भावप्रकाशिका/प्रथमोऽध्यायः/तृतीयः पादः

← प्रथमोऽध्यायः, द्वितीयः पादः भावप्रकाशिका
तृतीयः पादः
[[लेखकः :|]]
प्रथमोऽध्यायः, चतुर्थः पादः →

1.3.1

ननु पूर्वस्मिन्नधिकरणे द्युमूद्र्धत्वादिकमेव परमात्मलिङ्गत्वनोपन्यस्तम्, नतु द्युप्रभृतिसम्बन्धित्वमात्रमित्यस्वरसादाह - यद्वा अदृश्यत्वादिगुणक इतीति । असमाप्तिबुध्येति - अदृश्यत्वबुध्येत्यर्थः । यद्यपि नैतदधिकरणपूर्वपक्षिणा अदृश्यत्वादिगुणकस्य परमात्मत्वमाक्षिप्यते, अपि तु तदभ्युपेत्यैव तत्प्रकरणविच्छेदेन "यस्मिन् द्यौ'रितिमन्त्रस्य लिङ्गवशाज्जीवपरत्वमित्येव पूर्वपक्षः प्रवत्त्र्यते, तथापि यस्मिन् द्यौरितिमन्त्रस्य जीवपरत्वे अदृश्यत्वादिवाक्येपि परमात्मत्वशङ्का अङ्कुरेदिति भावः । विषयवाक्यश्रुति-क्रमस्सर्वोपि अदृश्यत्वाधिकरणे लिखितः, तत्रैव द्रष्टव्यः । श्लोकस्य द्युभ्वाद्यायतनविषयत्वमिति - द्युभ्वाद्यायतनपरत्वमित्यर्थः । ननु "अन्तस्तद्धर्मोपदेशात्' इति भाष्ये "अजायमानो बहुधा विजायते' इति श्रुतिवशात् परमकारुणिको भगवान् स्वेच्छयैवोपा-सकप्रतिपत्त्यनुगुणाकारदेवमनुष्यादिसंस्थानभाग्भवतीत्यभिधानात्कथं बहुधा जायमानत्वं जीवलिङ्गमित्यत आह - अन्तरादित्य-

1.3.1

विद्यायामिति । बहुधाशब्दार्थस्तत्र सूत्रकृता न विचारित इति भावः । प्रथमनिर्वाह इति - योगपक्षे यौगिकार्थस्य मुख्यत्वेपि प्रथम-प्रतिपन्नरूढ¬र्थस्य सर्वात्मना त्यागो दोषः । द्वितीये तु रूढ¬र्थसदृशार्थपरिग्रहेण सर्वथा रूढ¬र्थापरित्यागेपि अशक्यार्थस्वीकारो दोष इति भावः । हेतुविशेष इति - इच्छारूपहेतुविशेषः उपासकानुग्रहरूपफलविशेषश्च सूच्यत इत्यर्थः ।।

1.3.2

पदार्थकथनपूर्वकत्वात् वाक्यार्थकथनस्य व्युत्क्रमेण कथने हेतुमाह - सूत्रसङ्गतेरिति । सङ्गच्छमानम् सङ्गतिमन्तमित्यर्थः । सङ्गतिमति कथिते सङ्गतेर्बुद्धिस्थत्वादिति भावः । सूत्रस्य द्राधीयस्त्वादिति - "अव्ययं विभक्ती'त्यादिसूत्रस्यातिदीर्घत्वादित्यर्थः । प्रकृतात्परमात्मनोऽन्यदिति - अस्मिन् सूत्रे प्रधानजीवयोः प्रकृतत्वात्तच्छब्दे तयोः परामर्शसम्भवादिति भावः । परमात्मा चेदिति

1.3.4

यद्यपि प्रधानजीवव्यतिरिक्तः परमात्मनोऽन्योपि सम्भवति, तथापि प्रधानजीवपरमात्मनामेव प्रस्तुतत्वेन तच्छब्दस्तत्रैव पर्यवस्यति । अतएवोत्तरत्र तद्वाचिशब्दव्यतिरिक्तशब्दादित्यस्य परमात्मशब्दादित्यर्थसिद्धिमभिप्रेत्य तत्स्वशब्दादित्यनधिकार्थमिति वक्ष्यति । अतः पारिशेष्यादर्थाभाव इति - अम्भावस्तु नाव्ययीभावादतोत्वपञ्चम्या इति' इति पर्युदासान्न भवतीति रूपसिद्धिः ।।

1.3.6

ईशभिन्नत्वस्य जीवसाधारण्यात्कथं प्रकृतिपरत्वमित्याशङ्कयाह - स्त्रीलिङ्गसामथ्र्यादिति । ननु भूतार्थे विहितस्य प्रीयमाणमिति वर्तमानार्थनिर्देशः कथमित्यत्राह - आदिकर्मणि क्त इति भाव इति । तदाशब्दस्य मन्त्रे अश्रवणादाह - यत्तदोरिति । पक्षान्तरमाह - इतिशब्द इति । तदर्थस्तदाशब्दविवक्षित इति - तदर्थ इतिशब्दार्थ इत्यर्थः । भाष्यस्थस्तथाशब्द इतिशब्दव्याख्यानमित्यर्थः । ननु भेदव्यपदेशमात्रेण कथं द्युभ्वाद्याधारस्य परमात्मत्वं जीवत्वं वा कुतो न स्यादित्यत्राह - द्रष्टृत्वसमानाधिकरणेति । पूर्वत्रोत्तरत्र चेति

1.3.6

प्राणभृत्प्रतिक्षेपे परमात्मसाधने चेत्यर्थः । प्राकरणिकतयोक्तानीति - न त्वेतन्मन्त्रप्रतिपाद्यानीत्यर्थः । सार्वज्ञ्यादिसमानाश्रय-त्वादिति - यस्सर्वज्ञस्सर्वविदित्यत्र प्रकरणे श्रवणात्सार्वज्ञ्यमपि प्रकृतद्युभ्वाद्यायतनविषयमिति भावः । स्वयं योग्यत्वादिति । जीवस्य तु सार्वज्ञ्यामृतसेतुत्वादेरदृष्टादिद्वारा अमुख्यतया कथञ्चिन्निर्वाह्रत्वादिति भावः । नन्वस्मिन् सूत्रे श्रुत्या परमात्मपर- त्वमेव साध्यते, नहि तत्र "भेदव्यपदेशात्' इतिसूत्रोक्तहेतोरन्वयोऽस्ति, तस्य प्रत्यगात्मपरत्वप्रतिक्षेपकत्वादित्यत आह - तदपि प्रत्यगात्मेति । नन्वस्मिन् सूत्रे जीवपरयोः प्रस्तुतत्वोपन्यासः कथं द्युभ्वाद्यायतनस्य परमात्मत्वे जीवत्वप्रतिक्षेपे वा उपयुज्यते, प्रत्युत विरुद्ध एव । यदि च प्राकरिणिकहेत्वन्तरैः पूर्वसूत्राभिप्रेतैः परमात्मासाधारणैः परमात्मपरत्वं साध्यते, किमनेनेत्याशङ्कय सूत्राभिप्रेतमर्थमाह - अभिचाकशीतीति परस्येति । तदुपयोगितयेति - परमात्मनो भोक्तृत्वराहित्यप्रतिपादने प्रयुक्तोऽयं मन्त्रः, तत्र भोक्तृत्वराहित्यं द्रढयितुं

लोकवेदसिद्धं भोक्तृत्वं जीवस्यैव, न तु परमात्मनश्शरीरावस्थितस्यापीति प्रतिपादयति; अतो जीवस्य भोक्तृत्वप्रतिपादनं परमात्मनस्तदभावप्रतिपादनाय । न च परमात्मनः अभोक्तृत्वर्पतिपादनं जीवस्य भोक्तृत्वप्रतिपत्त्यर्थमिति वैपरीत्यं वक्तुं शक्यम्, प्रसिद्धं ह्रप्रसिद्धप्रतिपत्त्यर्थं भवेत्, न च परमात्मस्वरूपं जीवादपि प्रसिद्धम्, येन तथा स्यात् नापि परमात्मप्रति-

1.3.6

पत्त्यपेक्षयापि जीवप्रतिपत्तिः प्रयोजनवती, येन परमात्मप्रतिपादनं जीवप्रतिपत्त्यर्थं स्यात्, तस्माज्जीवभोक्तृत्वप्रतिपादनमभोक्तृपर-मात्मप्रतिपत्त्यर्थम् तस्मात्तस्मिन्मन्त्रे परमात्मा प्रतिपाद्यत इति सिद्धम् स च मन्त्रः प्राक् प्रस्तुतद्युपृथिव्याद्याधारविषय एव अप्र-स्तुताभिधाने असङ्गतेः, तस्मात् द्युभ्वाद्यधिकरणं परमात्मेति सिद्धमिति भावः । पदानामस्वारस्यप्रसङ्गाच्चेति । अचेतने अन्तःकरणे शोकमोहासीनामसम्भवादिति भावः । पश्य इति - पश्यः परमात्मा, पश्यन्तं चेतनम्, अपश्यन्तमचेतनं, पश्यन्तं परमात्मानं,

1.3.6

पश्यापश्ये चेतन्रोचेतनश्च, पश्यपश्यत्वात् परमात्मदृश्यतैकस्वरूपत्वान्न पश्यत इत्यर्थः । इह कैश्चिदित्यादि - धारकत्वयोगादिति । इदमुपलक्षणम् परावरत्वयोगादित्यपि द्रष्टव्यम् । सद्विद्यावाक्यविषयत्वं चेति - परैर्हि स्वशब्दादित्यस्यात्मशब्दादित्यप्यर्थः, प्रक-रणान्तरे आयतने सदायतना इति स्वासाधारणसच्छब्दप्रयोगात् द्युभ्वाद्यायतनय परमात्मेत्यर्थोऽपि वर्णित इति भावः । द्वितीयसूत्रस्य चेति - यद्यप्यस्मिन्नपि सूत्रे अविद्याविमुक्तप्राप्यत्वव्यपदेशादिति योजनान्तरमप्युक्तम्, तथापि तस्याभिमतत्वात् विमुक्तैः ज्ञेयत्व-व्यपदेशादितियोजनान्तरमेव स्वानभिमततया दूप्यत इति द्रष्टव्यम् । वाक्कर्तृकमुक्तप्रत्यभिज्ञानमिति पाठस्समीचीनः । वाग्विमुक्तेरिति परैरुक्तेरिति द्रष्टव्यम् । तत्र च प्रत्ययविपरिणामेनेत्यस्य वाच इति द्वितीयाया विपरिणामेनेत्यर्थः । वाक्कर्तृकेतिपाठे मुक्तेत्यत्रादिकर्मणि क्तः कर्तरीति कर्तरि क्तप्रत्ययः । वाग्रूपं कर्म वाक्कर्मकप्रत्ययः स्वार्थिकः द्वितीयेति योगविभागात्समासः । प्रत्ययविपरिणामेनेत्यस्य

1.3.6

आदिकर्मणि क्त इति क्तप्रत्ययविपरिणामेनेत्यर्थः । जीवव्यावृतिं्त प्रतिज्ञायेति - स्थित्यदनाभ्यां चेतिसूत्रेण प्राणभृदित्यस्यैव साध्यत्वादिति भावः । बुद्धिव्यावृव्युपपादनस्येति - अत्तृत्वानत्तृत्वाभ्यां जीवव्यावृत्तेरेवोपन्यसनीयत्वादिति भावः । परमात्मा भवतीति - ततश्च प्राणभृन्न भवतीत्यस्यान्तःकरणाद्युपाधिसम्पिण्डितचैतन्यं न भवतीत्येवार्थः, न तु उपाधिविनिर्मुक्तजीवचे- तन्यमपि न भवतीत्यर्थः, येनासङ्गतिस्यादिति भावः । हेतुतयोपन्यासायोगादिति - उपाधिसंयोगदशायां कल्पितस्य भोक्तृत्वस्य निष्कृष्टचैतन्येपि सत्त्वात्, इतरथा च कर्तृत्वादिबन्धस्य मोक्षस्य च वैयधिकरण्यप्रसङ्गादिति भावः । द्वासुपर्णावित्यस्य विशिष्ट-निष्कृष्टचैतन्यविषयत्वे गृहान्तःप्रविष्टे एकस्मिन् पुरुषे द्वौ पुरुषावित्यपि व्यपदेशप्रसङ्गात् विशिष्टनिष्कृष्टभेदेन द्वित्वसम्भवादिति भावः । व्यतिरेकेण जीवव्यावृत्तीति - अतच्छब्दादिति व्यतिरेकेणेत्यर्थः ।

1.3.7

छान्दोग्ये सप्तमप्रपाठके- "अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊद्ध्र्वं वक्ष्यामीति' इति एतावज्जान इत्युक्तवा मदुपासनं कुर्वित्यर्थः । "स होवाच ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सोहं भगवो मन्त्रविदेवास्मि नात्मवित् । श्रुतं ह्रेवमेव भगवद्दृशेभ्यस्तरति शोकमातविदिति । सोहं भगवश्शोचामि । तन्मा भगवान् शोकस्य पारं तारयत्विति । तं होवाच नामोपास्वेति स यो नाम ब्राहृेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति । यो नाम ब्राहृेत्युपास्ते अस्ति भगवो नाम्नो भूय इति नाम्नो वा व भूयोस्तीति तन्मे भगवान् ब्रावीत्विति, वाग्वा व नाम्नो भूयसी वाचमुपास्वेति । अस्ति भगवो वाचो भूय इति । वाचो वा व भूयोस्तीति तन्मे भगवान् ब्रावीत्विति । मनो वाव वाचो भूयः । अस्ति भगवो मनसो भूय इति मनसो वा व भूयोस्तीति तन्मे भगवान् ब्रावीत्विति सङ्कल्पो वा व मनसो भूयान् अस्ति भगवस्सङ्कल्पाद्भूय इति सङ्कल्पाद्वा व भूयोस्तीति तन्मे भगवान् ब्रावीत्विति चित्तं वा व सङ्कल्पाद्भूयः अस्ति भगवश्चित्ताद्भूय इति चित्तांद्वाव भूयोस्तीति तन्मे भगवान् ब्रावीत्विति ध्यानं वाव चित्ताद्भूयः । विज्ञानं वाव ध्यानाद्भूयः अन्नं वाव बलाद्भूयः आपो वा वान्नाद्भूयस्तेजो वावाद्य्भो भूयः आकाशो वाव तेजसो भूयान् स्मरो वावाकाशाद्भूयान्, आशा वा व स्मराद्भूयसी' इत्यादिप्रश्नप्रतिवचनानन्तरं प्राणो वाशाया भूयान्, यथा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम् प्राणः प्राणेन याति प्राणः प्राणं ददाति, प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः, प्राणो ब्रााहृणः, स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्यं वा ब्रााहृणं वा किञ्चि-द्भृशमिह

प्रत्याह, धिक् त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमसि आचार्यहा वै त्वमसि ब्रााहृणहा वै त्वमसीति । अथ यद्यप्येनानुत्प्रान्तप्राणान् शूलेन समासंव्यतिषं दहेत्, नैवैनं ब्राूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्रााहृणहासीति । प्राणो ह्रेवैतानि सर्वाणि भवति स वा एष एवं पश्यन् एवंविदे-वंमन्वान एवं विजानततिवादी भवति तं चेद्ब्राूयुरतिवाद्यसीति अतिवाद्यस्मीति ब्राूयान्नापहनुवीत । एष तु वा अतिवदति यस्सत्येनाति-वदति सोऽहं भगवस्सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति । यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति यदा वै

1.3.7

मनुते अथविजानात्यथ मनुते मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति । यदा वह श्रद्दधाति अथ मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति । यदा निस्तिष्ठत्यथ श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति । यदा वै करोत्यथ निस्तिष्ठति । यदा वै सुखं लभते अथ करोति सुखं भगवो विजिज्ञास इति यो वै भूमा तत्सुखं भूमानं भगवो विजिज्ञास इति यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ यत्रान्यत्पश्यत्यच्छृणोति अन्यद्विजानाति तदल्पम् यो वै भूमा तदमृतम् अथ यदल्पं तन्मत्र्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति । यदि वा न महिम्नीति, गो अश्वमिह महि-मेत्याचक्षते, हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति, नाहमेवं ब्रावीमीति होवाच । अन्यो #ेह्रन्यस्मिन् प्रतिष्ठित इति । स एवाध-स्तात्स उपरिष्टात्सपश्चात्स पुरस्तात्स दक्षिणतस्य उत्तरतस्स एवेदं सर्वमित्यथातोऽहङ्कारादेश एव अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणत अहमुत्तरत अहमेवेदं सर्वमिति । अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति, स एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्मभिधुन आत्मानन्दस्स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति, अथ येऽन्यथातो विदुरन्यराजानस्तेऽक्षय्यलोका भवन्ति तेषां सर्वेषु लोकेषु कामचारो भवति । तस्य हवा एतस्यैवं पश्यत एवंमन्वानस्यैवं विजानत आत्मतः पाण आत्मत आशा आत्मतः कर्माणि आत्मत एवेदं सर्वमिति । तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोतदुःखतां सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः' इति । हिंसायोग्यत्वश्रवणाज्जीवत्वमित्यस्यानन्तरं सिद्धवत्कृत्य पर्वोत्तरपक्षौ प्रवत्त्र्येति इत्यथद्र्वारा सङ्गतिरिति ग्रन्थोपेक्षितः, इतरथा प्राण-सम्बन्धिनो जीवत्वस्य पक्षद्वयाभ्युपेतत्वेन प्राणसम्बन्धिनो जीवत्वं पूर्वपक्षीक्रियत इति वा सिद्धान्तीक्रियत इति वा वक्तुं शक्यत्वात् ततश्च पूर्वं प्राणसम्बन्धिनः परमात्मत्वं समथिर्तम्, इह प्राणसम्बन्धिनो भूमत्वं पूर्वपक्षीकृत्य निरस्यत इति पर्यवसितोऽर्थः । ननु

1.3.7

धर्मिवाचिषष्ठयन्तशब्दान्तरनिर्देशाभावेपि धर्मवाचिभूमशब्दप्रतियोगितया निर्देशादेव धर्मपरत्वमस्त्वित्यस्वरसादाह - यत्र नान्य-त्पश्यतीति श्रुतेश्चेति । सप्राणनिष्प्राणविषयोपमर्दतदभावयोरिति पाठः क्वचिद्दृश्यते, सप्राणनिष्प्राणविषयोपमर्दयोरितिपाठस्स-मीचीनः । सप्राणविषयोपमर्दे सजीवशरीरोपमर्दनिमित्तहिंसाया निष्प्राणशरीरोपमर्दे निर्जीवशरीरोपमर्दनिमित्तहिंसाभावस्य च श्रवणादिति तस्यार्थः । अप्राणेष्वितीति - ननु मूलनिषिक्तसलिलदोहलपार्थिवधातूनामभ्यादानादचेतनेष्वपि प्राणोऽस्त्येव, उक्तं च न्यायसिद्धाञ्जने "स्थावरेष्वपि तत्सत्त्वम्' अतः कथमेतदिति चेत् सत्यं, प्राणोऽस्त्येव अथापि "भेदश्रुतेर्वैलक्षण्यात्' इतिसूत्रप्रति-पादितं पञ्चधा विभज्य शरीरधारणरूपं यत्प्राणासाधारणकार्यं तदभावादप्राणत्वोक्तिः । अत एव "नतु दृष्टान्तभावा'दिति सूत्रभाष्ये स्थावरेषु प्राणसद्भावेपि तस्य पञ्चधावस्थाय शरीरधारकत्वेनावस्थानं नास्तीति वक्ष्यते । आविस्तरां वेद-सम्यग्वेदेत्यर्थः । ननु

1.3.7

प्रक्रान्तस्यात्मोपदेशस्य प्राणपर्यन्तत्वात्प्राणः प्रत्यगात्मेति सिद्धान्तिना अनभ्युपेतत्वात्सिद्धान्ते प्राणः प्रत्यगात्मा न स्यादित्यत आह प्रक्रान्तस्यातोपदेशस्येत्यादिना । धारकत्वमिति - विवक्षितमिति शेषः ।

1.3.7

हेतुवाचिपदेष्विति - "सम्प्रसादादध्युपदेशात्' इति त्रिषु पदेषु मध्य इत्यर्थः । पूर्वनिर्दिष्टादूध्र्वमभिधानं हीति - यद्यपि पूर्वत्र आदो वा वास्माद्भूयः इति कण्ठतोऽभिधानमस्ति, न प्रकृते; तथापि आधिक्यस्य प्रतियोग्यपेक्षायाम्

उपरिवेषामितानधिकरण-न्यायेनाव्यवहितप्राणस्यैवावधित्वेन ग्रहणमिति भाष्याभिप्राय इति भावः । अभिप्रायो विवृतो भवतीति - स्वरूपस्वभावविकार-शून्यतया परमात्मन एव सत्यशब्दाभिधेयत्वमित्यभिप्रायो विवृतो भवतीत्यर्थः । ननु तुशब्दस्य विशेषार्थकस्य व्यावर्तकत्वमेव लभ्यते,

1.3.7

न त्वधिकतया व्यावर्तकत्वमित्याशङ्कय सत्यं तुशब्दस्य विशेषमात्रप्रदर्शकत्वम्, तथापि प्रकरणवशादाधिक्यसिद्धिरित्याह - पूर्व-निर्दिष्टादुत्तरनिर्दिष्टस्येति । ननु तुशब्देनोपासकाधिक्योक्तावपि उपास्याधिक्यस्यानुक्तेः कथमुपास्याधिक्यं सिध्येदित्यत आह - तुशब्दो हीति । नहि जुहोतादिपदान्तरं श्रूयत इति - यद्यप्यग्निहोत्रजुहोतिपदयोर्न विशेषः, तथाप्याख्यातश्रवणे विधिसम्भवात्

1.3.7

विहितस्य विधानासम्भवात् कर्मान्तरत्वशङ्कासम्भव इति भावः । भाष्ये-इत्थम्भूतलक्षणे तृतीयेति । ब्राहृोपासनोपलक्षित इत्यर्थः । इदमुपलक्षणम्, ब्राहृणोऽतिवदननिमित्तत्वरूपकरणत्वसम्भवेन कारकविभक्तित्वमप्युपपद्यत इति द्रष्टव्यम् । सत्यवदनपक्ष एवेति - पूर्वपक्ष्यभिमत इति शेषः । वाक्यस्वरससिद्धमन्यत्वं न बाधितव्यमित्यस्य विप्रकृष्टतया अतश्शब्दस्यासन्निहितोपाध्यन्तरपरामर्शित्वं क्लिष्टमित्यस्वरसादाह - यद्वा अतिवादिशब्दस्येति । यौगिकत्वायौगिकत्वविवादस्य कण्ठतः प्रस्तुतत्वाभावादाह - यद्वा अति-क्रान्तेति । ननु अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतया अतिक्रन्तस्वोपास्यवस्तुवादित्वमित्युक्तत्वेऽपि अतिक्रान्तस्वोपास्यवस्तु-

1.3.7

वादित्वमतिवादिशब्दप्रवृत्तिनिमित्तमित्येवं प्रागनिर्दिष्टतया कथमतश्शब्देन प्रवृत्तिनिमित्तत्वस्य परामर्श इत्याशङ्कयातिवादित्व-मतिप्रान्तस्वोपास्यवस्तुवादित्वमित्युक्तत्वेऽतिवादिशब्दस्य तदेव प्रवृत्तिनिमित्तमित्यस्यार्थस्य फलिततया फलितस्यार्थस्यातश्-शब्दपरामर्श उपपन्न इत्याह - अयमर्थः पूर्वोक्ताथर्फलमिति । फल इति पुल्लिङ्गपाठस्साधुः । तस्यायमर्थः, अतिक्रान्तस्वोपास्य-वस्तुवादित्वस्यातिवादिशब्दप्रवृत्तिनिमित्तत्वरूपोऽर्थः पूर्वोक्तयौगिकार्थफल इति; एवञ्चातिक्रान्तस्वोपास्यवादित्वोपपादनं यौगि-कत्वोपपादकतया पर्यवस्यतीति अत एवेत्यादिवाक्यस्य यौगिकत्वोपपादनपरत्वं युक्तमिति भाव इति वदन्ति । अतिक्रान्तस्वोपा-स्यवस्तुवादित्वस्यैव प्रवृत्तिनिमित्तत्वादेव हीति - सत्यशब्दार्थस्य ब्राहृण एव निरतिशयपुरुषार्थतया तद्वेदिन एवातिक्रान्तस्वो-पास्यवस्तुवादित्वमस्तीति "सत्यं त्वेव विजिज्ञासितव्यम्' इति सत्यशब्दाभिधेयं ब्राहृैवोपास्यतयोक्तम् न तु वेदितव्यतयेत्यर्थः । विजिज्ञासितव्यशब्दास्वारस्यं भवेदिति - ननु विज्ञानमिति श्रद्धाकृतिषु "विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञास' इत्यादिष्विवात्रापि सम्पादनीयमित्येवार्थोऽस्तु, नच विज्ञानादिषु विजिज्ञासितव्यमित्यस्य सम्पादितव्यमित्येवार्थोऽवश्यं वाच्यः, अग्रे "यदा वै मनुते अथ विचानाति यदा श्रद्दधाति अथ मनुते' इति तदुपायकीर्तनदर्शनादत एव सत्यव्यतिरिक्तविषयाणि जिज्ञासितव्य-पदानि सम्पाद्यवाचीनीत्युत्तरत्र वक्ष्यतीति वाच्यम् तर्हि सत्येपि तथैवार्थोऽस्तु । अग्रे यदा वै विजानाति अथ सत्यं वदतीति तदुपाय-कीर्तनदर्शनादिति चेत् परमात्मनि प्रसिद्धस्य सत्यशब्दस्य परमार्थप्रतिपादके वचसि लक्षणया प्रयोगस्यायुक्तत्वात् सत्येनातिवदानीति तृतीयाया अयुक्तत्वात् अतीत्युपसर्गवैयथ्र्यात् तुशब्दस्वारस्याच्च सत्यं भगवो विजिज्ञास इत्यत्रापि सत्यवदनं सम्पादनीयमित्यर्थाश्रय-

1.3.7

णस्य क्लिष्टत्वाच्चेत्यादिदूषणे तात्पर्यात् । प्रमाणान्तरमुक्तमिति - प्रमाणशब्देन श्रुतिलिङ्गे विवक्षिते । ब्राहृसाक्षात्कारनिमित्ते-त्यनेनेति - यदा वै विजानातीत्यस्य वाक्यस्य साक्षात्कारित्वनिमित्तातिवादित्वप्रतिपादनपरतया ग्रन्थकृतैव व्याख्यायमानत्वादिति द्रष्टव्यम् । तदुपायभूतं सत्योपासनं कुर्यादित्यर्थ इति - सत्यं त्वेव विजिज्ञासितव्यमितिवाक्यस्येतिशेषः । ननु यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदतीत्यादिवाक्यं सत्यं त्वेव विजिज्ञासितव्यमित्यस्यानन्तरखण्डे पठ¬ते प्रकरणं चोत्तरोत्तरस्य पूर्वपक्षं प्रति हेतुत्वप्रतिपादनपरम्, नतूत्तरोत्तरस्य पूवर्पूर्वसाध्यत्वप्रतिपादनपरम्; ततश्च पूर्वखण्डे सत्यं त्वेव विजिज्ञासितव्यमित्यु-पासनं विधाय तत्साध्यसाक्षात्कारं तदुत्तरखण्डे कथं प्रतिपादयतीति चेत् ? उच्यते; पूर्वखण्डे सत्यं त्वेव विजिज्ञासितव्यमिति अतिवादित्वसिद्धये ब्राहृोपासनं विहितम् तत्र चातिवादित्वे सत्योपासनस्य साक्षात्कारद्वारा हेतुत्वमिति प्रतिपाद्यते द्वितीयखण्डे ततश्च खण्डद्वयेनापि

अतिवादित्वनिमित्तेन साक्षात्कारहेतूपासनं विधीयते, तदुत्तरखण्डैरुपासनोपयोगिमननादयो विधीयन्त इति भाष्यकाराभिप्राय इति भावः । यादृच्छिकेति - जानश्रुतेर्हससंवादादिना बहृणि निरतिशयपुरुषार्थत्वावगमस्य दृष्टत्वात् महा-भगवतसंवादादिना च ब्राहृणि निरतिशयपुरुषार्थत्वावगमस्य दर्शनादित्यर्थः । लभतेः प्राप्त्यर्थत्वादिति - ज्ञानस्यापि प्राप्तिरूपत्वा-दिति भावः । मुख्यप्राप्तिपरत्वेऽनिष्टमाह - नहि श्रवणादेरिति । सत्यव्यतिरिक्तविषयाणीति - "विज्ञानं विजिज्ञासितव्यं मतिस्त्वेव

1.3.7

विजिज्ञासितव्या' इत्यादावुपासनार्थत्वासम्भवादिति भावः । दृश्यमिथ्यात्वशङ्का स्यादितीति - ब्राहृव्यतिरिक्तदर्शनाभावो हि दृश्यव्यतिरेकाद्वा स्यात् दृशिव्यतिरेकाद्वा, तस्य दृशि स्वरूपस्य नित्यतया दृश्यव्यतिरेक एव पर्यवस्यतीति दृश्यमिथ्यात्वं सिध्-यतीति परेषामाशय इति भावः । भाष्ये-अनवधिकातिशयस्वरूप इति । यद्यपि "यत्र नान्य'दिति भूमलक्षणवाक्ये यत्र नान्यत्प-श्यतीत्यल्पलक्षणवाक्य इवानिर्धारितवस्तुपामशर् एवोचितः । न त्वनवधिकत्वादिविशिष्टपरामर्शः, अत एवान्यदर्शनाभावादेस्तद्ब-ललभ्यत्वकथनमप्यनुचितम् । नहि यः सास्नावान् स हि गौरित्यत्र यच्छब्देन गोत्वविशिष्टपरामर्शात् सास्त्रावत्त्वलाभ इति सङ्गतम् तथापि जन्मादिसूत्रे यतस्सर्वज्ञादिति सकलभाष्यकृतां व्यवहारात् समाधानसम्भवादिति द्रष्टव्यम् । ततोऽन्यदिति व्याख्येयं पदम् दुःस्वरूपं तद्य्वतिरिक्तं च किञ्चिन्न पश्यतीत्यर्थ इति - दुःखरूपम् दुःखत्वमित्यर्थः । "न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति' इति साक्षितयोदाहरिष्यमाणश्लोकानुसारेण नान्यत्पश्यतीत्यत्र यत्र यत इति द्वयमपि योज्यम्, ततश्च यस्मि-न्ननुभूयमाने तद्विरुद्धं दुःखत्वं यस्मिन्न पश्यति यतोऽन्यच्च न पश्यति स भूमेत्यर्थः । तत्र दुःखदर्शनाभावहेतुरिति - विभूतिगुण-विशिष्टे ब्राहृणि दुःखरूपत्वदर्शनाभावहेतुरित्यर्थः । दुःखं न पश्यतीत्यर्थ इति - विभूतिगुणविशिष्टो ब्राहृणि दुःखरूपतां न पश्य-तीत्यर्थः । स्वरूपान्तर्गताः ज्ञानादिगुणा इति - ज्ञानानन्दादीनां स्वरूपनिरूपकत्वादिति भावः । अभिप्रेतहेतुसमुच्चयार्थ इति - दुःखदर्शनाभावहेतोरनवधिकातिशयसुखरूपत्वस्यानवधिकातिशयसुखरूप इति विशेषणेनाभिप्रेतस्य समुच्चयार्थ इति भावः । विभूतिर्हि ब्राहृणोऽन्येति शङ्कायामिति - यत्र यद्विभूतो चानुभूयमाने यतोऽन्यन्न पश्यतीत्युक्ते यच्छब्दद्वयेनापि ब्राहृण एव परा-मृष्टतया विभूतेरपि तदनन्यत्वादित्यर्थः । ऐश्वर्यापरपर्यायविभूतिगुणविशिष्टम्-इतिभाष्यस्य विभूतिविषयो गुणो विभूतिगुणः,

