाकारस्य भेदसहत्वमुपपादयति । विरोधिधर्मानाश्रयत इति - अभेदस्य स्वाभावरूपत्वादिति । यदा न भिनत्ति तर्हि भेदाभावरूपस्याऽभेदस्य सत्वात् भेदात्मा घटादिरेव न स्यादित्यर्थः । विवसनादिति - जैनादेरित्यर्थः । पय्र्यायानपेक्षमाणस्येति - अविरोधनिर्वाहकान्तरनिरपेक्षमेव स ब्राूते, वयन्तु तत्सापेक्षमेव ब्राूम इति चेदित्यर्थः । भिन्नाभिन्नत्वाभ्युपगमादिति - यादवभास्कराभ्यामिति शेषः । ननु अवस्थातद्वतोरवस्थान्तरकल्पकाभावादेव तन्निरपेक्षमेवावस्थातद्रतोर्भिन्नाभिन्नत्वमभ्युपगम्यते - इत्याशङ्कयाह - यथैकस्य द्रव्यस्येत्यादिना । द्रव्यस्यावस्थान्तरसा-पेक्षत्वादिति - अवस्थावन्निरूपितयोः अवस्थावद्गतयो-र्भेदाभेदयोरवस्थायाः स्वपरनिर्वाहकतया निर्वाहकान्तरनिपेक्षत्वेऽपि अवस्तानिरूपितयोः अवस्थावद्गतयोः भेदाभेदयोः निवोहकावस्थान्तरस्यापेक्षितत्वादिति भावः । ययावस्थयेति - ययावस्थया साकमित्यर्थः । नाम्नि विवाद इति - पटत्वावस्थाया एव भिन्नाभिन्नत्वमिति परिभाषा कृता स्यादित्यर्थः । श्वश्रूभिक्षापतिक्षे-

2.2.35

 

पायेतेति - वेदान्तिनामस्माकं सर्ववस्त्वनैकान्त्यवादो युज्यते, न तु जैनानामिति वदन् सूत्रकारः श्वश्रूभिक्षाप्रतिक्षेपं कुतो नानुसरेदित्यर्थः । त्वपक्षे दोष इत्याह - अविशेषशब्देनेति । ।। । ।। ।। इति एकस्मिन्नसम्भवाधिकरणम् ।।

2.2.35

 

सिद्धान्ते व्याघातमाह - मुद्रिकेतरति । बहुषु तन्त्रेष्वक्ता इति - मुद्रिकाषट्कधारणभगासनस्थात्मध्यानादिकं क्कचित्तन्त्रे निःश्रेयससाधनतयोक्तम्, तन्त्रान्तरे तद्विरुद्भसुराकुम्भस्थापनतत्स्थदेवातारचनादिकं निःश्रेयसाधनतया वर्णितम्, एवं

2.2.36

 

नानातनि#ोक्तानि साधनानि क्रमेण मुद्रिकाष्ट्कधारणभगासनस्थात्मध्यान - इत्यादि भाष्ये परिगणितानीत्यर्थः ।। । ।। भाष्ये - शास्त्रयोनित्योनित्वादित्यत्र दोषस्योक्तत्वादिति, तच्छरीरं नित्यत्वाविरोधाद् इश्वरासिध्धेः, नाष्यनित्यम्त तद्वयतिरिक्तस्य तद्धेतोः तदानीमसम्भवदित्यादिनोक्तत्वादित्यर्थः ।। । ।। ननु जगच्छरीरं परमात्मानमभ्युपगच्छता

2.2.38

 

सूत्रकारेण शरीरवत्वे भोगादिप्रसङ्ग इति वक्तुं न शक्यत इत्याशङ्कयाह - अशरीरत्वाभ्युपगमेन परिहार इति । अशरीरत्वानभ्यु-पगमेनेति - शरीरत्वेऽपि तस्य उभयीलङ्गत्वप्रतिपादकशास्त्रवलात् न भोगादिप्रसंग इति भावः ।। । ।। ।। कृतकरत्वप्रसङ्ग इति ।। ततश्च नेदमधिकरणं वेदविरुद्धार्थत्वज्ञापनपरम्, अपि तु प्रतिपन्नस्य वेदाविरोधस्यपातप्रतीत्वसमर्थनपूवर्कं श्रुतिशैवागम-योरविरोधनयनपरभेवेति भावः । अविरोधे निनीषीतेऽपीति -अस्मिन्नधिकरण इति शेषः । तत्स्वारस्यभञ्जक इति -श्रुतिस्वा-रस्यभञ्जक इत्यर्थः । बाधविकल्पसमुच्चयसङ्कोचैरिति - बाधरूपैः विकल्पसमुच्चयसङ्कोचैरित्यर्थः विकल्पो हि पाक्षिकवाधः, समुच्चयश्श्रुतनैरपेक्ष्यबाधः, सङ्कोचस्तु एकदेशबाधः, सर्वात्मना श्रुतिबाधे विवक्षितेऽविरोधनयनासम्भवादिति दृष्टव्यम् । श्रेद्धकल्पस्थमांसविधानेनेति - श्राद्धकल्पस्थगवालम्भविधानेनेत्यर्थः, मांसविधानमात्रस्य " न हिंस्या'दिति निषेधविरो-धाभावात् सङ्कोचकत्वाभावात्, पत्रीसंयाजेषु "ज्याधिन्या पत्रीस्संयाजयन्ती'ति पत्नीसंयाजार्थतया विहिताया आलम्भमन्तरेण क्रियादिनां स्वतस्सिद्धज्याधिन्या एवाग्रहणस्य "ज्याधिनी चैकदेशत्वा'दिति तात्र्तीयाधिकरणसिद्धतया तद्वदेव

2.2.38

 

मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैः सम्वत्सराणि वाध्र्रीणसेन कालसाकछागलोहखङ्गमांसैर्मधुमिश्रैश्चानन्त्यमिति विहित-मांसस्यान्यथाप्युपपत्तेरिति दृष्टव्यम् युगान्तरेऽनुष्ठानमस्तीत्यस्वरसादाह - यद्वा वह्वर्थविरोध इति । आचान्तेन कतव्र्यं दक्षिणा-चारेण कर्तव्यमित्यादिस्मृतीनां वेदं कृत्वा पेदिरिति कमप्रतिपादकश्रुतिसङ्कोचकत्वस्य शिष्टाकोपाधिकरण सिद्धत्वादिति भावः । तत्वविरोधश्च दुष्परिहर इति - ननु श्रीपाञ्चरात्रेऽपि यन्त्रविशेषादिषु लक्ष्मीसुदर्शनादीन् प्रति वासुदेरङ्गत्वप्रतिपादकवनेऽपि कथञ्चिदविरोधसमर्थनेन यथे तत्प्रामाण्यनिर्वाहः, न तु तत्वविपर्यासप्रतिपादनेन अप्रामाण्यमङ्गीक्रियते, एवंपाशुपतागमेऽपि चेन्न, श्रीपाचरात्रशास्त्रस्य आपादचूडं नारायणप्रतिपादकस्य मध्ये तद्विपर्यासप्रतिपादकत्वेनावभासमानस्य द्वित्रिवाक्ये-ष्वेकस्यान्यथानयनं युक्तम्, पाशुपतागस्य तु आपादतूडं विपर्यासप्रतिपादकस्य मोहनार्थत्वेन पुराणसिद्धस्य आन्यपर्यकथनं न पण्डितह्मदये पुण्डतरकमधिरोहतीति भावः । शेषा वैडालिका भवन्निति - महापराधानां वाभ्रव्यशाण्डिल्यव्यतिरिक्तानां

2.2.38

 

वैदिकनिश्वाससंहितानुप्रवेशाभावात् वैडालिकत्वं प्राप्तमित्यर्थः, "यस्य धर्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । चरितानि च

2.2.38

 

पापानि वैडालन्नाम तद्व्रतम्' ।। इति हि स्मर्यते । तृतीयार्थे षष्ठीति - "कृत्यानां कक्र्षरि च" इति कर्तरि षष्ठीत्यर्थः । अर्ह-द्बुद्धाधिकृतस्य अशास्त्रीयस्य कथं यजनरूपत्वमित्याङ्कयाह - यजनरूपतोक्तिरिति । तदभिप्रायेणेति - बुध्धार्हतभीष्माद्यभि-

2.2.38

 

प्रायेणेत्यर्थः । ननु "अहं तमोतिरिक्तैर्यष्टव्य" इति भगवद्वाक्ये कथं भगवतो यष्टव्यत्वमुच्यते, नहि तमोनिष्ठा भगवन्तं कथञ्चिद् यजन्ति, तेषां रुद्रमात्रयाजकत्वादित्याशङ्कयाह - अहमिष्टव्य इत्युक्तिरिति । नतु तदभिप्रायेणेति - तामसजनाभिप्रायेणेत्यर्थः । मध्यमश्लोकोक्तमिति - यद्वेदबाह्रं कर्मोति श्लोकोक्तमित्यर्थः । एवमुक्तस्ततस्त;नति - एवमुक्तोऽहम्प्रकाशः कृतः स्वात्मा गोपित इति योजना । त्रयीबाह्रादिकारत्वस्य व्यस्थितत्वादिति - न चैवमथर्वशिरः पुरोक्तपशुपतिशरीरकब्राह्रविद्यानुष्ठानं वैदिकं वक्ष्य-

2.2.38

 

माणं त्रयीबाह्रपाशुपतानां कथमुपपद्यत इति वाच्यम्, तस्यापि वैदिकतान्त्रिकत्वेन शुद्धवैदिकत्वाभावात्, तत्राधिकारो- पपत्तिरिति दृष्टव्यम् । साक्षादेव वैदिककर्मान्वय इति - शुद्धवैदिकधर्मान्वय इत्यर्थः । अव्यवधानेन श्रुतिसिद्धभगवदपासनार्हा अपीति - अव्यवधानेन श्रुतिसिद्धभगदुपसनाति दहरोपासनादीनि तत्र जीवान्तरस्य व्यवधानाभावात् तदनर्हा अपीत्यर्थः,

2.2.38

 

शास्त्रस्य प्राप्तार्थत्वबाधिताविषयत्वाभ्यामप्रामाण्यप्रसङ्गमुपपादयति । अनुमानेनेत्यादिना - प्रतिरुद्धबाधिता वा स्यादिति । प्रार्थत्वबाधितविषयत्वाभ्यां शास्त्रस्य अप्रामाण्यप्रसङ्गपरिहारार्थं शास्त्रोम्भे अनुमाननिरसनमपेक्षितमिति भावः । इह श्रुतिविरुद्धागमप्रामाण्यभङ्गार्थत्वस्य स्फुदत्वात् तन्नोपपादितमिति दृष्टव्यम् । प्रदानवदेव तदुक्तमित्यादीति - सङ्कर्षणकाण्ड-स्यापि पूर्वभागत्वादिति भावः । ततश्च शून्यवादप्रसंग इति - कदाचिदसतः सर्वदा असत्वादिति भावः । वास्तवसङ्खयेति

2.2.39

 

परमार्थसङ्खयेत्यर्थः । प्रसञ्जकविपय्र्ययेऽपीति - अनित्यत्वप्रसजकसङ्खयावत्त्वस्य विपय्र्यये सङ्खयावत्वाभावेऽपि प्रसञ्जनीयस्य अनित्यत्वरूपानिष्टधर्मस्यापेत्तेरित्यर्थः ।। । ।।

2.2.41

 

विज्ञानं च तदादि चेतीति - ननु युज्यन्तां घुरित्यादिशब्दस्य नित्यपुँल्लिङ्गत्वात् कथमेतदिति चेन्नायं घुः, किन्तु "अद भक्षणे'

2.2.42

 

इत्यस्मादावश्यकार्थेणिनि प्रत्यये आदिरिरूपं सिद्धयति, तेन च निखिलजगत्संहर्तृत्वमुखेनैव कारणत्वं प्रतिपाद्यत इति द्रष्टव्यम् । परयोजनामनूद्य दूषयति । विज्ञानैश्वय्र्यादीति - ननु परव्यूहविभवभेदभिन्नमिति वक्तव्ये कथं सूक्ष्मव्यूहविभव-भिन्नमित्युच्यत इत्याशङ्कयाह - सूक्ष्मं परमित्येकार्थं पदद्वयमिति - व्यूहश्चतुव्र्यूह इति निर्देशस्य अयुक्ततां मन्वान आह - चतुव्र्यूहन्चतुर्विभाग इति । उक्तार्थे प्रमाणमाहेति - ज्ञानपूर्वेण कर्मणा अभ्यर्चितं परं ब्राहृ वासुदेवाख्यं प्राप्यमित्यस्मिन्नर्थे प्रमाणमाहेत्यर्थः - फतेषामेव जीवादिशब्दैरभिधानं विरुद्धम्' इति, ननु सङ्कर्षणप्रद्युस्नानिरुद्धशब्दैरेव जीवमनोहङ्गाराणा-मभिधानं युक्तम्, पञ्चरात्रे - सङ्गर्षणादिशब्दानां जीवादिषु परिभाषितत्वात् यत्र शास्त्रे यच्छब्दो यत्रार्थे परिभाषितः तत्र तस्य शब्दस्य स एव स्वल्वर्थो ग्राह्रः शब्दशास्त्रगतनदीवृध्द्यादिसंज्ञावत्, अत एव प्रद्युम्नसंज्ञकं मन इत्युक्तिरपि सङ्गता, इतरथा