1.3.7

ऐश्वर्यापरपर्यायविभूतिगुण इति वा, विभूतिश्चासौ गुणश्च विभूतिगुणः, ऐश्वर्यापरपर्यायश्चासौ विभूतिगुणश्च ऐश्वर्यापरपर्यायविभू-तिगुण इति वा ऐश्वर्यापरपर्यायविभूत्या गुणैश्च विशिष्ट इति वेत्यर्थत्रयमभिप्रेत्य व्याचष्टे - विभूतिविषयो गुण इत्यादिना । यच्छब्द एव विशिष्ट ब्राहृपर इति भाव इति - यदि विशेष्यस्वरूपमात्रस्यैव भूमत्वमाचक्ष्महे तदा यत्र नान्यत्पश्यतीतिलक्षणस्याव्याप्ति-स्यात्, विभूतिवाचकशब्दश्च मृग्येत, अपि तु विभूतिगुणविशिष्टमेव भूमशब्दार्थः, न विशेष्यमात्रम् ततश्च यच्छब्दोपि लक्ष्यत्वे-नाभिमतं विशिष्टमेव परामृशेत्, अतो न काप्यनुपपत्तिरिति भावः । न च विशिष्टस्यैव भूमशब्दार्थत्वे विशिष्टस्याहमथर्शरीरकत्वा-त्मत्वयोरभावेन "अथातोऽहङ्कारादेशः' इत्यादिना भूम्न अहङ्ग्रहोपासनात्मत्वोपदेशो न स्यादिति वाच्यम्; विशेष्यांशाभिप्रायेणा-हङ्ग्रहात्मत्वोपदेशसम्भवादिति द्रष्टव्यम् । न त्वत्यदर्शनमित्यर्थ इति - न तु विशेष्यान्यदर्शनमपीत्यर्थः । दुःखादर्शनमनुपपन्नमिति - दुःखरूपत्वदर्शनमनुपपन्नमित्यर्थः । सर्वस्येति व्याख्येयं पदम् । दाष्र्टान्तिकेपि तादृक्तवमाहेति - यद्यपि भाष्ये द्वितीयदृष्टान्तसा-

1.3.8

धम्र्यमेव कण्ठत उक्तम्, तथापि प्रथमदृष्टान्तसाधम्र्यमप्यभिप्रेतं द्रष्टव्यम् । एतदिति व्याख्येयं पदम् । औपाधिकेत्यादि व्याख्यानम् । सुकृतम्, "रसो वै सः' इति कार्यावस्थोच्यते । "आनन्दाद्धयेन खलु' इति कारणावस्थोच्यते । भाष्ये-अथातोऽहङ्कारादेश इत्यह-

1.3.8

ङ्ग्रहोपक्रमादिति । जीवस्वरूपोपदेशपरत्वे अथातोहमुपदेश इति स्यात् अतोऽहङ्कारशब्दो बुद्धिपर इति भावः । अस्मिन् प्रकर- णेऽपि सर्वात्मत्वमुक्तमिति दर्शयिष्यन्निति - यद्यपि "स एवाधस्तात्' इत्यादिना भूम्नसर्वात्मकत्वं प्रागप्युक्तम्, तथापि सर्वा-त्मकत्वदृढीकरणायोत्तरत्रापि दर्शयिष्यन्नित्यर्थः । एतञ्चोपलक्षणम् । अथात आत्मादेश इत्यस्याभावे "तरति शोकमात्मवित्' इत्युपक्रान्तस्यात्मोपदेशस्यापर्यवसानात् अन्यदुपक्रान्तमन्यदापतितमितिशङ्का स्यात्, अतो

भूमैवात्मेतिदर्शयितुमात्मोपदेश इत्यादिसन्दर्भ इति द्रष्टव्यम् । आत्मत्वं फलितमित्युक्तमिति - सर्वात्मत्वे कथिते उपासकात्मत्वमपि फलितमित्यभिप्रेत्य अथात आत्मदेश इति वाक्यमुदाह्मतमित्यर्थः । कण्ठोक्तिमद्वाक्यस्येति । तस्य ह वा एतस्येतिवाक्यस्येत्यर्थः । भाष्ये-उपासकस्यान्त-र्यामितयावस्थितत्वादिति । विजानत आत्मत इति श्रुतेरुपासकस्यान्तर्यामिण इत्यर्थ इति भावः । यदत्र विवरणकारणोक्तम् अह-ङ्कारस्यात्मैकत्वेन प्रत्यक्षसिद्धस्याथातोहङ्कारादेशः । अथात आत्मादेश इति पृथगुपदेशो भेदार्थः, भूमात्मनोर्भिन्नत्वेन प्रसिद्धयोः पृथगुपदेश ऐक्यार्थः । द्वयोस्सार्वात्म्यायोगादिति तदसारम् । अहमर्थादन्यस्यात्मनो भूमाख्यब्राहृभिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो भेदार्थः, अहमर्थस्य तु ब्राहृभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यस्यापि सुवचत्वात् । न चाह-मर्थस्य जडरूपस्यान्तः करणस्य भूमाभेदबोधनं बाधितम् नात्मनस्तथेतिवाच्यम्; तस्य तन्मतश्रद्धालुमात्रह्मदयङ्गमत्वात्, अतस्स एवाधस्तादित्यादिना सर्वात्मत्वेनोपदिष्टे भूम्नि अथातोहङ्कारादेश इति अहङ्ग्रहोपासने विहिते तस्य दृष्टिविधित्वशङ्कावारणाय प्रागुपक्षिप्तसर्वात्मकत्वं द्रढीकुर्वन्नुपक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानं च दर्शयति अथात आत्मादेश इत्यादिना इत्येव युक्तमिति द्रष्टव्यम् ।। इति भूमाधिकरणम् ।।

1.3.9

गार्गिब्रााहृणम्- "अथ हैनं गार्गी वाचकवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतञ्च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्राहृलोकेषु गार्गीति कस्मिन्नु खलु ब्राहृलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूद्र्धा व्यपप्तत् अनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्रा-क्षीरिति ततोह गार्गी वाचकव्युपरराम । वाचक्तवी-वाचक्तया दुहितेत्यर्थः । अनतिप्रश्न्याम्-विजिगीषु कथायां प्रश्नायोग्यामित्यर्थः । तदनन्तरमुद्दालकप्रश्नः । "अथ ह वाचक्तव्युवाच ब्रााहृणा भगवन्तो हन्ताहमिमौ द्वौ प्रश्नौ पक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्राहृोद्यं जेनेति पृच्छ गार्गीति । सा होवाच अहं वै याज्ञ्यवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा उपतिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्राूहीति पृच्छ गार्गीति । सा होवाच यदूध्र्वं याज्ञ्यवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते । आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । स होवाचैतद्वैतदक्षरं गार्गि ब्रााहृणा अभिवदन्ति अस्थूलमनण्वह्न-स्वमदीर्घमलोहितमस्नेहमच्छायमतमो अवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनो अतेजस्कमप्राणममुखममात्रमनन्तर-मबाह्रं न तदश्नाति किञ्चन न तदश्नाति किञ्चन । एतस्य वा अक्षरस्य प्रशासने गागिर् सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्रा अर्घमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वी पितरोऽन्वायत्ताः । यो वा एतदक्षरं गाग्र्य-विदित्वा अÏस्मल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहरुााण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गाग्र्यविदित्वास्माल्लोकात्प्रैति स कृपणोथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्रााहृणः । तद्वा एतदक्षरं गाग्र्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन् खल्वक्षरे गाग्र्याकाश ओतश्च प्रोत-श्चेति । सा होवाच ब्रााहृणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्राहृोद्यं जेतेति ततो ह वाचक्तव्युपरराम । न वै जात्वित्यादि । युष्माकं मध्ये कश्चिदपीमं याज्ञवल्क्यं ब्राहृोद्यं ब्राहृवादं प्रति जेता नेत्यर्थः । काश्यो वैदेहः - काशीराजो विदेहराजः । उज्ज्यम्-अवरोपितज्यमित्यर्थः । अपरस्मै धारयस्वेति- द्वितीयप्रश्नाय सन्नद्धो भवेत्यर्थः । श्वेतेभ्यः पर्वतेभ्यः हिमवदादिभ्यः । बहुमन्येध्वं-किं तत् ? यदस्माद्यावल्क्यान्नमस्कारं कृत्वा निर्गमनम्, जयस्त्वस्य मनसापि नाशङ्कनीय इति भावः । तत्तु

परमात्मव्यतिरिक्तस्येति - इह हि द्वेधा पूर्वपक्षिणो गतिः । "यदूध्र्वं गार्गि दिबो यदर्वाक्' इतिवाक्ये आकाशशब्देन भूताकाश एवोच्यते, तदाधारतया अक्षरमव्याकृतमाकाशमुच्यत इति, अथवा आकाशशब्देनाव्याकृताकाश एवोच्यते तदाधारतया निर्दिश्य-

1.3.9

मानमपि तदेव, स्वे महिम्नि प्रतिष्ठित इतिवदिति भावः । नान्तरिक्ष इति - "न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि तस्माद्धिरण्यं निधाय चेतव्यम्' इति विधिशेषः । परस्मिन्नक्षरशब्दो दृश्यत इतिवाक्यस्वारस्यपर्यालोचनायां प्रधानपूवर्पक्षोपमर्दमात्रकृतसंरम्भस्य वाक्यमिवाभातीत्यस्वरसादाह - अथवा पाश्र्वस्थचोद्यमिति । अन्तशब्दोऽवधिवचन इत्यादि - इदमुपलक्षणम् अन्तो हि लयः,

1.3.9

स च कारणावस्थाप्राप्तिवचनेनान्तशब्देन कारणं लक्ष्यत इत्यपि द्रष्टव्यम् । कृत्स्नविकारजातस्याधारो भवितुमर्हतीति । ननु वायु-मदाकाशस्यावकाशप्रदानद्वारा सङ्कुचितसकलविकाराश्रयत्वमाकाशस्य सम्भवति । असङ्कुचितसकलविकाराश्रयत्वं तु प्रधानस्यापि न सम्भवति, तस्य जीवगतविकारानाश्रयत्वात्; अतो व्यर्थ आकाशब्दस्य रूढित्याग इति चेन्न; "यदन्तरा द्यावापृथिव्योरिमे' इति द्यावापृथिव्योरन्तरालवर्तिनः कायर्जातस्य निर्देशात्, तत्र च वायुमदाकाशस्य सङ्गूहावश्यम्भावात्, तदाधारत्वं भूताकाशस्य न सम्भवतीति भावः । ननु "यदूध्र्वं याज्ञ्यवल्क्य दिवो यदर्वाक् पृथिव्याः' इति प्रश्नस्य तत्प्रतवचनस्य कथं प्रधानविषयत्वम् ? पूर्व-सन्दभर्विरोधात् एवं ह्रुपाख्यायते बृहदारण्यके,-जनकयज्ञे कुरुपाञ्चालणीयत्वात् अक्षरशब्दस्याधुना यौगिकत्वप्रतिपादनं मिथ्ये-

यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं च' इत्युक्ते त्रैकाल्यवर्त्तिनो विकारजातस्या-धारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हति, तस्यापि विकारान्तर्गतत्वात्, अतोऽत्राकाश-शब्दनिर्द्दिष्टं भतसूक्ष्मतिमि प्रतीयते । ततस्तस्यापि भूतसूक्ष्मस्याधारभूतं किमिति पृच्छ्यते "कस्मिन्नु खल्वा-काश ओतश्च प्रोतश्च' इति । अतस्तदाधारतया निर्दिश्यमानमक्षरं न प्रधानं भवितुमर्हति । यत्तु श्रुतिप्रसिद्धात् प्रमाणान्तरप्रसिद्धं प्रथमं प्रतीयत इति तन्न, अक्षरशब्दस्यावयवशक्तया स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात् सम्बन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम् ।

1.3.9

त्याशङ्कय वस्तुस्थितिमनुसरता भगवता भाष्यकृता अक्षरशब्दस्योभयत्र यौगिकत्वमुपन्यस्तम्, न तु प्रकृतोपयोगित्वेनेत्याह - रूढि-शक्तया वा अवयवशक्तया वेत्यादिना । विशेषपर्यवसाने सति हीति - यदि व्युत्पत्तिग्राहकप्रमाणमनपेक्ष्यैव शब्दस्य विशेषपर्य-वसानं स्यात् तदैव न तत्प्रतिपादनदशायामपेक्षितमिति भाष्योक्तं वाक्यार्थप्रतिपादनस्य निराकाङ्क्षत्वं युज्यते, अतस्तस्य भाष्यस्य विशेषपर्यवसानेपि निराकाङ्क्षत्वमभिप्रेतमिति भावः । ननु किमत्र ब्राहृणि विशेषपर्यवसाने प्राकरणिकं लिङ्गमित्यत आह - अत्र परमात्मलिङ्गं दर्शितमिति । धर्माधर्मेति - धर्मशब्देन लौकिकशौक्लयलौहित्यादिलक्षणघटादिधर्मापेक्षया अलौकिकस्यादृष्टरूपस्य

1.3.10

धर्मस्य प्रतिपन्नैश्शैघ्य्रदर्शनात्, एवमधर्मशब्देनापि घटत्वादिधर्मभिन्नघटादिस्वरूपलौकिकार्थापेक्षया अलौकिकस्यादृष्टरूपस्या-धर्मस्य प्रतिपन्नैश्शैघ्य्रदर्शनात् । ईश्वरशब्देनापि लौकिकपार्थिवापेक्षया अलौकिकेऽर्थे प्रतीतिशैघ्य्रदर्शनादित्यर्थः । स्वाभ्यस्ता- यामेव गवीति - चिरमरिचितगोव्यक्तेरेव प्रथमप्रतीतिरिति भावः । प्रामाण्यं सम्भवतीति वक्ष्यत इति - रचनानुपपत्तेतरित्यधि-करण इति शेषः । अक्षरशब्दो जीवपर इति । अत्र न्यायसिद्धाञ्जने वेदान्ताचार्यैः "सा च समत्रैगुण्या मूलप्रकृतिः तस्यामपि मात्रया भेदमालम्ब्य अव्यक्तसहपठितस्याक्षरशब्दस्य चेतनविषयतया बहुश उपादानम् तत्परव्याख्यानप्रकारमनुरुध्द्य वा स्वरूपतो निर्वि-कारोऽपि जीवे सृज्यत्ववचनात् । चिद्रूपविकारवत्त्वेपि यथाक्षरशब्दप्रवृत्तिः तथा परब्राहृेतरविषयस्याक्षरशब्दस्याचिदवस्थाविशेषेपि शक्तिकल्पनोपपद्यत इति प्रतिपादयितुं ब्राा क्वचित्क्वचित् क्षरे प्रकृतिविशेषे अक्षरशब्दस्य मुख्यत्वायोगात् परब्राहृरूपाक्षरसम्बन्धेन लक्षणायां प्रयोजनाभावात्, जीवसम्बन्धेन त्वजहल्लक्षणया लयविशेषादिप्रतिपादनौचित्यात् "उभावेतौ लीयेते परमात्मनी'ति

1.3.11

द्वयोरपि लयाद्यभिधानाच्च । अत्राजहल्लक्षणैव युक्तेत्यभिप्रायाद्वेति न कश्चिद्विरोध इत्युक्तम् तदत्रानुसन्धेयम् । ननु नात्र "अम्बरा-न्तधृतेः परमात्मप्रशासनाधीनत्व'मिति परमात्मशब्दोऽक्षरपरः । "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादिश्रवणेपि अम्बरान्तशब्दस्यात्राश्रवणादिति भावः । विषयप्रकर्षात् विषयासङ्कोचादित्यर्थः । श्रुत्यन्तरेष्विति - ननु श्रुत्यन्तरे शासनाधीनसर्वाधारकत्वस्य परमात्मधर्मत्वेन श्रुतत्वेपि अक्षरब्रााहृणे तादृशपरमात्मासाधारणधर्मश्रवणं नेति चेदुच्यते, "एतस्य वा अक्षरस्य प्रशासने गार्गि' इत्यत्र वैशब्दस्य प्रमाणान्तरप्रसिद्धिद्योतकतया प्रापकमानान्तरप्रदर्शनस्यापेक्षितत्वात् अनुवादवाक्यस्य प्रापकवाक्यानुसारेणार्थस्य वर्णनीयत्वात्पुरोवादवाक्ये असङ्कोचेन सर्वप्रशासनश्रवणादनुवादकमपि वाक्यं तदर्थकमित्यभिप्रायेण तदुदाह्मतमिति द्रष्टव्यम् । ननु द्यावापृथिव्यादीनां तन्नियोज्यत्वाभावप्रसङ्गे इष्टापत्तावापादितायां प्रमाणान्तरस्यैव शरणीकरणीयतया तदेवोपन्यस्यतां किं तदपेक्षेणानेनेत्यस्वरसादाह - किञ्च यस्येत्यादिना । अव्याकृतस्य धारणं श्रूयत इति - ततश्चाव्याकृतस्य धारणं प्रतिपाद्य कथं तस्याव्याकृतस्य धारणमित्याकाङ्क्षायां शासनाधीनं धारणमिति प्रतिपादनाय "एतस्य वा अक्षरस्य प्रशासने'त्यादि

1.3.11

सन्दर्भः प्रवृत्तः, तस्य ह्रयमभिप्रायः, सूर्याचन्द्रमःप्रभृति सर्वपदार्थजातं शासनेन धारयतोऽक्षरस्य परब्राहृणः प्रशासनेन धारणे को भार इति । "ततश्च एतस्य वा अक्षरस्य प्रशासने' इति सन्दर्भस्याम्बरान्तधृतिप्रकारोपपादनार्थत्वात् अम्बरान्तधारणमपि शासनाधीनां सिध्यतीति भावः ।

ननु द्रष्टृत्वं चक्षुर्जन्यज्ञानवत्त्वम्, श्रोतृत्वं श्रोत्रजन्यज्ञानवत्त्वम् नचैतत् परमात्मनि करणशून्ये सम्भवतीत्यत आह - द्रष्ट्रादिशब्दा इति । रूपसाक्षात्कर्ता द्रष्टा, शब्दसाक्षात्कर्ता श्रोता, मन्तव्यसाक्षात्कर्ता मन्ता, अध्यवसेयसाक्षात्कर्ता विज्ञातेत्यर्थः । द्रष्ट्रादिपदैः रूपादिसाक्षात्कर्तृत्वार्थकथनस्य प्रकृतशासनोपयोगं दर्शयति - शासनस्येति । तेषामयोग्यत्वादिति - चक्षुश्श्रोत्रमनआदिजन्य-ज्ञानरूपाणां दशर्नश्रवणमननादीनामयोग्यत्वादित्यर्थः । ननु परमात्मनोऽपि योगिभिर्नित्यमुक्तैस्स्वेनापि दृष्टत्वादाह - सर्वैः योगि-भिरिति । सर्वशब्दस्यैकैकवर्गकार्त्स्न्यपरत्वे हेतुमाह - अस्यासङ्कुचितवृत्तितयेति । अदृष्टत्वादिविशेषितं द्रष्टृत्वादिकं प्रत्यगात्म-व्यावर्तकमित्यर्थ इति । अयोगिभिरदृष्टत्वादिविशेषितमित्यर्थः । प्रत्यगात्मन इति । ननु परमात्मापि स्वाहंप्रत्ययवेद्य एव दृष्ट इति न विशेष इति चेन्न अयोगिभिरदृष्ट इत्यत्र तात्पर्यात् । स्वस्वरूपवदिति - प्रत्यगात्मस्वरूपवदित्यर्थः । नन्वदृष्ट इत्यादौ अदृष्टत्व-द्रष्टृत्वादीनामेव प्रत्येकं धर्मतया श्रवणात् कथमदृष्टत्वविशेषितद्रष्टृत्वेन प्रत्यगात्मव्यावृत्तिलाभ इत्याशङ्कयादृष्टं सत् द्रष्टृ इति श्रुत्य-र्थलाभाद्विवक्षितसिद्धिरित्यभिप्रयन्नाह - निष्ठान्तैः पदैरिति । ननु विशेषितस्यैव धर्मत्वे द्रष्टृत्वं प्रधानव्यावर्तकमदृष्टत्वविशेषितं प्रत्य-गात्मव्यावर्तकमिति विभज्योक्तिरयुक्ता, विशेषितस्यैव धर्मत्वात् किञ्चायोगिभिरिति सङ्कोचोऽपि व्यर्थः । इतरादृश्यत्वविशेषित-द्रष्टृत्वस्यैव तथात्वादित्यस्वरसादाह - यद्वा रूपशब्दाद्यर्थवेदिभिरिति । अस्यां योजनायामिति - द्वितीययोजनायां तु "नान्यदतः' इत्यादिवाक्यस्यैव विषयत्वमिति भावः । कण्ठोक्ता स्यादिति - द्वितीययोजनायामर्थसिद्धत्वमुत्तरत्र स्पष्टम् चशब्द उक्तहेतुसमुच्चय

1.3.11

इति योजनान्तर त्वनुक्तहेतुसमुच्चयपरत्वमुत्तरत्र स्पष्टम् । प्रस्तुततुल्यपुरुषान्तरेति - "इषुर्विष्टुतिस्सप्ताहं भवति समानमितरच्छयेनेन' इत्यत्रेतरशब्दस्य पूर्वानिर्दिष्टसदृशश्येनवैशेषिकाङ्गपरत्वमिति सप्तमे स्थापितत्वादिति भावः । एतस्याधारभूतमितिभाष्ये एतच्छब्द-स्याक्षरपरामर्शित्वमपि सम्भवेत् जगत्परामर्शित्वमपि सम्भवेत्, उभयोरपि प्राक् प्रस्तुतत्वात् "तथा चाक्षरपरामर्शित्वे अक्षरस्य धारकं किमपि नास्तीत्युक्तवा अधिकनिषेधः कृतः स्यात् पक्षान्तरे तु समनिषेध इत्यभिप्रेत्य व्याचष्टे - एतस्याक्षरस्येत्यादिना । "यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्रुा मृत्युमाप्नोति य इह नानेव पश्यति । एकधैवानु द्रष्टव्यम्, "नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति' इति कठवल्लीबृहदारण्यकादाविव भेदनिषेधसम्भवे ब्राहृणस्समाभ्यधिकनिषेधपरत्वाश्रयणे को हेतुरिति शङ्कते - ननु नान्यदित्यादिना । यदि क्वचिदिति - "यत्र हि द्वैतमिव भवति' इत्यादाविति भावः । यत्र यदि सम्भवतीत्यनेन तत्रापि सुदूरं गत्वा ऐक्यविधिशेषत्वमेवेति भावः । अत इदं वाक्यं प्रकृततुल्यद्रष्ट्रन्तरनिषेधपरमिति - नास्मिन्नपि पक्षे पूर्वोक्तदोष-तादवस्थ्य द्रष्टुरेव श्रोतृताया नान्यदतोऽस्ति द्रष्ट्रित्यनेनैव सिद्धतया प्रत्येकनिषेधवैयथ्र्यादिति वाच्यम्; द्रष्टृत्वश्रोतृत्वादीनामनति-रिक्तवृत्तित्वेऽपि तुल्यो द्रष्टा नास्तीत्युक्ते द्रष्टृत्वांशे साम्यं नास्तीति प्रतीतावपि श्रोतृत्वांशे अस्तीति शङ्कायाः सम्भवात् साफल्यमिति भावः । प्रशासने ददतः, प्रशासन इति निमित्तसप्तमी तदाज्ञया ददतो जनान् मनुष्याः प्रशंसन्ति, तदाज्ञया यागं कुर्वन्तं देवाः प्रशं-

1.3.11

सन्ति, तदाज्ञया प्रवृत्तं दर्वीहोमं पितरः प्रशंसन्तीत्यर्थः । अनुवशा इत्यर्थ इति - अनुवशाः-उपजीविन इत्यर्थः । देवपित्रादय ईश्व-रास्सन्तोऽन्यथापि जीवितुमुत्सहन्तः कृपणां वृतिं्त यत्प्रशासनादास्थिता इत्यर्थः । तस्मिन् परिजिहीर्षत इति - यदि ब्राहृणो मिथ्-यात्वं परिजिहीर्षितम् तदा ब्राहृणो द्रष्टृभेदस्यैवाभ्युपगन्तव्यतया अदृष्टं द्रष्ट्रितिवाक्यप्रतिपाद्यत्वं ब्राहृणो न स्यादित्यर्थः । प्रधान-स्येश्वरत्वेति - प्रशासितृत्वस्येश्वरत्वपर्यवसन्नत्वात् द्रष्टृत्वस्य क्षेत्रज्ञत्वे पयर्वसन्नत्वादिति भावः ।। इत्यक्षराधिकरणम् ।।

1.3.12

प्रश्नोपनिषदि - "अथ हैनं शैव्यस्सत्यकामः पप्रच्छ । स यो हवै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतेति ।। 1 ।। तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्राहृ यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वे- तीति ।। 2 ।। स यद्येकमात्रमभिध्यायीत स तेनैव सवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्राहृचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ।। 3 ।। अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं युजुर्भिरुन्नीयते स सामेलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते ।। 4 ।। यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स प्राप्मना विनिर्मुक्तस्ससामभिरुन्नीयते ब्राहृलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ।। 5 ।। तिरुाो यात्रा मृत्युमत्त्र्यप्रयुक्ताः अन्योन्यसक्ता अनभिप्रयुक्ताः । क्रियासु बाह्रान्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ।। 6 ।। ऋ#ृग्भिरेतं यजुर्भिरन्तरिक्षं ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्य-त्तच्छान्तमजरममृतमभयं परं चेति ।। 7 ।। असंवेदितः-अनुगृहीतः, मनसि सम्पद्यते-मनसा ध्यायतीत्यर्थः । मृत्युमत्त्र्यप्रयुक्ताः-मृत्युभीतमत्त्र्यप्रयुक्ताः । अन्योन्यसक्ताश्चेदनभिप्रयुक्तास्युः । सम्यक्प्रयुक्तासु मात्रासु सतीषु न कम्पते ज्ञ इत्यर्थः । अदृष्टो द्रष्टेति परमात्मनो दृष्टत्वमुक्तमितिपाठो लेखकस्खलनदोषायत्तः । अक्षरब्राहृणो अदृष्टं द्रष्ट्रिति नपुंसकपाठस्यैव सत्त्वादिति द्रष्टव्यम् । विषयवाक्यस्थब्राहृलोकशब्दस्यैवान्यथा निर्वाहो दुर्वच इति वक्तुं शक्ये अन्तरिक्षशब्दस्य दुर्निर्वहत्वोक्तिरयुक्तेत्यस्वरसादाह - यद्वा आकाशशब्दस्येति । ससामभिरुन्नीयते - इदमेकं पदम् तच्छब्दान्तरश्रवणादित्यभिप्रेत्य व्याचष्टे - सामगानसहितैरित्यर्थ इति । आतिवाहिकानां मुक्तानाम् "एतत्समाकायन्' इत्यस्यासम्भवादाह - सान्त्ववादयुक्तैरिति । नच तमृचो मनुष्यलोकमुपनयन्ते यजुर्भिरुन्नीयते सोमलोकमिति ऋग्यजुःप्रायपाठात् सामपदस्य वेदपरत्वमेवाश्रयितुं युक्तमिति वाच्यम्; ऋगादिस्थलेपि वेदस्य नेतृत्वासम्भवात्, तत्रापि लक्षणादिक्लेशस्याश्रयणीयत्वेन प्रायपाठो नास्तीति भावः । परमात्मत्वं व्यवस्थाप्येति - यद्यपि नच

1.3.12

तत्त्वविषयमेव सर्वं दर्शनम्; अतत्त्वविषयस्यापि दर्शनादिति वाचस्पत्ये ईक्षणमपि परमात्मविषयमिति पूर्वपक्षस्य दशर्नादीक्षति-कर्मणः परमात्मत्वनियमः पूर्वपक्षिणा नाभ्युपगतः । तथापीक्षतिकर्मणः परमात्मत्वमङ्गीकृत्य ध्यायतेस्ततो भिन्नविषयत्वमिति पूर्वपक्षस्यापि प्रवर्तनात् तदभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । तत्प्राप्नोतीति - पञ्चम्यन्तपदं प्राप्नोतीत्यर्थः । देवतिर्यग्भावापेक्षयेति - द्रष्टव्यमितिशेषः । ननूपक्रम एव परं चापरं च ब्राहृेति द्वेधा विभज्य परं पुरुषमभिध्यायीत, परात्परं पुरिशयं पुरुषमीक्षते' इति परत्वेन विशेषणाच्च परमेव ब्राहृेत्यस्य सिद्धत्वात्परत्वविशेषितपुरुषशब्दस्यासाधारणत्वाच्छान्तत्वाजरत्वादीनां श्रवणाच्च, अनेकब्राहृ-लिङ्गविरोधे मनुष्यादिलोकप्रायपाठमात्रेण लिङ्गबाधायोगात्कथं पूर्वपक्षं इति चेदुच्यते; प्रायपाठावगतचतुर्मुखलोकगतपुरुषनिरीक्ष-माणत्वस्य लिङ्गस्यानन्यथासिद्धत्वादिति पूर्वपक्ष्यभिमानात् । नपुंसकान्तशब्दनिर्दिष्टमिति - एतच्छब्देन नपुंसक पदनिर्दिष्टत्वं

1.3.12

परामृश्यत इति भावः । भाष्ये-कर्मनिमित्तं देहित्वमिति । "मूर्तौ घनः' इति मूर्तौ घनशब्दो निपातितः । मूर्तिः काठिन्यमिति व्या-ख्यातम् । जीवस्य काठिन्यं देहद्वारकं देहित्वादेव कर्मकृतत्वमपि सिध्यतीति भावः । सशरीरत्वादेव हीति - आत्मनश्चतुर्णां मुखानां सम्भवादित्यर्थः । भाष्ये-न क्षयिष्णुश्चतुर्मुखलोक इति । ननु ब्राहृलोकशब्देन परब्राहृलोकपरामर्शे चतुर्मुखस्य प्रागनिर्दिष्टत्वादेत-स्माज्जीवघनादित्येतच्छब्दस्य प्रकृतपरामर्शित्वं न स्यात् । अतश्शाङ्करादिरीत्या ब्राहृलोकशब्दस्य चतुर्मुखलोकपरत्वमेवाभ्युपगम्य एतस्मादित्येतच्छब्देन च ब्राहृलोकशब्दान्तर्गतब्राहृशब्दनिर्दिष्टचतुर्मुखपरामर्शो वक्तव्य इत्येवाभ्युपेत्यमिति चेन्न; ब्राहृलोकशब्दस्य चतुर्मुखलोकपरत्वेपि चतुर्मुखस्य समासे न्यग्भूतस्य परामर्शासम्भवात् नच प्राधान्येन निर्दिष्टस्य चतुर्मुखलोकस्यैव परामर्शस्यादिति वाच्यम्; तत्र जीवघनशब्दस्याप्रवृत्तेः । कथञ्चिद्वृत्तावाश्रितायामपि चेतनस्याचेतनात् चतुर्मुखलोकादुत्कर्षप्रतिपादनस्यायुक्तत्वाच्च तस्मादेतच्छब्दस्य अथैव ज्योतिरित्यादिवत्प्रस्तोष्यमाणः जीवघनपरामर्शित्वं युक्तमिति द्रष्टव्यम् । आदिशब्देनेत्यादि - यद्यप्यादि-

1.3.12

शब्दार्थतया प्रदर्शितेषु वाक्येषु सूरिदृश्यत्वं न प्रतीयते, अपितु सूर्याधारत्वमेव । "तद्विप्रासो विपन्यवः' इत्यत्रापि, विपन्यवः-स्तु-तिशीलाः, जागृवांसः-अस्खलितज्ञानाः । "तद्विष्णोः परमं पदं सदा स्तुबन्तस्समिन्धत' इति वेदाथर्सङ्ग्रहे व्याख्यातत्वात्, तथापि सूरिस्थानभूतस्य सूरिदृश्यत्वमप्यर्थसिद्धमित्यभिप्रेत्योक्तमिति द्रष्टव्यम् । यदपरं कार्यंब्राहृेति भाष्ये कार्यब्राहृशब्देन चतुर्मुखलोक-

1.3.13

स्यापरब्राहृपदवाच्यत्वमेव युक्तम्, नतु परब्राहृलोकत्वमितिदर्शितमिति योजना । उपलक्षणतयेति - अन्तरिक्षशब्दमुख्यार्थस्वीकारे पक्षद्वयेपि व्यवधानविशिष्टम् यदि च व्यवधानपरिहारायान्तरिक्षशब्दस्य चतुर्मुखलोकाधस्तनलोकमात्रोपलक्षकत्वमाश्रित्य व्यव-धानपरिहारः तर्हि अन्तरिक्षशब्दस्यामुष्मिकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहारस्समान इति भावः । सङ्ग्राहकलाभ इति - भूलोकब्राहृलोकमध्यवर्तित्वरूपं सङ्ग्राहकं सुवचम् तथापि तस्य सङ्ग्राहकस्य गुरुत्वेन न सुलभप्रतिपत्तिकत्वमिति भावः । फलव-चनविरोधः- फलवाक्यपुरुषशब्दविरोध इत्यर्थः ।। ईक्षतिकर्माधिकरणं समाप्तम् ।।

अथ यदिदमस्मिन् ब्राहृपुत्रे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासि-तव्यमिति । तं चेद्ब्राूयुर्यदिदमस्मिन् ब्राहृपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः किं तदत्र विद्यते, यदन्वेष्टव्यम् यद्वा व विजिज्ञासितव्यमिति स ब्राूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तह्र्मदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति तं चेद्ब्राूयुरÏस्मश्चेदिदं ब्राहृपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः यदेनज्जरावाप्नोति प्रध्वंसते वा किं ततोऽस्तिशिप्यत इति स ब्राूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते । एत्सत्यं ब्राहृपुरमस्मिन् कामास्समाहिताः । एष आत्मा अपहतपाप्मा विरजो विमृत्युर्विशोको-ऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्ककल्पो यथा ह्रेव प्रजा अन्वाविशन्ति । यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति एवमेवामुत्र पुण्यचितो लोकः क्षीयते । तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष्वकामचारो भवति । अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति' । उदाह्मतनुतिवाक्येषु तत्र तत्रास्पष्टार्थः पररीत्या विविच्यते । सिद्धान्ताभिमतार्थस्तु उत्तरत्र स्पष्टः । तं चेद्ब्राूयुः-तं चेदेवमुक्तवन्तमा-चार्यम् । यदि ब्राूयुः-अन्तेवासिनश्चोदयेयुः, कथं यदिदमस्मिन् ब्राहृपुरे परिच्छिन्ने अन्तः दहरमल्पं पुण्डरीकं वेश्म ततोप्याकाशस्तत्र किं विद्यते, न किंचिदपीत्यर्थः । यदि नाम बदरमात्रं किञ्चिद्विद्येत किं तस्यान्वेषणेन ? विजिज्ञासनेन वा प्रयोजनमिति, इत्थमुक्त आचार्यो ब्राूयात्, यावान्वा अयमाकाशस्तावानेषोऽन्तह्र्मदय आकाश इति वैपुल्यप्रतिपादनेनाक्षेपबीजभूतमल्पत्वं व्यावत्त्र्यते । किं तत्र विद्यते इत्याक्षेपस्योत्तरमुच्यते-उभे अस्मिन्नित्यादिना । तदन्तर्वर्तिमध्येऽन्वेष्टव्यमुपदिश्यते-यच्चास्येहास्तीत्यादिना । अस्यायमर्थः, यदस्य देहिन इह लोके विद्यते, यच्चेह लोके इदानीं न विद्यते, नष्टं भविष्यच्च तत्सवमस्मिन् दहराकाशे समाहितमिति । तच्चात्र दह-रोपासनया ब्राहृलोकं प्राप्तस्य अग्रे स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्तीत्यादिना वर्णयिष्यमाणं स्व-सङ्कल्पसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृमातृभ्रातृ पुत्रकलत्रगीतवादित्रादिभोग्यवस्तुजातमेव । तं चेद्ब्राूयुरÏस्मश्चेदिदं ब्राहृपुरे सर्वं समाहितं सर्वाणि च भूतानीत्यादेरयमर्थः, कुसूलादौ जीर्णे भारधारणाक्षमे सति तदन्तर्निहितं व्रीह्रादिकं किमपि यथा

1.3.13

नावतिष्ठते, एवमाधारभूते ब्राहृपुरशब्दिते शरीरे जरादिस्पृष्टे तदन्तर्वर्तिद्यावापृथिव्यादिकं नावशिष्यत इत्याक्षेपाभिप्रायः, शरीरे नष्टे दहाराकाशान्तर्वर्तिद्यावापृथिव्यादिकं नश्येदित्यस्य कोवाऽभिप्रायः । शरीरे नष्टे तदाधारकदहराकाशस्यापि नाशावश्यम्भावात् तदाधारकद्यावापृथिव्यादिनाशस्यादिति वा, आहोस्वित् विद्यमानस्यापि दहराकाशस्य कुसूलाकाशवत् भारधारणाप्रयोजकतया कुसूलस्थानीयस्य शरीरस्यैव धारकत्वेन तस्मिन्नष्टे द्यावापृथिव्यादिनाशस्यादिति वेति विकल्पं ह्मदि निधाय प्रथमं प्रत्याचष्टे-नास्य जरयेति । द्वितीयं दूषयति-एतत्सत्यं ब्राहृपुरमस्मिन् कामास्समाहिता इति । ततश्च कुसूलाकाशविलक्षणस्य ब्राहृरूपस्य दहराकाश-स्यैव सर्वकामसमाधानाधारत्वात् शरीरस्याप्रयोजकत्वेन तन्नाशेपि द्यावापृथिव्यादि नाशप्रसङ्ग इति हि तस्याभिप्रायः । सत्यकाम-स्सत्यसङ्कल्पः-अवितथकामोऽवितथसङ्कल्प इत्यर्थः । कामसङ्कल्पयोश्च हेतुहेतुमद्भावान्न पौनरुक्तयम् । यथा ह्रेवेह प्रजा अन्वावि-शन्तीत्यादेरयमर्थः,-यथा इह लोके प्रजा अन्यं स्वामिनं मन्यमानास्तस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति अनु-वर्तन्ते स्वाभिमतार्थांश्च लभन्ते । एवं पुण्यकृतोपि परशासनानुवर्तनेन तत्फलभाजो भवन्तीत्यभिप्रेतार्थः । राजसेवार्जितफलस्यैव पुण्यार्जितफलस्यापि क्षयित्वमाह तद्यथेहेत्यादिना । शिष्टं स्पष्टम् । पुरिशयस्येति - यद्यपि छान्दोग्ये "अथ यदिदमस्मिन् ब्राहृपुरे दहरं पुणडरीकं वेश्म' इति ब्राहृपुरे विद्यमानत्वमात्रं श्रूयते, न शयनम्, तथापि समानप्रकरणे वाजसनेयके "य एषोऽन्तह्र्मदय आका-शस्तस्मिन् शेते' इति शयनश्रवणादत्रापि पुरिशयत्वं फलितमिति द्रष्टव्यम् । आकाशशब्दवाच्यस्यापरमात्मत्वं निरस्यत इति । पुरिशयस्याकाशशब्दवाच्यत्वपरमात्मत्वं निरस्यत इत्यर्थः । ब्राहृलोकब्राहृपुरशब्दयोरिति - "एतं ब्राहृलोकं न विन्दन्ति' एतत्सत्यं ब्राहृपुरम्' इति शब्दयोरित्यर्थः । प्रसिद्धान्तरिक्षेति - परमात्मस्थानायस्तनलोकपरत्वसमर्थनादिति भावः । तह्र्रक्षरमिति - अप्र-सिद्धार्थकल्पकत्व रूपप्रत्यासक्तेस्त्रयाणां तुल्यत्वेपि अन्तरिक्षशब्दाप्रसिद्धार्थकल्पेक्षतिकर्भाधिकरणापेक्षया आकाशब्दाप्रसिद्धार्थ-प्रकल्पकत्वेनाक्षरदहराधिकरणयोः प्रत्यासत्त्यतिशयादित्यर्थः । सङ्गत्यतिशयादिति । ननु आकाशवाचिशब्दस्य प्रसिद्धार्थातिरि-क्तार्थकत्वसमर्थनपरत्वं त्रयाणां साधारणधर्मः । अक्षरेक्षतिकर्माधिकरणयोराकाशशब्दवाच्यस्य प्रसिद्धार्थातिरिक्तार्थकत्वसमर्थनमुखेन

1.3.13

विप्रतिपन्नस्य परमात्मत्वसमर्थकत्वं साधारणो धर्मः । अन्तरिक्षशब्दस्यापि आकाशवाचिशब्दत्वात् तथा च किमत्र विनिगमकमिति चेत् यदि न वैषम्यमित्यभिमानः तदा अक्षराधिकरणे "अदृष्टं द्रष्टृ' इत्यदृष्टत्वश्रवणात् ईक्षतिकर्मत्वं न सम्भवतीत्याक्षेपसङ्गतेरप्यधि-कायास्सत्त्वादीक्षतिकर्माधिकरणस्याक्षरादिकरणानन्तर्यं युज्यत इति सन्तोष्टव्यमायुष्मता । क्वचित्परमात्मपरत्वमिति - "आका-शादेव समुत्पद्यन्ते' इत्यादावित्यर्थः । वाक्यद्वारकमिति - उत्तरेभ्य इत्यस्य उत्तरवाक्यगतेभ्य इत्यर्थ इति भावः । पचमीस्फुटीक-रणायेति । ततश्च हेतुभ्य इत्येतत्पदं उत्तरेभ्य इत्यत्र विभक्तयर्थस्फोरकमिति भावः । षष्ठी हेतुप्रयोगनियम इति - "षष्ठी हेतुप्रयोगे' "सर्वनाम्नस्तृतीया च' इत्युत्तरशब्दस्य सर्वनामत्वात् षष्ठी वा तृतीया वा स्यात्, नतु पञ्चमीत्याक्षेपाभिप्रायः । इदं च "निमित्तकारण-हेत्वर्थेषु सर्वासां प्रायदर्शनम्' इति वार्तिकानादरेणोक्तमिति द्रष्टव्यम् । प्रयोजनतयेति - ननु वृत्त्यादिग्रन्थेष्वेवमव्याख्यातत्वात् । विद्यायाहेतोर्यश इत्यादौ विद्यायशःप्रयोजकत्वाभावेन षष्ठयनुपपत्तिप्रसङ्गाच्च नेदं समञ्जसमिति चेन्न; शाब्दिकग्रन्थेषु अन्नस्य हेतो-र्वसतीत्यादेरेवोदाह्मतत्वात् विद्याया हेतोर्यश इत्यादिप्रयोगस्यासम्प्रतिपन्नत्वात् षष्ठीहेतुप्रयोक इत्यस्य प्रयोजनतया हेतुत्वविषयत्वा-भावे हेतावितिसूत्रस्य निर्विषयत्वप्रसङ्गाच्च । नच हेतुशब्दप्रयोगविषयं षष्ठीहेतुप्रयोग इति सूत्रमिति वाच्यम्; हेतुशब्दप्रयोगे "हेतौ द्योत्ये वा' सति कौपुद्यामुक्तत्वात् । तस्याश्च सम्प्रतिपन्नत्वान्न काचिदनुपपत्तिरिति केचिद्वदन्ति । ननु जीवव्यावृत्तेः प्रस्तोष्यमाणत्वेन भूताकाशव्यावृत्तेरेव प्रस्तुतत्वादात्मत्वमात्रेण च भूताकाशव्यावृत्तिसिद्धेर्निरुपाधिकत्वकीर्तनं मुधेत्यस्वरसादाह - यद्वा आकाशस्या-पीति । स्वतश्शरीरप्रतिसम्बन्धीति - स्वत इत्यस्य प्रयोग इत्यनेनान्वयः । स्वतःप्रयोगो मुख्यप्रयोग इत्यर्थः । भाष्ये-अथ य इहात्मा-नमित्यादि । अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति स यदि पितृलोककामो भवति

1.3.13

सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते, एवमेव मातृलोकभ्रातृलोकस्वसृलोकसखिलोकगन्धमालनय-लोकान्नपाललोकगीतवादित्रादिलोकस्त्रीलोकपर्याया द्रष्टव्याः । अनन्तरं "यं यमन्तमभिकामो भवति' यं यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते' इति श्रूयते, इत्येवं श्रुतिक्रमो द्रष्टव्यः । एकस्यैवेति - अत एव "श्येनेनाभिचरन् यजेत' इत्यत्र गुणविधिपक्षे "यथा वै श्येनो निपत्त्यादत्त' इति वाक्यशेषे निबध्यमानं श्येनस्य श्येनसादृश्यं नान्वेतीति नामत्वमाश्रितमिति भावः । ह्मदयावच्छेदेति - उपमानोपमेययोरभेदेपि उपमानतावच्छेदकोपमेयतावच्छेदकभेदसत्त्वे उपमा सम्भवत्येव, अत एव "उपाददे तस्य सहरुारश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुगूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे' इत्यत्रैकस्यैव हरस्योत्तमाङ्गपत-द्गङ्गाप्रवाहत्वच्छत्रदुकूलसन्निकृष्टमौलित्वरूपोपमानोपमेयतावच्छेदकभेदसत्त्वेनालङ्कारिकैरुपमाप्रभेदत्वमङ्गीकृतमिति भावः । उप-मानशून्यतेति - "रामरावणयोर्युद्धम्' इत्यादौ उपमानोपमेयभेदसापेक्षसादृश्यस्य वास्तवौपाधिकभेदद्वयाभाववत्यसम्भवादनन्व-यालङ्कारः । तत्र चानन्वितं स्वÏस्मन्निबध्यमानं स्वसादृश्यमनुपमत्त्वद्योतनफलकमेव । यथा स्वमहिमप्रतिष्ठितत्वमनन्याधारत्वद्योत-नफलकं तद्वदिति भावः । यावच्छब्देति - यत्रोपमानतावच्छेदकोपमेयतावच्छेदकयोरुपमानोपमेययोश्चैक्यम् तत्रैवानन्वयः । प्रकृते च यावत्त्वान्तह्र्मदयावस्थितत्वरूपावच्छेदकद्वयभेदसत्त्वात् अवान्तरवाद्याकाशांशानां परस्परभिन्नत्वेनोपमानोपमेयभेदसत्त्वाच्च नानन्वय इति भावः । मध्यगतवाक्येति - "तस्मिन् यदन्तस्तदन्वेष्टव्यम्' एष आत्मा' इति वाक्यद्वयमध्यगतेत्यर्थः । ननु प्रथमानिर्दिष्टत्वेन एष आत्मेत्यनेन विभक्तयैकरूप्यं तदन्वेष्टव्यमित्यत्रापि अस्तीत्यत्राह - आसन्नत्वाच्चेति । यद्यपि ब्राहृपुरमित्यत्र ब्राहृशब्देन तदा-धेयब्राहृणोप्यासन्नत्वमस्तीति दहराकाशातिरिक्तब्राहृवादिनोऽप्यासन्नत्वं सुवचम्, तथापि ब्राहृशब्दस्य षष्ठयन्ततया विभक्तयैकरू-प्यस्याभावात् ब्राहृपुरशब्दनिर्दिष्टस्याकाशस्य ततोऽपि सन्निहितत्वाच्चाकाशस्यैव एष इति परामर्श उचित इति यद्यपीत्याक्षेपाभिप्रायः । अन्वेष्टव्यस्यात्मनः परामर्श इति - ततश्च "एष आत्मापहतपाप्मा' इतिवाक्ये एष आत्मेत्येतावानंशोऽनुवाद इति भावः ।

1.3.13

अत आत्माधिकरणतयेति - अपहतपाप्मत्वादिलिङ्गानां तदन्तर्वतिर्गतत्वेनोपक्रमावगतदहराकाशाब्राहृत्वस्य साधकाभावादिति भावः । ननु प्रक्रम एव दहराकाशात्तर्वर्तिनः आत्मत्वनिश्चये तदत्र विद्यत इति प्रश्नस्य वा तदुत्तरसन्दर्भस्य वा कथमुपपत्तिरिति चेदुच्यते, दहराकाशान्तर्वर्तिब्राहृवादिनो ह्रयमभिप्रायः,-तस्मिन् यदन्तस्तदन्वेष्टव्यमित्यत्रैव दहराकाशातिरिक्तमन्वेष्टव्यम् तच्च श्रुत्यन्तरपर्यालोचनया आत्मरूपमित्यवगमात् । तथापि किं तदत्र विद्यते इति तदात्मवत्सु किंप्रकारकमिति प्रश्नः यावान्वा अय-माकाशस्तावानेषोऽन्तह्र्मदय आकाश इति । अस्य चायमर्थः, यावानयमाकाशोऽतिविपुलो वर्तते एष आकाशस्सर्वोप्यन्तह्र्मदये, ह्मदयशब्दः परमात्मपरः । "स वा एष आत्मा ह्मदि तद्यैतदेवनिरुक्तं ह्मद्यमिति तस्माद्धृदय'मित्यत्रैव श्रवणात् । ततश्च ह्मदये ब्राहृणि अन्तस्सर्वोप्याकाशो वर्तते, द्यावापृथिव्यादिकं चेत्यर्थः । एतत्सत्यं ब्राहृपुरमिति पूर्ववाक्ये अन्तर्वर्तिब्राहृैव प्राधान्येन प्रथमानि-र्दिष्टत्वात्सन्निहितत्वाच्च । एष आत्मेत्यत्रैतच्छब्देन तस्यैव परामर्शसम्भवात्, यद्यपि "यावान्वा अयमाकाशः' इतिवाक्येत्यादि-चोद्यस्यापि नावकाश इति द्रष्टव्यम् । भाष्ये-स्यादेतदेवं यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाङ्क्षीत् व्यभाङ्क्षी त्तु सा- इति पाठः । विभजनस्यैव प्रकृते विवक्षितत्वात् । ननु स्यादेतदेवमित्यत्रापि लिङ्#िनमित्ते लृङ्क्रियातिपत्ताविति अभविष्यदेतदेवम् यदि श्रुतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभाङ्क्षीत् इत्येव स्यादिति चेन्न; विभाषा या तौ सम्भावनवचने यदीत्यादिलिङ्#िनमित्ता-न्तरस्य सम्भवान्नोभयत्रापि लृङ्प्रसङ्ग इति द्रष्टव्यम् । असाधारणेन व्यपदेशस्येति - क्षितिसलिलपवनादिसमवधानजन्मनोप्य- ङ्कुरस्य शाल्यङ्कुर इति असाधारणशालिबीजनैव व्यवहारदर्शनादित्यर्थः । तद्विधेयपुराधिपतिरिति - तत्स्वामिकपुरवासी जीव इत्यर्थः । उपक्रम एव "अथ यदिदमस्मिन् ब्राहृपुरे' इति जीवस्वामिकपुरप्रतीतेः, तत्स्वामिके पुरे तदवस्थानस्यैवोचितत्वादिति भावः । तद्विधेयपुरवासी जीव इति पाठस्तु सुगम एव, उक्तं च शाङ्करभाष्ये 'तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टं यथा राज्ञः' इति । भामत्यां च स्यादेतत् जीवस्य पुरं भवतु शरीरम्, पुण्डरीकदहरगोचरता तु अन्यस्य भविष्यति, वत्सराजस्य पुर इव उज्जयिन्यां मैत्रेयस्य सद्मेति मैवं वेश्मस्वल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात् तेनैवाधेयेन सम्बन्धं सन्ना-धेयान्तरसम्बन्धं कल्पयतीत्युक्तम् । मुख्यार्थस्येति - ब्राहृपुर इत्यत्र षष्ठयपेक्षया प्रतिपदिकस्य मुख्यतया षष्ठयर्थीभूतस्वस्वामि-

1.3.13

भावलक्षणसम्बन्धस्वारस्यापेक्षया ब्राहृशब्दप्रातिपदिकार्थस्वारस्यमेवादर्तव्यम् ततश्च ब्राहृशब्देन परमात्मन एव ग्रहणमुचितम् षष्ठयर्थसम्बन्धस्तु साधारणोऽसाधारणो वा यः कश्चिद्भविष्यतीति भावः । ननु सत्यकामस्सत्यसङ्कल्प इति गुणद्वयस्यैवाभिधाना-द्गुणजातमिति गुणबहुत्वाभिधानमसङ्गतमित्यत आह - सत्यकामत्वसत्यसङ्कल्पत्वेति । तेन विनागुणध्यानायोगादिति । ननु यदि गुणध्यानमन्तरेण गुणिध्यानायोगाद्गुणध्यानस्यावश्यकत्वम्, तह्र्राक्षेभादेव तदुपासनस्यापि सिद्धतया नात्रानुपपत्तिरिति चेन्न; आक्षेपतः प्राप्तादाभिधानिकस्य ग्राह्रत्वमितिन्यायेन गुणिनोपि ध्येयत्वस्याभिधानिकत्वसम्भवे तत्परित्यागायोगात् "य इहात्मा-नमनुविद्य व्रजन्त्येतांश्च सत्यान् कामा'निति फलनिर्देशवाक्ये गुणांशे आभिधानतः प्राप्तानुवादो गुण्यंशे आक्षेपतः प्राप्तानुवाद इति वैरूप्याश्रयणस्यापन्याय्यत्वाच्च । अर्थसिद्धं स्यादिति - गुणानां गुण्यन्तर्भूतत्वेन गुणिध्याने विहिते गुणध्यानं विहितं स्यादित्यर्थः । न त्वाक्षेपलभ्यं स्यादित्यर्थ इति न भ्रमितव्यम् । तथात्वे गुणानां ध्येयत्वे कथितेपि गुणिध्यानस्याक्षेपलभ्यत्वसम्भवेन, नतु गुणानां ध्येयत्वे कथित इत्युत्तरवाक्यासामञ्जस्यप्रसङ्गात् । गुणध्याने विहिते गुणिध्यानाक्षेपस्य तेन विना गुणध्यानायोगादिति पूवग्र्रन्थे अङ्गीकृतत्वाच्चेति द्रष्टव्यम् । अन्वेष्टव्यमितिपदं गुणिपरमिति - दहराकाशान्तर्वर्तिगुणिपरमित्यर्थः । तच्च दहराकाशो भूताकाश एव, नतु परमात्मेति भावः । अनूद्यत्यन्तेनेति - ननु दहरं पुण्डरीकं वेश्मेति एतावता पुण्डरीकवेश्मनो ब्राहृपुराख्यशरीराधारकत्वे प्रतिपादितेपि आकाशस्य ह्मदयपुण्डरीकाधारकत्वस्याप्रतिपादनात् कथं वेश्मेत्यनूद्येत्यन्तेन परमतनिरासः । नच दहरोस्मिन्नन्तर आकाशः' इत्येतावत्पर्यन्तो ग्रन्थसन्दर्भोपि तत्र विवक्षितः । ततश्चाकाशे पुण्डरीकाधारकत्वस्यापि प्रतिपादितत्वादनूदितस्य तस्मिन् यदन्तरित्यनुवादो व्यर्थ इति परमतदूषणसूचकत्वमुपपद्यत सति वाच्यम्; तथासति "यदिदमस्मिन् ब्राहृपुरे दहरं पुण्डरीकं वेश्म' इत्यनूद्येतिभाष्यस्य दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश इत्येतावत्पर्यन्तग्रन्थसन्दर्भकथनपरत्वाश्रयणे तस्मिन् दहरपुण्ड-रीकवेश्मनीत्युत्तरभाष्यस्य दहरोऽस्मिन्नन्तर आकाश इति वाक्यार्थकथनपरत्वं न स्यात् पूर्वमेव तद्वाक्यार्थस्याप्युपन्यस्तत्वात् ततश्च तस्मिन् यदन्तरिति तच्छब्दस्य परमतवद्य्ववहितपुण्डरीकपरत्वाभावात् । दहरोस्मिन्नितिवाक्यं व्याचष्ट इत्युत्तरत्र ग्रन्थकृतैव वक्ष्य-माणत्वाच्चेति चेत् सत्यम्; अथापि अनूद्येत्येतदनूदितस्यार्थस्य पुनरनुवादे प्रयोजनं नास्तीत्यर्थसूचकमित्यत्र तात्पर्यम् । अनूद्येत्या-दिनेतिपाठस्तु सुगम एव । वैयथ्र्यं स्यादिति - न च तस्मिन् यदन्तरित्यनुवादस्य तन्तर्वर्तिकामविशिष्टतय्रान्वेष्ठव्यत्वसिद्धिः प्रयो-जनमिति वाच्यम्; पुनरनुवादेन तादृशप्रयोजनसिद्धौ प्रमाणाभावात् । व्यवहितेति - सर्वनाम्नामव्यवहितपरत्वसम्भवे व्यवहितपर-

1.3.13

त्वकल्पनाया अन्याय्यत्वात्, अत एव साकमेथे "एतद्ब्रााहृण एककपालः' इत्यत्रैतत्पदमव्यवहितवारुणप्रधादिकैककपालपरामर्शी, नतु व्यवहितवैश्वदेविकैककपालपरामर्शीति सप्तमे स्थितम् गौश्चाश्वरतश्च गर्दभाश्चाजाश्चावयश्च तिलाश्च माषाश्च तस्य द्वादश शतं दक्षिणेत्यत्र तु माषद्वादशशतमात्रस्यानतिकरत्वासम्भवात् बहुवचनान्तानां माषाणां तस्येत्येकवचनेन परामर्शस्यायुक्तत्वाच्चाव्यव-हितमाषाणां परामर्शेऽनुपपत्तिसत्त्वात् व्यवहितगोपरामर्शित्वम्, न चेह तथा बाधकमस्तीति भावः । परमात्मन इति - परमात्म-नोऽन्तर्वर्ति तत्कारणं सूक्ष्मं किमपि न सम्भवतीति किं तत्र विद्यत इति वाक्येनाक्षिप्य द्यावापृथिव्यादिकार्यस्य तदन्तर्वर्तितया समाधानमिति हि परैवण्र्यत इति पाठो बहुषु कोशेषूपलभ्यते, अस्य ग्रन्थस्य च सर्वकाणणान्तर्वर्ति कारणं न सम्भवतीत्याक्षेपा-भिप्रायः । सकलकारणभूते परमात्मनि कारणान्तरस्यासम्भवेपि द्यावापृथिव्यादिकार्यसम्भवान्न दोष इति समाधानाभिप्राय इति परैर्वण्र्यत इत्यर्थो खटिति प्रतीयते, परैश्च नैवमाक्षेपसमाधानप्रकरणौ वर्णितौ, अपि तु दहरपुण्डरीकमेव तावत्सूक्ष्मतरम्, तदव-रुद्धमाकाशं ततोपि सूक्ष्मतमम् तÏस्मश्च सूक्षमतमे आकाशे किमपि मातुं न शक्तोतीति किमन्वेष्टव्यं स्यादित्याक्षेपाभिप्रायः, दह-राकाशस्य ब्राहृयाकाशवद्विपुलत्वेन सूक्ष्मतमत्वनिबन्धनानुपपत्त्याभावात् तत्र द्यावापृथिव्यादिसर्वविधभोग्यजातसमवधानं तदन्वे-ष्टव्यत्वं च सम्भवतीति समाधानाभिप्राय इत्येवोक्तम्, नतूक्तप्रकारेण; तस्मात्पुरोवादिवाक्यानुसारेणानुवादिवाक्यार्थस्य वर्णनीयत्वात् अस्यापि ग्रन्थस्य स एवार्थः । परमात्मनोऽन्तर्वर्तिनः कस्याप्यभावादित्युपरितनानुवादस्याप्ययमेवार्थः । पुंल्लिङ्गयच्छब्दाध्याहारेणेति तस्मिन् यदन्तरिति वाक्य इति शेषः, नतु दहरोऽस्मिन्नितिवाक्ये तस्मिन् वाक्ये यच्छब्दाध्यारे दहरोऽस्मिन्नित्यादेरेकवाक्यत्वप्रसङ्गात् यत्पदघटितवाक्यस्य तत्पदघटितवाक्येनैकवाक्यतावश्यम्भावात् न चेष्टापत्तिः, उत्तरपक्ष एव एकवाक्यत्वाश्रयणस्य वक्ष्यमाणत्वादिति द्रष्टव्यम् । केचित्तु "दहरोऽस्मिन्नन्तर आकाशः' इत्यत्रैव यच्छब्दाध्याहारः, दहरोऽस्मिन्नित्यादेरेकवाक्यता च पक्षद्वयेप्यवशिष्टैव पुल्लिङ्गयच्छब्दाध्याहारानध्याहाराभ्यामेव वैषम्यमित्यप्याहुः । अत्र पक्षद्वयेऽपि चशब्दाध्याहारस्समानो द्रष्टव्यः । भाष्ये-यच्च तदन्तर्व-र्तिगुणजातम्-इत्यत्रान्तर्वर्तीत्येतछØतिगतान्तश्शब्दव्याख्यानमिति दर्शयति - श्रुतिवाक्य इति । नन्वाकाशतदन्तर्वर्तिनोद्र्वयोः कथमे-केन शब्देन परामर्शसम्भव इत्यत आह - त्यदादीनि सर्वैरिति । ननु त्यदादीनीत्येकशेषे सति कथमेकवचनम् ? नच "एकवच्चान्यत-रस्याम्' इत्येकवचनमिति वाच्यम् । "नपुंसकमनपुंसकेन' इतिसूत्रखण्डकृतैकशेषस्यैवास्येति सौत्रपदेन परामृष्टतया सूत्रान्तरकृतैक-

1.3.13

शेषस्यातथात्वादिति चेत् "व्यत्ययो बहुलम्' इति वा "सुपां सुलुक्' इति वा यदिति रूपसम्भवात् । यद्वा "कर्मणो रोमन्धतपोभ्याम्' इतिवत्प्रत्येकमेकत्वाभिप्रायेणैकवद्भावस्य द्विगुरेकवचनमितिसल्लिङ्गसामान्यविवक्षया नपुंसकत्वस्याप्युपपत्तेः । अत्रैव "गतिशब्दा- भ्यां तथा हि दृष्टम्' इति सूत्रे पुल्लिङ्गद्विवचनान्तगतिशब्दविशेषणस्य नपुंसकलिङ्गैकवचनान्तस्य दृष्टमित्यस्योक्तेनैव प्रकारेण निर्वा-ह्रत्वाच्च । एवमाद्यनेकस्वारस्यं यच्छब्दविषयेत्यादिनिवर्तकसूत्रस्याप्रवृतिं्त च ह्मदि निधाय पक्षान्तरमाह - नपुंसकमनपुंसकेनेति । अत्र च वाशब्दोऽपेक्षितोऽध्याहर्तव्यः । सर्वान्तरस्य परमात्मन इति - सूक्ष्मपुण्डरीकवर्तिनि सूक्ष्मे आकाशे किं विद्येतेत्यनुपपत्ति-रित्यर्थः । अत्र परमात्मन इत्येतद्वस्तुतस्सिद्धान्तन्यायेन तस्य परमात्मत्वमस्तीत्यभिप्रायेणोक्तम्, नतु परमात्मत्वमाक्षेपबीजम् । "यदिदमस्मिन् ब्राहृपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः' इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्या-काशशब्दे जागरूके दहरत्वान्वेष्टव्यत्वान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति ब्राहृलिङ्गेषु चानुपन्यस्तेषु परमात्मत्वविश्चयस्य वा तदुपजीव्याक्षेपप्रवृत्तेर्वा असम्भवादिति द्रष्टव्यम् । आकाशतदन्तर्वर्तिनोरिति - निद्र्धारणे षष्ठी, आकाशस्य ज्ञातत्वादित्यर्थः । प्राधान्यज्ञापनार्थं चेति - भाष्यकृतेतिशेषः, नतु श्रुत्येति । ततश्च प्राकरणिकानामिदमेतच्छब्दानामाकाशपरामर्शित्वप्रभृतेस्सर्व- स्यापि "उभे अस्मिन्नाकाशे द्यावापृथिवी अन्तरेव समाहिते' इत्येकाकाशपदप्रक्षेपेणैव सिद्धिसम्भवात् "यावान्वा अयमाकाशस्-तावानेषोऽन्तह्र्मदय आकाशः' इत्येतावतस्सन्दर्भस्य वैयथ्र्यमिति दूषणं नावकाशं लभत इति द्रष्टव्यम् । आकाशशब्दव्यवहित-त्वादिति - यावान्वा अयमाकाश इत्याकाशशब्दस्य व्यवहितत्यादित्यर्थः । अस्तित्वनास्तित्वयोस्सप्रतियोगित्वावगमादिति ।