2.2.42

 

प्रद्युम्नस्य मनोऽधिष्ठातुः प्रादुर्भावे नपुंसकलिङ्गस्वारस्याभावादिति चेन्न, अस्मिन् शास्त्रे तथा परिभाषायां प्रमाणाभावात्, सङ्कर्षणप्रद्युम्नानिरुद्धानां जीवमनोहङ्काराधिष्ठातृत्वस्य वासुदेवात्सङ्कर्षणस्य सङ्कर्षणात्प्रद्युम्नस्य प्रद्युम्नादनिरुद्धस्य च प्रातुर्भावस्य तस्मिन् शास्त्रे बहुशः क्षुण्णतया जीवाद्यधिष्ठातृणां सङ्गर्षणादीनामेव ग्रहणौचित्यादिति भावः ।। । ।। यद्वा प्रतिपन्नेप्वर्थेष्विति-

2.2.42

 

इदं श्रेयो वा इदं श्रेयो वेति - संशयं विना यत् श्रेयः तन्न जानामि - इति श्लोकार्थ इत्यर्थः । श्रीपाञ्चरात्रमूलभूतैकायनशास्वा-विषयमूलभूतवचनमुदाहरति । मोक्षधर्म इति - अत्र निषच्छब्देन एकायनमन्त्रा उच्यन्ते इति द्रष्टव्यम् । मूलभूतो महानयमिति - अयमित्येकायन वेद उच्यत इत्यर्थः । भेदापाश्रयणेनेति - वैदिकं कर्मावलम्व्य सात्विकजनोपमर्दप्रवृत्तानामसुराणामित्यर्थः । तच्च न रक्षणोपयुक्तमिति - असुरनिरसनरूपरक्षणोपयुक्तमित्यर्थः । भक्तसंरक्षणार्थमिति - दुष्कृतविनाशमन्तरेण साक्षात् भक्त-संरक्षणार्थमितयर्थः । सूत्रद्वयमित्यर्थ इति - अस्मिन् सिद्धान्त इवेति शेषः । सूत्रपदाननुगुणमित्यर्थ इति - तदुत्तरत्र स्पष्टम् ।

2.2.42

 

अधिकारिभेदेनेति - उदितानुदितहोमयोरधिकारिभेदेन विकल्पः । कालभेदेनेति - कदाचित् घ्रीह्रनुष्ठानं कदाचित् विद्या-नुष्ठानमित्यर्थः । षोडशीग्रहणादौ फलभेदेन विकल्पः; तत्र हि फलभूमार्थिना षोडशीग्रहणं कत्र्तव्यमिति भावः । आरभ्य-शब्दोपात्तानीति - भाष्यगत आरभ्य इमानि वचनायभिप्रेतानीत्यर्थः । आर्थमेकत्वमुक्तमिति - पाञ्चरात्रन्तु कथ्यत इत्यत्र

2.2.42

 

पञ्चरात्रमित्येकवचनार्थ उक्त इत्यर्थः । कर्तृसामान्यं दर्शितमिति । दर्शितमित्यर्थः - विरुद्यतयाभिमतार्थानामिति ।

2.2.42

 

त्रयधर्मपरित्यागात्रयीधर्मपरित्यागादीनां पञ्चरात्रप्रतिपाद्यानामित्यर्थः । प्रत्यक्षहेतवो योगःल, ह - अत्र हि शाक्षात्कारान्मोक्ष इति ।योगशास्त्रस्थाः प्रत्यक्षस्य मोक्षनः, साङ्खयास्तु शास्त्रजन्यज्ञानस्य मोक्षहेतुत्ववादिन इति श्लोकार्थ इति भावः । भ्रमरा-हित्यवचनं कथं घटत इति । भ्रमराहित्यप्रतिपादनं कथं घटतइत्यर्थः । भ्रमप्रतिपादकं वचनमेव दर्शयति । कपिलादिभिरित्यादि-

2.2.42

 

भिरित्यादिशब्देनेति । एवं तस्य वेदनस्येति । एवं सतीत्यर्थः ।अधिकरणनिष्कर्ष उपपन्नतर इति - ननु "साङ्खयं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ।। साङ्खयस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ।। अवान्तरतपा नाम वेदाचार्यः स उच्यते । प्रचीनगर्भं तमृर्षि प्रवदन्ति हि केचन ।। उमापतिः पशु- पतिः श्रीकण्ठो ब्राहृणस्सुतः । उक्तवानिदमव्यग्रो ज्ञानं पाशुपतदं शिवः ।। पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । सर्वेषु च नृपश्रेष्ठ! ज्ञानेष्वेतेषु दृश्यते ।। यथागमं यतान्यायं निष्ठा नारायणः प्रभुः । न चैवमभिजानन्ति तमोभूता विशांपते । तमेव शास्त्रकत्र्तारं प्रवदन्ति मनीषिणः' इति साङ्खयाद्याभमानां वैदिकमतान्तरत्वं नारायणैकनिष्ठत्वं च प्रतिपादितम् । तथा-साङ्खयं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ।। तथा-सर्वे प्रमाणं हि तथा यथैतच्छास्त्र-

2.2.42

 

मुत्तमम् । तथा एव तत्वमिदं साङ्खयानां विदितात्मनाम् ।। यदुक्तं यतिभिर्मुख्यैः । कपिलादिभिरीश्वरैः । यस्मिन्न विभ्रमाः केचित् दृश्यन्ते मनुजर्षभः ।। गुणाश्च यस्मिन् बहवोदोषहानिश्च केवला ।। तथा-ब्राहृविष्णुमहादेवप्रमुखैः परिकीर्तिताः । आगमाश्चानया नेया दिशा नैवान्यथा बुधाः ।। अन्यथा ते तु नेयाश्चेत् विरुद्धाः स्युर्न संशयः, तथा-त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । ब्राहृाचारविभेदेन भगवन्तमुपासते' इत्यादीनि भारतमानवभागवताद्युक्तानि सर्वागमानां साधारण्येन प्रामाण्यप्रतिपादकानि, तथा-तस्माद्वेदबाह्रानां लक्षणार्थं च पायिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृपध्वज ! ।। एवं सञ्चोदितो रुद्रोमाधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ।। कापालं लागुडं शाक्तं भैरवं पूर्वपश्चिमम् । पञ्चरात्रं पाशुपतं तथा- न्यानि सहरुााः ।। तथाबुद्धश्रावकनिर्गन्धाः पञ्चरात्रविदो जनाः । कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः । यस्याश्नन्ति हविश्शेते दुरात्मानस्तु तामसाः । न तस्य तद्भवेच्छ्राद्धं प्रेत्येह च न तत्फलम् । वामाः पाशुपताचाराः तथा वै पाञ्चरात्रकाः ।

2.2.42

 

भविष्यन्ति कलौ तस्मिन् ब्रााहृणोः क्षक्षियास्तथा ।। श्रुतिशिष्टस्मृतिप्रोक्तप्रायश्चित्ते भायं गताः । क्रमेण श्रुतिसिद्धयँ मनुष्य-स्तन्त्रमाश्रायेत् ।। इति वैष्णवशिवागमसाधारणदूषणानि, तथा-धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् । प्रायश्चित्तं मनु- ष्याणां पापिष्ठानां सुदारुणम् ।। भयदुर्बलचित्तानां मरणं जायते भृशम् । तेषामेव हि रक्षार्थं खल्वहं तन्त्रमुक्तवान् ।। तथा - अथांशः सात्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ।। स नारदस्य वचनाद्वासुदेवाच्र्चने रतः । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिःश्रुतम् ।। तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ।। इति; तथा-तेनोक्तं सात्वतं तन्त्रं यज्ज्ञात्वा मुक्तिभाग्भवेत् । यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः । पञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् ।। वेदभ्राष्टान् समुद्दिश्य कमलापतिरुक्तवान् ।। तथा-मत्तन्त्राश्रयणेनैव मत्पूजा च कृता त्वया । तपसा प्रतीवानस्मि तव शाण्डिल्य! मे प्रिय ।। कुमार्गेणापि शाण्डिल्य मम पूजा कृता त्वया । अतः कालेन महता देवमार्गं गमि-ष्यसि' इत्यादिनि कौमर्भागवतवासिष्ठलैङ्गकादीनि पञ्चरात्रनिन्दाकानि वचनानि; "इदं शतसहरुााद्धि भारताख्यानविस्तरात् । आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम् ।।' इत्यादीनि भाष्योदाह्मतानि भारतवचनानि पञ्चरात्रस्तावकानि, "एवमभ्यर्थित- स्तैस्तु पुराहं द्विजसत्तम् !। वेदक्रियां सामायुक्ता कृतवानस्मि संहिताम् ।। निश्वासाख्यां ततस्तस्यां लीना वाभ्रव्यशाण्डिलाः । अल्पापराधा इत्येव शेषा वैलालिका भवन् ।। मयैव मोहितास्ते तु भविष्यज्जानता द्विजाः । निश्वाससंहितायां हि लक्ष्यमात्रप्रमा- णतः ।। सैव पाशुपती दीक्षा योगः पाशुपतश्च सः ।। एतस्मामद्वेदमार्गाद्धि यदन्य इह जायते ।। तच्छ्रद्रक्रमविज्ञेयं रौद्रं शौचविव- र्चितम् । ये रुद्रमुपजीवन्ति कलौ वैलालिका नराः ।।

उच्छिष्टरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः । तेषां गौतमशापाद्धि भविष्यन्त्यनु ये द्विजाः ।। तेषां मध्ये सदाचारा ये तु मच्छासन रताः ।। ते स्वर्गमपवर्गञ्च यान्त्येव खलु निश्चायः । वैलालिका ये यास्यन्ति मम सन्ततिदूषकाः ।। प्राक् गौतमाग्निनिर्दग्धाः पुन-र्मद्वचनाद्द्विजाः । नरकं तु गभिष्यन्ति नात्र कार्या विचारणा ।। निर्मितंहि मया पूर्वं व्रतं पाशुपतं शुभम् । गुह्राद्गुह्रतमं सूक्ष्मं वेदसारं विमुक्तये ।। एषः पाशुपतो योगः सेवनीयो मुमुक्षुभिः । भस्मच्छन्नैहिर् सततं निष्कामैरिति हि श्रुतिः ।। वामं पाशुपतं सोमं

2.2.42

 

लाङ्गलं चैव भैरवम् । न सेव्यमेतत्कथितं वेदबाह्रं तथेतरत् ।। इत्यादि वचनेषु वैदिकावैदिकविभागपूर्वकं केषाञ्चित् पाशुपता-गमविशेषाणशं वैदिकबाह्रत्वं प्रतिपाद्यते, एवं सति पाशुपतपञ्चरात्रयो। किं वैषम्यमिति चेत् उच्यते, वेदाविरुद्धांशे सर्वेषां प्रामा-ण्यम्, साङ्खययोगादावपि प्रकृतेः अब्राहृात्मकत्वस्य वेदविरुद्धत्वात्, तस्मिन्नंशेऽप्रामाण्यम्, पाशुपतस्यापि शैवागमोऽपि द्विविधः-श्रौतः स्मात्र्तश्च सा स्मृतः । स्वतन्त्रो दशधा चैव तथाऽष्टादशधा पुनः ।। कामिकादिप्रभेदेन बहुधा स व्यवस्थितः ।। श्रुतिसारमयो-ऽन्यस्तु शतकोटिप्रविस्तरः । परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते । इति कामिकाद्यष्टाविंशतिभेदमित्रसिद्धान्ततन्त्राणां स्वतन्त्र-त्वप्रतिपादनादवैदिकत्वं सिद्धम्, पञ्चरात्रे तु तन्निन्दापरवचनप्रक्षेपशङ्कारहितेषु पुराणेषु न दृश्यते इति सर्वत्र प्रामाण्यमेव, अत एव पञ्चरात्रकत्र्तुः वासुदेवस्य वेदादावेव सर्वज्ञत्वोपगमात् पतञ्जल्यादीनाञ्च जीत्वात्, पञ्चरात्रस्यच पुराणेषु बुद्धातिदेशनावत् व्यामोहनाथर्मीश्वरप्रणीतत्वात्, न योगाद्यधिकरणेन गतार्थतेति मध्यस्थेन कल्पतरुकारेण प्रतिपादितमित्यलमतिचर्चया । परै-स्त्वित्यादि - कार्यविशेषरूपातिशयेति । सङ्कर्षणप्रद्युम्नानिरुद्धानां सम्भारस्थितिसृष्टिरुपकार्यविशेषरूपातिशय सद्भावमित्यर्थः ।।