1.3.13

कस्यास्तित्वं कस्य नास्तित्वमित्यपेक्षायामित्यर्थः । किमस्ति किं नास्तीत्यपेक्षायां चोदयितुरनुभाषणवाक्ये सर्वेपि कामा इत्यनु-भाषणात् यच्छब्दो भोग्यजातपर इति निर्णीयत इति भावः । चोदयितुरिति - यद्यपि तं चेद्ब्राूयुरिति चोदयितॄणां बहुत्वमवगम्यते तथापि तदविवक्षयैवैकवचनं प्रयुक्तमिति द्रष्टव्यम् । अनुभाषणवाक्यं इति - "अÏस्मश्चेदिदं ब्राहृपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे कामाः' इत्यनुभाषणवाक्य इत्यर्थः । निरतिशयभोग्यतापरत्वं युक्तमिति - ननु "ये चास्येह जीवा ये च प्रेताः यच्चान्यदिच्छन् न लभते सर्वं तदत्र गत्वा विन्दते, अत्र ह्रस्यैते सत्याः कामास्स यदि पितृलोककामो भवति' इत्याद्युत्तरसन्दर्भप्रतिपाद्यस्वसङ्कल्प-मात्रसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिदृक्षितपितृमातृभ्रातृस्वसृसस्विगन्धमाल्यान्नापाननृत्तगीतादिसम्पत्तेस्तात्त्विकत्वाभ्युपगमात् "सभ्काल्पादेव तच्छØतेः' इत्यत्र तस्य तात्त्विकत्वमभ्युपगम्य सङ्कल्पमात्रसमुत्थितत्वप्रतिपादनाच्च यथाश्रुतार्थं विहाय निरतिशयभो-ग्यतामात्रे तात्पर्यमिति कुतोऽङ्गीकार्यमिति चेत् सत्यम्; भोग्याधारत्वमेव प्रतिपाद्यते, अथापि उपपिपादयिषिते ब्राहृणोऽन्वेष्टव्यत्वे तदाश्रितपित्रादीनां भोग्यत्वप्रतिपादनस्यात्यन्तानुपयुक्तत्वात् । यच्चास्येहास्तीत्यादिवाक्यमपि पित्रादिसर्वभोग्याधारत्वप्रतिपादन-मुखेन ब्राहृणो निरतिशयभोग्यत्वप्रतिपादनपरमिति पित्रादिभोग्याधारत्वे तात्पर्यसत्त्वेपि ब्राहृणो निरतिशयभोग्यत्वे परमतात्पर्यमिति भाष्याभिप्राय इत्यत्रैवाचार्याणां संरम्भ इति न काचिदनुपपत्तिः । निरतिशयभोग्यत्वं न पृथग्वाच्यमिति । न चानन्दत्वमात्रस्य स्वरूपनिरूपकत्वेपि निरतिशयानन्दत्वं न स्वरूपनिरूपकमिति वाच्यम्; निरुपाधिकत्वादेव निरतिशयभोग्यत्वस्यापि सिद्धेरित्यत्र तात्पर्यात् । अथ तं चेद्ब्राूयुरित्यादि चोद्यपरिहारवाक्यानामिति - अत्राथेत्येतन्न श्रुतिवाक्यम्, अपि तु ग्रन्थकारवाक्यमिति द्रष्टव्यम् ।

1.3.13

ननु किं तदत्र विद्यत इति प्रश्नप्रतिवचनसमाप्तेः प्रागेव कथमस्य चोद्यस्यावकाश इत्यत आह - किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचनमित्यादिना । द्यावापृथिव्याद्यवस्थानादिति पूर्वेणान्वयः । ततश्च दहराकाशनाशेपि अवतिष्ठमानानां द्यावापृथिव्यादीनां दहराकाशाश्रयत्वं न सम्भवतीति भावः । व्यवहितमपि ब्राहृपुराख्यमिति - नन्वÏस्मश्चेदिदं ब्राहृपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः यदेनज्जरावाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यते' इति हि श्रुतिवाक्यम् नात्र वाक्ये दहराकाशनिर्देशोऽस्ति, अतः कथं दहराकाशापेक्षया ब्राहृपुरशब्दितशरीरस्य व्यवहितत्वमभ्युपगम्याक्षेपसमाधानयोः प्रवृत्तिरितिचेत् अÏस्मश्चेदिदं समाहितमिति सर्वशब्देन दहराकाशस्यापि क्रोडीकारसम्भवात् । नच दहराकाशस्यापि सर्वशब्देन परामर्शे सर्वशब्देन भोग्यभोगोपकरणादि प्रति-पाद्यत इत्युत्तरग्रन्थविरोधः । तस्य दहराकाशोपलक्षणत्वेनादोषात्; अत आकाशशब्दस्य ब्राहृपुरापेक्षया अव्यवहितत्वमस्तीति ग्रन्थकृदाशयः । यद्वा "अÏस्मश्चेदिदं ब्राहृपुरे' इति सन्निहितब्राहृपुरशब्दस्य तत्स्थदहराकाशलक्षकत्वमभिप्रत्यैतदुक्तमिति द्रष्टव्यम् । नचास्मिन् पक्षे अव्यवहितब्राहृपुरशब्देन शरीरस्याप्रकृततया न प्रकृतं शरीरमित्यभिप्रायः इत्युत्तरग्रन्थविरोध इति वाच्यम्; लक्ष्यो-पस्थितिद्वारतया मुख्यार्थस्यापि प्रकृतत्वादिति भावः । सत्यत्वस्य वक्ष्यमाणत्वादिति । यद्यपि सत्यत्वस्य वक्ष्यमाणत्वं न प्राक्तन-माक्षेपं प्रतिबध्नाति, तथाप्यभ्युच्चयोक्तितयोपन्यस्तमिति द्रष्टव्यम् । ननु सर्वशब्दसङ्कोचेनेति - "यथा सर्वेभ्यः कामेभ्यो ज्योतिष्टो-मस्सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ' इत्यत्र सर्वत्वमाधिकारिकमिति र्थवादाधिकरणसूत्रोक्तन्यायेन सर्वेभ्यः कामेभ्य इत्यस्य वेदप्रति-पाद्यप्रकृतपशुपुत्रवृष्टयन्नपानादिपरत्वमेव, न त्वप्रकृताकाशगाम्यमरकन्यालाभादिपरत्वमपि सर्वनाम्ना प्रकृतिपरामर्शित्वस्वारस्यात्; तथात्रापि सर्वकामशब्दस्य "स यदि पितृलोककामो भवती'त्यादिना वर्णयिष्यमाणपितृमातृगन्धमाल्यनृत्तगीतवनितादिपरामर्शित्व-मेवोचितम्, नतु सर्वविधभोग्यतापरत्वम्, कामशब्दस्य भोग्यतापरत्वे अस्वारस्यादिति शङ्काभिप्रायः । प्रथमश्रुतेति । नच प्रथम-श्रुतस्य सङ्कोचप्रसङ्गेन चरमश्रुतकामशब्दस्यामुख्यार्थपरिग्रहे सर्वे ब्रााहृणास्समागता इत्यत्र प्रथमश्रुतसर्वशब्दासङ्कोचाय ब्रााहृणश-ब्दस्य शूद्रपरत्वमपि स्यादिति वाच्यम्; ब्रााहृणशब्दवत्कामशब्दस्य जीवभोग्यगन्धमाल्यादिमात्रे रूढत्वाभावात् इयांस्तु विशेषः, यज्जीवभोग्यगन्धमाल्यादिषु कामशब्दस्यात्यन्तप्रसिद्धिः भोग्यतां तु प्रसिद्धिमात्रं नात्यन्तप्रसिद्धिरिति; अतो न कश्चिद्दोषः । वक्ष्य-माणत्वानुगुणत्वाच्चेति । सर्वेषु लोकेषु कामचारोभवतीत्युपासनफलस्य यन्निरतिशयत्वं वक्ष्यति तस्यानुगुणत्वाच्चेत्यर्थः ।

1.3.13

अर्थसिद्धमाकारमाहेति । ननु "एतत्सत्यं ब्राहृपुर'मितिवाक्यश्रवणात्प्रागेव नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते' इत्येतावन्मा-त्रश्रवणात्परमकारणतयातिसूक्ष्मत्वं कथमर्थसिद्धं स्यादिति चेत् अत्र केचित्-भाष्ये एतत्सत्यं ब्राहृेत्यन्तस्य श्रुतिवाक्यस्य निर्विका-रत्वमुक्तवेत्यन्तेन भाष्येण व्याख्यानम्, तत एवेत्युत्तरसन्दर्भेण तु श्रुतिवाक्यस्थपुरशब्दस्यैव व्याख्यानम्, एवञ्च ब्राहृशब्देन तल्ल-क्षणीभूतजगज्जन्मादिहेतुत्वस्य सूचनसम्भवात्, सत्यशब्देन निर्विकारत्वस्य कण्ठोक्तत्वाच्च नानुपपत्तिः । इतरथा "नास्य जरयै-तज्जीर्यति न वदेनास्य हन्यते' इत्यनेनैव निर्विकारत्वसिद्धौ पुनरप्येतत्सत्यमिति सत्यशब्देन निर्विकारत्वप्रतिपादनं विफलमेव स्यात् । किच अत एवेतिभाष्ये निर्विकारत्वस्यैव सत्यशब्दार्थीभूतान्निर्विकारहेतुत्वेन परामर्शात्साध्याविशेषश्च दुर्वारः । न च सत्यशब्दस्य निर्विकारत्वबलप्राप्तसततैकरूपत्वमर्थः, अतो न सत्यशब्दवैफल्यम् नवा साध्याविशेष इति शङ्कयम् श्रुतिवाक्यस्थसत्यशब्दस्य निर्विकारत्वमर्थ इति भाव इत्युत्तरग्रन्थविरोधात्; तस्मादुक्तैव सरणिरनुसरणीयेति वदन्ति । सत्यशब्दसामानाधिकरण्यादिति । ततश्च यदिदं ब्राहृपुरमित्याद्यभ्यतब्राहृपुरशब्दार्थवैरूप्यमपि सोढव्यमिति भावः । अस्मिन् कामा इति तु प्रथमचोद्यप्रतिवचनमिति । अत्र केचित्-"यच्चास्येहास्ति यच्च नास्ति' इत्येव किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचनम् तदेवाÏस्मश्चेदिदं ब्राहृपुरे सर्वं समाहितं सर्वाणि भूतानि सर्वे च कामा इत्यनुभाषणवाक्ये कामशब्देनानूद्यते, तदेव च "एतत्सत्यं ब्राहृपुरम् अस्मिन् कामास्समाहिताः य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्, त इमे सत्याः कामाः' इति कामशब्देनापि परामृश्यते, कामशब्दानां प्रत्यभिज्ञाय-मानत्वाच्च अपहतपाप्मत्वादीनामन्यविशेषणतया प्रतीयमानानामेतांश्च सत्यान् कामानित्येतच्छब्देन परामर्शस्य क्लिष्टत्वाच्चेति तद-युक्तम्; कामशब्दप्रत्यभिज्ञामात्रेणैक्याभ्युपगमे ब्राहृपूरशब्दप्रत्यभिज्ञाबलेन अथ यदिदमस्मिन् ब्राहृपुरे एतत्सत्यं ब्राहृपुरमित्यनयो-रप्यैक्यापत्त्या सारूप्यमात्रस्याप्रयोजकत्वात् अन्यविशेषणतया प्रतीतानामपहतपाप्मत्वादीनामेतांश्च सत्यान् कामानिति एतच्छब्देन परामर्शो न सम्भवतीत्यप्ययुक्तम् अस्मिन् कामास्समाहिता इति प्राधान्येन निर्दिष्टानामेव एतांश्च सत्यान् कामानिति परामर्शसम्भवात् नच अस्मिन् कामास्समाहिता इत्यत्रापि सर्वे च कामा इत्यनुभाषणवाक्यप्रत्यभिज्ञानात् द्यावापृथिव्यादय एवोच्यन्ते, न त्वपहत-पाप्मत्वादय इति शङ्कयम् तथात्वे अपहतपाप्मेत्यादिसन्दर्भस्य वैयथ्र्यप्रसङ्गात्, तत्र हि अपहतपाप्मत्वादिमत्त्वात् कामसमाधाना-धारत्वं सम्भवतीत्युक्तिभङ्गया अपहतपाप्मत्वादिषु कामशब्दार्थसमर्पणपरत्व एव सार्थक्यम् इतरथा स्वरूपनिर्देशमात्रस्यानति-प्रयोजनत्वादिति न कश्चिद्दोषः । अव्यवयहितैतत्सत्यमिति । अत्र एतत्सत्यं ब्राहृपुरमित्येतावतोऽप्यनुकरणशब्दतया सुब्लोपाभावः । अवयवशक्तयेत्यर्थ इतिभाष्ये अवयवशक्तया निर्दिश्येत्येवं शेषः पूरणीय इति भावः । सत्यसभ्कल्पशब्देन्यपि सिद्धत्वादिति । न च कामस्सङ्कल्पो विचिकित्सा इत्यादाविव कामसङ्कल्पयोर्भेद निर्देशस्य सार्थक्यमिति वाच्यम्; तथापि फलत एकत्वेनानतिप्रयोज-नत्वात् । कतिपयगुणान्तराणां पृथगुक्तत्वादिति । यद्यपि पृथगुक्तेष्वेव गणेषु निर्विशेष ब्राहृवादनिराकरणाय सत्यत्वं प्रतिपाद्यत

1.3.13

इति वैयथ्र्यम् अथापि मार्गान्तरस्य मार्गानतरादूषकत्वादित्यत्र तात्पर्यम् । नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति - सत्य-शब्दस्य नित्यत्वमित्यर्थः, कामशब्दस्य कामनाविषयीभूतभोग्यभोगोपकरणादिकमर्थ इति भावः । ननु प्रजापतिवाक्यगतसत्य-कामशब्दस्यापि नित्यविभूतिमत्त्वमथस्र्यादिति चेत् इष्टापत्तेः, मुक्तस्याप्यप्राकृतविग्रहादिमत्त्वेन तत्स्वामित्वसम्भवात् प्रथमस्य यथाशब्दस्येति - अयमिहान्वयक्रमः, - इह प्रजा यं यमन्तं जनपदं क्षेत्रभागमभिकामा भवन्ति तं तं यथा राजशासनं राजशा-सनानुसारेण, यथान्वाविशन्ति लभन्ते, तथा तं तमेवोपजीवन्ति भुञ्जत इति, यथा राजसेवाफलस्य राजशासनानुर्वर्त्तित्वम् एवं तत्फलभोमस्यापीत्युक्तं भवति । राजशासनं यथेति - यद्यपि यथानुशासनमित्यत्र यथाशब्दस्य पदार्थानतिवृत्त्यर्थकतया तस्य च नित्यसमासत्वेन स्वपदविग्रहो न भवति । तथाशब्दप्रतिनिर्देशापेक्षापि नास्ति, नहि यथाविधि करोतीत्यादौ तथाशब्दाकाङ्क्षास्ति, अथापि सादृश्यार्थकयथाशब्दमादाय फलतस्समासार्थकथनम् अत एव तथाशब्दप्रयोगोपपत्तिश्चेति द्रष्टव्यम् । श्रुतिगतत्वभ्राÏन्त व्युदस्यति - भाष्य इति । नतु सत्यकामपदोक्तकामपर इति । नित्यविभूतिपरो न भवतीत्यर्थः । प्रकृतगुणविषयतयेति - अस्मिन् कामास्समाहिता इति प्रकृतसर्वगुणविषयतयेत्यर्थः । शङ्कते - सत्यशब्दविशेषितत्वमिति । ततः पूर्वमिति - सत्यशब्दात्पूर्वमित्यर्थः ।

1.3.14

सत्यशब्दविशेषितत्वाच्चेति - नचैवमक्षिपतस्तदपि विप्रतिपन्नमिति वाच्यम्; अपहतपाप्मत्वादीनामपि अनृतापिधानत्वप्रतिपा-दनस्यावश्यकतया तन्मात्रसङ्कोचे प्रमाणाभावादिति भावः । एकरूपतया अवश्याभ्युपगन्तव्यत्वादिति । ततश्च क्लिष्टनिर्वाह आनयणीय इति भावः । तस्मिन् यदन्तरितिवाक्ये क्लिष्टनिर्वाहमनभ्युपगच्छतः कोऽभिप्रायः ? किं य इहात्मानमित्युपसंहारवाक्ये गुणगुण्युपासनयोद्र्वयोरप्यनुवादः, उत विशिष्टविधानमाश्रित्य द्वयोरपि विधानम्, उत गुण्यंशे फलसम्बन्धविशिष्टोपासनविधिः, गुणांशे तु फलसम्बन्धमात्र विधिः ? इति त्रेधा विकल्पं ह्मदि निधाय क्रमेण दूषयति - न ह्रप्राप्तं गुण्युपासनमित्यादिना । भाष्ये स त आगम्येति श्रुत्युपन्यासात्सौत्रगतिशब्देन निर्गमनमपि विवक्षितमिति भाष्यकृतोऽभिसन्धिरिति मत्वा निर्गमनशब्दार्थमाह - निर्गमनं पृथक्स्थित्यर्हतापत्तिरिति । शब्दस्यान्यत्र प्रसिद्धिमिति - गतिशब्दाभ्यामित्यत्र गतेरन्यत्र प्रसिद्धिमुपपाद्य शब्दस्य

1.3.14

प्रसिद्धिमुपपादयतीत्यर्थः । निधिदृष्टान्तसचिवमिति भाव इति । ततश्च ह्मदयपुण्डरीकावच्छिन्नभूताकाशे सुषुप्तौ अहरहगर्मन-सम्भवात्, हाहरहर्गमनं परमात्मत्वसाधकमिति न शङ्कयम् निध्युपमालब्धपरमपुरुषार्थत्वविशिष्टगन्तव्यत्वस्य ह्मदयपुण्डरीका-वच्छिन्नभूताकाशे अभावादिति भावः । स्थपतिर्निषादस्यात् शब्दसामथ्र्यादिति सूत्रपाठः । सम्बन्धविशि#ेष्टोऽभिधेय इति । प्रति-पिपादयिषित इत्यर्थः । तत्र षष्ठया अश्रवणादिति । तत्र षष्ठीसमासपक्ष इत्यर्थः । तदनादृत्यैवं व्याख्यातमिति । न च चतुर्मुख-लोकपरतया प्रसिद्धे ब्राहृलोकशब्दे नरपतिराजकुमारादिशब्देष्विव निषादस्थपतिन्यायानवतारात् तद्य्वावृत्तिसिध्द्यर्थं पररीतिरेवा-श्रयणीयेतिवाच्यम्; "एष ब्राहृलोकस्सम्राट्' इतिब्राहृलोकशब्दस्य ब्राहृण्यपि प्रसिद्धतया तन्न्यायानवतारशङ्कानुदयात् । दृष्टान्त

1.3.15

एवोपरिशब्दान्वय इति । सुषुप्तिविषयमनं हि पृथक्प्रतिपत्तिव्यवहाराननुगुणतयाऽवस्थितिर्भेदप्रहाणरूपा, अतस्तत्र दाष्र्टान्तिके अहरहरुपरि गच्छन्त्य इत्युपरिशब्दानन्वय इति भावः । नन्वन्तर्यामिरूपब्राहृण्येवास्थितिः, न दहराकाशरूपब्राहृणि ततश्च कथं दहराकाशस्य उपरीति भाष्यमित्यत आह - धम्र्यैक्याभिप्रायेणैवमुक्तमिति । सत्यशब्दनिर्वचनावगतमिति । तस्य ह वा एतस्य ब्राहृणो नाम सत्यमिति । तानि हवा एतानि त्रीण्यक्षराणि सत्यमिति । अथ यत् सत् तदमृतम् अथ यत्ति तन्मत्त्र्यम् अथ यद्यं तेनोभे यच्छति' इति निर्वचनावगतमित्यर्थः ।। भूताकाशान्यत्वे तात्पर्यमिति - जीवपूवर्पक्षस्याप्यद्याप्यनिरस्तत्वादिति भावः ।।

1.3.17

पूर्वोक्तहेतूनामिति - बाह्राकाशोपमानोपमेयभावादीनां च चतुस्सूत्रीप्रतिपादितानामित्यर्थः । उपक्रमत इत्यनेनेति - दहराकाशस्य प्रत्यगात्मतत्त्वमाशङ्कय निराकर्तुमुपक्रमत इति दहराविच्छेदप्रतीतेर्नाधिकरणान्तरमिति सूचितमिति भावः, नतूपक्रमत इत्येतावतैव तत्सूचनं तावन्मात्रेण तथा अप्रतीतेरिति द्रष्टव्यम् । यद्यपि विरोचनोपीति - इत्थं हि समाम्नायते- "य आत्मा अपहतपाप्मा विरजो विमृत्युविर्शोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः सर्वान् लोकानाप्नोति स सर्वांश्च कामान्

1.3.18

यस्तमात्मानमनुविद्या विजानातीति ह प्रजापतिरुवाच । तद्धोभये देवा अनुबुबुधिरे कर्णाकर्णिकया श्रुतवन्त इत्यर्थः । "ते होचुः । हन्त तमात्मानमन्विच्छामो यमात्मानमन्विप्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति । इन्द्रो ह वै देवानामभि प्रववाज विरो-चनोऽसुराणाम् । तौ हासंविदामावेव' असंविदानौ-परस्परेष्र्यया स्वाभिप्रायमप्रकाशयन्तावित्यर्थः । समित्पाणी प्रजापतिसकाश-माजग्मतुः । तौ ह द्वातिं्रशतं वर्षाणि ब्राहृचर्यमूषतुः । तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति' अवास्तम्-उषितवन्तावित्यर्थः । "तौ हो चतुर्य आत्माऽपहतपाप्मा विरजो विमृत्युर्वि#ोको विजिघत्सोऽपिपासम्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञा-सितव्यस्सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वाचो वेदयन्ते तमिच्छन्ताववास्तमिति । तौ ह प्रजापतिरुवाच । य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्राहृेति' एवं प्रत्यगात्मनि प्रजापतिना उपदिष्टे छायापुरुष आत्मेत्युपदिष्ट इति भ्रान्त्वा स्वगृहीतच्छायापुरुषात्मत्वद्रढीकरणाय जलादर्शादिप्रतिबिम्बोपि अक्षिप्रतिबिम्बाभिन्न आत्मैव, उत तद्भिन्नोऽनात्मेत्यभिप्रायेण "अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्थे कतव एष इति पप्रच्छतुः । एवं ताभ्यां पृष्टस्तयोभ्र्रान्तिमनिराकुर्वन्नेव "एष उ एव सर्वेष्वन्तेषु परिख्यायत इति होवाच । यश्चक्षुषि दृश्यत्वेन मयोक्तस्स सर्वान्तरो जलादिष्वपि न भिद्यत इत्युत्तरं ददावित्यर्थः । शिष्यभ्रान्तिमनिराकृत्य तद्भ्रान्तिद्रढीकरणायेत्थमुत्तरं ददत आचार्यस्यायमभिप्रायः, सुरासुरेन्द्रा-विरोचनौ स्वात्मन्यध्यारोपितपाण्डित्यमहत्त्वातिशयौ तथैव जगति प्रसिद्धौ च, तद्यदि युवां भ्रान्ताविति ब्राूयात् तदा चित्तावसादात्पुनः प्रश्नग्रहणधारणेषु भग्नोत्साहौ स्याताम् अतो यथाश्रुतप्रश्नमात्रस्योत्तरमिदानीं वक्तव्यम् । अनेन चोत्तरेण पूर्वोत्पन्नः प्रतिबिम्बात्मभ्रमो द्रढीभवति चेत् भवतु, द्रढीभूतोपि केनचिदुपायेनापनेष्यत इति । प्रथमः खण्डः । अत एव तद्भ्रमापनयनार्थमाह-"उदशरावे आत्मान-मवेक्षाञ्जक्राते, तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुस्सर्वमेवेदभावां भगव आत्मानं पश्यावः, आलोगभ्य आनखेभ्यः प्रतिरूपमिति । एवं द्वातिं्रशद्वर्षब्राहृचर्यदीर्घीभूतनखलामादियुक्तच्छायापुरुषदर्शनानन्तरं तौ ह प्रजापतिरुवाच । साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुर्यथैवेदमानां भगवस्साद्वलङ्कृतौ सुवसनौ

1.3.18

परिष्कृतौ स्थ एवमेवेमौ भगवस्साध्वलङ्कृतौ सुवसनौ परिष्कृताविति । अत्रैवं नियुञ्जानस्य प्रजापतेरयमभिसन्धिः, आगमापायि-केशनस्वालङ्करादिदोषगुणयुक्ताव्यवस्थितदेहानुकारिदोषगुणवत्त्वात् देहवत्तत्प्रतिबिम्बोऽप्यनात्मेति जानीतामिति । एवं सत्यपि तावनिसृत्तभ्रमौ किं पश्यथ इति प्रजापतिना पृष्टावपि यथादृष्टं कथयित्वा तूष्णीं बभूवतुः, ततः प्रजापतिभ्र्रान्तिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिम्बदर्शनस्याभिप्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः, प्रत्यक्षञ्च युवां भ्रान्ताविति वक्तुमर्हौ न भवतः, तदिदानी-मेतदीयह्मदयानुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय एष आत्मेत्युपदेशेनैतयोराकाङ्क्षां निवर्तयिष्यामि, कालेन कल्मषे प्रक्षीणे मद्वचनसन्दर्भस्य सर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समीपमागमिष्यत इति मत्वा एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रामेति । तौ ह शान्तह्मदयौ-निवृत्ताकाङ्क्षावित्यर्थः । तौ हान्वीक्ष्य प्रजापतिरुवाच एवं प्रतिनिवृत्तयोः प्रजापतिभ्र्रान्तिगृहीतार्थश्रद्धया इमौ विनष्टौ माभूताम् इदमपि मम वचनं य आत्मेतिवचनवत्कर्णाकर्णिकया #ृणुतामित्यभिप्रेत्योवाचेत्यर्थः । अनुपक्षभ्यात्मानमननुविद्य व्रजतः यतर एतदुपनिषदो भविष्यन्ति । यतरे-य इत्यर्थः । देवा वा असुरा वा ते पराभविष्यन्तीति, स ह शान्तह्मदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाच । विरोचनः प्राजापत्यस्य द्विवि-धदेहच्छायादर्शननियोगस्य देहानुकारित्वाच्छायाया देह आत्मेति सूचने तात्पर्यम् अलङ्कृतदेहच्छायां निर्दिश्य एष आत्मेत्युपदेशस्य नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमितिवचनस्य छायानिमित्ते बिम्बे वाससीव अलङ्कृते देहे तात्पर्यमिति मन्वानो दहे एवात्मालङ्कारादिभिः परिचरणीय इति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपदेष्टुमुपचक्रम इत्यर्थः । आत्मैवेह महीयः, पूज्य इत्यर्थः । आत्मा परिचर्यः, आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं च तस्मादप्यद्येहाददानमश्रद्दधानमयज-मानमाहुरसुरोबतेति । यागदानादिकर्मशून्यमद्यापि शिष्ठा असुर इति प्राहुरित्यर्थः । असुराणां ह्रेषोपनिषत् प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेण संस्कुर्वन्ति । भिक्षया-भिक्षित्वापीत्यर्थः । एतेन ह्रमुं लोकं जेष्यन्तो मन्यन्ते । एतेन-शरीरालङ्कारेणेत्यर्थः । अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श । यथैव खल्वयमस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमन्धेऽन्धो भवति रुाामे रुाामः परिवृक्णे परिवृक्णः, यस्य चक्षुर्नासिका वा सदा रुावति स रुाामः । छिन्नाङ्गः परिवृक्णः । अस्यैव शरीरस्य नाशमन्येष नश्यति नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् शान्तह्मदयः प्राव्राजीस्सार्धं विरोचनेन किमिच्छन् पुनरागम इति । आगतवानसीत्यर्थः । यथैव खल्वयं भगवो अÏस्मच्छरीरे साध्वलङ्कृते साध्व-लङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृतः एवमेवायमस्मिन्नन्धेऽन्धो भवति रुाामे रुाामः परिवृक्णे परिवृक्णोऽस्यैव नाश-मन्यैष नश्यति नाहमत्र भोग्यं पश्यामीति एवमेवैष भगवन्निति होवाच । एतत्त्वेव ते भूयाऽनु व्याख्यास्यामि वसापराणि द्वातिं्रशतं वर्षाणि स हापराणि द्वातिं्रशतं वर्षाण्युवास तस्मै होवाच य एष स्वप्ने महीयानन्तश्चरति एष आत्मेति होवाचैतदमृतमेतदभयमेतद्ब्राहृेति स ह शान्तह्मदयः प्रवव्राज स हा प्राप्यैव देवानेतद्भयं ददर्श, तद्यद्यपीदं शरीरमन्धं भवति अनन्धस्य भवति यदि रुााममरुाामो नैवै-षोऽस्य दोषेण दूष्यति न वधेनास्य हन्यते नास्य रुाामेण रुाामो नन्ति त्वेवैनं विच्छादयन्ति वा अप्रियवेत्तेव भवित्यपि रोदितीव नाहमत्र भोग्यं पश्यामिति स समित्पाणिः पुनरेयाय, तं ह प्रजापतिरुवाच भगवन् शान्तह्मदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच तद्यद्यपीदं भगवन् शरीरमन्धं भवतीत्यनन्धस्स भवति अपि रोदितीव नाहमत्र भोग्यं पश्यामीति एवमैवैष मधवन्निति होवाच एतं त्वेव ते भूयोऽनु व्याख्यास्यामि वसापराणि द्वातिं्रशतं वर्षाण्युवास तस्मै होवाच । तद्यत्रैतत्सुप्तस्समस्तसम्प्रसन्नस्स्वप्नं विजानाति

1.3.18

एष आत्मेति होवाचैतदमृतमभयमेतद्ब्राहृेति स ह शान्तह्मदयः प्रवव्राज सहाप्राप्यैव देवानेतद्भयं ददर्श, नाहं खल्वयं भगवस्सम्प्रत्या-त्मानं जानात्ययमहमस्मीति नो एवेमानिभूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तह्मदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच नाहं खल्वयं भगवस्सम्प्रत्यात्मानं जानामि नाहमत्र भोग्यं पश्यामीति एवमेवैष मघवन्निति होवाच एतं त्वेव ते भूयो नु व्याख्यास्यामि नो एवान्यत्रेतस्माद्वसात्रापराणि पञ्च-वर्षाणीति स हापराणि पञ्चवर्षाण्युवास तान्येकशतं सम्पेतुरेतत्तद्यदाहुरेकशतं वै वर्षाणि मघवान् प्रजापतौ ब्राहृचर्यमुवास तस्मै होवाच पुनरपि द्वातिं्रशतं वर्षाण्युषितवते मघवते स्थूलशरीरदोषाननुविधायिनं स्वपनावस्थं जीवात्मानमुपदिदेश । इन्द्रस्तत्रापि हन्यमान-त्वद्राव्यमाणत्वबन्धुजननमरणाद्यप्रियद्रष्टृत्वरोदितृत्वादिप्रतिभासेन दोषं पश्यन्नुक्तार्थानुपपत्तिमनुसन्दधानः प्रजापतिं पुनरुपससाद । प्रजापत्तिः पूर्ववदुक्तवा तथैव द्वातिं्रशतं वर्षाणि उषितवते तस्मै स्वाप्नवधादिप्रतिभासप्रयुक्तभयशोकादिरहितं सुषुप्तावस्थं जीवात्मान-मुपदिदेश । इन्द्रस्तस्मिन् विशेषविज्ञानरहिते विनष्टप्रायत्वेनापुरुषार्थतां मन्यमानः प्रागुक्तानुपपत्त्यनुसन्धानेन पुनरपि प्रजापतिमु-पससाद । प्रजापतिरेतं त्वेव ते भूयो नु व्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्चवर्षाणीत्युक्तवा तावत्कालमुषितब्राते एक-शतवर्षप्रहृचर्यवासेन सम्यक्प्रक्षीणकल्मषायेन्द्रायोपदेष्टुमुपचक्रम इत्यर्थः । "मघवन्मत्त्र्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्या-शरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा ब सन्तं न प्रियाप्रियो स्पृशतः अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुश्शरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति स उत्तमः पुरुषस्स तत्र पर्येति जक्षन् क्रीडन् रममाणः, स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवमेवायमस्मिञ्छरीरे प्राणो युक्तः । अथ यत्रैतदाकाशमनुविषण्णं चक्षुस्स चाक्षुषः पुरुषो दर्शनाय चक्षुः । अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् अथ यो वेदेदं #ृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दिव्यं चक्षुस्स वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्राहृलोके । तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च लोका आत्तास्सर्वे च कामास्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच' । छायापुरुष उपदिष्ट इति मत्वा पुनःपप्रच्छतुः । योयं भगव इत्यादिनेतिपाठः । यो यं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येतावतः प्रश्नत्वादिति द्रष्टव्यम् । सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते इति होवाचेत्यस्य प्रतिवचनरूपत्वात् । केचित्तु योयं भगवोऽप्सु परिख्यायते एष उ- एष एवेत्यर्थ इति पाठः । एष उ एव सर्वेन्वन्तेषु परिख्यायते यश्चायमादर्शे कतम एष इति एष उ एव सर्वेष्वन्तेषु परिख्यायत इत्येतावान् प्रश्नः इति होवाचेत्येतदुत्तरस्योदशरावब्रााहृणस्य शेषभूतः । तत्र च योयं भगवोप्षु परिख्यायते यश्चायमादर्शे य एष उ एव सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते कतम एष इति प्रश्नः । प्रश्नमध्यगत इतिशब्दः प्रन्नान्ते निवेशनीय इत्यादि वदन्ति । चाक्षुषदेहस्येति - चक्षुषि दृश्यमानस्य छायापुरुषस्येत्यर्थः । तत्क्रमस्यैव दृढावस्थितत्वेन तस्यैवापनेयत्वादिति द्रष्टव्यम् । अनात्मत्वमिति - इदमुप-लक्षणम् । अमृताभयशब्दाद्युक्तभोग्यत्वाद्यभावोपि द्रष्टव्यः, अत एव ह्रुत्तरत्र नाहमत्र भोग्यं पश्यामीत्युक्तिरिति द्रष्टव्यम् । अन्वयव्यतिरेकाभ्याञ्चेति - देहगुणदोषान्वयव्यतिरेकानुविधानादित्यर्थः । यथा वसनाभरणादिरिति - वसनाभरणादिर्हि उपा-दानद्रव्यगुणदोषानुविधायी नात्मा, तथा देहगुणदोषान्वयव्यतिरेकानुविधायिगुणदोषतया छायापुरुषो नात्मेत्यर्थः । देहो नात्मेत्यत्र देहशब्दः छायापुरुषपरः, एवमुत्तरत्रापि देहस्यामृतत्वाभयेत्यत्रापि देहशब्दश्छायापुरुषपरो द्रष्टव्यः । व्यतिरेको दुर्दश इति - एतच्छ-

1.3.18

रीरगुणदोषान्वयव्यतिरेकानुविधायित्वव्यतिरेको दुर्दर्शन इत्यर्थः । स्वप्नावस्थे तु तद्य्वतिरेकस्सुदर्शनः, अत एव यद्यपीदं शरीरमन्धं भवति अनन्धस्य भवतीति स्वप्नावस्थमधिकृत्येन्द्रवाक्यमिति ध्येयम् । तदभिप्रायानभिज्ञ इति - परिशुद्धात्मस्वरूपविषयपरम-तात्पर्यानभिज्ञ इत्यर्थः । एवमित्यादिकमुपाददानस्येति - "एष सम्प्रसादः' इत्येतावन्मात्रमनुपादाय एवमेवैष सम्प्रसाद इति सादृ-श्यवाच्येवंशब्दोपक्रमं वाक्यमुपाददानस्येत्यर्थः । दाÐष्टकान्तिकेति - "अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथे-तान्यमुष्मादाकाशत्समुत्थाय परञ्ज्योति रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति दृष्टान्तवाक्यम् । "एवमेवैष सम्प्रसाद' इति दाष्र्टान्तिकवाक्यम् । मुखं व्यादाय स्वपितीति । यथा व्यादानस्य स्वापानन्तरभावित्वेपि मुखं व्यादाय स्वपितीति निर्देशः तथा पञ्च्योतिर्भावरूपोपसम्पत्तेः प्रपञ्चप्रविलापकवृत्तिरूपसाक्षात्काररूपाभिनिष्पत्त्यनन्तरभावित्येपि परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणा-भिनिष्पद्यत इति निर्देश उपपन्न इति भावः । विवेकः किं शरीरकर्मकः, उत आत्मकर्मकः ? इति विकल्प्य दूषयति - शरीरविषय इत्यादिना । सिद्धान्तिनं भ्रान्तस्तटस्थश्चोदयति - शरीरादात्मन उत्थानं विवक्षितं चेदित्यादिना । न तु परेषां चोद्यमिति भ्रमि-तव्यम् । यदा च विवेकसाक्षात्कारश्शरीरात्समुत्थानम्; नतु शरीरापादानकं गमनं तदा तत्सशरीरस्यापि सम्भवतीति वाचस्पतिना शरीरापादानकगमनं सशरीरस्य न सम्भवति, शरीरविवेकरूपं समुत्थानं तु शरीरे वसतोपि सम्भवतीति प्रतिपादनादिति द्रष्टव्यम् । सशरीरस्य तत्सम्भवादिति - सूक्ष्मशरीरयुक्तस्यैव तत्सम्भवादित्यर्थः । मोक्षविषयत्वं न स्यादिति । शरीरात्समुत्थायेत्यंशोपि मुक्तिकालविषय इति भ्रान्तस्येयं शङ्केति द्रष्टव्यम् । ल्यबन्तपदस्येति - मुखं व्यादाय स्वपितीत्यादौ व्यादानानन्तरभाविस्वापमभिप्रेत्य

1.3.18

व्यादाय स्वपितीत्युक्तिरुपपद्यते, प्रकृते तु ब्राहृभावानन्तरं वृत्तिरूपसाक्षात्कारानवकाशात् त्वाप्रत्ययस्सर्वथानुपपन्न इति भावः । परज्योतिर्भावेति - करं कार्यत्वादिति निर्देशवत्साधुत्वं द्रष्टव्यम् । परञ्ज्योतिर्भावे तु न दोष इति बोध्यम् । निर्देशवैयथ्र्यं चेति -अभिनिष्पद्यत इत्यनेनैव भेदप्रविलापस्याप्यनुक्तिसिद्दत्वादिति भावः । इदञ्च भेदप्रविलापकत्वमप्यसभनिष्पद्यत इति शब्दार्थान्त-र्गकमिति पक्षे दूषणम् । सद्वितीयत्वव्युदास इति - अभिनिष्पद्यत इत्येतावन्मात्रे कथिते निवर्तकज्ञानं द्वितीयमस्तीति शङ्का स्यात् सा मा विज्ञायीति निवर्तकज्ञानकृतसद्वितीयत्वमपि परञ्ज्योतिरुपसम्पद्येत्यनेन निरस्यत इत्यर्थः । सकर्मकत्वप्रतीतिस्वारस्येति । परं ज्योतिरुपसम्पद्येति उपसम्पत्तिशब्दस्याकर्मकभवत्यर्थपरत्वमयुक्तमित्यर्थः । कर्मकृतेति - अचेतनानां वाय्वादीनां कर्माभावादिति भावः । स्वकार्यकरणायेति - प्रावृट्काले वर्षायोच्छूनानि भूत्वेत्यर्थः । "अन्यार्थश्च परामर्श' इति सूत्रे एष सम्प्रसाद इत्यादिकं सुषुप्त्यवस्थात्मविषयतया परैव्र्याख्यातम् । तदपि निराकरोति - अस्य वाक्यस्येति । जीवस्वरूपवैलक्षण्याभिप्राय इति - सूत्र-कारेण भेदनिर्देश इति योजना । संसारिणो जीवद्भेदोक्तया यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेपि जीवस्यासंसारित्वं न सिध्येदित्यापतितं भेदं सूत्रकारो न वदतीत्यानन्दगिरिणोक्तमाह - यावद्भेदव्यपदेशेनेत्यादिना । अविद्यानिवृत्ताविति - जीव

1.3.18

वैलक्षण्यप्रतिपत्तिमूलपुरुषार्थत्वप्रतिपत्त्या अपुरुषार्थत्वकल्पकाविद्यानिवृत्तावपुरुषार्थत्वमपि निवर्तते, अतो भेदनिर्देशस्य सार्थ-कत्वमिति भावः । प्राप्यतया पुरुषोत्तमप्रसङ्ग इति - जीवप्रकरणे पुरुषोत्तमप्रतिपादनं प्रासङ्गिकमिति भावः । प्रथमानिर्दिष्टेति । प्रथमानिर्दिष्टपरामर्शे विभक्तयैकरूप्यसद्भावात्, अत एव "प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामाच्र्छत्' इत्यत्र प्रथमान्ततच्छ-ब्दस्य विभक्तयैकरूप्येण प्रजापतिपरामर्शित्वमिति भावः । ब्राहृात्मकत्वपरं स्यादिति । स इत्यस्य तच्छरीरकपरमात्मपरत्वम-स्त्वित्यर्थः । प्रकृताप्रहाणादिति - प्रथमानिर्दिष्टसम्प्रसादप्रहाणादित्यर्थः । वैयधिकरण्येनेति - उत्तमपुरुषपर्यन्तत्वमन्तरेण जीव-मात्रपरामर्श इत्यर्थः । समानाधिकरणमस्त्विति चेदिति । स तत्र पर्येतीत्यत्रापि प्रथमान्ततच्छब्दस्योत्तमपुरुषपर्यन्तत्वमेव, एवञ्च न रीतिभेद इति भावः । नोपजनं स्मरन्नित्यस्येति - स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्यपुरुषार्थत्वस्यैवोपजनशब्दार्थत्वादिति भावः । ननु स्मरणे को दोष इत्यत आह - अनुभूतस्य हीति । आकाशशब्दं प्रकाशकालोकादिपरतया व्याख्याय प्रकाशमान-

1.3.18

रूपपरतया व्याचष्टे - प्रकाशमानं रूपं वेति । पक्षद्वयेपि प्रकाशयतीतिपदमध्याहरन् योजयति - प्रकाशयतीति । ततश्च यत्रोप-करणत्वेनानुविषण्णं चक्षुराकाशस्यालोकं रूपं वा प्रकाशयति, स चाक्षुषः चक्षुरुपकरणकः पुरुष आत्मा, चक्षुरुपकरणकमुद्दि-श्यात्मत्वं विधेयम्, स आत्मा गन्धाय घ्राणमित्याद्युत्तरवाक्यसारूप्यात्, इयं च भङ्गी सम्प्रतिपन्नसर्वप्रकाशकभावालोकप्रकाश-कचक्षुरुपकरणत्वमेवात्मातिशयद्योतनार्था । भाष्ये-ज्ञानिनो जानन्तीत्यभिधायेति । अत्र "तं वा एतं देवा आत्मानमुपासत इति देवशब्दार्थमभिप्रेत्य इत्युक्तम् ।

1.3.20

अनुपास्यजीवविज्ञानेति - परमात्मन एव मोक्षधर्मोपासनकर्मतया जीवोपासनस्य क्वोपयोग इति भावः । एवमुत्तरत्रापि ज्ञान-पदमुपासनपरं द्रष्टव्यम् । ननु तर्हीति - विशेषणतया जीवोपासनविधानादेव जीवस्योपास्यत्वे वक्तव्ये प्राप्यान्तर्भावरूपयुक्तिबला-दुपास्यत्वकथनं किमर्थमित्यर्थः । उच्यत इति - सूत्रकृता तथा प्रतिपादितत्वात् सैव रीतिर्भाष्यकृतानुसृतेति भावः । "आत्मेति तूपगच्छन्तिग्राहयन्ति च' इतिसूत्रस्यायमर्थः, परमात्मनमुपास्यमात्मत्वेनोपगच्छन्ति पूर्वे उपासितारः शास्त्राणि च तथैव ग्राह- यन्तीति । व्यतिरेकस्तद्भावभावित्वादिति - तत्र ह्रात्मेति तूपगच्छन्तीत्यधिकरणसिद्धं जीवोपास्यत्वमङ्गीकृत्य किं कर्तृत्वादि-विशिष्टं सांसारिकं स्वरूपमुपास्यम्, उत तद्य्वतिरेको वा ? इति विशये कर्तृत्वादिविशिष्टमेव रूपमनुसन्धेयम्, शरीरे वर्तमानस्यो-पासितुरात्मनस्तथाभावादित्येके मन्यन्ते इति । "एक आत्मनश्शरीरे भावात्' इति सूत्रेण पूवर्पक्षं कृत्वा सांसारिकरूपव्यतिरेक एवानुसन्धेयः, तथासत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफलप्राप्तेर्भावित्वादि "व्यतिरेकस्तद्भावभावित्वात्' इतिसूत्रेण सिद्धा-न्तितमित्यर्थः । अङ्गिनः फलमेवेति - ननु प्रजापतिविद्यास्तदङ्गत्वे दहरब्राहृविद्याधिकृतायैवोपदेष्टव्या स्यात् उपकोसलविद्याङ्ग-

इति चेत्, तत्र यदुत्तरं वक्तव्यं तत्पूर्वमेवोक्तम् "निचाय्यत्वादेवम्' इत्यनेन । अतो दहराकाशोऽनाघ्रातावि-द्याद्यशेषदोषगन्धस्स्वाभाविकनिरतिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रकृत्यपरिमितोदारगुणसागरः पुरुषोत्तम एव । प्रजापतिवाक्यनिर्द्दिष्टस्तु "घ्नन्ति त्वेवैनं विच्छादयन्ति' इत्येवमादिभिरवगतकर्मनिमित्तदेहपरिग्रहः पश्चात्परञ्ज्योतिरुपसम्पद्याविर्भूतापहतपाप्मत्वादिगुणस्वस्वरूप इति न दहराकाशः ।। इतश्चैतदेवम् -

1.3.21ए

भूताग्निविद्यावत् प्रकृते च दहरब्राहृविद्याविधुरायेन्द्रायोपदिश्यमानेयं विद्या न ब्राहृविद्याङ्गं भवितुमर्हतीति चेन्न, प्रजापतिवाक्यस्य "एष सम्प्रसादः' इति दहरविद्यावाक्यान्तगर्तसम्प्रसदशब्दार्थशोधनार्थं प्रवृत्ततया तदेकवाक्यत्वेन तादथ्र्ये सिद्धे इन्द्रस्यापि दहरविद्या पश्चादुपदिष्टेत्येवावगम्यत इति न कश्चिद्दोषः । दहर उत्तरेभ्य इति सूत्रार्थमभिप्रयन्नाह - आकाशोपमानत्वेत्यादिना-गुणाष्टकेत्य-न्तेन । गतिशब्दाभ्यामितिसूत्रार्थमभिप्रयन्नाह - गतिशब्देति । धृतेश्चेतिसूत्रार्थमभिप्रयन्नाह - विधरणत्वेति । अन्यार्थश्च परामर्श इतिसूत्रार्थमभिप्रयन्नाह - फलविशेषेति । आकाशोपमानादिः फलविशेषान्तो द्वन्द्वः, एतावदर्थपरं यन्महावाक्यं तत्स्वारस्यदर्शना-दित्यर्थः । ननु माभूदर्भकौकस्त्वादित्यतो गतार्थत्वम्, अथाप्युपक्रममात्रस्य महावाक्यस्वारस्यबाध्यत्वं प्राणस्तथानुगमादित्यत्रैव सिद्धमिति तेन गतार्थता स्यादेवेत्याशङ्कयाह - उपसंहारे जीवपरामर्शादिति । ननु यद्युपसंहारे जीवपरामर्शे सत्यपि प्रक्रमस्थस्य महावाक्यस्वारस्येन बाधः, तर्हि प्राणस्तथानुगमादित्यधिकरणपूर्वपक्षो दण्डापूपन्यायहतः स्यादिति चेन्न; प्रक्रमश्रुतजीवमुख्यप्रा-णलिङ्गानां दहरत्वादिवदनन्यथासिद्धतया अनेनापि तस्य गतार्थत्वाभावादिति भावः । अर्भकौकस्त्वादित्यपेक्षया प्रकारान्तरेणा-धिकाशङ्कापरिहारौ सिंहावलोकितकेन दर्शयति - यद्वा इह वाक्यशेषेति । अधिक्यमेव दर्शयति - नहि शाण्डिल्यविद्यायामिति ।

1.3.22

अतथाभूतस्येति - नटस्य राकाद्यनुकारित्ववन्न भवतीत्यर्थः । ननु दहराकाशो जीव इति वदन्तं प्रति दहराकाशो न जीवः, जीवस्य दहराकाशानुकर्तृत्वादित्युक्तिर्न सम्भवति, जीवस्य दहराकर्तृत्वे प्रमाणाभावात् । नच यदा पश्य इति वाक्यात्तदनुकारसिद्धिः, तावता जीवस्य परमात्मानुकर्तृत्वेपि दहराकर्तृत्वसिद्धेः । नहि दहरस्य परमात्मत्वमद्यापि सम्प्रतिपन्नम्; तथात्वे विवादपर्यवसानादिति चेद्भ्रान्तोसि, नह्रन्यस्मिन् सूत्रे जीवस्य दहरानुकर्तृत्वं हेतूक्रियते, येन तदसिद्धिमाशङ्कयेत; अपितु "यदा पश्यः पश्यते रुक्मवर्णम्' इति श्रुतौ जीवस्य परमात्मोपासनायत्ततदनुकारश्रवणान्न नित्याविर्भूतगुणकत्वम्, परस्य तु नित्याविर्भूतगुणकत्वमिति, स एव दहरवाक्ये परामर्शार्ह इति । "उत्तराच्चेदाविर्भूतस्वरूपस्तु' इतिसूत्रार्थ एव स्थिरीक्रियते, अत एव श्रुतप्रकाशिकायाम् "एवमुपक्रमो-पसंहारनिर्वाहः प्रमाणान्तरेण परमात्मत्मनोरपहतपाप्मत्वादीनां स्वाभाविकत्वास्वाभाविकत्वे सिद्धे ह्रुपपद्यते । अन्यथा "अनु-क्तमन्यतो' ग्राह्रम् इति न्यायाद्दहरवाक्येपि मुक्तावस्थस्य गुणाष्टकान्वयो विवक्षितस्यादितिशङ्कायामाहेति' इदं सूत्रमवतारितम् ।।

परैः कृतमधिकरणभेदमिति - "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति मुण्डकवाक्यप्रतिपाद्यो न परमात्मा, सूर्याद्यभिभावकत्वदर्शनात्, सूर्यादितेजसां तदनुभानश्रवणाच्च तेजोविशेष एव, तेज एव हि तेजोन्तरमभिभवतीति दृष्टम् । तथानुभानं च सजातीयस्यैवोपपद्यते; अत एव हि "वराहं गावोऽनुधा-वन्ति' इत्यत्र गवां स्वसदृशसूकरानुधावनं युज्यते, न तु वायसानुधावनमित्युक्तमिति पूर्वपक्षं कृत्वा तमेव भान्तमित्यत्र किमलौकिकं तेजः कल्पयित्वा तदनुभानं सूर्यादीनां परिकल्प्यम्, उत भारूपसत्यसङ्कल्प इति प्रसिद्धब्राहृणो भानेन सूर्यादीनामनुभानं कल्प्यम् ? इति विशये श्रुतिप्रसिद्धग्रहणसम्भवे अप्रसिद्धतेजोन्तरकल्पनाया अयुक्तत्वात् ब्राहृैव प्रतिपाद्यते, अनुकृतिरनुभानम् श्रुतिप्रतीकोपा-दनरूपस्सौत्रषष्ठयन्ततच्छब्दश्च "तस्य भासा सर्वमिदं विभाति' इति श्लोकचतुर्थपादं सूचयति । ततश्च सौत्रतच्छब्दसूचितश्लोकचतुर्थ-

1.3.22

पादप्रतिपाद्य सर्वप्रपञ्चभासकत्वं चैतन्यप्रभया स्वाध्यस्तसमस्तप्रपञ्चभासके परमात्मन्येवोपपद्यत इति स एव प्रतिपाद्यः । "न तत्र सूर्यो भाती'त्यस्य च "न तद्भासयते सूयश्र्शशाङ्को नापि पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम' । इति स्मृत्यनुसारात् न तद्भासयतीत्यर्थ इति परैव्र्याख्यातमिति भावः । अनुशब्दस्य करणमिति - तमेव भान्तमनुभातीति श्रुतावनुशब्दस्योच्चारणादित्यर्थः । अन्यत्सर्वं परमतवदेव बोध्यम् "स्वं रूपं शब्दस्याशब्दसंज्ञा' इति सूत्रस्यायमर्थः,-इह शास्त्रे शब्दस्य स्वमेव रूपं ग्राह्रम्, शब्दसंज्ञां विना । ततश्च "अग्नेर्ढगि'ति विधीयमानो ढक्प्रत्ययोऽग्निशब्दादेव भवति, न पावकशब्दात् शब्दसंज्ञायान्तु संज्ञिनोऽथस्र्य ग्रहणम् न स्वरूपस्य यथासिद्धिवृद्धिरित्यादौ न वृद्धिशब्दस्य ग्रहणम् किन्तु संज्ञिन एवेति । दूषणद्वयं सर्वसाधारणमिति - अधिकरणभेद-वादिकुदृष्टित्रयसाधारणमित्यर्थः । यद्यपि मृषावादिमते चशब्दस्य षष्ठयन्ततच्छब्दसूचितहेत्वन्तरसमुच्चयपरत्वं शक्यते वक्तुम्, तथापि तन्मते सौत्रतच्छब्दस्यान्वयो दुर्घटः । तथा न तत्र सूर्यो भातीत्यत्र नतद्भासयत इत्यर्थपरत्वं च क्लिष्टम् । किञ्च तन्मते देवदत्तं गच्छन्तं यज्ञदत्तोऽनुगच्छतीत्यत्र तु गमनद्वयवदिह चैतन्यभानव्यतिरेकेण प्रपञ्चस्य भानाभावेनानुभातीति श्रुत्यर्थोप्ययुक्तः । तथा तस्य भासेति षष्ठयर्थव्यतिरेकोपि दुर्घटः, तद्य्वतिरेकेण भासोऽभावात् । किञ्च तद्भानसाध्यभानान्तराभावेन तस्य भासा भातीति निर्देशश्चानुपपन्न इत्यादिदूषणं स्पष्टम् । सिद्धान्तितमिति - यादवप्रकाशीयैरिति शेषः शङ्कते । परमाकाश एवेति - दूषयति - एवञ्च सतीति । किन्तु बुद्धिस्थविषयमिति - तेन रक्तं रागात् तस्यापत्यं तद्वति तत्प्रकारत्वमित्यादिवदिति भावः । ।। इति दहराधिकरणम् ।।

1.3.23

भगवत इत्युक्तमिति - भगवतोपि सम्भवतीत्यर्थः । भगवत्यल्पत्वसम्भवमात्रपरत्वात्तस्येति द्रष्टव्यम् । परमात्मव्यतिरिक्तस्य दृश्यत इतीति - जीवस्यैव दृश्यत इत्यर्थः । ततश्चाङ्गुष्ठमात्रत्वरूपपरिमाणविशेषस्य दहरत्ववत्परमात्मन्यसम्भवादङ्गुष्ठप्रमितो जीवो भवत्विति शङ्कया सङ्गतिरिति भावः । भाष्ये-न ततो विजुगुप्सत इति । भूतभव्येशानत्वादेव ईशितव्यविषये हेयेपि जुगुप्सा नास्तीत्यर्थः । स एवाद्य स उ श्वः-सार्वकालिक इत्यर्थः । प्रवृहेदिति पृथक्कुर्यादित्यर्थः । शरीरभूतात्स्वस्माद्विविक्तं जानीयादित्यर्थः । शुक्रम्-भारूपमित्यर्थः । न तु स्थानविशेष इति - स्थानविशेषरूपोपाधिश्रवणे हि महत्यपि परमात्मन्यल्पपरिमाणोक्तिर्युज्यते, स्थानविशेषरूपोपाधिश्रवणाभावेनौपाधिकपरिच्छेदोक्तिरिति वक्तुमशक्यत्वाज्जीव एवेत्युक्तमित्यर्थः । युक्तं परमात्मनः पूर्वाधि-करणोक्तं ह्मत्पुण्डरीकस्थानत्वम्, परमात्मस्थानभेदनिर्देशात्; तद्धि तस्योपलब्धिस्थानम्, सालग्राम इव कमलनाभस्य भगवतः । न चेह तथाङ्गुष्ठमात्राश्रुतौ स्थानभेदो निर्दिष्टः, परिमाणमात्रनिर्देशात् । न च मध्य आत्मनीत्यत्रापि स्थानभेदोऽवगम्यते, आत्मशब्दो ह्रयं स्वभाववचनो वा जीववचनो वा ब्राहृवचनो वा स्यात् तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य प्रभवितुरनिर्देशात् । न ज्ञायते कस्य मध्यमिति न जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः, स्पष्टस्तु परिमाणनिर्देशः, परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्र इति वाचस्पत्युक्तेरिति भावः । न चोपासनमिति । ननु परसिद्धान्ते अस्य वाक्यस्य जीवस्य

1.3.23

परमात्मत्वोपदेशपरत्वेनोपासनविध्यनभ्युपगमेपि पूवर्पक्षे उपासनविधिर्न प्रत्याख्यातः, अत एव पूर्वपक्षोपसंहारे जीवात्मैवोपास्य इति वाचस्पतिनोक्तम्, ईशानोऽस्मीति ध्यानं फलतीत्यानन्दगिरिणाप्युक्तमिति चेत् अत्र केचित्-न चोपासनमितिग्रन्थः पूर्वपक्ष-मित्यनन्तरं केचिदाहुरित्यस्मात्पूर्वं निवेशनीयः, ततश्च जीवत्वं शङ्कयत इति पूर्वपक्षं सिद्धान्ते उपासनं नास्तीति चाहुरित्यर्थ इति वदन्ति । भूतभव्यस्येशान इतिवाक्यमिति - वाक्यार्थीभूतं लिङ्गमित्यर्थः । ततश्चोपसंहारस्थमीशानत्वमुपक्रमस्थमितत्वलिङ्गा-दुर्बलमित्यर्थः । "त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं यावध्द्यÏस्मश्छरीरे प्राणो वसतीत्यादौ वाक्यप्रति-पाद्यजीवमुख्यप्राणलिङ्गवद्भूतभव्येशितृत्वस्यापि लिङ्गत्वादिति द्रष्टव्यम् । नन्वीशानश्रुतिर्न ब्राहृणोऽभिधानश्रुतिः, भूतभव्यस्ये-त्यैश्वर्यप्रतिसम्बन्ध्युपादानेन तस्य भूतभव्येशितृत्वरूपकेवलयौगिकार्थपरत्वात् योगरूढिमतां शब्दानां यौगिकार्थप्रतिसम्बन्ध्यु- पादाने रूढ¬नुन्मेषात्, अत एव "पद्मानि यस्याग्र सरोरुहाणि प्रबोधयत्यूध्वर्मुखैर्मयूखैः' इतिश्लोके सरःप्रतिसम्बन्ध्यग्रोपादानवति सरोरुहशब्दे स्थितेपि पद्मशब्दप्रयोगः, इतरथा पौनरुक्तयप्रसङ्गात्, यौगिकार्थप्रतिसम्बन्ध्युपादानेपि रूढ¬न्मेषाङ्गीकारे "अमृतत्व-स्येशानः' इत्यादावपि रूढ¬ा देवतान्तरप्रसङ्गाच्चेत्याद्यस्वरसादाह - यद्वा पूर्वपक्षीति । ततश्च सम्भवदन्यथासिद्धिकाङ्गुष्ठमात्र-लिङ्गादनन्यथासिद्धं चरमश्रुतमसङ्कुचितसर्वेशानत्वलिङ्गमेव बलीय इति सिद्धान्तो युक्त इत्यर्थः । ननु वर्तमानत्वादिति पञ्चम्यन्त-

1.3.24

पदाध्याहारी#ेन तस्या पेक्षयेत्यन्वयसिध्द्यर्थं षष्ठयन्ततच्छब्दोप्यध्याहार्यः, नचैतद्युक्तमनध्याहारेणोपपत्तेरित्यस्वरसादाह - यद्वेति । को भेदः परमात्मपरिग्रह इति - अत्र केचित्, शब्दादेवेति परमात्मत्वसाधकयुक्तेः ग्रन्थकृतैवोपन्यस्तत्वात्को भेद इति वक्तुम- युक्तम् । किञ्चाङ्गुष्ठमात्रत्वस्वारस्यस्य परमात्मत्वसाधकतया प्रागुपन्यस्तत्वात्, वस्तुतस्तस्य परमात्मत्वासाधकतया साधकत्व-सम्भावनाया अप्यसम्भवाच्च अङ्गुष्ठमात्रत्वस्वारस्याभावे को भेद इति निदेशोऽप्ययुक्तः, अतः पर्वपक्षयुक्तेरन्यथासिद्धिमाहेत्ये-वावतारिका जीवस्यापीतिभाष्यस्य देयेति वदन्ति । भाष्ये-ह्मदयान्तर्वर्तित्वात्तदपेक्षमेवेति । ननु महतः परमात्मना अल्पपरिमा-णोपाधिम्बन्धेन घटाकाशस्येवाल्पपरिमाणत्वनिर्देशोपपत्तावपि अतिसूक्ष्मस्य जीवस्याधिकपरिमाणह्मदयसम्बन्धेन कथमङ्गुष्ठ-मात्रत्वव्यवहारः ? नहि घटान्तस्थस्य वदरफलस्य घटपरिमाणत्वव्यवहारोस्ति, नवा घटान्तरस्थस्य परमाणोराकाशस्येव घट-परिमाणत्वव्यवहारोस्ति, अत एव न पूर्वपक्षहेतुमपि पश्याम इति चेन्न; अत्र मात्रशब्देन "प्रमाणे द्वयस'दित्यादिना मात्रच्प्रत्ययः । अपि तु क्षीरमात्रं पिबेत्यादाविवोत्तरपदत्वनियतं प्रातिपदिकमितरव्यवच्छेदकार्थम्, ततश्चाङ्गुष्ठपरिमाणाधिकपरिमाणव्यवच्छेदे आराग्रमात्रे जीवे सम्भवति, न परमात्मनीति पूर्वपक्षः ह्मदयगुहावच्छिन्ने परमात्मन्यपि सम्भवतीति सिद्धान्त इति भाष्याभिप्रायः । वस्तुमात्रैक्यपरत्व इति - असङ्कुचितसकलभूतभविष्यद्वर्तमानवस्तुनियन्तृत्वप्राप्तसकलान्तरवस्थानलम्धव्यापकभावब्राहृस्वरूप-मात्रपरत्व इत्यर्थः ।।

1.3.25

प्रसङ्गात्सङ्गतिमाहेति - प्रसङ्गादागतां सङ्गतिमाहेत्यर्थः । अर्थित्वाभावस्याप्युपलक्षणमिति - यद्यप्यत एव तासामर्थित्वमपि न सम्भवतीति भाष्य एवोत्तरत्र स्पष्टत्वान्नेह वक्तव्यम्, तथापि बुद्धिसौकर्यायात्र प्रदर्शितमिति ध्येयम् । प्रकाशनस्तुत्योरन्यपर-त्वादिति - प्रकाशनस्तुतिपरत्वादित्यर्थः । देवतैश्वर्यस्यापेक्षित्वादिति - विग्रहहविस्स्वीकरणभुक्तितृप्तिफलप्रदत्वलक्षणैश्वर्यस्या-पेक्षितत्वादित्यर्थः । तत्रैव कल्प इति - यस्मिन् कल्पे यानि कर्माण्यनुष्ठितानि तेषां तत्रैव कल्पे फलभोग इति नियमाभावादित्यर्थः ।

1.3.25

ननु सृष्टिप्रकरणस्य सर्वस्यापि कारणं तु ध्येयः' इतिवाक्यप्रतिपन्नध्येयोपलक्षणकारणत्वप्रपञ्चनात्मकत्वनोपासनविधिशेषतया न स्वार्थे तात्पर्यमित्याशङ्कमानं प्रत्युपासनविधिशेषत्वमङ्युपेत्याप्याह - उपासनदशायामिति । देवादिचतुर्विधभूतग्रामलक्षण-जगत्कारणत्वविशिष्टस्योपास्यतया प्राप्यतया चोपास्यविशेषणतया प्राप्यविशेषणतया च देवताविग्रहादिकं सिध्द्यतीत्यर्थः ।