।। इति उत्पत्त्यसम्भवाधिकरणम् ।।

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतिप्रकाशिकाव्याख्यायां

भावप्रकाशिकायाम् द्वितीयस्याध्यायस्य द्वितीयः पादः ।।

समुदिताधिकरणराङ्ख्या - 53 - समुदितसूत्रसङ्ख्या - 206 ।।



2.3.1

 

अयमर्थ इति - संगतिरित्ययमर्थ इत्युत्तरत्रान्वयः । कार्यविषये परोक्तेति - यद्यपि परस्परविरोधेन वेदान्तानामप्रामाण्यशङ्का परेषामिव वियत्प्राणाधिकरणेषु पूर्वपक्षत्वेन उद्भाव्यते, कार्यताप्रकारविरोधसमाधानमात्रपरत्वात्, तथा वियदनुत्पत्त्यादि-पूर्वपक्षोद्भावनपूर्वकं वियदुत्पत्त्यादिश्रुतीनां स्वार्थसमन्वये स्थूणानिखननन्यायेन साधिते सति विप्रतिषेधेन निरस्तानां सांख्यानां ह्मदि विपरिवर्तमानानां वेदान्तेष्वपि विप्रतिषेधप्रतिवन्दी दूरनिरस्ता भवति, अत एव विरोधाध्यायसंगतिरपि सिद्धा भवतीतिभावः । सूत्राभिप्रायविवरणमिति - न तु श्रुतिशब्दस्य श्रवणार्थत्वप्रतिपादनपरमितिभावः । श्रुतिनिर्देशस्वार

2.3.2

 

स्यादिति - गौणत्वस्य शब्दधर्मत्वेन प्रमितधर्मत्वाभावादितिभावः । निरवयवत्वस्यानित्यगुणसाधारणतया तत्रानैकान्त्य-परिहाराय द्रव्यत्वा-दित्युक्तम्, नचास्य हेतोरसिद्#िथः, क्कचिदपि तदभावस्य बुद्धावारोहासम्भवात्, अत्र वियत् नास्तीति निषेधस्य व्याहतत्वात्, "आकाशे चाविशेषात्' इति वैभापिकाधिकरणसूत्रे - इहेतिप्रत्ययवेद्यो देश आकाश इति व्यवस्थापितत्वात्, न च हेतोरप्रयोज्क-त्वम्, निरवयवस्य सवगतस्य समवाविकारणाद्यनिरूपणादितिभावः । तैत्तिरीयकतर्कविरुद्धेति - तैत्तिरीयकगततर्कविरुद्धेत्यर्थः ।। । ।। अस्तीति श्रुतिस्साधकतयेति - अस्तीत्यस्मिन्नर्थे श्रुतिः साधकतयेत्यर्थः । उत्पत्तिप्रमितिजननहेतुरेवेति - मानान्तरागोच-रत्वस्य श्रौतत्वानुगुणत्वादित्यर्थः । प्रत्यक्षसिद्धत्वमात्रेणेति - मानान्तरसिद्धत्वमात्रेणेत्यर्थः । प्रत्यक्षमनुमानं वेति - शब्दोऽद्रव्यातिरिक्तद्रव्याश्रित इत्यनुमानं वेत्यर्थः । अनुमानान्तरञ्चेति - आकाशं नित्यं निरवयवद्रव्यत्वादित्यनुमानान्तरमित्यर्थः । ननु सर्गाद्यसमयादच्छिन्नाकाशस्य पक्षीकारे तु तस्य श्रुत्यैकसमधिगम्यतया तस्यानुत्पत्तिसाधने धर्मिग्राहकमानविरोधः, आमाशमात्रपक्षीकारे तु धर्मिग्राहकमानबाधस्य कः प्रसंग

2.3.4

 

इत्यस्वरसादाह - निरवयवत्वहेतोर्महदादिष्विति । निरवयवत्वहेतोरिति -निरवयवद्रव्यत्वहेतोरित्यर्थः । संयोगविशेषवचनाच्चेति -निरवयवस्य संयोगाभावादितिभावः । सर्वगतद्रव्यत्वहेतोरिति - सर्वगतत्वादित्युक्ते नैयायिकमते प्रमेयत्वादिप्रत्यासत्तिजन्य-ज्ञानस्य सर्वगोचरत्वेन सर्वगततया तस्मिन् व्यभिचाराभावार्थं द्रव्यत्वादिति वाच्यमिति भावः ।। "तपसा ब्राहृेति तपसा ब्राहृ विजिज्ञासख" इति वाक्ये ब्राहृशब्दो मुख्यः, तपो ब्राहृेति वाक्यशेषे तु ब्राहृज्ञानसाधनत्वेन गौण इति भावः । मुख्यामुख्यविष- यतत्वाभावादिति - "अन्वयादिति चेत्स्यादवधारणात्' इत्यत्र अन्नमयादिषु आत्मशब्दा अपरमात्मबुध्द्या नोपचारतः प्रयुक्ताः, अपि तु परमात्मबुद्धयैव, "अन्तः प्रविष्टः शास्ताजनानाम्' इति तत्तदन्तः प्रवेशेन नियन्तृत्वामात्मत्वम्, तत्र प्राणमये अन्न-

2.3.6

 

मयात् अन्तरात्मत्वमात्रेण परमात्मत्वबुद्धिः जाता, तस्यापि अन्तरदर्शनेन तत्रापि परमात्मबुद्धिर्जाता, पूर्वत्र तु निवृत्ता; यस्यादन्यदन्तरं नास्ति र्सक्षणादिकञ्च श्रुतम्, तस्मिन् परमात्मबुद्धिः आत्मबुद्धिश्च प्रतिष्ठिते, एवञ्च पूर्वत्रापि परमात्मबुद्धि-विषय एव आत्मशब्दप्रयोगात्, सर्वेष्वपि पय्र्यायेषु आत्मशब्दः परमात्मविषय एव, न तु औपचारिक इति वक्ष्यमाणत्वात्, तत्र्यायेन " अन्नं ब्राहृ" इत्यत्र ब्राहृशब्दस्यापि ब्राहृबुद्धया प्रवृतत्वान्न भाक्तत्वम्, यथा शुक्तौ रजतबुद्धया प्रयुज्यमानस्य रजतशब्दस्य नौपचारिकत्वं तथेत्यर्थः । उभयत्रापि समाधिभङ्ग इति - अनुपङ्गश्रवणावृत्त्योः वृत्तिद्वयविरोधरूपसमयभङ्गः कार्य इत्यर्थः ।। । ।। ।। कार्यतयैवाव्यतिरेको विवक्षित इति भाव इति ।। ननु नित्यविभूत्यादीनामकार्यत्वेऽपि प्रतिज्ञया अहानिवत् आकाशस्य अकार्यत्वेऽपि प्रतिज्ञाया अहानिर्न प्रसज्यते, न च "येनाश्रुत"मित्यादौ अश्रुतादिशब्दा नित्यविभूतिव्यतिरिक्त-पराः, उत्तरत्र "सदेव सोभ्येदमग्र आसीत" इति इदङ्कारगोचरस्यैव ततः पूर्वसन्मात्रतापक्षिप्रतिपादनादिति वाच्यम् । इदंशब्द- स्य प्रत्यक्षादिप्रमाणोपस्थापिरसर्ववस्तुपरामर्शतया नित्यविभूत्यपरिग्रहे बीजाभावात्, इतरथा अतीन्द्रियपदार्थानां

सर्वविज्ञा-नप्रतिज्ञाविषयत्वं न स्यात्, ततश्च त्यक्तव्यम्वा नित्यविभूतीनां नित्यत्वम्, स्वीकत्र्तव्यम्वा आकाशस्यापि नित्यत्वमिति

2.3.9

 

न, अस्य दोषस्य सर्वैरपि समाधेयत्वात्, इतरथा अविद्यावद् आकाशस्यापि अनाद्यध्यस्ततया अजन्यत्वमस्तु, ब्राहृाव्यति-रेकेऽपि तद्वदेव उपपद्यत इत्युक्तौ समाधानस्य मृग्यत्वात्, न च कल्पतरौ - "तथा प्राण"इत्यत्र प्राणानामविद्यावद् अनाद्य-ध्यस्तत्वे साक्षिण्यव्यवधानात् सुपुप्तावपि उपलम्भप्रसङ्गः इत्युक्तम्, तत्र्यायादत्रापि सपुप्तावपि उपलम्भप्रसङ्ग इति वाच्यम् । अनाध्यद्यस्तेश्वरवत् उपपत्तेः, जीवान्तराविद्यावदनुपलम्भोपपत्तेश्चानन्यथासिद्धप्रमाणवलात् अविद्याजन्यत्वमभ्युपगन्त- व्यम्, आकाशे न तथा, प्रत्युत्पत्तिश्रुतिरेववर्तत इति, यदि तर्हि प्रकृतेऽपि नित्यविभूतावपि समानमेतत्' । अवान्तरसाध्य-विषयहेतुभेदानामिति - "असद्वयपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषाद् युक्तेः शब्दान्तराच्च" इत्यादाववान्तरसाध्यविषयत्-

2.3.9

 

वात्,असमस्तपदोपात्तहेतूनामप्येकसूत्रप्रतिपाद्यत्वं दृष्टं परमसाध्येऽपि समस्तपदोपात्तहेतूनामेकसूत्रप्रतिपाद्यत्वं दृष्टम्, "कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च" इत्यादिप्विति भावः । इदञ्च चशब्दाभावस्थल इति द्रष्टव्यम्, तेन "वाङ्मनसि दर्शनाच्छब्दाच्च" उपादानाद्विहारोपदेशाच्च" इत्यादौ परमसाध्ये असमस्तपदोपात्तहेनूनामपि एकसूत्रप्रतिपा- द्यत्वं दृश्यत इति न चोदनीयम् ।। । ।। ननु काय्र्यत्वं सिद्धवत्कृत्य कथं विभागशब्दिता उत्पत्तिः समथ्र्यते । विकारशब्दि-तकार्यत्व एव विवादादितरथा उत्पत्तावप्यविवादादिति चेत् न, छान्दोग्ये क्कचिद्विकारेषु उत्पत्तिवादाभावस्य गतिप्रदर्शन-भावपरत्वेनाऽददोषात् । परे त्वित्यादि - परमसाध्यत्वाभावादिति । विप्रतिषेधमात्रस्य स्वतोऽनिष्टत्वाभावेन तस्यैव पूर्वपक्ष-पय्र्यवसानभूमित्वाभावादित्यर्थः । न विप्रतिषेधमात्रं पूर्वपक्षितम्, नाप्युत्पत्तिसिद्धान्त्येकदेशिनतं कृत्वेति पाठः, यद्यपि कल्पतरौ - एवमध्यायपरिसमाप्तेः प्रथमं विप्रतिषेधादप्रामाण्येन पूर्वपक्षः, तत एकदेशिमतेन व्याख्या ततः सिद्धान्त इति दर्श-नीय इत्युक्तम्, तथापि तस्य ग्रन्थस्याधुनिकत्वात् तन्नोद्धाटितामिति द्रष्टव्यम् । हेतुतया उपन्यासोऽनुपपन्न इति - ननु वाच-स्पतिना तैत्तिरीयके वियदुत्पत्तिश्रुतिः यद्यप्यस्ति, तथापि तस्याः प्रमाणान्तरविरोधात्, बहुश्रुतिविरोधाच्च गौणत्वम्; ततश्च

2.3.9

 

मुख्यार्थश्रुत्यभाव एवाश्रुतेरित्यस्यार्थः, ततश्च "वियदश्रुतेः' "गौण्यसम्भवात्, शब्दाच्च, स्याच्चैकस्य ब्राहृशब्दवत्' इति सूत्रचतुष्टयमपि सिद्धान्त्येकदेशिमतमस्त्विति पूर्वपक्षसूत्रम्, तस्य च आकाशसृष्टिप्राथभ्यपअतिपादकं तैतिरीयके, तेजस्सृ-ष्टिप्राथम्यप्रतिपादकञ्च छान्दोग्येऽस्ति, अतः श्रुत्योः परस्परप्रतिषेध इति व्याख्यातमिति चेत्, सत्यं व्याख्यातम्, तत्तु

2.3.9

 

शाङ्करभाषेयविरुद्धमिति भाष्टाभिमतयोजनयैव दूषितमिति द्रष्टव्यम् । पृथक् परिहरणीयत्वाभाताच्चेति - ननु "वायुश्चान्तरिक्ष-ञ्चैतदमृतम्' इति उभयसाधारण्येन अमृतत्वमुक्ता पुनः वायोः विशि#ेष्योच्यते "सैषाऽनस्तमिता देवता यद्वायुः' इति अतो-ऽभ्यासाद्वायोरमृतत्वं विवक्षितमिति ज्ञायते, अभ्यासे भूयस्त्वमर्थस्य भवतीति न्यायात्, अधिकाशङ्काव्यवृत्यर्थमतिदेशाधि-करणमेवास्तु, नतु पृथभ्योगकरणमुत्तरार्थमिति सामाधानं युक्तम्, तेनसि विशेषपक्षपाताभावात् "तेजोऽतस्तथाहृाह' इत्- येव वूत्रयितव्यम्' अहङ्कारस्तथेत्याहेति वा वक्तव्यम् । महदहङ्कारादीनामपि तन्मिन्नधिकरणे विषयत्वस्य भाष्य एव वक्ष्य-माणत्वात्, अतः पृथग्योगकरणमुत्तरार्थमिति नातीव युज्यत इति चेत् सत्यम्, महदहङ्काराकाशवाय्वादिसाधारणावेव पूर्वो-

2.3.10

 

त्तरपत्तौ, तथापि "तदैक्षत तत्तेजोऽसृजत"इति बहुभवनसङ्कल्पपूर्वकसृष्टेः स्फुटप्रतिपादनेन सिद्धान्तावतरणस्य सौलभ्यं पय्र्यालोच्य "तेजोऽतस्तथा ह्राह' इति सूत्रयिष्यन् तदर्थेऽधिकाशङ्कामाद्येऽप्यतिदिशति "एतेन मतिरिश्वा व्याख्यात;' इति, अतो न किञ्चिदवद्यमित्युत्पश्यामः ।। इति वियदधिकरणम् ।।

।। सृष्टयनन्तरानुप्रवेशकृतमौपचारिकमिति ।। कादाचित्कानुप्रवेशनियमन मात्रेण शरीरत्वोक्तिः, नतु यावत् सत्तं धाय्र्यत्वादि-कमभिप्रेत्य येन तन्मूख्यं स्यादिति भावः ।। । ।।

2.3.13

 

ननु "तेजोऽतस्तथा ह्राह' इति न्यायसाम्ये अप्सु पृथक् सूत्रकरणं किमर्थमिति चेत् न, तथा ह्राहेत्यंशस्य साम्येऽपि तेजसि विषये "तदैक्षत" तत्तेजोऽसृजत इत्यस्य परम्परयाऽप्युपपत्तिरिति परिहर्तव्यम् । अप्सु "ततेज षक्षत" तदापोऽसृजत" इति प्रथमश्रुततजश्शब्दानु#ासारात्, "तस्माद्यत्र क्कचन शोचति स्वदेते हि पुरुषः तेजस एव तद्धयापोऽजायन्त" इति वाक्यशे-षश्रवणाच्च ईक्षण #ं गौणमिति वा "अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या'मिति न्यायेन वा निवोदव्यमिति पूर्वपक्षिणो

2.3.15

 

निर्वाहभेदप्रकारसत्वात् पृथक् सूत्रकरणसार्थक्यात्, न च पृथिव्याः पृथक् सूत्रं व्यर्थमिति वाच्यम् । अत्र पअथिवीशब्दयोः विरोधपरिहारार्थतया तदापि पृथक् सूत्रणमिति गन्तव्यम् ।। । ।। तच्छरीरकत्वं श्रौतमित्याहेति - तच्छरीरकस्य कारणत्वं श्रौतमित्याशय इत्यर्थः, "यः पृथिवीमन्तरो यमयति" इति तदधिष्ठितवस्तुन एव कार्यकरत्वश्रवणादिति द्रष्टव्यम् । तेषाम-पीक्षणपूर्वकसृष्टिसिद्धय इति - अत्र केचित् पूर्वग्रन्थे ईक्षापूर्वकसृष्टयुपपाद्यतयोक्तस्य तच्छरीरकत्वस्य ईक्षापूर्वकसृष्टिसिध्द्य-र्थत्वकथनमयुक्तम्, ततश्च महदादीनामपि परमात्मशरीरत्वप्रतिपादकवचनं दर्शयति, सुबालोपनिषदि चेति - इत्येवावतरणि-का देयेति च मन्यन्ते ।। । ।। ।। आनन्य्र्यरूपक्रमप्रतीतेरिति - यद्यपि पौर्वापर्य एव क्रमः, नतु अव्यवधानलक्षणमानन्तय्र्यम्,

2.3.17

 

तथापि आनन्तय्र्यरूपाव्यवधानविशिष्टपौर्वापय्र्यलक्षणक्रमप्रतीतेरित्यर्थे बाधकाभावात्, न च क्रियाद्वारकमेव पौर्वापय्र्यं वक्तव्यमिति वाच्यम्, तथा सति "त्तस्माज्जायत्' इत्यस्य सृष्टयुन्मुखादित्यर्थः प्रतीयते, ततश्च, सृष्टयौन्मुख्यस्य प्राणाद्युत्पत्तेश्च क्रमिकत्वद्वारा तदाश्रययोः कार्यकरणयोरपि इत्यदोषात् । इत्यन्वयाभिप्रायेणेति नतु "एतस्माज्जायते प्राणः ततो मनः सर्वेन्द्रियाणि' इत्यन्वय इति भावः ।। । ।।

2.3.17

 

भाष्ये - भङ्कत्वा व्यपदिश्यत इति, अस्मिन् पक्षे "भञ्जोऽवमर्दने' इति धातोःक्तिनि सति भक्तिः भङ्गः भकत्या प्रयुक्त इति भावः । पुर्वसाध्येनानन्दमयादिति, "पृथिवी' इति सूत्रे पृथिव्यत्पत्तेरेव साध्यत्वात् तत्र च अधिकाररूपशब्दान्तराणामत्र -

2.3.17

 

शब्दवाच्यपृथिवीत्वहेतुत्वेऽपि पृथिव्युत्पत्तावहेतुत्वादिति भावः । अभिमानिचेतनानुप्रवेशनिबन्धनत्वस्य चोक्तत्वादिति - ततश्च स्वतश्चैतन्यं नास्तीति भावः । ननु वाचस्पतिना तेज आद्यधिष्ठानदेवतानां परमेश्वराधिष्ठितानामेव भूतसर्गे प्रवृत्तिः, उत

2.3.17

 

तदनधिष्ठितानामिति विचारप्रवृत्तिरिति चेन्न, तस्य तद्भाष्यविरुद्धत्वात् "परात्तु तच्छØते'रित्यादिना कृतकरत्वाच्च तदना-

दृत्य यथाश्रुतभाष्य एवदूषणमुक्तमिति द्रष्यव्यम् । एकशब्देन विवक्षितत्वे कारणाभावादिति - न च प्राणशब्देन बुद्धिरुच्यते, बुद्धिर्नाम निश्चयहेतुभूतान्तःकरणावस्था संशयहेतुभूतान्तःकरणावस्थं मन इति तयोर्भेदः,तत्र ज्ञायते अनेनेति व्युत्पत्त्या सौत्रविज्ञानशबब्देन प्राणशब्दितबुद्धेरिन्द्रियाणाञ्च ग्र्रहणम्, मनश्शब्देन मनसो ग्रहणञ्चच सम्भवतीति वाच्यम्, एता-दृकल्पनायां प्रमाणाभावादिति भावः । जीवस्य परस्मादात्मन उत्पत्तिः,वियदादीनामस्ति नाÏस्त वेत्युत्तरसूत्रेण वक्ष्यति, देहाश्रयौ तावत् जीवस्य स्थलौ उत्पत्तिप्रळयौ न स्त इत्यनेन सूत्रेणावाचदिति परभाष्योक्तमाह - अत्र देहाश्रयाविति ।

2.3.17

 

शरीरजन्मविनाशयोः जीवगतत्वशङ्कायाअनुदयादिति - ननु देवदत्तादिनामधेयं तावत् जीवस्य, न शरीरस्य, तन्नाम्ने शरीराय श्राद्धकरणानुपपत्तेः; तस्मात् मृतो जातो देवदत्त इति व्यपदेशस्य मुख्यत्त्वं मन्वानस्य पूर्वपक्ष इति वाचस्पत्ये स्पष्टमेव जीवभेदं सिद्#ॅधवत्कृत्य देहभिन्नजीवस्य देहोत्पत्तिविनाशानुयाय्युत्पत्तिविनाशवत्वं पूर्वपक्षीकृत्य सिद्धान्तित इत्याभिधानात्, शाङ्करभेष्येऽपि शरीरानुयायिविनाशिनि जीवे - इति, तद्भेदसिद्धवत्कारणेवै देहे उत्पद्यमाने जीवोऽप्युपपद्यते, नश्यति तस्मिन् स्वयमपि नश्यतीति पूर्वपक्षप्रतीतेः तस्यैवार्थस्य देदाश्रयौ तावज्जीवस्य स्थूलोत्पत्तिप्रलयो#ै न स्त इति भाष्येऽनुवाद्यमानत्वात्, देदाश्रयावित्यस्यापि देहोत्पत्तिविनाशवित्येवार्थप्रतीते कथमयं प्रपञ्च इति चेत्, सत्यम्, देहानुविविधायिविनाशित्वे जीवस्वरूपस्याभ्यमाने "नात्मा श्रुते'रित्वनेन पौनरुकत्यात् देहोश्रया उत्पत्तिविनाशावित्यस्य यथाश्रुत एवार्थः स्वीकर्तव्यः,

2.3.17

 

गत्यन्तरामावादित्यभिपेत्यैवमुक्तमितं द्रष्टव्यम् । अन्ये त्वित्यादि - प्रलयावस्थापुरुषस्य चेति । प्रलयावस्थस्य भोक्त्रंशस्य चेत्यर्थः । अस्य पाठक्रमस्येति - त्वदभिमतस्य सूत्रपाठक्रमस्य कुत्रापि अप्रसिद्धत्वादित्यर्थः । सर्वेषामुत्पतिं्त च पूवर्पक्षीकृत्येति - सर्वेषामुत्पत्तिर्वा स्यात्, सर्वेषामनुत्पत्तिर्ता स्यादिति पूर्वपक्षीकृत्येत्यर्थः, । मनस्याकाशमेव चेति प्रयोगाच्चेति - एतस्माज्जायत इति श्रुतौ यदि मनश्शब्दो मनः परः तदाऽऽकाशस्य इन्द्रियेषु इन्द्रियाणाञ्च मनसि मनसश्च प्राणशब्दितमहत्तत्त्वे च लयः कीत्र्यत इति भावः । आकाशादिषु क्रमविवक्षादर्शनादिति - "खं वायुज्र्यातिराप" इत्युत्तरवाक्ये क्रमविवक्षादर्शनादिति भावः । पदार्थनिर्देशमात्रञ्च अत्र वागादिक्रमविवक्षाप्रतीतेरभावादिति भावः । अहङ्काराज्जातानीत्यर्थ इति - अहङ्कारात स्वादीनि

2.3.17

 

साक्षाज्जातानि, इन्द्रियाणि तु स्वादिद्वारा जातादीत्यर्थ इति भावः। अतो विरोध इति - "इन्द्रियेभ्यः परा ह्रर्थाः' इति श्रुत्यनुसारेण "सर्वेन्द्रियाणि च स्वं वायुज्र्योतिराप" इत्यत्र विरोधस्य परिह्मतत्वात्, मनश्शब्दिताहङ्कारस्य महतश्च मध्ये "मनसस्तु परा बुद्धिः, बुदिं्ध तु सारथिं विद्धि, विज्ञानसारथिर्यस्तु' इति बुद्धिविज्ञानाब्दितं तत्त्वान्तरं प्रतीयत इति विरोध इत्यर्थः । मनश्शब्दः वाच्येति - "मनसस्तु परा बुद्धिः' इति श्रुतपरापरभावो यथा कथञ्चिन्निर्वोढव्य इति भावः । नभः प्रकृतयस्स्युरिति चेदिति - ततश्च अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतिविरोध इति भावः' । इन्द्रियमेव मन इति - अन्तरिन्द्रियमेव मनः नाहङ्कार इत्यर्थः । न चैवं " इन्द्रियेभ्यः परा ह्रर्थाः' इति इन्द्रियापेक्षया परत्वेन प्रतिपादितादथात् इन्द्रियविशेषस्य मनसः कथं परत्वमिति शङ्कयम् आकारान्तरेण परापत्वयोरूपपत्तेरिति भावः, । औचित्यभङ्गप्रसङ्गादिति - आत्मशब्दस्यैव महत्त्वेन विशेषणस्योचितत्वादिति भावः । अर्थविरोधत्वादिति -प्रकृतिमहदहङ्काररूपार्थप्रतिपादकत्वात् अस्य सन्दर्भस्य वशीकार्यप्रकरणबाधो युक्त इति चेदित्यर्थः । प्राचीनाधिकरणेति - आनुमानकाधिकरण इत्यर्थः ।।