1.3.25

ननु विध्यपेक्षिततया सिद्धवस्तुनि तात्पर्यसम्भवस्य त्रिष्वधिकरणेषु प्रतिपादनात्पौनरुक्तयमाशङ्कय विध्यपेक्षिततया सिद्धिप्र- कारभेदं दर्शयति - तत्र प्रथमसूत्र इत्यादिना । स्तावकत्वप्रकाशकत्वहेतुतयेति - स्तुत्यनुष्ठेयार्थस्मृतिहेतुतया विग्रहादिसि-द्धिप्रकारश्चोत्तरत्र स्पष्टः । भाष्ये-स्तुत्याद्युपयोगित्वादित्यनेनान्वयमुक्त्वा व्यतिरेकमाह- तेन विना स्तुत्याद्यनुपपत्तेरिति । व्यतिरेकेणोपपादयतीति - इदञ्च गुणानामभावे स्तुतित्वमेव हीयेतेति भाष्यस्य गुणकथनाभावे स्तुतित्वमेव हीयेतेत्यर्थ इति मत्वोक्तमिति द्रष्टव्यम् । शेषभूतस्येति - अर्थवादस्य विधिशेषभूतस्य विध्यपेक्षितप्ररोचनाजनकत्वाभावे शेषत्वमेव हीयेतेत्यर्थः । द्रव्यदेवते हि कर्मनिरूपिकेति । अतश्च "यजामह इन्द्रं वज्रदक्षिणम्' इत्यादिमन्त्रसाध्यदेवताविग्रहप्रकाशनस्य अनेन मन्त्रेण यागं कुर्यादित्येवंरूपेण यागशेषत्वबोधकविधिनापेक्षितत्वाद्धयानविधिनापेक्षितत्वात्तत्र तात्पर्यमस्तीति भाष्याभिप्राय इति भावः । शङ्कते - प्रतीतेरिति । स्वरूपातिरिक्तेति - शब्दस्वरूपातिरिक्तेत्यर्थः । "दध्नष्ठत्' उदश्चिनोऽन्यतरस्याम्' "अग्नेर्ढक्' इत्यादौ

1.3.25

शब्दस्वरूपस्यैव ग्रहणेन व्यभिचारस्यात्, तद्वारणायाह - अपारिभाषिकत्वे सतीति । "स्वं रूपं शब्दस्याशब्दसंज्ञा' इति स्व-रूपग्रहणस्य व्याकरणे परिभाषितत्वादिति भावः । एवमनुमानत्रयेण शब्दस्वरूपातिरिक्तं देवतास्वरूपं साधितम् अथ देवता-विग्रहादेः प्रामाणिकत्वं साधयति - विमता मन्त्रार्तवादा इत्यादिना । आपो वै शान्ता इति - तेजोगतक्रौर्याभावरूपं शान्त- त्वमपां प्रमाणान्तरसिद्धमिति साधकमानगोचरत्वान्न स्वार्थे तात्पर्यमिति भावः । अर्थवादानामविरुद्धस्थलेपि लाक्षणिकत्वं परोक्तं दूषयितुमाह - विमतानीत्यादिना । वाक्यत्वसिद्धमिति - तथाचासिद्धो हेतुरिति भावः । न च प्रवर्तकत्वस्योपाधित्वेन विव-क्षितत्वादिति भावः । साधिकारेति - फलसम्बन्धबोधकेत्यर्थः । तस्यापीति - प्रवर्तकवाक्यस्यापीत्यर्थः । वाशब्दनिबन्धनां

1.3.25

प्ररोचनप्रकाशनयोरेककर्तृकत्वप्रतिभां व्युदस्यति - प्ररोचयन्तीत्यादिना । गुणान् लक्षयित्वा कुर्वन्तीत्येतद्य्वाचष्टे - प्ररोचन- प्रकाशने कुर्वन्तीत्यर्थ इति । ननु प्ररोचनायाः विध्यपेक्षितत्वात्तस्याश्च गुणसत्तामन्तरेणासम्भवात्, तत्रापि तात्पर्यं सिद्धमेवेति प्रागेवोक्तम् । अतश्च ननु विध्यपेक्षितार्थे हीत्यादिशङ्काया एवानवकाशग्रस्ततया कमर्विधेश्चेत्यादिभाष्यग्रन्थो मुधेत्याशङ्कय-प्रकारान्तरेण प्रयोजनमाह- फलमत उपपत्तेरित्यधिकरणार्थ इति । रक्तः पटोभवतीतिवदिति - यद्यपि देवतैश्चर्यस्यापेक्षित-त्वादुत्थिताकाङ्क्षत्वमेव गामनयेत्यादिवद्वक्तुं शक्यम् तथापि उत्थिताकाङ्क्षाया वा उत्थापिताकाङ्क्षाया वा एकवाक्यतयान्वयो-ऽर्थवादानामिति तात्पर्यम् । अस्य स्मरणस्य तन्मूलत्वोपपत्तेरिति - ननु मन्त्रार्थवादविधुरे कर्मणि मन्त्रार्थवादानां देवताप्रीति-द्वारत्वावगमकत्वाभावात् यागमात्रस्य देवताप्रीतिद्वारत्वावगमिकायां शाब्दिकस्मृतौ कथं यागविशेषे देवताप्रीतिद्वारत्वावगमक-मन्त्रार्थवादमूलकत्वम् ननु क्वचित्कर्मणि मन्त्रार्तवादबलाद्देवताप्रीतिद्वारकत्वेऽवगते न्यायतौल्यादन्यत्रापीति तथेति शाब्दिक-स्मृतेर्मन्त्रार्थवादमूलकत्वमिति चेत् हन्तैवं सति भाष्ये स एव न्याय उपन्यस्ताम् किमनेन तन्न्यायोपजीविशाब्दिकस्मृत्युपन्यासेनेति चेत् इतिहासपुराणमन्वादिस्मृतिवत्पाणिनिस्मृतेरपि तत्समानार्थश्रुतिमूलत्वसम्भवादिति भावः । कल्प्यापूर्वपक्षं वाच्यापूर्वपक्षञ्च प्रतिक्षिपति - विमतो विधिप्रत्यय इति । कृतिसाध्येति - कृतिसाध्यां चेतनप्रीतिमवगमयद्यद्वाक्यं तत्स्थविधिप्रत्ययत्वादित्यर्थः। यजिधातोश्चेतनप्रीतिसाधनत्वान्न हेत्वसिद्धिः । ननु "यजि देवपूजायाम्' इतिवद्धोमे तादृशस्मृत्यभावात् जुहुयादित्यादौ भागासि-द्धिरित्याशङ्कय तस्य पक्षत्वमेव नेत्याह - विमतशब्देनेति । यद्यपि साध्यविमतिस्तत्रापि समाना, यागहोमयोरविशेषात्; तथापि यागगतविमतिविशेषः पक्षतावच्छेदकः, तथापि न हेत्वसिद्धिरिति भावः । ननु तर्हि होमादिष्वपूर्वनैरपेक्ष्यं केन सिध्द्येदित्यत्राह - जुहुयादित्यादिष्विति । विध्युद्देशग्रहणमिति - विधिवाक्यग्रहणमित्यर्थः । प्रसङ्गादनुप्रविष्टानामिति - तस्यापि "वध्यं प्रपन्नं प्रति

1.3.25

प्रयच्छन्ति धन्वन्निव प्रपा असि' इत्यादीनामित्यर्थः । सङ्कीणर्शब्देनेति - भाष्यस्थसङ्कीर्णशब्दस्य विप्रकीर्णत्वमर्थ इति भावः । उच्चारणेन विनेति - घट इत्यत्र घटस्योच्चारणानन्तरोच्चारणविषयत्वमेवानुपूर्वीति भावः । उच्चारणयोग्यतास्तीति चेदित्येतद्ग्रन्थात्पूर्वं कदाप्यनुच्चार्यमाणानां मूलत्वासम्भवादिति ग्रन्थोऽपेक्षितः, इतरथा किं वर्णमात्रगता उतानुपूर्वी विशेष विशिष्टवर्णगतेत्याद्युत्तर-विकल्पग्रन्थस्यास्य च न सामञ्जस्य पश्यामः । उच्चारणयोग्यताऽस्तीति चेदिति - ततश्च आनुपूर्वी विनापि उच्चारणयोगतासत्त्वा-न्मूलत्वं सम्भवेदिति भावः । वर्णानामनादीतीति - ततश्चानाद्यानुपूर्वीविशेषोच्चारणयोग्यताकत्वमेव वेदत्वमिति भावः । तच्चै-त्यवन्दनेति - योग्यताया अनादित्वादिति भावः । कर्तृसामान्याभावादिति - वैदिकत्वेन प्रसिद्धैरग्निहोत्रादिभिस्समानकर्तृक-व्यताबोधकस्मृतिसमानकर्तृकत्वाभावादिति यावत् । स्वावगतार्थेति - स्वशब्देन स्मृतिरुच्यते । अर्थविशेषेणाविच्छिन्नेति ।

1.3.25

अग्निहोत्रादिसमानकर्तृकमन्वादिस्मृत्यवगतार्थप्रतिपादनानुगुणानुपूर्वीविशेषविशिष्टानामेव वेदत्वमिति चेदित्यर्थः । मन्वादि-वाक्यस्यापीति - स्मृतिः स्मृत्यर्थानुभवजनकवेदमूलेतिसाधने मन्वादिवाक्यस्य वृद्धमनुवाक्यमूलकत्वेनापि साध्यसिद्धेरर्थान्तरम्, त्वदुक्तरीत्या वृद्धमनुवाक्यस्यापि वेदत्वसम्भवात् अन्ततो गत्वा स्मृतिमात्रस्य वेदत्वेन मूलभूतवेदानुमानासम्भवाच्चेति भावः । प्राचीन एव पक्ष इति - कतिपयदेशेष्वध्येतृत्वविरह इति पक्ष इत्यर्थः । सङ्कीणर्वेदमूलकत्वं युक्तमिति - विप्रकीर्णवेदमूलकत्वं युकक्तमित्यर्थः । इदमर्थसिद्धमिति - "तदस्मै देवा राधन्ताम्' इत्यादिष्वित्यत्र वाक्यादेव विध्यपेक्षितं सर्वमित्यत्र च सिद्धवन्नि-र्देशानुपपत्तिकल्पितविग्रहादिप्रतिपादकश्रुतिवाक्यस्य विप्रकीणत्र्वं प्रक्षान्तरे दोषजातं च विवक्षितमिति भावः । यद्वा इदमिति

1.3.25

वक्ष्यमाणं यदपीत्यादिकं गृह्रत इति द्रष्टव्यम् । न ह्रत्रैवर्णिकानामिति - वैदिककर्ममात्रे "वसन्ते ब्रााहृणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्' इति त्रैवर्णिकमात्राधिकारितया विहितोपनयनाङ्गकाध्ययनगृहीतस्वाध्यायजन्यज्ञानस्यैवाङ्गत्वात् ब्राहृविद्यायाश्च वैदिकत्वात्तदभावे ब्राहृविद्या न सम्भवतीति भावः । अग्निनिष्पत्त्यनुपपत्तेरिति - इदमुपलक्षणम्, अध्ययनगृहीतस्वाध्यायजन्य-ज्ञानाभावादित्यपि द्रष्टव्यम् । अग्निनिष्पत्तिमेवोपपादयति - वसन्ते ब्रााहृण इत्यादिना । अनधिकारोऽधिकरणसिद्ध इति - पूर्व-तन्त्रे षष्ठे-"अत्र्यार्षेयस्य हानं स्यात्' इत्यधिकरणे दर्शपूर्णमासयोः श्रूयते - "आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते न पञ्चातिवृणीते' इति । तत्रार्षेयो नाम स्वकीय ऋषिः, ततश्च यजमानस्य यो गोत्रस्थ ऋषिः तद्विशिष्टतया यो निर्देशः अत्रिवत् अर्चनानसवत् श्यावाश्ववत् भरद्वाजवत् बृहस्पतिवत् अङ्गिरोवदयं यजमानो यजते इत्येवंरूपनिर्देशः स आर्षेयवरणश- ब्दार्थः । तत्र एकमृषिं वृणीते द्वावृषी वृणीते त्रीनृषीन्वृणीत इति वाक्यत्रयेण त्रीणि वरणानि विहितानि, ततश्च वरणत्रयस्याप्यङ्गतया एकार्षेयद्य्वार्षेययोस्त्र्#ार्षेयवरणाभावेपि एकद्य्वार्षेयवरणसम्भवादधिकार इति पूर्वपक्षं कृत्वा अस्मिन् वाक्ये विधित्रयाभ्युपगमे वाक्यभेदप्रसङ्गात् त्रीन्वृणीत इत्येव विधिः,त्रिषु च एकस्य द्वयोरप्यन्तर्भावात् एकं वृणीते द्वौ वृणीते इत्यनुवादः, ततश्च त्र्यार्षेय-वरणमेवाङ्गम् तद्रहितानामार्षेयवरणवत्सु कर्मसु नाधिकार इति स्थितमित्यर्थः । ननु उपनयनाङ्गकाध्ययनजन्यज्ञानाभावेपि देवादी-नामधिकारे शूद्रस्याप्यधिकारस्यादित्याशयमुद्धाट¬ निराकरोति - न चोपानयनविरहादिति । सामथ्र्याभावानुगृहीतेति - अयं भावः, त्रैवर्णिकाधिकारिकोपनयनाङ्गकाध्ययनलब्धविद्यालक्षणसामथ्र्याभावादनधिकार इति पूर्वमीमांसकैरपशूद्राधिकरणे यदुपन्यस्तं तदभ्युच्चयमात्रम्; प्रधानयुक्तिस्तु तस्माच्छूद्रो यज्ञेऽनवकप्त इत्याहत्य यज्ञादिप्रतिषेध एव । तथा हि; वर्णविशेषादिग्रहणमन्तरेणा-विशेषप्रवृत्ता वैदिककर्मविधयः, कर्मानुष्ठानाथर्मनुष्ठेयार्थज्ञानसम्पन्नानधिकारिणोपेक्षमाणास्स्वत एवाध्ययनविधिलब्धानुष्ठेयार्थज्ञानान् द्विजातानासाद्य निवृण्वन्ति, नतु फलकामत्वाविशेषेपि शूद्रस्याधिकारित्वेन सङ्ग्रहार्थमनुष्ठेयार्थज्ञानमाक्षिपतीति हि शूद्रस्यान- धिकारे युक्तिर्वक्तव्या । न सा युज्यते; अध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि विध्यन्तरलब्धार्थज्ञानं त्रैवर्णिकेषु सिद्धमिति युज्यते वक्तुम्, न चैतदस्ति; अध्ययनविधेरक्षरग्रहणमात्रविश्रान्ततया त्रैवर्णिकेष्वर्थज्ञानस्य विध्यन्तरसिद्धत्वाभावेनाक्षेप्यत्वाविशेषाच्छूद्रेष्वपि तदाक्षेपस्सम्भवत्येव अस्तु वायमध्ययनविधिरथज्र्ञानभाव्यः, तथापि शूद्रस्यानिवार्योऽधिकारः । क्रतुविद्याविधिर्हि त्रैवर्णिकानां स्वशाखेतरशाखाविहिताङ्गगुणोपसंहाराय तत्तच्छाखाध्यायिभ्यस्तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि विद्याविधिभिस्तज्ज्ञानसेव शूद्र-स्यापि विद्याविधिभिस्तज्ज्ञानस्याक्षेप्तुं शक्यत्वात् । अध्ययनविधिना ह्रेकस्या एव शाखाया अध्ययनं विधीयते प्रतिव्यक्ति घट- त्वस्येव प्रतिशाखं स्वाध्यायत्वस्यापि परिसमाप्तत्वात् । ननु शूद्रस्य कर्मोपासनानुष्ठानापेक्षितं ज्ञानं कार्त्स्न्#ेनापेक्षिणीयतम् । त्रैवर्णिकानां स्वशास्वेतरशास्वाविहितगुणविषयस्तदेकदेश इति आक्षेपलाघवात् । क्रतुविद्याविधयस्त्रैवर्णिकानेवाधिकुर्युः, न शूद्रमिति चेत् एवं तर्हि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानं भूयस्त्वेनोभयश्रुतीतिन्यायेन प्रधानस्यापि विधानम्, शाखान्तरे

1.3.25

तु किञ्चिदङ्गविधानम्, तत्र कर्मणि तच्छास्वाध्यायिनामेवाधिकारस्यात्, ज्ञानाक्षेपकलाघवात्, न तु शाखान्तराध्यायिनाम् । किञ्च यस्य कर्मणस्तदङ्गस्य वा कस्यचिदस्यां शाखायां विधानं नास्ति, किन्तु शाखान्तर एव साङ्गस्य तस्य विधानम्; तत्र कर्मणि तच्छाखाध्यायिनामधिकारो न स्यात् शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कार्त्स्न्#ेनापेक्षणीयत्वात् । सम्भवन्ति हि गुणफलविधिरूपाणि क्षुद्रकर्माणि शाकाविशेषेषु सर्वथैवानिरूपितानि । तस्मात्र्त्#ैवर्णिकानामपि ज्ञानाक्षेपस्य सम्प्रतिपन्नत्वा-च्छूद्रस्याप्यनुष्ठानोपयोगिज्ञानाक्षेपसम्भवाद्वेदविद्य्भो विज्ञाय विद्यानुष्ठानमुपपद्यते, अन्यथाऽध्ययनाभावेन शूद्रस्य विद्याप्रत्याघ्याने मैत्रेयीप्रभृतीनां स्त्रीणां ब्राहृविद्यावाप्तौ का गतिः ? नहि संवर्गविद्यागतशूद्रशब्दस्य क्षत्रिय इव मैत्रेयीशब्दानां पुरुषेषु वृत्तिस्सि-द्धान्तिनोपि कल्पयितुं शक्या । "अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः, मैत्रेयी कात्यायनी च' इत्यादिवाक्यान्तरविरोधात्; तस्मा-त्प्रतिषेधमलादेव शूद्रस्यानधिकार इति । वस्तुतस्तु देवादीनामपि जन्मान्तरीयोपनयनाङ्गकाध्ययनमूलज्ञानलक्षणं सामथ्र्यमप्य-स्त्येवेत्याह - प्राक्तनज्ञानाप्रमोषादिति । मनुष्यकर्तृकाधानस्यैवेति - यद्यपि आधाने त्र्यार्षेयवरणं नास्त्येव नचाधानेन साक्षात् त्र्यार्षेयवरणाभावेपि तदङ्गभूतेषु पवमानहविष्षु आतिदेशिकत्र्यार्षेयवरणमस्तीति वाच्यम्; गुणानां च परार्थवादित्यत्र पवमानह-विषामाधानार्थत्वाभावस्य साधितत्वात्, तथाप्यत्राधानशब्दोऽग्निसिध्द्यर्थकर्मपरः, ततश्च पवमानहविषामपि सङ्ग्रहात्तेषु च त्रया-र्षेयवरणसत्त्वान्न दोष इति द्रष्टव्यम् । देवानां दत्तमिति - स्पष्टतरमिति । नन्वेतादृशानितिहासपुराणदृष्टानर्थवादानालम्ब्य पूर्वमन्यथा प्रवृत्तो धर्मः इदानीमन्यथा प्रवर्तत इति धर्ममर्यादाविप्लवाङ्गीकारो न युक्तः । अन्यथा ह्रेवमधर्ममर्यादापि विप्लुताङ्गीक्रियेत दृश्यते हि भारत एव पूर्वमनावृतानां स्त्रीणां श्वेतकेतुशापप्रभृति एकपत्नीत्वाचरणं प्रवृत्तमित्यादिरधर्मविप्लवार्थवादः-"अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा गावस्थितास्तात स्वे स्वे वर्णे तथा प्रजाः । व्युच्चरन्त्याः पतिर्नार्या अद्यप्रभृति पातकम् । भ्रूणहत्या कृतं

1.3.25

पापं भविष्यत्यसुखावहम्' इति । ननु श्वेतकेतूपाख्याने स्त्रीणां पूर्वमनावृतत्वे निर्धनेनोत्सवार्थं क्रियामाणायामाभरणप्रार्थनाया-मिवापत्नीकेन ब्रााहृणेनापत्यार्थं क्रियमाणायामुद्दालकपत्नीप्रार्थनायां तत्पुत्रस्य श्वेतकेतोः कोपो न स्यात् कोपश्च तत्रैव वर्णितः । "मातरं तां तदा दृष्ट्वा नीयमानां बलादिव । तपसा दीप्तवार्यो हि श्वेतकेतुर्न चक्षमे । सङ्गृह्र मातरं हस्ते श्वेतकेतुरभाषत । दुब्र्रााहृण विमुञ्च त्वं मातरं मे पतिव्रताम्' इति । ततः स्त्रीणामेकपत्नीत्वव्रतनियमस्यातादित्वावगमान्नारीणां प्रागनावृतत्ववचनं तदाप्रभृ-त्येकपत्नीत्वव्यवस्थापकवचनं च कुन्तीमपत्यार्थं पुरुषान्तरे प्रवर्तयितुकामस्य पाण्डोस्खकल्पितार्थविषयं प्ररोचनामात्रपरमित्यव-सीयत इति चेत्, यज्ञाग्रहारोपाख्यानवचनजातमप्येवमित्यवधार्यताम्, अन्यथा हि तत्र बह्वसमञ्चसमापद्येत तथा हि तस्मिन् सत्रे दीक्षणीयायाम् अ#ेग्नावैष्णवः पुराडाशो अग्निनानुष्ठितश्चेदग्नेर्भागो न स्यात्, अनुष्ठितश्चेत् विष्णोरिदानीं भागानुवृत्तिर्न स्यात्, उपसत्सु वैष्णवो यागः केनापि देवेनानुष्ठितश्चेत्तदीय एवेदानीं स्यात्, न तु वैष्णवः । नानुष्ठितश्चेत् क्रतुर्विकलस्स्यात्, उदवस्सा-नीयावसानाः सर्वेपि पदार्थास्सर्वैरपि देवर्षिभिरनुष्ठिताश्चेत् सर्वेषु हविष्षु सर्वेपि भागिनस्स्युः । कैश्चित्केचित्कृताश्चेत्सर्वेषामपि स क्रतुविर्कल इति ततो विष्णोः प्रीतिः ततो देवानां वरलाभश्च न स्यात् । किञ्च पूर्वं वैष्णवः क्रतुः कलाविशेषे नानादैवत्यो जात इत्य-भ्युपगमे तस्मिन्नुपदेशातिदेशाभ्यां प्रवृत्तेषु विधिषु श्रुतानां देवतासमर्पकपदानां पूर्वं विष्णुवाचित्वमिदानीं नानादेवतावाचित्वमिति क्वाप्यदृष्टचरं द्विविधार्थवत्त्वं प्रसज्येत एतेनेन्द्रादयो देवा विष्णुं यजन्तीति न यष्ट्टयष्टव्यभावाविरोधः । मनुजास्तु इन्द्रादीन् यजन्तीति, नेन्द्रादीनां यष्टव्यत्वप्रसिद्धिविरोधश्चेत्यपास्तम् । तथा हि; विधिषु देवतावाचकपदानां नित्यमेव वैयथ्र्यं प्रसज्येत, एवं यज्ञाग्रहारो-पाख्यानवदेव देवानां क्रत्वनुष्ठानवादा अप्यविवक्षितार्था एव, अन्यथा हि तत्राप्यसाङ्गत्यमापद्येत तथाहि; "देवा वै यशस्कामा-स्सत्रमासत अग्निरिन्द्रो वायुर्मुखः' इति चतुर्णां देवानां सत्रानुष्ठानमुक्तम् अत्र कथं चत्वार एव ब्रााहृण्यरहितास्सत्रमातिष्ठेयुः ? सप्तदशावराणां ब्रााहृणानामेव हि सत्रानुष्ठानम् "ब्राहृ वै देवानां बृहस्पतिः, "क्षत्रमिन्द्रः' इत्यादिश्रवणाद्देवादिष्वपि ब्रााहृणादि-विभागोऽस्तीति चेत् अस्तु नाम, तथापि बृहस्पतेरेव देवेषु ब्रााहृणत्वेन निर्धारितस्य सत्राधिकारस्यात् न त्वग्न्यादीनामिन्द्रादीनां च सर्वथैव सत्राधिकारः । तथा सर्पाणामयने "चर्कपिशङ्गाद्युन्नेतारा'विति चर्कपिशङ्गयोद्र्वयोरुन्नेतृकर्म श्रूयते । कथमेककर्तृकमुन्ने- तृकर्म द्वौ कुर्याताम् ? तस्मादविवक्षितार्थ एव देवादीनां क्रत्वनुष्ठानार्थवादा इति चेत् उच्यते; वैष्णवे हि सत्रे अङ्गप्रधानयागेषु सर्वत्र विष्णुरेव देवता, तादृशं च सत्रं ये देवाः पुरोडाशदध्याज्यप्रभृतिषु यादृशहविर्विभागित्वं कामयमाना आरेभिरे तेषां तेन वैष्णव-सत्रानुष्ठानेन तत्सिद्धम् । इदानीं च तत्सत्रमनुष्ठात्रभावात् खिलीभूतमित्युक्तौ विरोधाभावान्महाभारतप्रतिपन्नोपाख्यायिकायां किञ्चिद्विरोधामासमालम्ब्य प्रत्यवस्थाने सर्वत्राप्यनान्वासप्रसङ्गेनेतिहासपुराणादिकं सर्वं निरर्थकमेव स्यादित्यलमतिक्षोदेन ।।

भाष्ये-सन्निधानानुपपत्तेरिति । ननु विग्रहराहित्यपक्षेपि देवतायास्सर्वत्र सन्निधानाभावेनाङ्गत्वविरोधस्तदवस्थ एवेति असारो-ऽयमाक्षेप इति चेत् सत्यम्; देवताविग्रहद्वेषिपूर्वमीमांसोक्तानुवादरूपत्वेन सूत्रस्यादोषात्, योग्यानुपलब्धिस्त्विति पाठो दृश्यते

1.3.26

तत्र योग्यपदं सम्पातायातमिव भाति, प्रत्युतोपलम्भायोग्यत्वस्यैव प्रदर्शनीयत्वात् । अवाढ्ढव्याणि-हव्यानि वोढवानसीत्यर्थः । अक्षन्निति - भक्षितवन्त इत्यर्थः । प्रामीयन्त-मृता इत्यर्थः । परिणाम्यमानस्येति - "णिचि मितां ह्वस्वः' इति ह्वस्वः । इन्द्रेति - इन्द्र आगच्छ हरिव आगच्छ मेघातिथे मेषेत्यन्तमिन्द्रस्य सम्बोधनम् हरिव इति पूर्वपक्षापरपक्षौ इन्द्रस्य हरितत्वात् हरिवान् ततस्सम्बुद्धौ "मतुवसोरुस्सम्बुद्धौ छन्दसि' इति रुत्वे "भो भगो अघो अपूर्वस्य' इतियत्वे "लोपश्शाकल्यस्य' इति यलोपे च हरिव आगच्छेतिरूपसिद्धिः । मेधातिथिं किल काण्वायनिं मेषो भूत्वेन्द्रो जहारेति सुब्राहृण्यार्थवादे श्रूयते । सम्मर्शनमात्रतृप्तिश्रवणादिति

1.3.27

अग्निहोत्रहवण्या हस्तेन सम्मर्शनमात्रतृप्तिश्रवणादित्यर्थः । इतरैस्त्विति - कति देवा इति । याज्ञवल्क्यं प्रति शाकल्यप्रश्ने "त्रयश्च त्रीच शताः त्रयश्च त्रीच सहरुाा इति' निरुच्य "महिमान एवैषामेते त्रयÏस्त्रशत्वेव देवता' इति तेषां त्रयÏस्त्रशत्येवान्तर्भावं प्रदश्र्य "कतमे ते' इति सङ्खयेयप्रश्ने "अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयÏस्त्रशत्' इत्युक्तवा अत्रैवेतेषाम- न्तार्भावं प्रदश्र्य पुनश्च "त्रयÏस्त्रशदपि देवाः अग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां षण्णां देवानां महिमान' इति षट्स्वन्तर्भावं प्रदश्र्य "षडपि ते त्रयाणां लोकानां महिमान' इति त्रिष्वन्तर्भावं प्रदश्र्य "तेपि द्वयोरन्नप्राणयोर्महिमान' इत्युक्तवा "तौ चैकस्य प्राणस्य महिमा' इतिपरिशेषितत्वादेकस्यानेकविग्रहयोगः परैरुपपादित इत्यर्थः । नन्वनेकप्रतिपत्तेरितिसूत्रखण्डस्य शङ्करादिभिः कृता द्वितीया व्याख्या किमिति भाष्यकृतोपेक्षितेत्यत्राह - व्याख्यात्रन्तरैरित्यादिना - अनेकार्थोपलम्भेति । यद्यपि शाङ्करभाष्यवाचस्पत्या-नन्दगिरीयेषु एकस्यवस्तुनोऽनेकत्र कर्मणि अङ्गभावप्रतिपत्तेर्दर्शनादित्येव व्याख्यातम्; तथापि वाचस्पत्वे अनेकत्र कर्मण्यङ्गत्व-

1.3.27

प्रतिपत्तिर्युगपदङ्गभावावगमनम् तस्य दर्शनात् यथा एकं ब्रााहृणमुद्दिश्य नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देव-तामुद्दिश्य बहुभिर्यजमानैर्नानादेशस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च सन्निहिताया अप्यङ्गभावो भवति, अस्ति हि तस्या विप्रकृ-ष्टानेकार्थोपलम्भसामथ्र्यमित्युक्तत्वात्, तत्र विप्रकृष्टानेकार्थोपलम्भसामथ्र्यमित्येतदनेकप्रतिपत्तेर्दर्शनादित्यस्य व्याख्यान्तरमपि भवितुमर्हतीत्यभिप्रेत्यैवं वर्णितमिति द्रष्टव्यम् । अथवा व्याख्यात्रन्तरशब्देन यादवादेग्र्रहणमिति न काप्यनुपपत्तिः । विग्रहादिम- दिति - विग्रहयुक्तेत्यर्थः । सरूपसृष्टिनियमानुपपत्तेरिति - अत्र सरूपसृष्टिनियमानुपपत्तेर्वैरूप्यसम्भवात् । द्वितीये तु या व्यक्ति- रिति पाठस्समीचीनः । मध्ये ततश्चेत्यादिग्रन्थस्य द्वितीयपक्षान्वितत्वादधिक इव प्रतिभाति, कोशाश्च निरीक्षणीयाः । या व्यक्ति- रिति - यावती व्यक्तिरित्यर्थः । शब्दसङ्केतगोचरस्येति - गोचरत्वेनाभिमतस्य सर्वस्येत्यर्थः । दूषणान्तरमाह - देवदत्तादिशब्दा-नामिवेति । दूषणदानाय परिशिनष्टि - यदि प्रधानेति । ननु प्रत्यक्षग्राह्रत्वं घटादिष्वतिप्रसक्तमित्यत आह - प्रत्यक्षग्राह्रो वेद इति ।

1.3.27

ततश्च प्रत्यक्षग्राह्रवेदत्वमत्र प्रत्यक्षशब्दार्थ इति नातिप्रसङ्ग इति भावः । तद्गतजात्या सम्बन्धग्रहणादिकमिति - गत्वाद्यात्मनैव गकारादीनामर्थसम्बन्धो न व्यक्तिरूपेण, यथा घटादीनां न व्यक्तिरूपेण वाच्यत्वम्, अपितु जात्यात्मना, तद्वितिभावः । ननु वाचस्पत्ये वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत्यम् वाचकत्वं च न तावद्वर्णानां सम्भवति, प्रत्येकं वाचकत्वे वर्णान्तरवैयथ्र्यात्, क्षणिकेषु च क्रमिकेषु समुदायाभावात् नच स्फोटस्य वाचकत्वं सम्भवतीत्येवं प्रकारान्तरेण स्फोटविचारसङ्गतेस्सम्पादित्वान्ना-सङ्गताभिधानम्, भूतभाविसर्वकारणस्य नित्यत्वावश्यम्भावेन तत्समथर्नमपि सङ्गतमित्यस्वरसादाह - किञ्च नित्यानामपीति । क्षणभङ्गुरत्वादिति । ततश्च नित्यत्वं तद्विशिष्टस्य कथमपि साधयितुं न शक्यमित्यर्थः । ननु न विशिष्टस्य नित्यत्वं प्रसाध्यते, किन्तु केवलवर्णानामेवेत्याशङ्कयाह - अर्थावबोधं प्रयोजनमिति । आनुपूर्वीविशिष्टरूपेण वाचकत्वदानुपूव्र्याश्च नित्यत्वादित्यस्य