।। इति तेजोधिकरणं सामाप्तम् ।।

2.3.19

 

नियतधर्मधर्मिभाव उपपद्यत नेति - धम्र्यपेक्षया अधिकदेशस्य धर्मत्वं सम्भवति नेति चिन्तायां निवेशनीयम् । अस्यार्थस्य

"अविरोधश्चन्दनवत्, गुणाद्वा लोकवत्, इति सूत्रोपारूढतया तस्यावश्यं वक्तव्यत्वात् । विप्रकृष्टार्थग्रहणाग्रहणासम्भवेनेति - सर्वाङ्गीणवेदनासम्भवेन आत्मनो विभुत्वस्य वक्तव्यतया तस्य च नित्यज्ञानाश्रयत्वेन नित्यत्वोपलब्धिप्रसङ्ग इत्यर्थः । भाष्ये-ज्ञानस्वरूप एव न ज्ञानमात्रम्, नापि जडस्वरूप इति ज्ञातृत्वे साधितेऽपि न जडत्वव्यावृत्तिः, नैयायिकैज्रडत्वाभ्युपगमात्, तथापि

2.3.20

 

"यावदात्माभावित्वाच्च' इति च शब्देन सिद्धिमभिप्रेत्य उक्तमिति द्रष्टव्यम् । भाष्ये-यदुक्तं ज्ञातृत्वे स्वाभाविके सतीति, ननु स्वा-भाविकज्ञातृत्वे कथं विभुत्वनिराकरणमुपयुज्यते, विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वात्, "नित्योपलब्ध्यनुपलब्धी'ति सूत्रोक्तन्यायेन विभुत्वस्य आगन्तुकज्ञानाश्रयत्वज्ञानरूपत्वस्वाभाविकज्ञत्वरूपसर्वपक्ष-विरुद्धत्वेन विशिष्य सिद्धान्तिनामपि निरा-करणायत्वात्, तत एव नैकाधिकरणत्वमपि "उत्कान्तिग्कयागतीना'मित्यादेः युज्यते, अणुत्वसमर्थनस्य स्वाभाविकज्ञातृत्वानुपयुक्तत्वात् कथञ्चिदुपयोगमाश्रित्यैकाधिकरण्याश्रयणे "कत्र्ता शास्त्रार्थवत्वा'दित्यस्य ज्ञातृत्वकत्र्तृत्वसमर्थनार्थस्य कुतो नैकाधिकरण्यम्, यदि कत्र्तत्वनिराकरणं ज्ञातृत्वोपयुक्तं तर्हि तन्निराकरणार्थानामेकत्रैव निवेशनीयतया "ज्ञोऽत एव, व्यतिरेको गन्ववत्, पृथगुपदेशात्, तद्गुणसारत्वात्तद्वयपदेशः, यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्,पुंस्त्त्#ादिवत्त्वस्य सतोऽभिव्यक्तियागा'दिति ज्ञत्वं समाप्य "उत्क्रान्ति-गत्यागतीनाम्, स्वात्मना चोत्तरयोः, नाणुरतछØतेरिति चेन्नेतराधिकारात्, स्वशब्दोन्मानाभ्याञ्च, अविरोधश्चन्दनवत्, अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वा लोकवत्, नित्योपलब्धि'रित्येव सूत्रन्यासः स्यादिति चेत्, उच्यते- यदुक्तं विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वादिति-सत्यमेतत्, तथापि पूर्वपक्षिणः तथाभिमानसम्भवेन तत्खण्डनस्य कर्तुं यक्तत्वात्, यदुक्तं "कत्र्ता शास्त्रार्थवत्वात्' इत्यस्याप्यैकाधिकरण्यमिति, तत्र ज्ञातृत्वं हि ज्ञानाश्रयत्वं न तु कर्तृत्वं, प्रत्ययस्याश्रयत्वमात्रार्थकत्वात्, अस्तु वा कथञ्चिदुपयोगः, नैतावता ए#ैकाधिकरण्यं, तस्य सूत्रकदनभिमत्वात्, प्रकृते तु ज्ञत्वाणुत्वसमर्थनसूत्राणां परस्परान्तरिततया करणादेवावसीयते-ए#ैकाधिकरण्यं सूत्रकृदभिमतमिति, इतरता त्वदुक्तरीत्या महत्वनिराकरणसूत्राणां बुद्धिसौकर्याय सङ्कीर्णतयैव निवेशः स्यात्, अतः सर्वं समज्जम् ।। । ।। "स यदा तेजोमात्रास्समभ्याद-

2.3.23

 

दाना ह्मदयमेवापक्रामति शुक्तमादाय पुनरेति स्थान'मिति परोक्तगतिश्रुत्यनुपन्यासे हेतुमाह - उत्क्रान्तिशब्दानन्तरेति । ।। । ।। भाष्ये-शरीरविभोगरूपत्वेनेति, उत्क्रामणं हि अपसर्पण इव मरणे विनिरूढम्, तच्चातलतोऽपि सतः कर्मक्षये देहस्वात्म्यनिवृत्त्या उपपद्यते, गत्यागत्योश्चलेन निरूढयोः कर्तृस्वभावरूपत्वादिति भावः ।। । ।। भाष्ये-अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य

2.3.26

 

श्रूयत इति उद्धरणञ्च पृथक्करणम्, बालाग्रशतभागस्ये'ति अवयवावयविनोरवयवस्य पृथक्करणं श्रूयते, श्राव्यते प्रदश्र्यत

2.3.32

 

इत्यत इत्यर्तः, ततश्च पृथक्करणाश्रवणयोः श्रुतिकत्र्तृकत्वात् समानकत्र्तृत्वोपपत्तिरिति द्रष्टव्यम् । आराग्रम्-चर्मभेदिसूच्यग्रम् ।। । ।। "ननु-उक्तं ज्ञानमेवात्मेति' "विज्ञानात्मा पुरुष'

इत्यादिश्रुतिष्वित्यर्थः ।। । ।।

विशिष्टवाचिना शब्देनेति - ज्ञानविशिष्टवाचिशब्देनेत्यर्थः ।। । ।।

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

आत्मा कुत्रचिदुपलभ्यत इति - आत्मा शरीरान्त उपलभ्यते, तथा बहिर्नोपलभ्यत इत्येतत् "अहमिहैवास्मि सदने न जानान' इति सर्वलौकिकानुभवसिद्धम्, न चैतत्पक्षद्वयेऽपि उपपद्यते, ज्ञानेरूपः सर्वगत आत्मेति पक्षे किं उपलभ्यानुपलभ्यस्वभावः, उत उपलभ्यैकस्वभावः, उतानुपलभ्यैकस्वभावः । आद्ये दहेस्यान्तरे उपलब्ध्यनुपलब्धी स्वाताम्, द्वितीये सर्वत्रोलब्धिस्स्यात् । तृतीये अनुपलब्धिः स्यात्, दहेस्यान्तरुपलभ्यस्वभावः अन्यत्रानुपलभ्यस्वाभाव इति व्ववस्था न युज्यते, न ह्रेकस्य क्कचिदेशे स्वप्रकार-मन्यत्र नेति शक्यते वक्तुमिति भावः । एवं जडत्वपक्षेऽपि दूषणं द्रष्टव्यम् । भाष्ये-सर्वैः करणैः सर्वदा संयुक्तत्वेनेति, नन्विदं सिद्धान्तेऽपि समानभेव, नित्यानां मुक्तानाञ्च धर्मभूतज्ञानानामनन्तानां सर्वत्र विद्यमानत्वात्, धर्मभूतज्ञानामपि सर्वात्मसम्ब्धत्वात् मध्ये इदमेदतदीयमिति नियन्तुमशक्यत्वात् कथमेतदिति चेन्न, "श्रुतेस्तु शब्दमूलत्वात्' इति न्यायेन श्रुतिप्रतिपन्ने अर्थे यथा श्रुत्यभ्युपगन्तुं युक्तम्, इतरथा न युज्यत इत्यत्र तात्पर्यात् । ज्ञशब्दस्यापि व्यक्तिवाचित्वाभावादिति - "इगुपधज्ञा प्रिय- किरः कः' इति कप्रत्ययस्य कत्र्तरि कृ'दिति कत्र्रर्थेऽनुशिष्टत्वादिति भावः । अविकृतब्राहृण एवेति - आविकृतब्राहृण एवोपाधिना जीवभावेनावस्थानादनुत्पन्नत्वेनेति योजना । तस्य चैतन्यस्वरूपत्वादिति - ब्राहृणः चैतन्यस्वरूपत्वात् तदभिन्नस्य जीवस्यापि चैतन्यस्वरूपत्वमिति भावः । साध्यतया प्रकृतेति - पूर्वाधिकरणे साध्यतया प्रकृतेत्यर्थः । साक्षादेव ज्ञानस्वरूपत्वसाधकत्वभावादिति - इदमुपलक्षणम्, परम्परयाऽपि साधकत्वं नास्ति, न ह्रनुत्पत्त्युपपादकस्य ब्राहृानन्यत्वस्य चैतन्यस्वरूपत्व-

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

साधकत्वमस्तीति एतावतानुत्पत्तेः परम्परया उपयोगेऽस्तीत्यपि द्रष्टव्यम् । तस्य ज्ञानस्वरूपत्वञ्चेति - ब्राहृणो ज्ञानस्वरूपत्वञ्चे-त्यर्थः । परमसाध्येति - जीवचैतन्यस्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यर्थः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्तम् अनुत्प-त्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्राहृानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनु-च्छित्तिधर्मेत्यत्र बहुब्राीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन परामर्शे तासामेव श्रुतीनाम् उत्क्रान्तिसूत्रेऽप्यनुवृत्तौ - उत्क्रान्तिगत्यागतीनाम्

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

श्रुतिभ्य इत्यस्यार्थस्य सम्भवाददोषः; तथापि ताभ्य इत्यस्य विशेष्यतया श्रुतिभ्य इत्याध्याहारोऽप्यवश्यापेक्षितः, अतः इहापि -ताभ्यः श्रुतिभ्यः इति पदद्वयाध्याहारादिति भावः । कारकव्यापारवैयथ्र्यमिति - चक्षुरादिव्यापारजीवचैतन्य-स्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यर्थः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्तम् अनुत्पत्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्राहृानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमिति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनुच्छित्तिधर्मेत्यत्र बहुव्रीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन वैयथ्र्यमिति भावः । तदा-श्रितेष्विति - तदाश्रयो मुख्यः प्राणः, तदाश्रिता इतरे प्राणा इति भावः । सङ्घातरूपस्य इति - उपाधेः सङ्घातरूप इत्यर्थः ।

32. सू। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसज्यताम् - कथं नित्यानुपलब्धिप्रसङ्गः - उभयप्रसङ्गो वा कथम्

 

सुषुप्तिप्रलययोरप्रबोधेनेति - सुषुप्तिप्रलययोरन्तःकरणादेः लीनत्वादित्यर्थः । आत्मेन्द्रियविषयसन्निधानान्नित्यमुपलब्धिरिति - आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्यते, अत असत्यपि हेतुसमवधाने फलाभावः नित्यमेवानुपलब्धिः प्रसज्येत, अत आत्मेन्द्रियविषयसन्निधाने सत्यपि कादाचित्कोपलम्भाभावस्य कारणव्यतिरेकप्रयोज्यत्वात्,

2.3.33

 

कारणान्तरसमवधाने कारणव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगिता अन्तःकरणं स्वीकार्यमिति भावः । अन्यतरनियमो वेऽन्यथेति सूत्रखण्डं व्याचष्टे । आत्मनीन्द्रियेऽपि वेति ।। ।। इति ज्ञाधिकरणम् ।।

2.3.33

 

सेतुं जन्तुमितिवदिति - औणादिके तुमुन्प्रत्ययान्तः "य एवं वेति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।।' इति चेदिति गीतावचनादिति भावः । भाष्ये-"शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्स्वयं प्रयोगस्स्या'-दिति जैमिनिसूत्रम्, अस्यार्थः यस्मात्-शास्त्रफलं स्वर्गादिकं प्रयोक्तरि भवति "स्वर्गकामो यजेत' इति शास्त्रप्रामाण्यात्, तस्मात्

2.3.37

 

स्वयं प्रयोगे कत्र्ता स्यादिति ।। । ।। भाष्ये- स यथा सहाराजेति प्रकृत्येति, "स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत' इति स्वप्नविषया श्रुतिः प्राणान् गृहीत्वा जागरितस्थानेभ्य उपसंह्मत्य स्वे शरीरे यथेष्टं सञ्चरतीत्यर्थः । शरीरप्रेरणे चेति - शरीरे ग्रथष्टसञ्चारे शरीरप्रेरणमपि सिद्धमिति भावः ।। । ।।