1.3.28

दृष्टान्तमाह - पृथिव्या घटरूपेणेति । विरोधाच्च - ब्राहृणः सर्वविधकारणत्ववादविरोधादित्यर्थः । सौत्रं पदमन्यथा व्याख्यातमिति एवमपि व्याख्यातमित्यर्थः । शाङ्करभाष्ये प्रत्यक्षं हि श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वात् अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वा- दित्यपि प्रतिपादितत्वादित्यपि द्रष्टव्यम् । यदि तु क्वचिदेवमपीति - अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामित्यादाविति भावः । ननु शब्दविरोधपरिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वादिजातिवाचित्वे हेतुकर्तव्ये किमर्थं सूत्रकृता देवानां शब्दप्रभवत्वं वर्णितमिति चेत् उच्यते जातिवाचित्वं तावत् पूर्वोत्तरेन्द्रादिगतजातिसिद्धिसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां वेदोपवर्णिततत्तन्नाम-रूपानुसन्धानपूर्वकं प्रजापतिना रुाष्टृत्वं सूत्रे वर्णितम् तेन हि पूर्वोत्तरेन्द्रादिषु घटादिष्विव नाम्नामाकृतीनां च समानत्वं सिध्द्यतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूतास्समानजात्यभिव्यङ्गयाः इन्द्रादिगता जातयस्सिध्यन्ति साक्षाज्जातिवाचित्वस्य हेतूकरणे तु इन्द्रत्वादिजातीनां पूर्वपक्ष्यसम्मतत्वेनासिद्धिशङ्का स्यात् यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूत्र-

1.3.28

यितुं शक्यम्, तस्योदाहरिष्यमाणश्रुतिसिद्धत्वात्; तथापि तद्धेतुदाढ¬ार्थं तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोपि हेतुस्समाननामरूपत्वादित्यत्र दर्शयिष्यते किञ्च "अत एव च नित्यत्वम्' इत्युत्तरसूत्रे अतश्शब्देन शब्दप्रभवत्वस्य परामर्शार्थं च एष निर्देशः । भाष्ये-यत एव चेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां तत्तदाकारवाचित्वमिति । यद्यपीन्द्रवसिष्ठादिशब्दानामाकृति-वाचित्वमर्थानित्यत्वशङ्काव्युदास एवोपयुज्यते, नतु शब्दानित्यत्वशङ्काव्युदास इति नास्मिन् सूत्रे इन्द्रवसिष्ठादिशब्दानामाकृति-वाचित्वमुपन्यसनीयम्, तथापीन्द्रादिशब्दानामाकृतिवाचित्वात् यथार्थानित्यत्वशङ्काया नावकाशः, तथा मन्त्रकृत्वे न त्वदभि-मतानामपि वसिष्ठेन्द्रादीनां वेदशब्दप्रभवत्वस्य प्रमाणसम्प्रतिपन्नतया मन्त्रकृत्त्वं मन्त्रद्रष्टृत्वमेव, अतो नानित्यत्वशङ्केत्येवमिन्द्र-वसिष्ठादीनामाकृतिवाचिकथनस्य दृष्टान्तार्थत्वमेवेत्यत्र तात्पर्यम् । श्रुतिरपि ऋषिज्ञानपूर्वकमेवेति - ऋषिद्र्रष्टा यदि हि कर्ता स्यात्तर्हि कर्तृज्ञानपूर्वकमेवानुष्ठेयं दर्शयेदिति भावः । "यो ह वा अविदितार्षेयच्छन्दोदैवब्रााहृणेन मन्त्रेण याजयति वाऽध्यापयतीति पाठः । दाशत्रय्य इति - ऋग्वेदगता ऋच इत्यर्थः । पुरावृत्तानीति - आख्यायिका इत्यर्थः । शर्वर्यन्त इति - प्रलयान्त इत्यर्थः । तान्येवैभ्य इति - एभ्यो वेदेभ्य एव हेतुभ्य इत्यर्थः । ईश्वरप्रणीतत्वाविरोधादिति - यद्यपीश्वरप्रणीतेष्वप्यादौ प्रवक्तृत्वं कठादे-

1.3.29

स्सम्भवति । तथापि प्रोक्तमित्यस्योक्तमित्यर्थ इत्यभिप्रेत्यैतदुक्तं द्रष्टव्यः । दृष्टवेदभागत्वे प्रमाणमिति - यद्यपि काठकशब्दस्य कठेन प्रोक्तं छन्द इत्यर्थे "कलापि वैशम्पायनान्तेवासिभ्यश्च' इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्ययेतदन्तस्य "छन्दो ब्रााहृणानि च तद्विषयाणि' इति सूत्रेणाध्येतृवेदितृविषयत्वनियमेन तदधीते "तद्वेदे'त्यर्थविहितस्य प्राग्व्यतीय्यप्रत्ययस्य "प्रोक्ताल्लुक्' इति लुकि णिनिप्रत्ययस्य च "कठचरकाल्लुक्' इति लुकि कठाः ततस्तेषामाम्नाय इत्यर्थे विवक्षिते "गोत्रचरणाद्वयुञ्' इति सूत्रेण तस्येदमित्य-विशेषेण शैषिकेष्वर्थेषु प्राप्तस्य "चरणाद्धर्माम्नाययो'रिति वार्तिकेनानयोरर्थयोरेव भवतीति नियमात्तयोरथर्योव्र्युञि काठकमिति भव-तीत्येव शाब्दिकैव्र्युत्पत्तिर्दशिर्ता, तथापि "लुब्योगाप्रख्यानात्' इतिसूत्रोक्तन्यायेनैतादृशयौगिकार्थाप्रतीतेरुपपत्तिसहत्वाभावाच्च शाब्दिकोक्तमनादरणीयमिति भावः । तत्तदर्थस्मृतिपूर्वकमिति - अनेन "शब्द इति चेन्नातः प्रभवात्' इति सूत्रोक्तमर्थनित्यत्वमा-क्षिप्यते, शब्दस्य चाभावादित्येन "अत एव च नित्यत्वम्' इति सूत्रोक्तं शब्दनित्यत्वमाक्षिप्यते, ततश्च शब्दार्थानित्यत्वाक्षेपपरिहार-परमिदं सूत्रमिति भावः । प्रपञ्चप्रवाहानादित्वमाश्रयणीयमिति - न तु मध्ये प्राकृतप्रलयोभ्युपगन्तव्य इति भावः । ननु समाननाम-

1.3.29

रूपत्वस्य पूर्वसूत्रे कण्ठोक्तयभावात्कथं पूर्वोक्तादितिभाष्यमित्याशङ्कयाह - पूर्वसूत्रद्वयोक्तयेति । श्वेताश्वतरवाक्यं स्मारितमिति । ततश्च "यो ब्राहृाणं विदधाति पूर्वम्' इत्युदाहरिष्यमाणं श्वेताश्वतरं न देवतान्तरपरमिति भ्रमितव्यमिति भावः । तत्कृतवेदनित्य- त्वेति - वेदस्यापि कल्पान्तरीयऋग्वेदादिवेदसमाननामरूपत्वात्कल्पान्तरीयानुपूर्वीलक्षणरूपसमानरूपत्वाञ्च नियतानुपूर्वीकत्व-लक्षणं शब्दनित्यत्वमुपपद्यते इन्द्राद्यर्थानामपि सामाननामरूपतया समाननामरूपाभिव्यङ्गयजातिवाचितया नित्यत्वमिति द्वय-मप्युपपन्नमित्यर्थः । युगपत्सर्गप्रलयमिति - न कदाचिदनीदृशं जगदिति प्राकृतप्रलयानभ्युपगन्तृमीमांसकैरित्यर्थः । अपूर्वक्रमेति

1.3.29

पूर्वानुपूर्वीविसदृशक्रमेत्यर्थः । इयांस्त्वितीति । ततश्च तदस्मास्वितिभाष्ये तच्छब्देन तेनैव क्रमेणोच्चार्यमाणत्वस्यैवांशस्य परामर्श इति भावः । संस्कारानपेक्षमित्यत्र स्वोच्चारणजन्यसंस्कारमात्रपरत्वेन सङ्कोचो निष्प्रमाणक इत्यस्वरसादाह - यद्वा संस्कारान-पेक्षमिति । ननु सर्वपदार्थानामपि सर्वदा परमात्मबुद्धिस्थतया नित्यानित्यपदार्थविवेक एव न स्यादित्यपि वक्तुं शक्यतया केय-माशङ्का, नहि बुद्धिस्थमात्रेण सत्त्वमप्यस्तीत्याशयवानाह - सर्वदा पूर्वपूर्वेति । पौरुषापौरुषेयत्ववैषम्यमिति । अत एव वेदा-वेदवैषम्यं चेति भावः । सम्प्रदायप्रवर्तकसद्भावमात्र इति - परमात्मनः प्रवर्तकस्य सद्भाव इत्यर्थः । उदाह्मतवचनजातस्य समान-नामरूपत्वे प्रमाणत्वाभावादाह - उदाह्मतवचनजातं प्रदर्शनार्थमिति । हिंरुााहिंरुो इति - पूर्वं हिंरुास्तद्वासनावासितस्सन् हिंरुा-

1.3.29

तामापद्यते, एवमहिंरुाादयोपीत्यर्थः । सिषाधयिषितरूपेणेति - कल्पान्तरे लिप्सितेन्द्रादिभावः । पुरुषस्तत्कल्पवर्तिनमिन्द्रमा- राध्य कल्पान्तरे इन्द्रत्वं प्राप्नोतीत्यर्थः । पूवर्पूर्वाग्नीन्द्रादिस्वरूपतयेति - तत्प्रतुन्यायादिति भावः । यौगपद्येन प्रवाहतश्चेति ।

1.3.29

एकसमयोत्पन्नान्यपि बहून्यण्डानि सम्भवन्ति, केषुचिदण्डेष्विदानीमुत्पद्यमानेषु पूर्वकालोत्पन्नान्यप्यण्डानि सम्भवन्ति ततश्च कल्पादौ एकस्य चतुर्मुखस्य भानसमये तादात्विकाण्डान्तरगतचतुर्मुखस्यापि भानादेकक्षेत्रज्ञप्रतिपन्नत्वं नास्ति पूर्वोत्पन्नाण्ड-गतचतुर्मुखसृष्टमहर्षीणां भानाच्च नैकक्षेत्रज्ञमात्रप्रतिपन्नत्वमस्तीति भावः । सैव श्रुतिरिति - तत्सजातीया "वाचा विरूपनित्यये' त्यादिश्रुतिरेवेत्यर्थः । प्रथमविकल्पे द्वितीयं शिरश्शङ्कते - एकस्य प्रतिभातवाक्यत्वमिति । ईश्वराप्त्यवगमानुगुणेति - चतुर्मु- खानां सर्वेषामीश्वराप्तत्वनिश्चयशालितया ईश्वरोपदिष्टवेदनित्यत्वेन शङ्कोन्मिषतीतिभावः । इदमुपलक्षणम् । इतरेषामपि वैदिकानां शङ्कोन्मिषतीति द्रष्टव्यम् । बाह्रहेतूत्थेति - अर्थवादानां हेतुसमर्पकतयैवान्वयस्य वक्तव्यत्वेन तत्सापेक्षतया प्रामाण्यमित्यादि-रूपेत्यर्थः । सन्देहलक्षणाप्रामाण्य इति - प्रक्रमस्थविध्युद्देशगतसामान्यवाच्यक्तपदानुरोधादौपसंहारिकाथर्वादगतधृतपदं द्रवद्रव्य-मात्रलक्षकं वा स्यात्, उत विध्यविरोध्यर्थवादगतविध्यपेक्षितविशेषोपपादनायकघृतमुख्यत्वानुरोधादक्तपदं घृतमात्रपदं वा स्यादित्यनध्यवसायादप्रमाण्यमिति पूर्वपक्षे उपक्रमगतविध्युद्देशगतस्यापि अक्तपदस्यौपसंहारिकार्थवादादेरपि बाधाभावाद्वाक्य-शेषवशेन घृतेनाक्ता इत्यध्यवसायात्प्रामाण्यमिति गुरुमते निर्णीतमिति भावः । अभिधानशक्तिरिति - शब्दशक्तिरित्यर्थः । तदस्मत्पक्षे समानमिति । सिद्धेपि वेदप्रामाण्ये नित्यत्वे च सिद्धे प्राकृतप्रलये सम्प्रदायप्रवर्तकाभावेन शब्दार्थयोरनित्यत्वशङ्कायां

महामत्ते' इति । अतो देवादीनामप्यर्थित्वसामथ्र्ययोगाद्ब्राहृविद्यायामधिकारोऽस्तीति सिद्धम् ।।

1.3.30ए

प्राप्तायां महाप्रलयेपि सम्प्रदायप्रवर्तकपरमात्मसद्भावो वाक्यान्तरादवसीयत इति समानमितिभावः । इयमेव प्रतिबन्दीति - वक्ष्य-माणेत्यर्थः । सन्देहलक्षणाप्रामाण्यनिवृत्तिरिति - चक्रकमिति शेषः । परिहारस्तुल्य इत्यर्थः । ।। इति देवताधिकरणम् ।।

"असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमयूपो मरीचयः पुत्राः । तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड¬ः ऋच एव मधुकृतः ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः । एतमृग्वेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोजायत तद्य्वक्षरत्तदादित्यमभितोश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितं रूपम् । अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड¬ः यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं ता एता अमृता आपः । तानि वा एतानि यजूँषि एतं यजुर्वेदमभ्य- तपन् तस्याभितप्तस्य यशस्तेज इद्रियं वीर्यमन्नाद्यं रसोजायत । तद्य्वक्षरत्तदादित्यमभितोश्रयत्तद्वा एतद्यदेवतादित्यस्य शुक्लं रूपम् । अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड¬स्सामान्येन मधुकृतस्सामवेद एव पुष्पं ता अमृता आपः । तानि वा एतानि सामानि एतं सामवेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोजायत । तद्य्वक्षरत्तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य कृष्णं रूपम् । अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड¬ः अथर्वाङ्गिरस एव मधुकृत इति-हासपुराणं पुष्पं ता अमृता आपः । ते वा एते अथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपन् तसाभितप्तस्य यशस्तेजअतद्वा एतदा- दित्यस्य परः कृष्णं रूपम् । अथ येऽस्याध्र्वा रश्मतस्या एवास्योध्र्वा मधुनाड¬ः गुह्रा एवादेशा मधुकृतो ब्राहृैव पुष्पं ता अमृता आपस्ता एव एते गुह्रा आदेशा एतद्ब्राहृाभ्यतपन् तस्याभितप्तस्य यशस्तेजअतद्वा एतद्यदेवतादित्यस्य मध्ये क्षोभत इव ते वा एते रसानां रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्रमृतास्तेषामेतान्यमृतानि । तद्यत् प्रथममृतं तद्वसव उपजीवन्ति अग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति । त एतदेव रूपमभिसंविशन्ति एतस्माद्रूपादु- द्यन्ति । स य एतदेवममृतंवेद वसूनामेवैको भूत्वा अघ्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्मा-द्रूपादुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता । अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्ति इन्द्रेण मुखेन न वै देवा अरुद्राणमेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति अ एतस्माद्रूपादुदेतिअस याव-दादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेता उत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेता आदित्यानामेव

1.3.30ए

तावदाधिपत्यं स्वाराज्यं पर्येता । अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन वै देवाअमरुतामेवैको भूत्वा सोमेनैव मुखेनअ स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पयेता । अथ यत्पञ्चममृतं तत्साध्या उपजीवन्ति ब्राहृणा मुखेन न वै देवाअसाध्यानामेवैको भूत्वा ब्राहृणा मुखेन एतदेवामृतं दृष्ट्वा स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूध्र्व उदेता अर्वाङस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता । अथ तत ऊध्र्व उदेत्यने नैवोदेता नास्तमेता एकल एव मध्ये स्थाता तदेषः श्लोको न वै तत्र न निम्रोचनोदियाय कदाचन । देवा- स्तेनाहँ सत्येन मा विराधिषि ब्राहृणेति । न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति । य एतामेवं ब्राहृोपनिषदं वेद तद्धैतद्ब्राहृा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः । तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्राहृ प्रोवाच इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्राहृ प्रब्राूयात्प्रणाय्याय वाऽन्तेवासिने नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतं धनस्य पूर्णां दद्यात् । एतदेव ततो भूय इत्येतदेव ततो भूय इति । अस्यार्थः-देवमधु देवानां मोदनात् मध्विव मधु । नन्वादित्यस्य कथं मधुत्व-मित्यत आह - द्यौरेवेति । तस्य मधुनो द्यौरेव द्युलोक एव तिरश्चीनवंशः अन्तरिक्षं मध्यपूपम्, मध्वाश्रयापूपो हि तिरश्चीनवंश-लग्नस्सन् लम्बते, एवमन्तरिक्षमपि द्युलोकलग्नं लम्बत इव भातीत्यतो मध्यपूपत्वम् । मरीचयः पुत्राः मरीचिशब्देन मरीचिस्था-स्सवित्राकृष्टा मौम्य आप उच्यन्ते, ताः पुत्रा इव पुत्राः भ्रमरबीजभूताः मध्वपूपच्छिद्रस्थास्सूक्ष्मकीटा इत्यर्थः । तस्य ये प्राञ्च इति । तस्यादित्यस्य ये प्राञ्चो रश्मयस्ता एव मधुनाड¬ः मधुच्छिद्राणि । ऋच एव मधुकृतः-ऋङ्मन्त्रा एव भ्रमराः । ऋग्वेद एव पुष्पम्-ऋग्विहितं कर्म पुष्पस्थानीयम् । ता अमृता आपः-ताः कर्मणि प्रयुक्ताः सोमज्यपयोरूपाः अग्नौ प्रक्षिप्ताः पाकाभिनिर्वृत्ता अमृता अत्यन्तरसवत्य आपो भवन्ति । ता वा एता ऋचः-पुष्पेभ्यो रसमाददाना भ्रमरा इव एतादृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्-अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ता ऋग्भिर्मन्त्रैश्शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकरसं मुञ्चति । पुष्पमिव भ्रमरैराचूष्यमाणं यशस्तेज इन्द्रियं वीर्यमित्यादीनि फलान्युत्पन्नानि । तद्य्वक्षरत्-विशेषेणागात् गत्वा चादित्यमभितस्सवितुः पूर्वभागमाश्रितवदित्यर्थः । अयमिह निर्गलितार्थः । रोहितं शुक्लं परं कृष्णं मध्ये क्षोभत इवेत्युक्तानि पञ्च रोहितादीनि अमृतानि प्रामाद्यूध्र्वान्तदेशस्थितरश्मिनाडीतस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलानीतानि सोमाज्यतपः प्रभृति-द्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकानि आदित्यमधुसम्बन्धानि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वादि-प्राप्तिरित्युच्यते । अथ येऽस्य दक्षिणा रश्मयः इत्यादि स्पष्टम् । परः कृष्णम्-अतिशयेन कृष्णमित्यर्थः । गुह्रा एवादेशा-रहस्यादेशा कर्माङ्गविषयोपासनानि च । ब्राहृैव पुष्पम्-प्रणव एव पुष्पम् । मध्ये क्षोभत इव-चलतीव समाहितदृष्टेर्दृश्यते । वसव उपजीवन्ति अग्निनैव मुखेन-अग्निप्रधानास्सन्त उपजीवन्तीत्यर्थः । स्वाराज्यं पर्येता- वसूनामेव तावदाधिपत्यं स्वाराज्यं च पर्येता अनुभवति । द्विस्तावत्-द्विगुणं कालम् । दक्षिणत उदेता, एवमुत्तरत्रापि । एकलः-एकस्वभाव इत्यर्थः । न निम्रोचति-नास्तमेतीत्यर्थः । ननु प्रतिपाद्यविशेषे निरूपिते इन्द्रस्याधिकारोऽपि सिद्ध इत्यधिकारनिरूपणार्थं नेदमधिकरणमारम्भणीयमित्यस्वरसादाह - किञ्च-

1.3.30ए

तत्रोपक्रममात्र इति । उपक्रमोपसंहारयोस्सर्वात्मना विरोधं मन्वानश्चोदयति - कथं तर्हीति । अर्थित्वाद्यसम्भवब्राहृोपनिषत्त्वेति यद्युपक्रमोपसंहारयोर्निपुणनिरूपणेन विरोधः, तथाप्युपसंहारपर्यालोचनदशोत्पन्नप्रक्रमगतादित्यवस्वादिशब्दजन्यापातप्रि#ीति-तिमवलम्ब्य पूर्वमक्षप्रतिभोद्गम इति भावः । भाष्ये-आदित्यस्यांशानां वस्वादिभिर्भुज्यमानानामिति । नन्वादित्यांशानां वस्वादि-पञ्चदेवगणोपजीव्यानां मधुविद्यायामुपास्यत्वं चेत् वस्वादीनां तदधिकारो काऽनुपपत्तिः ? नहि स्वोपजीव्यत्वेनान्यस्योपासनं विरुद्धम्, तथासत्युपासनमात्रोच्छेदप्रसङ्गात् सवेष्वप्युपासनेषु स्वापेक्षयोत्कृष्टत्वस्वोपजीव्यत्वादीनामवश्यानुसन्धेयत्वाच्च किञ्च उपजीवकपञ्चदेवगणान्तःपातीनां वस्वादीनां पञ्चगणोपजीव्यपञ्चामृतोपासनास्वनधिकारे सर्वेश्वरत्वप्रकारकोपासनायां कस्यापि जन्तोरधिकारो न स्यात् सर्वमध्ये स्वस्याप्यनुप्रविष्टत्वात् तत्कथमयं पूर्वपक्षः, कथं वा एतत्पूर्वपक्षाभ्युपगमेनैव वस्वादित्याद्याव-स्थब्राहृोपास्यमिति सिद्धान्त इति चेदुच्यते; "तं देवा ज्योतिषां ज्योतिरायुर्होपासते अमृतम्' इतिश्रुतिबलाद्रोहितादिपञ्चामृतो-

1.3.31

पासकत्वमपि न सम्भतीत्यत्र तात्पर्यमिति । उभयविषयपरविद्यास्विति - जीवविशिष्टपरविषयविद्यास्वित्यर्थः । ननु प्राणवि-द्यायामप्यवस्थाभेदेन विरोधसमाधानस्य प्रागनुपपादितत्वात्, तस्या अप्येतदधिकरणविषयत्वं युक्तमित्यभिप्रयन् शक्तत्वाश-क्तत्वप्रीणनीयत्वप्रीणयितृत्वफलप्रदत्वाथित्र्वादिमुखेन कर्मकर्तृविरोधान्तरं दर्शयन् पक्षान्तरमाह - यद्वा स्वयमेवाभीष्टसम्पा-दनाशक्तेरित्यादिना । ननु कथं प्राणविद्यायामपि वक्ष्यमाणन्यायोपजीवनेन परिहारः ? मधुविद्यायां ब्राहृविद्यात्मकत्वेनोपासनं विवक्षितमिति हि वक्ष्यमाणन्यायः प्राणविद्यायामनपेक्षितः, तत्र हि शरीरभूते जीवे उपासिते परमात्मा प्रक्षणाति फलञ्च प्रयच्छ- तीति सम्भवान्न प्रीणनीयत्वप्रीणयितृत्वविरोधः, प्रीणनीयत्वस्य परात्मगतत्वादिति समाधानस्य तत्र संभवादित्याशङ्कय-विरो-धान्तरसमाधानस्य तथा संभवेऽपि प्रकर्षाप्रकर्षगर्मविरोधस्यावस्थाभेदेनैव परिहरणीयत्वादित्यभिप्रेत्याह - प्राणविद्यायां ब्राहृात्म-कत्वेनेति । प्रकर्षाप्रकर्षेति । प्रकृष्टस्योपासनकर्मत्वमप्रकृष्टस्योपासनकर्तृत्वमिति विरोध इत्यर्थः । ब्राहृात्मकतया परिहारस्त्विति । अवस्थाभेदेन परिहार इत्यर्थः । प्राणविद्यायां ब्राहृात्मकत्वस्योपास्यकोटिनिवेशासंभवेन बद्धमुक्तावस्थाभेदेन परिहारः, मध्वादि-विद्यायां तु ब्राहृात्मकत्वावस्थातद्राहित्याभ्यामुपास्योपासकभेद इति भावः ।।

भाष्ये स्वावस्थब्राहृोपासनेति । स्वोपजीव्यरोहितादिपदञ्चामृतावच्छिन्नब्राहृोपासनसंभव इत्यर्थः; न तु "वसव उपजीवन्ती'त्यत्र वसुशब्दस्यैव वस्ववस्थब्राहृपरत्वमिति मन्तव्यम्; तथार्थकल्पने प्रमाणाभावात् । अप्राप्तार्थप्राप्त्यर्थं किञ्चिदाश्रयणरूपस्योपजीवनस्य वस्ववस्थब्राहृण्यसंभवाच्च । "वसूनामेवैको भूत्वे'त्यत्र एकस्मिन् ब्राहृणि बहुत्वसापेक्षनिर्धारणस्य वा, उपासितुः ब्राहृभावापत्तेर्वा असं-

भवाच्च । अत एव चोत्तरत्र, "वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासन'मिति भाष्यमिति द्रष्टव्यम् । अब्राहृोपासनपरत्वेन

1.3.32

यैव्र्याख्यातमिति । "न ह वा अस्मा उदेति, न निम्रोवती'ति ब्राहृप्राप्तिकथनं वस्वादिभावद्वारा क्रममुक्तिपरम्; ब्राहृोपनिषच्छब्दोऽपि वेदोपनिषत्पर इति व्याख्यानं क्लिष्टार्थकत्वादनादरणीयमित्यर्थः । उपास्यत्वं च वस्वादिभोग्यादित्यांशमात्रस्येति । न च वसुसमु-दायस्योपास्यत्वमिति पूर्वग्रन्थविरोध इति वाच्यम्; भोक्तृत्वेन वस्वादिसमुदायस्योपास्यत्वम्; भोग्यत्वेनादित्यांशस्योपास्यत्वमिति विरोधाभावात् । तथानुसंधानमेव प्रयोजनमितीति । ननु यद्विद्याप्रकरणे देवोपास्यत्वदेवफलप्रदत्वादिकं न श्रुतम्, न तत्र तस्यानु-सन्धेयत्वम् । यत्र तु श्रुतम्, तत्र देवताविग्रहादिप्रसाधनाभावेऽपि देवतोपास्यत्वं संभवत्येवेति देवोपास्यत्वानुसन्धाने इदमधिकरणद्वयं कथमुपयुज्यतामिति चेत्-सत्यम् । अनारोपितदेवोपास्यत्वानुसन्धानार्थमिदं निरूपणमिति द्रष्टव्यम् । इदमप्युपलक्षणम्-देवतानाम-

सिद्धौ मधुविद्यादीनां तत्तद्देवतापदप्राप्तिः फलं न भवेत् । वरुणग्रहनिर्मोकादिवत् बाधितस्य श्रुतत्वेऽपि विधेयक्रियाफलत्वायोगात् । किं

1.3.32

त्वन्यदेव फलं कल्प्यं स्यात् । अन्तरादित्यविद्यादिषु आदित्यादिदेवताद्यन्तर्वर्तित्वेन ब्राहृोपासनं न सिध्येत् । ज्योतिर्मण्डलाद्यन्तर्वर्ति-त्वेनैव तदुपासनं सिध्येत् । उपकोसलविद्यायां पञ्चाग्निविद्यायां च अर्चिराद्यभिमानिदेवताविशेषाः मार्गार्वत्वेन न चिन्तनीयाः स्युः । अर्चिरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथा, "तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेति भक्षयन्ति, एवमेनां-स्तत्र भक्षयन्ति', "यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः, एवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमाने अपि#्रयं भवति, किमु बहुषु । तस्मादेषां तन्न प्रियम्, यदेतन्मनुष्या विद्युः' इत्यादिश्रुतिषु कर्मदेवभावं प्राप्तानां तमप्राप्तानां च मनुष्याणां याव-ज्जीवमाजानदेवभृत्यभावोक्त्या वैराग्यं न सिद्धयेत् । एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवतासद्भावप्रसाधनस्य । "तद्यथेह कर्म-चितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते', "जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्, तेनासौ लोको न संपूर्यते-तस्मात् जुगुप्सेत' इत्यादिमन्त्रार्थवादैः वैराग्यसिद्धिश्च फलमित्यपि द्रष्टव्यम् ।। ।। इति मध्वधिकरणम् ।।

1.3.33

शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । सङ्गतिरित्याहेति । सङ्गतिरित्यभिप्रयन्नाहेत्यर्थः । तदुपसंहारेति । उपसं-हारः-अनुष्ठानम् । नैरपेक्ष्योत्तम्भकतयेति । ननु शूद्रस्यामन्त्रणपूर्वकमितिहासपुराणश्रवणादर्शनेन कथं तस्य नैरपेक्ष्योत्तम्भकत्वम् । अतः शूद्रेत्यामन्त्र्य ब्राहृविद्योपदेशात्, शूद्रेत्यामन्त्रणं शूद्रस्य ब्राहृविद्याधिकारे साक्षादेव लिङ्गमित्येव सुवचमिति चेत्-सत्यम् । मार्गान्तरस्य मार्गान्तरादूषकत्वात् तथोक्तमिति द्रष्टव्यम् । वेदादेव ब्राहृावगतिरिति । ब्राहृविद्यानुष्ठानोपयुक्तब्राहृावगतिरित्यर्थः; एव-मुत्तरत्रापि; इतिहासपुराणादिना ब्राहृावगतिमात्रस्य सिद्धान्तिनाऽपि प्रत्याख्यातुमशक्यत्वादिति द्रष्टव्यम् । विद्याशब्दं व्याचष्टे विद्या-वेदविद्येति । अत्राध्ययनमिति क्वचित्पाठो दृश्यते । स तु लेखकस्खलनकृतः । अध्ययनजन्यस्य कर्मानुष्ठानौपयिकाङ्गकलापादि-ज्ञानस्य वा वेदस्य वा विद्याशब्देनग्रहणर्हतया अध्ययनस्य विद्याशब्देन ग्रहणानर्हत्वादिति द्रष्टव्यम् । यद्वा विद्याभावादित्यस्य

1.3.33

अध्ययनसंस्कृतविद्याराहित्य(परत्व?)द्योतनाय अध्ययनपदमुपात्तम् । अग्निशब्दं व्याचष्टे अग्निः आहित इति । आधानसंस्कृता-हवनीयादिरित्यर्थः । अत्र क्रमस्याविवक्षितत्वात् अग्निविद्याशब्दयोः व्युत्क्रमेण व्याख्यानं न दोष इति द्रष्टव्यम् । ननु तस्मात् शूद्र इति । ननु कथमस्याः शङ्कायाः उत्थानम्; प्रागेव साक्षात् परंपरया वा ब्राहृोपासने अग्निविद्यासाध्यत्वस्य निरस्तत्वादिति चेत्-अत्र केचित्, "तस्मात् शूद्रो यज्ञेऽनवकप्त इति वाक्यस्य शूद्रे अग्निविद्यासाध्ययज्ञमात्रानधिकारप्रदशर्कत्वे तस्यापशूद्राधिकरणन्यायसि-द्धत्वेन वाक्यवैघल्यप्रसङ्गात्, "यज्ञेऽनकप्त' इति वाक्यं कर्मविद्यासाधारण्येन वैदिककमर्मात्रे शूद्रस्याधिकारनिषेधपरं किं न स्यात् इत्याशङ्कय प्राप्तार्थप्रतिपादकस्य वाक्यस्य वैफल्यप्रसङ्गेन (तस्य) लक्षणया अप्राप्तार्थप्रतिपादकत्वे अभ्युपगम्यमाने अनुवादमात्रो-च्छेदप्रसङ्गात्, "ये पुरोदञ्चो दर्भा' इति वाक्यस्य, "अग्रवन्त्युदगग्राणी'ति स्मृतिप्राप्तानुवादित्ववत् "शूद्रोयज्ञेऽनकप्त' इति वाक्य-स्यापि अपशूद्राधिकरणन्यायप्राप्तार्थानुवादित्वमेव वक्तव्यमित्यभिप्रयन्नाह तस्मात् शूद्रो यज्ञेऽनवकप्त इत्यपीत्येवं भाष्यग्रन्थाव-तारिकामाहुः । यावद्वचनता स्यादिति । श्रुत्यैकसमधिगम्यो ह्रर्थो यथाश्रुतिप्रतिपत्तव्यः । अयं तु न्यायसिद्धोर्थः । ततश्च मूलभूत-न्यायस्य यावद्विषयकत्वम्, तावद्विषयकत्वं मूलिनोपि वाक्यस्य वक्तव्यमिति भावः । परिसङ्खया वेति । यज्ञ एवानकप्त इत्येवं परि-