2.3.39

 

त्वन्मते बुद्धयुपधानात्पूर्वमिति - स्फटिकलौहित्यस्य जपाकुसुमसन्निधानोपाधिनिबन्धनत्वं जपाकुसुमसन्निधानात् प्राक् स्फ- टिके सत्यापि लौहित्याभावदर्शनात् उपपद्यते, सत्यपि जीवेऽन्तःकरणोपाधिसन्निधानात् प्राक् यदि कत्र्तत्वन्नोपलम्येत, तदा-ऽन्तःकरणस्य जीवगतकत्र्तत्वोपाधित्वं वक्तुं शक्यते, न च तथास्तीत्यर्थः । विज्ञानशब्दस्य बुद्धिमात्रविषयत्वनिर्बन्धश्चेति - यस्त्वयं व्यपदेशो दर्शितः "विज्ञानं यज्ञं तनुते' इति स हि बुद्धेरेव कत्र्तत्वं ज्ञापयति । विज्ञानशब्दस्य तत्र प्रसिद्धत्वादिति "यथा च तक्षोभयथा' इति सूत्रे यध्द्याख्यानं तदनुपपन्नमित्यर्थः । परिहत्र्तव्याभावमेवोपपादयति । हितबुध्द्यैव सर्वं चेतनः करोतीति - नाम्नि विवाद इत्युक्तमिति । यत् करणभिन्नं कत्र्ततया त्वयाऽन्तःकरणमित्यभिलप्यत इति तदेव मया जीव इत्यभिलप्यत इत्यर्थः । चित्तमनसोरिवेति - यथा प्राप्तकालानुरूपबोधरूपस्य चेतयितृत्वलक्षणस्य चित्ताख्यस्य मनोवृत्तिविशेषस्य मनसश्च प्रकृतिविकृतिभावोपदेशो नान्ति, एवं बुद्धेः मनोवृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो नास्ति, एवं बुद्धेः मनो-वृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिरेव वाहङ्कार इति मनोबुध्द्यहङ्काराणां प्रकृतिविकृतिभावापदेश इति भावः । अतः प्रकृतेरन्यत्वेन समाधिविधानमेव विवक्षितमिति - यद्यपि भोक्तृत्वशून्यायाः प्रकृतेः कमर्फलभोक्तृत्वानुसन्धानेन यागादिप्रवृत्तिवत् प्रकृति-

2.3.41

 

भिन्नत्वसमाधावपि न दोषः तथापि प्रकृतिकत्र्तृकस्य प्रकृतेरहमन्योऽस्मीति समाधेः भ्रान्तिरूपतया मोक्षहेतुत्वं न स्यादिति भावः । स्त्रक्चन्दनाद्युपयोग इति - स्त्रक्चन्दनादिधारण इत्यर्थः ।। ।। इति कत्र्रधिकरणम् ।।

2.3.41

 

गुणत्रयोद्भवाभिभवविशेषवासनाविशेषविषयसन्निधीनां रुचिविशेषहेतुत्वं क्रमेणोपपादयति । तथाहीत्यादिना - वस्तुस्वभाव-विशेषरूपेति । वस्तुसन्निधि विशेषरूपत्वेत्यर्थः ।। इति परयत्ताधिकरणम् ।। । ।।

2.3.42

 

तत्र शरीरवाचिशब्दस्येति - श्रुतिविप्रतिपत्त्या शरीरित्वमेवाक्षिप्य समाधीयत इति भावः । भाष्ये-न प्रतितिष्ठतीति, अनन्यत्वाधि-कत्वयोः परस्परविरुद्धयोरविरोधस्य अंशांशिभावेनैव समाधेयत्वादिति भावः, अपृक्सिद्धप्रकारत्वमेव ह्रंशत्वं; तत्र पृथक्सिद्धत्वेन-नन्यत्वसमर्थनं, प्रकारत्वेन भेदसमर्थनम्, अपृथक्सिद्धत्वप्रकारत्वाभ्याम् मिलिताभ्याम् उभयव्यपदेशमुख्यत्वसमर्थनमित्यर्थः ।

2.3.42

 

प्रभाप्रभावतोरिवापृथक्सिद्धांशांशित्वनिर्णयेनेति - यद्यपि तदनन्यत्वमिति सूत्रे समर्थनीयमनन्यत्वं कारणावस्थस्य कार्याव- स्थस्य चाभेदं, न तु जगद्व्रहृणोरंशांशित्वरूपं; तथापि सूक्ष्मचिदचिच्छररिकेण स्थूलचिदचिच्छरीरकस्यानन्यत्व स्य समर्थनीयतया अंशत्वरूपशरीरत्वं जगतः समर्थनीयम्, तत्र च चिदंशस्यांशत्वमिह साध्यते, अचिदंशस्यांशत्वन्तु अहिकुण्डलाधिकरणे साध्यते इति दृष्टव्यम् । भाष्ये "ब्राहृदाशा ब्राहृदासा ब्राहृेमे कितवा' इति, दासाः- धीवराः, कितवाः- द्यूतकृतः । उत्कृष्टैः सामानाधिकरण्य इति - श्रुताध्ययनसम्पन्नः साक्षाद्विष्णुरित्युक्ते स्तुतिपरत्वनुपपद्यते, निकृष्टसामानाधिकरण्यं तु न ब्राहृणः स्तुतये

2.3.44

 

भवति, विरुद्धत्वात्, नापि दासादीनां स्तुतये, तेषां स्तुत्यनर्हत्वात्, नापि ब्राहृणो निन्दायै-ब्राहृणो निन्द्यत्वाभावात्, नापि दासादी-नां निन्दायै वा-असम्भवात्, तस्माद्व्रहृणः दासादिसामानाधिकरण्यमभेदस्य तात्त्विकत्वमेव द्योतयतीत्यर्थः । भाष्ये-कुर्वाणेन भ्रमि-तव्यमिति, कुर्वाणत्वेन भ्रमितव्यम् कुर्वाणमिव ब्राहृ भ्राम्यति, नोपदिश्यत इति पय्र्यवसितोर्थः । शङ्कते - जीवब्राहृणोरिति ।। । ।।

2.3.45

 

भाष्ये-मन्त्रे सूत्रेऽप्यंश सति एकवचनमिति, मन्त्रे सूत्रेऽपि पार्दोश इत्येकवचनमित्यर्थः । पराकत्वेन च भेदो गृह्रत इति - इद-मुपलक्षणं परात्मसु भेदग्रहसिध्द्यर्थम् "शक्तयः सवर्भावानामचिन्त्यज्ञानगोचराः' इत्युक्ततीत्या शकत्यादिलक्षणः परस्परभेदः प्रत्य-क्पराकत्वातिरिक्तोऽप्यस्तीति द्रष्टव्यम् ।। । ।। भाष्ये-एकस्त्वेकदेशत्वं ह्रंशत्वमिति, यद्येवं विशेष्यस्यापि परमात्मर्नोऽशत्वप्रसङ्गः, विशिष्टवस्त्वेकदेशत्वाविशेषात्, ततश्च जीवपरयोरविशेषत्वप्रसङ्गः, किञ्च ममैवांशो जीवलोके जीवभूतः' इति विशेष्यभूतपरमात्मानं प्रत्येकदेशत्वं जीवस्य प्रतीयते, न तु विशिष्टं प्रति, ममेत्यस्य विशिष्टपरत्वे प्रमाणाभावात्, इश्वरांशत्वं हि स्वरसतः प्रतीयत इति वक्ष्यमाणत्वाच्च, विशिष्टे विशेषणमंश इति लोकप्रतिसिद्धतयाऽयमेवांश इत्युपदेशवैयथ्यात्, तदर्थं समानाधिकरणत्वस्यापि व्यर्थत्वात्; किञ्च "जीवभूतः सनातनः' इति विशिष्टजीर्वेऽशत्वकीत्र्तनं व्यर्थम् । ईदृशांशत्वस्य चिदचित्साधारण्यात्, अत एवाचितः पार्थक्येनांशत्वसमर्थनपर-महिकुण्डलाधिकरणमपि व्यर्थमिति चेत्-न, अंशत्वस्य नियाम्यशेषत्वलक्षणशरीररूपत्वस्य इहाधिकरणे समर्थनीयत्वात्, वक्षयति च विशेष्यस्य प्रधानतयांशित्वोपपत्तिरिति - अहिकुण्डलाधिकरणेऽचिर्तोशत्वसमर्थनेऽपि न

2.3.47

 

तेनाऽस्य गतार्थता, भिन्नत्वाभिन्नत्वांशत्वप्रतिपादकश्रुतिविरोधसमाधानप्रकारत्वादस्याधिकरणस्य, अतो मुख्भेदान्न गतार्थता, अत एव "अवस्थितेरिति काशकृत्स्न' इत्यनेनापि न गतार्थता, एकवस्त्वेकदेशत्वं ह्रंशत्वमित्यस्याष्यत्रैव तात्पय्र्यम्, यद्यपि अपृथक्सिद्धत्वलक्षणमठशत्वं समथ्र्यते, तर्हि अपृथक्सिद्धविशेषणभूतचिदचिद्गतदोषाणां ब्राहृणि परस्परं चाप्रसक्तेः तत्परिहारा-र्थानां "प्रकाशादिवत्तु नैवं परः' "अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्' इत्यादीनामानर्थक्यमिति चेन्न, अंशपदश्रवणमा- त्रात् विशेष्यैकदेशत्वरूपांशत्वमिह विवक्षितमिति भ्रान्त्या प्रवृत्तां शङ्कामभिमतांशत्वप्रदर्शनेन निराकरोतीत्युक्तौ दोषाभावात् । भानुर्मानुमानिति अत्र केचित् यथा घटाश्रये घटे प्रयुक्तौ घटघटवच्छब्दौ न तुल्यार्थौ, एवं प्रभारूपभानुमन्तराश्रये भानौ प्रयुज्यमानौ

2.3.52

 

भानुभानुमच्छब्दौ न तुल्यार्थौ, यदि च भानुशब्दः प्रभावचन एव सन् पर्यवसानवृत्त्या जातिगुणादिशब्दवत्प्रभावद्वचनस्स्यात्, तर्हि मत्वर्थप्रत्ययनिरपेक्षसामानाधिकरण्यं स्यात्, तस्माज्जात्यादिवाचकाः शब्दा उदाहाथ्र्या इति वदन्दि । परे त्वित्यादि - जीवेश्वरसम्बन्धनिरूपणमिति । किं स्वामिभृत्यवत् सम्बन्धः? उताग्निविस्फुलङ्गादिवत् इति निरूपणमित्यर्थः । स्वात्मानं प्रत्यंशत्वानुपपत्तेरिति - विशिष्टस्य विशिष्टं प्रत्यंशत्वानुपपत्तेरित्यर्थः । वस्तुनिस्वतोंऽशभेदाभावेनेति - आकाशस्य तु स्वतः

2.3.52

 

स्वांशत्वादुपहितानुपहितभेद उपपद्यत इति भावः । अयुक्तावस्थायामिति - योगराहित्यदशायामित्यर्थः । अनन्वयस्य वक्तुमश-क्यत्वाच्चेति - नियोज्यत्वानन्वयस्य वक्तुमशक्यत्वाच्चेत्यर्थः । परिच्छन्नत्वे सति अनुपलभ्यमानत्वमणुत्वमिति - नत्वणुपरि-माणत्वमिति भावः । अन्तःकरणोपाधिकत्वानुपपत्तेरिति - इदमुपलक्षणम् "प्रदीपवदावेशस्तथाहि दर्शयति, इत्यधिकरणे काय-व्यूहस्थलेऽन्तःकरणभेदमभ्युपगम्यान्तःकरणभेदेऽपि प्रतिसन्धानस्याभ्युपेतत्वादिति द्रष्टव्यम् । गोमहिषहेमाद्यंशित्वाभावादिति

2.3.52

 

ननु भूतलस्याधारत्वादिलक्षणप्राधान्ये विवक्षितेऽपि भूतलस्य गोमहिषादिकमंश इति व्यवहारो न दृश्यते, देवदत्तादेः दण्डकुण्डला-देश्च विशेष्यविशेषणभावलक्षणप्राधान्यविवक्षायामपि देवदत्तस्य दण्डकुण्डलादिकमंश इति व्यवहारो न दृश्यते, द्रव्यस्वामिन्यंशि-त्वव्यवहारास्तु समुदायापेक्षया विभुत्वद्रव्यस्यांशेनैतत्स्वामित्वात् देवदात्तादेः, न तु स्वामित्वादिलक्षणप्रामाण्यप्राधान्यमात्रात्, तथा सति क्रयदानादिलब्धगोमहिष्यादिस्वामिनि अंशित्वव्यहारप्रसङ्गादिति चेन्न, अत्रांशशब्दस्य शरीरमथर् इति प्रागेवोक्तत्वा-ददोषात्, केचित्तु पटारम्भकतन्तुषु घटावच्छिन्नाकाशे यङ्कच्छिन्नपाषाणशकलादौ सर्वत्रांशशब्दव्यवहारेऽनुगतं प्रवृत्तिनिमितं तदे-कदेशत्वमेव, अतः चिदचिद्विशिष्टस्यैव ब्राहृशब्दार्थतया चिदचितोः तदेकदेशतया तदंशत्वमुपपद्यते, केवलविशेष्यमीश्वरं प्रति

2.3.52

 

नांशत्वम्, "ममैवांशः' इत्यादावपि विशिष्टाभिप्रायेणैवांशत्वम्, न चैवमीश्वरस्यापि जीववदंशत्वप्रसङ्गः, अल्पेकदेशेंऽशत्वव्य-वहारदर्शनेन ब्राहृणोऽधिकत्वेनांशत्वव्यवहाराप्रसक्तेरिति वदन्ति ।।

इत्यंशाधिकरणम् ।। 7 ।।



2.4.3

 

पृथक् "तथा प्राणाः' इत्यस्य पूर्वपक्षसूत्रत्वादिति भावः ।। । ।। अदृष्टसंस्कारस्थितिकार्यदर्शनादिति - संस्कारे वासनाप्रलयेऽपि अदृष्टसंस्कारस्थितिरूपकार्यदर्शनादित्यर्थः । परैस्त्वित्यादि - पूर्वाधिकरणविषयवाक्यस्थेति । केषुचित् कोशेषु पठ¬ते, तत्र

2.4.3

 

पूर्वशब्दो लेखकदोषायातः, तत्र प्राणोत्पत्तिवाक्यजातमुदाहरणमिति शाङ्करभाष्यदर्शनात् । तद्धर्मातिदेश इति - लोकादिधर्म-स्योत्पत्तेरतिदेश इत्यर्थः, जन्मशब्दस्येति व्याह्मतपूर्वसूत्रोपस्थापि परामर्शसम्भवेऽनौचित्यादिति भावः । जन्मशब्दस्येति - जन्मवाचकशब्दस्येत्यर्थः । इन्द्रियसमष्टयुत्पत्तेः पूर्वमेव सिद्धतांमत्वेति - इन्द्रियसमष्टयुत्पत्तः न्यायनिरपेक्षतयैव निश्चितेत्यर्थः ।। । ।।

।। इति प्राणोत्पत्यधिकरणम् ।।

2.4.4

 

विशेषिताश्च ते गतिमन्तः प्राणाः स्वरूपत इति, ज्ञानानि पञ्च बुद्धिश्च मनश्चेत्येवं #ृङ्गग्राहिकया विशिष्य निर्दिष्टा इत्यर्थः, भाष्ये-सप्तानामेव गतिश्रवणात्, लोपदशायां ज्ञानानि पञ्च मनो बुद्धिश्चेति सप्तानामेव निरोधश्रवणाच्च तेषामेव प्राणत्वमिति भावः । ज्ञाना-नीति विशेषितत्वादिति - भाष्ये-ज्ञानान्येतत् प्रतीकोपादानं "ज्ञानानि मनसा सह' इत्यादिना ज्ञानानि मनोबुद्धिरिति विशेषि-तत्वादित्यर्थः । भाष्ये-यानि त्वितराणि-इति, क्कचिदष्टौ प्राणा ग्रहत्वेन गुणेन सङ्कीत्र्यन्ते, "अष्टौ ग्रहा अष्टावतिग्रहा-इति, अति-ग्रहा विषयाः, रागोत्पादनेनेन्द्रियाकर्षकत्वात् विषयाणामतिग्रहत्वम्, क्कचिन्नव सङ्कीत्त्र्यन्ते, "सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चा'

2.4.5

 

विति, अवाञ्चौ-पायूपस्थावित्यर्थः । क्कचिद्दश " न व वै पुरुषे प्राणाः नाभिर्दशमी'ति, क्कचिदेकादश "दशेमे पुरुषे प्राणा आत्मै-कादश' इति, अत्र आत्मशब्देन मन उच्यते, क्कचिद्द्वाददश "सर्वेषां स्पर्शानां त्वगेकायनम्' इति त्वङ्नासिकारसनचक्षुश्श्रोत्रम-नोह्मदयहस्तपादोपस्थापायुवाग्रूपाः, क्कचित्त्रयोदश' चक्षुश्च द्रष्टव्यञ्चेत्यत्र अहङ्काराधिका पूर्वोक्ताः त्रयोदश प्रतिपाद्यन्ते, क्कचिच्चतुर्दश "सप्त सप्त' इत्यादिषु ।। । ।। भाष्ये-हस्तादीनामपि कार्यभेद आदानादिरिति, यद्यपि श्रुतयः स्वतः प्रमाणतया नापेक्षिताः तथापि परस्परविरोधात् नार्थतत्वपरिच्छेदायालम्, न च सिद्धे वस्तुनि अनुष्ठानरूपविकल्पः सम्भवति, तस्मात्प्रमाणान्तरोपनीतार्थवशेन व्यवस्ताप्यन्ते, यथा हस्तेनावद्यति श्रुवेणावद्यति स्वधितिनावद्यतीत्यत्र, अत्र ह्रविशेषण हस्तश्रुवस्वधितीनाम् अवदानसामान्यसाधनत्वश्रुतावपि सामथ्र्यवशेन द्रवद्द्रव्यावदाने श्रुवस्य मांशावदाने स्वधितेः पुरोडाशावदाने हस्तस्य इति श्रुतेः

2.4.5

 

व्यवस्था आश्रिता, तथा इहापि गन्धाद्युपलब्धिपञ्चकमादानादिक्रियापञ्चकमान्तरज्ञानं ज्ञातं चेति कार्यवशेन एकादशत्वमेव युक्तमाश्रयितुमिति भावः । सर्वाधिकरणेषु यथा पूर्वपक्षं न मन्तव्यमित्युच्यत इति - न च स्वपक्षेपि समानोऽयं दोषः, अतो हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थः- इत्येवभाष्ये व्याख्यातत्वादितिवाच्यम्, उक्तयुकत्यनुग्राह्रश्रुतिप्रदर्शनार्थत्वेन सपलत्वोक्तेः- इति ।। । ।। ।। इति सप्तगत्यधिकरणम् ।।

2.4.7

 

परिछिन्नत्वे सत्युपलब्ध्यर्हस्तूलताराहित्यमिति ।। ननु निदाघदूनदेहस्य शिशिरह्यदनिमग्रनाभेः सर्वाङ्गीणशीतस्र्शोपलब्धेः कथं त्विगिन्द्रियस्याणुत्वम्, कथं च उत्क्रान्तिवशेनाणुत्वे सूक्ष्मशरीरस्यापि नाणुत्वं स्यादित्याशङ्कयाह - परिमाणावान्तरभेदे

सत्य-पीति । कार्यबाहुल्यविशेषणविशिष्टतयोपासनार्थमानन्त्यकथनमित्यर्थ इति - न च स्वरूपानन्त्यसैवोपासनार्थत्वमस्त्वितिवाच्यम्, अनारोपितोपासनसम्भवे आरोपितोपासनस्य अन्याथ्यत्वात् ।। । ।। लङिति - "रुदश्च पञ्चम्यः' इतीडागम्, यद्यपि लुङ्य-

2.4.8

 

प्येतद्रूपमस्ति, तथापि अनद्यतनत्वात् लङीत्युक्तम् ।। ।। इति प्राणाणुत्वाधिकरणम् ।।

सह शिष्टिरादिर्यस्य विशेष्याभिधानस्य तदेतमेवेति सह शिष्टयादिनेति वक्तुं युक्तम्, न तु सह शिष्टयादिभ्य इति तद्गुणसंविज्ञा-नबहुव्रीह्राश्रयणेऽपि सह शिष्टे विशेष्याभिधानस्य द्वित्वात् द्विवचनमेव स्यात् इत्याशङ्कयाह - अनेन बहुश्रुतिष्विति । अनेन

2.4.10

 

बहुवचनेनेत्यर्थः । अस्यार्थस्य भाष्यकृदभिमतत्वं दर्शयति - श्रुतिभेदेन सह शिष्टय इति । ननु चक्षुरादिवत् #ुपकरणसमर्थनेन स्व-तन्त्रशङ्काव्यावृत्तिवत् भूतान्तरत्वशङ्का न व्यावत्र्यते, भूतान्तरत्वेपि उपकरणत्वसम्भवात्, "यः प्राणः स वायुः' इति श्रुत्या तच्च-ङ्कावारणे उपकरणत्वमकिञ्चिकरमिति चेत् न, न वयमुपकरणत्वेन भूतान्तरत्वं प्रतिक्षिपामः, येनायं दोषस्स्यात्, तु शब्देन भूता-न्तरत्वं प्रतिक्षिप्यते, तत्र च "यः प्राणः स वायुः, इति श्रुतिरेव हेतुः ततश्च तु शब्देन भूतान्तरत्वे प्रतिक्षिप्ते किं तदित्याकाङ्क्षायां

2.4.11

 

चक्षुरादिवदुपकारकमित्युच्यते, ततश्च द्वयमपि अनेनैव सूत्रेण प्रतिपाद्यत इति भावः ।। । ।। भाष्ये- नन्वेवं नामभेदात् रूपभेदा-च्चेति, ननु कथं अस्याः शङ्काया उत्थानं पञ्चधा आत्मानं विभज्य एतद्वाणमवष्टभ्येति श्रुत्यनुसारेण पञ्चधा अवस्थितः देहेन्द्रिय-धारणादीनि करोतीति वदन्तं प्रति अस्याः शङ्काया अनुपन्यसनीयत्वादिति चेदुच्यते संज्ञाकार्यभेदसद्भावावस्थान्तरापत्तावपि ञ्चधा विभज्येत्यस्य विरोधादिति शङ्काभिप्रायात् ।। । ।। भाष्ये-न कामादिकं मनसः तत्वान्तरमिति, कामादिकमित्यनेन कामा-

2.4.12

 

दिहेर्तुमभन उच्यत इति द्रष्टव्यम् । केचित्तु मनशब्देन धमर्भूतज्ञानमुच्यत इत्यपि वदन्ति, भाष्ये-अपानादयोऽपि प्राणस्यैव वृत्ति विशेषाः- इति, स्थान-विशेषवृत्यवच्छिन्नप्राण एव अपानादिव्यपदेशं लभत इति भावः । ननु श्रोत्रादिनिमित्ताश्शब्दादिविषयाः पञ्चवृत्तयो मनसः प्रसिद्धाः, ततश्च पञ्चवृत्तित्वांश एव मनसो दृष्टान्तत्वं वक्तव्यमिति यद्यभिनिवेशेन तदा योगशास्त्रप्रसिद्धाः प्रमाणविपर्ययादयः पञ्चवृत्तयः ग्राह्रन्त इत्यभिप्रेत्य पक्षान्तरमाह - प्रमाणविपर्ययादय । द्वितीयपक्षंदूषयति - सङ्कल्पस्यातिरिक्त-त्वादिति । अत औचित्यादिति सङ्ख्याविशेषानादरे सिद्धे कामः सङ्कल्प इत्यादिशुति प्रसिद्धकामादिनानावृत्तेरिव पञ्चवृत्तिरिति वृत्तित्वेन ग्रहणमुचितम् । न तु श्रोत्रादिनानावृत्तेरिति भावः ।। । ।। ।। इति वायुक्रियाधिकरणम् ।।

न तथास्य वाक्यस्य निर्वाह इति - यद्यपि "य एवमेतत्सामवेद' इत्युपासनं प्रतीयते, तथापि "स यो ह वैताननन्तानुपासते' इत्यु-पासनविधिवाक्ये आनन्त्यकीर्तनवत् साम्यस्य विधिवाक्ये कीर्तनाभावात् उदाह्मतश्रुतौ प्राणस्य सर्वसाम्यमुकत्वा "सर्वहीदं प्राणे-नावृत'मिति उपपविकीर्तनात् सोपपत्तिकविभुत्वग्रहणस्य प्राबल्यमिति अधिकाशङ्का सम्भवति, तथापि "समः प्लुषिणा समोमश- केन समो नागेन सम एभिस्त्रिभिन्स्त्रभिर्लोकैः समः सर्वेण' इति विरुद्धपरिमाणश्रवणात् उत्क्रान्त्यादेः अनन्यथासिद्धत्वात्,

2.4.13

 

"सर्वं हीदं प्राणेनावृत'मिति प्राणे सामान्यविषयतया कथञ्चित् वैभवविषयरूपतया वा उपपत्तिरिति सिद्धान्तः, आधिदैवकेन

समष्टिरूपेण हैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नत्वध्यात्मिकेनेति तद्भाष्योक्तमनुवदति । परैरान्त्यश्रुतेरिति - समष्टिरूपेण समष्टिस्सामान्यम् ।। । ।। ।। इति श्रेष्ठाणुत्वादिकरणम् ।।

जीवस्याऽप्यारप्यत्वादिति - आदित्यादीनां चक्षुराद्यधिष्ठातृणां परमात्मदत्तैश्वय्र्याणाम् ईश्वरवदाराध्यत्वपलप्रदत्वसत्त्वेन स्वात-न्त्र्यमप्यस्तु, कर्तृत्वस्य परायत्तताश्रुतेः मनुष्यादिविषयत्वेन सङ्कोचसम्भवेन स्वातन्त्र्यश्रुतेः वावनायोगादिति भावः । जीवस्यो-

2.4.15

 

पादानं दृष्टान्ततयेति मन्तव्यमिति । नन्वग्न्यादीनामपि जीवरूपतया "परात्तु त्तच्छØतेः' इत्यस्य विषयतया सिद्धत्वात् प्राणवतो दृष्टान्तत्वमग्न्यादीनां दाष्र्टान्तिकत्वमिति व्यवस्था कथं सिद्धयति इति चेत्-सत्यम्, अग्न्यादीनां महामहिमशालिनां परमात्मा-यत्तकर्तृत्वमनपेक्षितमितिशङ्कायामग्न्यादिविषयसम्भवादिति भावः । केचित्तु-वस्तुतस्तु इदं तस्यैव स्मरणार्थम् अत एव संज्ञा-मूत्त्र्यधिकरणभाष्ये स्थिरीकरणाय स्मारितमित्याहुः ।। । ।। भाष्ये परमात्माधिषिंतत्वास्य नित्यत्वादिति, पूर्वसूत्रे तदामबननात्, भवतीति यद्भवनं प्रतीतं तदेव परमाधि#ि#ेठतत्वं तस्येति तच्छब्देन परामृश्यत इति भावः । ।। इति ज्योतिराद्यधिष्ठानाधिकरणम् ।।

2.4.17

 

देवानामपीति - जीवदृष्टान्तेनेति शेषः, देवानां जीवदृष्टान्तेन परायत्तप्रवृत्तित्वनिर्णयेनापि जीवानां परायत्तकतत्र्तृत्वं स्थिरं भव- तीति मत्वा तदेव दृष्टान्ततया स्मारितमित्यर्थः, दृष्टान्ततया सूचनस्य सम्प्रतिपत्तिसूचनार्थत्वात् । पी#ेटकेसङ्गतिरिति - पेटिकया सङ्गतिरित्यर्थः । न तु पेटिकयोः सङ्गतिरिति, संज्ञामूत्त्र्यधिकरणस्य एकत्वेन पेटिकात्वासम्भवात् । त्रयो हेतव इति -पाठकगात्

2.4.17

 

अण्डान्तर्वर्त्तिन्निवृत्करणप्रदर्शनत्रिवृत्करणश्रुतय इत्यर्थः । भाष्ये- प्रविशतिर्लाक्षणिकस्स्यादिति, प्रवेश्येत्येवं णिजर्थलक्षणा स्यादित्यथः । भाष्ये-जीवसमष्टिविशिष्टेनात्मनेति, जीवसमष्टिविशिष्टेन स्वरूपेणेत्यर्थः । मृदात्मको घट इत्यादौ आत्मशब्दस्य स्वरूपपरत्वदर्शनात्, ततश्च व्यपदेशिवद्भावेन स्वरूपस्य भिन्नतया व्याकरवाणीत्यनेन स्वरूपस्यानभिधानात् तृतीयोपपद्यत, नन्वेवं जीवशब्दस्य जीवमात्रपरत्वमाश्रित्य आत्मशब्दस्य शरीरपरत्वं किन्न स्यादिति चेन्न, तदा कत्वाप्रत्ययास्वारस्यात्, नन्वे- वमपि जीवशरीकेण मयेति आत्मशब्दस्य प्रत्यगर्थपरत्वं किन्न स्यादिति चेन्न, तदा व्याकरणकत्तर्रीति ज्ञाविहिते अनभिहिताधि-कारविहिततृतीयानुपपत्तेः, ननु व्याकरणकत्र्तुरभिधानेऽपि प्रवेशकत्र्तुरनभिधानात् तृतीयोपपद्यते, अनभिहित इति पय्र्युदासपक्षा-श्रयणात्, अत एव अनभिहितसूत्रे द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभकत्यभावसङ्ग इति वार्त्तिकेन प्रासादाख्यकं तच्चा-न्यरेणास्तिप्रत्ययेन घञाभिहितं, प्रसीदन्त्यस्मिन्निति प्रासादः, तत्राभिहिते कारके न भवतीत्युच्यमाने सप्तमी न स्यादिति प्रति-षेधपक्षाश्रयणेन शङ्कामुत्थाप्य नचान्यतरेण अनभिधानादिति असिक्रियाधिकरणशुक्तेरुपरितनप्रत्ययेन यदभिधानं तदाश्रया च सप्तमी भविष्यतीति नायं दोषः प्रसज्यत इति पर्युदासाश्रयणेन परिहारो वर्णित इति चेत्, एवं तर्हि अहं भुकत्वाव्रजामीति प्रयोग- स्थले मया भुकत्वा व्रजामीति प्रयोगप्रसङ्गः, तथा पकत्वाभुज्यत ओदन इत्यत्र भुजिप्रत्ययेनाभिहितेष्योदने कत्वाप्रत्ययेनानभिधान-माश्रित्य द्वितीयाप्रसङ्गः, तदयमत्र वैयाकरणनिष्कर्षः । अहं भुकत्वा व्रजानीत्यत्र अहमर्थस्य युगपदुभाभ्यां भोगनव्रजनक्रियाभ्यामपि न शाब्दोऽन्वयः । किं तर्हि व्रजनक्रिययैव प्राधान्यात्,आर्थस्तु भोजनक्रियायामन्वयः, अतः शब्दव्यापारापेक्षायां अभिधानमेव नत्वनभिदानमपीति, नाहंशब्दात् तृतीया प्राप्नोति तथा पकत्वौदनो भुज्यत इत्यत्रापि ओदनस्य भुजिनैव शाब्दोन्वयः, सन्निधा- नात्तु वचनान्वयः, केवलशब्दव्यापारनिरूपणे तु किमिष्टकाःपकत्वौदनो भुज्यते-उत ओदनमेवेति द्वितीया न भविष्यति, प्रासाद

2.4.18

 

आस्त इत्यत्र तु प्रासादस्य प्रसादनासनक्रियाभ्यां शाब्द एवान्वयः, पदार्थदशायां घञ्प्रातिपादिकेन प्रसादाधिकरणतयान्वितस्यैव हि प्रासादद्रव्यस्य वाक्यार्थदशायां असनक्रियाधिकरणत्वेनाप्यन्वयः, अतः तत्र शब्द-व्यापारापेक्षयैव अनभिहितासन-क्रियाधिकरणशकत्याश्रयत्वमपि प्रासादस्यास्तीति तत्र सप्तम्युपपत्तिरिति, कैय्यटस्तु, स्वाभिप्रवीणमाश्रित्य कत्वाप्रत्ययस्य भावार्थत्वात् पकत्वौदनं भुङ्क्ते देवदत्तः, पकत्वौदनं भुज्यते देवदत्तेनेतिकत्वाप्रत्ययेन कर्तृकरणयोरभिधानात् द्वितीयातृतीये कुतो नेत्याशङ्कयाख्यातादिपदवाच्यक्रियाविशेष्यत्वात्प्रधानम्, इतरा तु विशेषणत्वादप्रधानम्, तत्क्रियासाधनयोरपि शकत्योः तद्द्वारको गुणप्रधानभावः, तत्र प्रधानशकत्यभिधाने गुणक्रियाशक्तिरभिहितवत् प्रकाशते, प्राधानानुरोधित्वात्ल गुणानां प्रधानमुखप्रेक्षि- त्वात् पृथक् तद्विरुद्धस्वकार्यारम्भाभावादिति समादधे, एवं सति उभाभ्यामपि शाब्दे युगपदन्वयेऽपि न दोषः, इत्यलं विस्तरेण, तस्मेदनेन जीवेनेत्यस्य न मयेत्यर्थः, अपि तु स्वरूपेणेत्यर्थः, तथा च व्यपदेशिवद्भावेन भेदात्तस्य च करणत्वात्तृतीयोपपत्तिः, अत एव वेदान्ताचार्यैरधिकरणसारावल्यां "तेनेशस्तद्विशिष्टस्वकरणतयाऽनुप्रवेशेऽपि कर्ता' इति करणत्वमुक्तम् ।। । ।।

भाष्ये - अन्नमशितं त्रेधा विधीयत इत्यत्र-इत्यादि, एवं छान्दोग्ये श्रूयते, अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो भागः तत्पुरीषम्, वो मध्यमस्तन्मांसं योऽणिष्ठः तन्मनः, आपः पीताः त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुः तन्मूत्रं भवति, यो

2.4.18

 

मध्यमः तल्लोहितं भवति, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्टो धातुः तदस्थि भवति । यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् । अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वागिति । कारणानुविधायित्वेनेत्यादि - त्रिवृत्करणेन पृथिव्यप्तेजांसि कार्यकारणभावमापन्नानि स्थू#ूलाण्यणीयांसि, अतः त्रिवृत्कृतेष्वपि तत्तस्भूतांशानां स्वकारणानु- गुण्येन स्थूलत्वाणुत्वाणीयस्त्वानि स्युः, तस्मात् "अन्नमशित' मित्यादि वाक्यं त्रिवृत्करणप्रदर्शनपरञ्चेत् स्थविष्ठं पुरुषं पार्थिवम्

2.4.19

 

अणु मांसमाप्यम् अणीयो मनश्च तेजसमापद्येत, तथा द्वितीयपय्र्याये" सूत्रं पार्थिवं लोहितमाप्यं प्राणः तैजस इति स्यात्, तृतीये पय्र्याये अस्थि पार्थिवमाप्यं मज्जा तैजसी वागिति स्यात्, ततश्च "यदन्नमशितं त्रेधा विधीयते' इति पुरीषमांसमनसां पार्थिवत्वमु- क्तम्, यच्चापः पीताः त्रेधा विधीयन्ते' इति सूत्रशोणितप्राणानामाप्यत्वमुक्तम्, यच्च विदीयत इति अस्थिमज्जावचसां तेजस्त्वमु- क्तम्. पुनश्च अन्नमयं हि सोम्य मनः आपोमयः प्राणः इति यन्मनः प्राणयोः पार्थिवत्वाप्यत्वमुक्तम्; तत्सर्वं विरुध्येत, अतो नात्र त्रिवृत्करणप्रकाण उपदिश्यते, यत्तु अण्डान्तर्वर्त्तिषु अग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं तत्सम्बोध्यस्य श्वेतकेतोः बुद्धिसम्वादा- र्थम्, न तु तत्रैव त्रिवृत्करणमिदं प्रथमतया प्रवृत्तमिति बोधनार्थमिति, ननु सिद्धान्ते बिम्बप्रतिबिम्बभावयोरैक्यात् कथं तद्विरुद्ध-मुच्यत इत्यस्वरसादाह - छायया आदर्श इति । तृतीयसूत्रेण अनुपपत्तिविशेषपरिहारायेति - इदमन्नम् इमा आपः- इदं तेजः- इति विशेषव्यपदेशहेतुम् उत्तरसूत्रेण कीत्तियिष्यन्तदुपयुक्ततया "अन्नमशितं त्रेधा विधीयते' इति श्रुति प्रतिपन्नमेवार्थं "मांसादि-भौम'मिति सूत्रेण कीर्तयतीत्यर्थः, वाचस्पत्युक्तिमाह - मनस आहङ्कारिकत्वनित्यत्वयोरिति । इदमुपलक्षणं वाचोऽपि द्रष्ट- व्यम् । साङ्खययोः वाङ्मनसो द्वयोरपि आहङ्कारिकत्वत्वस्याविदानात्, वाचस्पतिपक्षे च सूत्रस्यायमर्थः, मांसादि भौममित्येतत् दृष्टन्तार्थं यथा मांसादिभौमं भवति, एवं वाङ्मनसी अपि तैजसभौमे-इति ।। । ।। ।। संज्ञामूर्तिकलृप्त्यधिकरणं समाप्तम् ।।

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचिताया श्रुतिप्रकाशिका-

व्याख्यायां भावप्रकाशिकायां द्वितीयस्याध्यायस्य चतुर्थ पादः ।।

समुदिताधिकरणसङ्ख्या -68- समुदितसूत्रसङ्ख्या - 287 ।।