1.3.33

सङ्खया वा नेत्यर्थः । उपासनाधिकारोनुमतो भवतीति । अप्रतिषिद्धमनुमतमिति न्यायादिति भावः । ननु "श्रावये'दिति ब्रााहृणस्य श्रावणानुज्ञायां सत्यामपि शूद्रस्य श्रवणानुज्ञाया अदर्शनात् कथमेतदित्यत आह प्रयोज्या भाव इति । प्रयोज्योपादानमर्थसिद्धमिति । श्रावणविधिना, सर्वेऽपि वर्णाः#ृणुयुरिति श्रवणविधिराक्षिप्यत इति भावः । प्रयोज्यव्यापारविधिरिति । यथा अन्नाद्यकामं याजये-दित्यत्र याजनं न विधीयते; रागप्राप्तत्वात्; किन्तु यजनमेव-एवं श्रावयेदित्यत्राऽपि श्रावणस्य रागप्राप्तत्वात् श्रवण एव विधिः । अतो न श्रवणस्यार्थसिद्धत्वमिति शङ्कार्थः ।

अधिकारिविशेषणाश्रवणादिति । यद्यपि चतुरो वर्णानितिवर्णरूपाधिकारिविशेषणश्रवणमस्ति-तथाऽपि अन्नाद्यकामं याजये-दित्यत्र याजनस्य रागप्राप्ततया विधानासंभवेन यजनविधिपरत्वेन(त्वेऽपि?) श्रावणस्य, "न चास्योपदिशेद्धर्म'मित्यादिना प्रति-षिद्धस्य, "श्रावयेच्चतुरो वर्णा'नित्यस्य प्रतिप्रसवरूपत्वसंभवे तत्परित्यागेन श्रवणविधिमात्रपरत्वस्यान्याय्यत्वादिति भावः । एत-दभिप्रायेणेति । श्रावणविध्याक्षिप्तश्रवणविधिविषयत्वाभिप्रायेणेत्यर्थः । नन्वस्तु श्रवणम्; अथाप्युपासनोपयुक्तनिश्चयरूपज्ञानस्य विचारमन्तरेणेतिहासपुराणश्रवणमात्रेणासिद्धेः शूद्रस्य विचारप्रयोजकाभावात् कथं सामथ्र्यमित्याशङ्कय इतिहासपुराणश्रवणस्य दृष्टार्थत्वेनानुष्ठानौपयिकज्ञानार्थतया तस्य तद्विचारमन्तरेणासिद्धेः त्रैवर्णिकानां वेदान्तविचारवत् शूद्रस्येतिहासविचारः सिद्धयती-त्यभिप्रयन्नाह यदाचैवमिति । शङ्कते यदिब्राूयादिति । (यदि ब्राूयात्) तदा किमुत्तरमिति चेदित्यध्याह्मत्य योजना द्रष्टव्या । श्रवण-फलनिर्देशादिति । अविहितस्य श्रवणस्य फलश्रवणासंभवात्, श्रवणे विधिरभ्युपगम्य इति भावः । तर्हि शूद्रस्य कीर्तनमपि स्यादिति शङ्कां वारयतिं श्रवणकीर्तने हीति । ननु फलनिर्देशान्यथानुपपत्त्या अस्तु श्रवणस्य विधेयत्वम्; नैतावताऽर्थज्ञानफलकत्वसिद्धिः;

1.3.33

नामसहरुामात्रश्रवणफलनिर्देशतयाप्युपपत्तेरिति चेन्न-श्रवणस्य फलनिर्देशान्यथानुपपत्त्या विधेयत्वसिद्धौ श्रवणस्य ज्ञानरूपदृष्टा-र्थत्वे संभवति पापक्षयरूपादृष्टार्थत्वकल्पनाया अन्याय्यत्वात् अर्थज्ञानपर्यन्तत्वमिति भावः । अनधिकारो निर्णीतश्चेदिति । अध्य-यनगृहीतवेदजन्यज्ञानस्यैव वैदिककर्मानुष्ठानोपयुक्तत्वम्; नेतरस्येति पूर्वतन्त्रापशूद्राधिकरण एव निर्णीतत्वादित्यर्थः । अपशूद्रा-धिकरणन्यायाप्रवृत्ताविति । युक्तिमाहेत्यन्वयः । तत्रापरिह्मतामिति । पूर्वतन्त्रापशूद्राधिकरणे अपरिह्मतामित्यर्थः ।

निर्वाह एव सौत्र इत्यस्यानन्तरं तस्मादिति शेषः पूरणीयः । अलौकिकसामथ्र्याभावादिति । अध्ययनगृहीतस्वाध्यायजन्य-ज्ञानरूपशास्त्रीयहेत्वभावादित्यर्थः । भाष्ये, यथैव हि वर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेनेति । ननु स्वा-ध्यायाध्ययनविधौ त्रैवर्णिकोऽधिकारी न श्रूयत इति चेत्-सत्यमध्ययनविधौ त्रैवर्णिकोऽधिकारी न निर्दिष्टः-तथाप्युपनयनविधौ, "वसन्ते ब्रााहृणमुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्' इति त्रैवर्णिकाधिकारित्वश्रवणात् त्रयाणामेव वर्णानामुपनयनमिति सिद्धम् । ततश्च स्वाध्यायविधिरनिर्दिष्टकर्तृकः कर्तारमपेक्षमाणः प्रकृतोपनयनसंसकृतान्, "किमर्थं वयमाचार्यसमीपं नीताः' इति प्रयोजनमपेक्षमाणान् ब्रााहृणादीनेव कर्तृत्वेन स्वीकुर्वन् तेषामेवाध्ययनं विधत्ते, न शूद्रस्येति अध्ययनविधेरपि त्रैवर्णिकविषयत्वं युज्यत इति द्रष्टव्यम् । अत्र विधिसिद्धत्वं स्वाध्यायस्य विशेषणम्; न तु तत्सम्पाद्यज्ञानस्य; सिद्धान्ते अध्ययनविधेरक्षराशिग्रहणमात्र-विश्रान्तत्वेन अर्थज्ञानफलकत्वाभावात् । नन्वध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि वर्णविशेषादिग्रहणमन्तरेणाविशेषप्रवृत्ता अपि वैदिक-कर्मविधयः कर्मानुष्ठानार्थमनुष्ठेयार्थज्ञानं नाक्षिपन्ति । यथा क्रतुविधयो याजकान् अपेक्षमाणाः स्ववर्णोचिदद्रव्यार्जनोपाय इति याजने स्वत एव प्रवृत्तान् ब्रााहृणा न आसाद्य निर्वृण्वन्ति, न त्वध्ययनवत्त्वेपि क्षत्रियवैश्ययोर्याजकत्वमाक्षिपन्ति; ततश्च "याजनाध्यापन-प्रतिग्रहैब्र्रााहृणो धनमार्जये'दिति द्रव्यार्जनोपायनियमविधिबलात् ब्रााहृणानामेवाÐत्वज्यमिति नियमः-तथा अध्ययनविधिबलादध्य-यनलब्धानुष्ठेयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमलाभ इति शक्यते वक्तुम् । अध्ययनविधेरक्षरराशिग्रहणमात्रविश्रान्तत्वे कस्यापि विधिलब्धज्ञानस्याभावात् ज्ञानाक्षेपस्य च सर्वत्र संभवात् कथमपशूद्रमधिकारः स्यादिति चेत्-सत्यमस्मन्मते ज्ञानं न विधि-सिद्धमिति । अथापि हेतुसाकाङ्क्षं कर्मानुष्ठानौपयिकं ज्ञानं प्रयोजनान्तरासंयुक्तं, प्रयोजनसाकाङ्क्षम्, अध्ययनसंस्कृतं स्वाध्यायमेव हेतुतया स्वीकरोति; न तद्वयतिरिक्तं ज्ञानोपायान्तरम् । ततश्चाध्ययनजन्यज्ञानमेव क्रत्वङ्गमिति पर्यवस्यति । यथा विहाराधिकरणे (12-2-1)असंयुक्तोत्पन्नानामाधाननिष्पाद्याहवनीयादीनां प्रयोजनसाकाङ्क्षाणां लौकिकेष्वपि पचनप्रकाशनेषु विनियोगोऽभ्युप-गन्तव्य इति पूर्वपक्षः प्रवर्तितः, तेन न्यायेनाध्ययनसंस्कृतस्वाध्यायस्य प्रयोजनसाकाङ्क्षस्य हेतुसाकाङ्क्षे कर्मौपयिकज्ञाने विनियोग इति सिध्यति । ततश्चाधीतवेदानामेव त्रैवर्णिकानां कमस्र्वधिकार इति सिद्धौ न सिद्धान्तेऽनुपपत्तिः ।

अध्ययनव्रतोपनयनादय उच्यन्त इति । अध्ययनाङ्गं व्रतं अध्ययनव्रतम्; अध्ययनस्य उपायशब्देनोपात्तत्वादिति द्रष्टव्यम् । यद्वा उपायशब्दो वेदपरः, आदिशब्देन अध्ययनं गृह्रत इत्यभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । अत्र चोपनयनपदं लेखकप्रमादादागतम् ।

1.3.33

ब्रााहृणादिवर्णमात्रविषयतयोत्पन्नस्योपनयनस्य शूद्रो आक्षोपाप्रसक्तेः । अपशूद्राधिकरणे हि द्वेधा पूर्वपक्षो वर्णितः-अनारभ्याधी-तमप्यध्ययनं क्रत्वनुष्ठानौपयिकज्ञानोपयोगित्वात् क्रत्वङ्गम्, क्रतवश्चाविशेषेण चातुर्वण्र्यमधिकुर्वाणाः चतुर्णामध्ययनं प्रयुञ्जते । तत्र च त्रयाणामुपनयनसंस्कारोऽध्यनाङ्गतया विधीयते । चतुर्थस्तु संस्कारविध्यभावात् अनुपनीत एव स्वयमेवोपगम्याधीत्य विद्यां लभ-ताम् । अतवा, अनारभ्याधीतमध्ययनं पुरुषार्थमेव; न क्रत्वङ्गम् । अतः तदभावेऽपि क्रतोर्वैगुण्याभावादनधीतवेद एव शूद्रः पुस्तक-निरीक्षणादिनाविद्यां लब्ध्वाऽधिक्रियतामिति । ततश्च पक्षद्वयेऽपि शूद्रे ब्रााहृणादिसंयुक्तोपनयनाक्षेपाप्रसक्तेरिति ध्येयम् । नापेक्षन्त इत्यर्थ इति । शूद्रे ज्ञाने तदुपायादीश्च नाक्षिपन्तीत्यर्थ इत्यर्थः । अध्ययनस्यापि प्रयोजकतयेति । कर्मविधीनामेव शूद्रगताध्ययनप्र-योजकत्वकल्पनायां गौरवमित्यर्थः । सौधन्वत्वमनुकूललिङ्गमिति । "ऋभवो नेमिं नमन्ती'त्यादिमन्त्रलिङ्गात् नेमिनिर्माणचतुरस्य ऋभुशब्दवाच्यत्वावगमात् "सौधन्वना ऋभव' इति मन्त्रे तत्समानाधिकरणतया सौधन्वशब्दस्य श्रवणात् पल्यां तु जातो वैश्या-नां(यां?) सुधन्वाचार्य एव चेत्याचायऋभुशब्दापरपर्यायसौधन्वब्दितजातिविशेषस्य ग्रहणमिति भावः । नन्वस्यार्थस्य, "शुगस्ये'ति सूत्राभिप्रेतत्वे तद्वयाख्यानसमय एव वाच्य इत्याशङ्कयाह इह प्रतिपत्तीति । न हि व्याख्येयानधिकारिण इति । नन्वितिहासपुरा-णादिकं वेदवाक्यप्रतीकग्रहणपूर्वकम्, अस्य पदस्यायमर्थ इत्येवंरूपं व्याख्यानं न भवति, येन वेदसापेक्षता स्यात् । अतोऽनधीत-वेदस्यापीतिहासपुराणादिना स्पष्टार्थावगतौ नानुपपत्तिः । अत एवाङ्गतय विहितस्य स्वतन्त्रतयेत्याद्युत्तरयुक्तिरप्यनुपपन्ना; शूद्र-श्रावणविध्यनुरोधेन स्वतन्त्रतयोपादानस्याप्यङ्गीकर्तव्यत्वात् । शूद्रश्रावणस्य दृष्टार्थत्वसंभवे सति अदृष्टार्थत्वकल्पनाया अन्याय्य-तया अनुष्ठेयोपासनानुष्ठानाद्यर्थत्वस्यैव युक्तत्वादिति चेत्-सत्यम्; "नाशुभं प्राप्नयात्किश्चित् सोऽमुत्रेह च मानवः' इत्यादिषु पाप-

1.3.33

क्षयफलकत्वस्यैव स्पष्टमाम्नानेन तस्यैव फलत्वात् । अत एवोक्तम्, पुण्यकथावगतिद्वारेण पापक्षयफलार्थमितीति द्रष्टव्यम् ।

तदविरोधस्येति । वेदार्थविशदीकरणहेतुतयैव तदधिगमविधायकशास्त्राविरोधस्येत्यर्थः । श्रवणविध्यवैयथ्र्याच्चेति । शूद्रा-णामितिहासपुराणश्रवणस्य निष्फलत्वे श्रवणबिधेर्वैयथ्र्यप्रसङ्गादित्यर्थः । शौनकवचनविरोधादिति । ननु वचनविरोधाद्विदुरादीनां तथास्तु नाम, तथा पूर्वजन्मानुष्ठितकर्मभिर्विशुद्धचित्तानामुत्पन्नब्राहृविविदिषाणां प्रारब्धवशात् शूद्रजन्म प्राप्तामितिहासपुराणाव-गतब्राहृस्वरूपतदुपासनप्रकाराणां कुतो न ब्राहृविद्यायामनधिकारः ? न चोक्तरीत्या यज्ञादिकर्मण्यप्यधिकारः स्यादिति शङ्कयम्-"तस्माच्छूद्रो यज्ञेऽनवकप्त' इति यज्ञादौ विशेषनिषेधदर्शनात् उपासने तादृशनिषेधादर्शनात्, नारदस्य प्राचीनजन्मनि यतिभिरुप-दिष्टाच्युदोपासनायाम्, शूद्रोचितसंस्कारपूर्वकं शैवपाशुपतपाञ्चरात्राद्युपदिष्टासु प्रणवरहिताष्टाक्षरपञ्चाक्षरमन्त्रकरणकविष्णुशिवो-पासनासु अधिकारो न निवार्यः । न चैतदधिकरणविरोधः; शूद्रस्येतिहासादिमूलाधिकारसत्त्वेऽपि वेदमूलसंवर्गविद्याद्यधिकारनिवा-रणार्थत्वादस्याधिकरणस्य । अत एव वेदश्रवणादिप्रतिषेधः सूत्रकृताप्युपन्यस्त इति चेत्-उच्यते-विशिष्य विहितेषु शैवाद्यागम-निर्दिष्टेषूपासनेषुन शूद्राद्यधिकारं प्रतिक्षिपामः; अपि तु सामान्यतः श्रुतेषु ब्राहृोपासनेषु यज्ञादिष्विव नाधिकार इत्येव(हि)साधयामः । न च, "तस्मात् शूद्रो यज्ञेनवकप्त' इति वचनात् यज्ञानधिकारेऽपि उपासने कुतो नाधिकार इति शङ्कयम्-तस्य वचनम्यापशुद्राधि-करणन्यायसिद्धार्थानुवादित्वात्; न्यायस्य च कर्मब्राहृोपासनसाधारण्यात् । किञ्च, "नास्याधिकारो धर्मेऽस्ति नाधर्मात् प्रतिषेधनम्' इति विशिष्य विहितेतरेषु धर्मेषु शूद्रस्यानधिकार इति मनुस्मरणादिति द्रष्टव्यम् । अतः शूद्रस्य न ब्राहृविद्याधिकारः ।

शोककारणं शोककार्यं च हेतुत्वेनाहेति । कार्यकारणयोद्र्वयोरपि लिङ्गविधया ज्ञापकत्वसंभवेन हेतुत्वसंभवात् सूत्रे ज्ञापकहेतौ पञ्चमी । ततश्चानादरश्रवणाद्रवणरूपलिङ्गाभ्यां कारणकार्यरूपाभ्यां ज्ञाप्यमानेत्यर्थः । अनादरश्रवणजन्या आद्रवणहेतुभूता शुक् शूद्रेत्यामन्त्रणेन सूच्यत इति सूत्रार्थ इति भावः । भाष्ये शुचेर्दश्चेतीति । अस्य सूत्रस्य धातुवृत्तौ शूद्रशब्दव्युत्पादनावसरे उदाह्मतत्वात् प्रक्षिप्तत्वं वदन्तो निराकृता इति वेदितव्यम् । अ#ेद्रवणमप्यन्तर्भाव्येति । शुचा द्रवतीति शूद्रशब्दव्युत्पत्तिः परैरादृतेति भावः । ननु हंसोक्तानादरश्रवणं जानश्रुतेः कथं शोकहेतुः, महात्मनां हि येन केनापि कृता निन्दा शोकाय नावकल्पते; प्रत्युत तेषायैव । स्मरन्ति च मन्वादयः, "अवमानात् तपोवृद्धिः संमानाञ्च तपःक्षयः । अमृतस्येव काङ्क्षेत अवमानस्य सर्वतः' इत्यादि । प्रत्युत हंसे हितप्रवर्तकत्वं जानतः तोष एव युक्त इति चेत्-सत्यम्-अथाप्येतावन्तं कालमीदृशीं विद्यां नाध्यगमम् । अत एव पितृस्थानीयेन हंसेन निन्दितोऽ-स्मीति शोको भवत्येव । अतस्तेनाद्रवणमप्युपपद्यत एव । इतरथा पित्रादिकृतनिन्दायाः शोकाहेतुत्वे तन्निन्दाया अकार्यकरत्वं स्यादित्यपि द्रष्टव्यम् ।

वैशद्यार्थमुपन्यस्यतीति । एवं हि श्रुतिः, "जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति । अथ ह हंसा निशायामतिपेतुः । तद्धैवं हंसो हंसमभ्युवाद-भोभो अयि भल्लाक्ष ! भल्लाक्ष ! जानुश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा प्रसाङ्क्षीः । तत् त्वा मा प्रधाक्षीदिति । तमु ह परः प्रत्युवाच, कम्वर एवमेतत् सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति । यथा कृतायविजितायाधरेऽयाः संयन्ति; एवमेनं सर्वं तदभिसमेति, यत्किञ्च प्रजाः साधु कुर्वन्ति । यस्तद्वेद यत्सवेद स मयैतदुक्त इति । तदु ह जानश्रुतिः पौत्रायण उपाशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच-अङ्गारे सयुग्वानमिव रैक्वमात्थेति । यो नु कथं संयुग्वा रैक्व इति-स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय । तं होवाच यत्रारे ब्रााहृणस्यान्वेषणा तदेनमृच्छे(मच्र्छे)ति । सोधस्तात् शकटस्य पामानं कषमाणमुपोपविवेश । तं हाभ्युवाद-त्वं नु भगवः सयुग्वा रैक्व इति । अहं ह्रारा इति ह प्रतिजज्ञे । स ह क्षत्ता अविदमिति प्रत्येयाय । तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे । तं हाभ्युवाद-रैक्वे ! इमानि षट्शतानि गवामयं निष्कोऽयमश्वतीरथः । अनु म एतां भगवो

1.3.33

देवतां शाधि यां देवतामुपास्स इति । तमु ह परः प्रत्युवाच अह हारेत्वा शूद्र ! तवैव सह गोभिरस्त्विति । तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहरुां गवामयं निष्कोऽयमश्वतरीरथः, इयं जाया, अयं ग्रामः, यस्मिन्नास्से । अन्वेव मा भगवः शाधीति । तस्याह मुख-मुपोद्गृह्णन्नुवाच आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते हैंते रैक्वपर्णा नाम महावृषेषु, यत्रास्मा उवास । तस्मै होवाच-'

जनश्रुतस्यापत्यं जानश्रुतिः । पुत्रस्य पुत्रः पौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धादेयःश्रद्धापुरस्सरं देयमस्य श्रद्धादेयः । बह्वस्य गेहेऽन्नं पक्तव्यमस्ती बहुपाक्यः । सर्वतः-सर्वासु दिक्षु अन्नपानादिपूर्णानि अतिथ्यभ्यागतानां वासस्थानानि निर्मितवान्, सर्वत एत्यातिथयः मेऽन्नं भोक्ष्यन्त इत्यभिप्रायेणेत्यर्थः । भल्लाक्ष भल्लाक्षेत्यनेन विपरीतलक्षणया मन्दलोचनेति संभ्रमेण द्विवारं संबोधनम् । यथा कृताय-विजितायेति । कृतनामधेयोऽयः द्यूतशास्त्र(समय)प्रसिद्धः चतुरङ्कः । तत्र विजिताय जितवते अधरे अयाः त्रिद्वयेकाङ्काः, त्रेता-द्वापर-कलिनामानः यथा संयन्ति अन्तर्भवन्ति-चतुरङ्के कृतनामके अये त्रिद्येकाङ्कानां तत्र सत्त्वेनान्तर्भावादित्यर्थः । यस्तद्वेद यत्स वेदेति । सः रैक्वः यद्वेद्यं वेद, तदन्योऽपि यो वेद, तमप्यभिसमेतीत्यनुषङ्गेण योजना । स ह सञ्जिहान एव तल्पं-त्यजन्नेवेत्यर्थः । यत्रारे ब्रााहृण-स्यान्वेषणेति । अरे ! ब्रााहृणस्य-ब्राहृविदः यत्रारण्ये नदीपुलिनादौ विविक्ते अन्वेषणा-मार्गणं भवति । तत्रैनं रैक्वमृच्छ-मृगयस्वे-त्यर्थः । पामानं कषमाणमिति । पामानं कण्डूयमानमित्यर्थः । निष्क-हारम् । अश्वतरीरथम्-अन्वतरी#ाभ्यां युक्तं रथम् । तदा-तस्मिन्

तदनन्तरमेव ब्राहृजिज्ञासया उद्योगं च विदित्वा अस्य ब्राहृविद्यायोग्यतामभिज्ञाय, चिरकालसेवां विना द्रव्य-प्रदानेन शुश्रूषमाणस्यास्य यावच्छक्तिप्रदानेन ब्राहृविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन्, तस्य शोका-विष्टतामुपदेशयोग्यताख्यापिकां शूद्रशब्देनाऽऽमन्त्रणेन ज्ञापयन्निदमाह, "अह हारेत्वा शूद्र तवैव सह गोभि-रस्तु' इति । सह गोभिरयं रथस्तवैवास्तु; नैतावता मह्रं दत्तेन ब्राहृजिज्ञासया शोकाविष्टस्य तव ब्राहृविद्या प्रतिष्ठिता भवतीत्यर्थः । स च जानश्रुतिर्भूयोऽपि स्वशक्तयनुगुणमेव गवादिकं धनं कन्यां च प्रदायोपससाद । रैक्वः पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्र्#ाह "आजहारेमाः शूद्र अनेनैव मुखेनाऽऽलापयि-ष्यथाः' इति । इमानि धनानि शक्तयनुगुणानि आजहर्थं; अनेनैव द्वारेण, चिरसेवया विनाऽपि, मां त्वदभि-लषितं ब्राहृोपदेशरूपवाक्यमालपयिष्यसीत्युक्तवा तस्मा उपदिदेश । अतः शूद्रशब्देन विद्योपदेशयोग्यताख्या-पनार्थं शोक एवास्य सूचितः; न चतुर्थवर्णत्वम् ।। 33 ।।

1.3.34ए

काले गृहीत्वा रैक्वसमीपं गतवानित्यर्थः । अह हारेत्वा शूद्रेति । अहेति निपातः, हारसहित इत्वा रथः हारेत्वा । गोभिः सह तवैवास्तु, किमनेन मम सन्तोषः? कलत्रहीनस्य मम एतद्धनरक्षणे वा का शक्तिः? किं तव वाऽल्पधनदानेन विद्या प्रतिष्ठिता भवेदिति भावः । तस्या ह मुखमुपोद्गृह्णन् उवाचेति । तस्याः जायार्थमानीतायाः राज्ञो दहितुः मुखं द्वारतां विद्याया दाने तीर्थं जानन्नुक्तवानित्यर्थः । "ब्राहृचारी धनदायी मेधावी श्रोत्रियः प्रियः । विद्यायै वाऽपि यः प्राह तीर्थानि षण्मम' इति विद्याया वचनात् । आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथा इति । इमाः दक्षिणाः आजहर्थ । अनेनैव मुखेन विद्याग्रहणोपायेन वाचयिष्यसीत्यर्थः । ते हैते रैक्वपर्णा नाम महा-वृषे(क्षे)षु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तान् ग्रामान् तस्मै रैक्वाय ददौ । तदनन्तरं तस्मै विद्यामुपदिदेशेत्यर्थः ।

क्षत्रियत्वगतेश्च - ननु महाभारते सूतात्मजमात्मानं मन्यमानस्य कर्णस्य दानपतित्वराज्याधिपतित्वादीनां श्रवणात्, अवेष्टिनये वात्तिर्के, "राज्यमविशेषेण चत्वारो वर्णाः कुर्वाणा दृश्यन्त' इत्युक्तेः दानपतित्वं शूद्रस्यापि संभवति । न च, "शक्तेनापि च शूद्रेण न

1.3.35

कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्रााहृणानेव बाधते' इति निर्धनत्वश्रवणात् कथमस्य दानपतित्वमिति वाच्यम्-व्यासस्मृतौ शूद्रप्रकरणे, "राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः । पापीयान् हि धनं लब्ध्वा वशे कुर्यात् गरीयसः' इति धार्मिकशूद्रस्य धर्मार्थं धमार्जनस्य अनुज्ञातत्वादिति चेन्न, बहुदायित्वादीनां कदाचित् शूद्रे संभवेऽपि क्षत्तृप्रेषणस्य, रैक्वाध्युषितग्रामाणां तस्मै दानस्य च क्षत्रियधर्मराज्याधिपत्यसाध्यस्य तत्रासंभवात् । राज्यपालनं हि क्षत्रियस्य वृत्तिः, आपद्वृत्तित्वेनापि ब्रााहृणस्यैव संभवात् । "अजी-वंस्तु यथोक्तेन ब्रााहृणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्रस्य प्रत्यनन्तरः । यो मोहादधमो भूत्वा जीवेदुत्कृष्टकर्मणा । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत्' इत्यादिस्मरणात् राज्याधिपत्यस्याशास्त्रीयत्वात् । इतिहासपुराणादिषु दर्शितस्याक्षत्रियाणामपि राज्यपरिपालनस्याशास्त्रीयतयाप्युपपत्तेः प्रकृते शास्त्रानिषिद्धराज्याधिपत्यग्रहणसंभवे निषिद्धग्रहणस्यान्याय्यत्वात् । जानश्रुत्यधि-ष्ठितराज्ये रैक्वस्य वासप्रतिपादनाच्च तस्यक्षत्रियत्वमभ्युपगन्तव्यम् । "न शूद्रराज्ये निवसेत् न पाषण्डचनैर्वृते' इति शूद्रराज्यस्य निषिद्धत्वादित्यपि द्रष्टव्यम् ।

उत्तरत्र चैत्ररथेन लिङ्गात् । त्रैवर्णिकत्वलिङ्गमित्यर्थसिद्धमिति । "सार्ववणिर्कमैक्षचरणमभिशस्तपतितवर्जम्' इति गौतमस्म-रणस्य त्रैवर्णिकालाभविषयतया व्याख्यातत्वात् नानुपपत्तिरिति द्रष्टव्यम् । जातिद्वयसंबन्धितयावगतायामिति । विद्यायामिति शेषः कापेयसहपाठादित्यर्थ इति । सहपाठावगतपरस्परसाहचर्यादित्यर्थः । तत्पुरोहितकस्य चैत्ररथत्वं सिद्धमिति । ननु, "एतेन वै चित्र-रथं कापेया अयाजयन्, तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वन् । तस्मात् चैत्ररथिर्नामैकः क्षत्रपतिर्जायत' इति द्विरात्रप्रकरणगतार्थवादे कापेययाज्यस्य चित्ररत्वावगमात् अभिप्रतारिणोऽपि चित्ररथत्वमेव स्यात्, न चैत्ररथत्वमिति चेन्न-अभिप्रतारिलक्षणसंज्ञान्तरावरु-द्धस्य चित्ररथलक्षरसंज्ञान्तरावरोधासंभवात् समानान्वयानां समानान्वययाज्यत्वस्याचिततया कापेययाज्यस्य चित्ररथवंश्यत्वे नानु-पपत्तिः । नन्वभिप्रतारिणः कापेययज्यत्वे सिद्धे तस्य चित्ररथवंश्यत्वसिद्धिः; चित्ररथवंश्यत्वे च क्षत्रियत्वनिर्धारणम्; क्षत्रियत्वे च निर्धारिते साहचर्यात् जानश्रुतेरपि क्षत्रियत्वनिश्चय इति प्रणाडी न संभवति, अभिप्रतारिणः कापेयसाहचर्यमात्रेण कापेययाज्यत्व-स्यैवासिद्धेः । न हि कापेयाभिप्रतारिणोरेक #िभोजनं याज्ययाजकभावाधीनम्; नानादेशागतानां परस्परसंबन्धशून्यानामेकत्र भोजन-

1.3.36

दर्शनात् । यौनमौखसंबन्धान्तरसद्भावाच्च । अस्तु वा अभिप्रतारिणः कापेययाज्यत्वम् । नैतावता तस्य चैत्ररथत्वसिद्धिः, कापेयानां चैत्ररथयाजकत्ववत् पुरुषान्तरयाजकत्वस्यापि संभवात् । अस्तु वाऽभिप्रतारिणः क्षत्रियत्वम्; तथापि तत्समभिव्याहारमात्रेण शूद्रे-त्यामन्त्र्यमाणस्य जानश्रुतेः क्षत्रियत्वे प्रमाणाभावादिति चेत्-अविदितपूर्वस्य हस्तिनो निकटे पुरुषे दृश्यमाने, तÏस्मश्च राज्ञो हस्ति-पकोयमिति प्रत्यभिज्ञायमाने सति अयमस्य अस्तिपकस्य शिक्षणीयो हस्ती, राजकीयश्चेति बुद्धिरौत्सर्गिकी जायते । एवमिहापि अभिप्रतारिसन्निधौ कापेये श्रूयमाणे, तÏस्मश्च श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने, कापेययाज्योऽयमभिप्रतारी चित्ररथवंश्यश्चेति बुद्धिर्जायमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठते इत्यौत्सर्गिकन्यायमवलम्ब्योच्यते । एवं च ब्रााहृणद्वितीयस्याभिप्रतारिणः चैत्ररथत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहारात् ब्रााहृणस्य रैक्वस्य द्वितीयो जानश्रुतिरपि क्षत्रिय इति निर्धारणं युक्तमेव; अन्यथासिद्धक्षत्तृप्रेरणादिलिङ्गसाहचर्यादिति द्रष्टव्यम् ।।

संस्कारपरामर्शात्तदभावाभिलापाच्च । भाष्ये न च संस्कारमर्हतीति । ननु तत्रैव मानवे धर्मशास्त्रे,

"धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तिमनुव्रताः । मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च' ।। इति

तदनन्तरश्लोके धामिर्कशूद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम् । न चामन्त्रकसंस्कारो न विद्योपयोगीति वाच्यम्-स्त्रीणामपि मैत्रेयीप्रभृतीनां तदभावप्रसङ्गादिति चेन्न-संस्कारान्तरसत्त्वेऽपि, "शूद्रश्चतुर्थो वर्ण एकजातिः' इत्युपनयनसंस्कारस्य निषेधात् उप-नयनसत्त्वे जन्मद्वयप्रसङ्गेन द्विजत्वप्रसङ्गात् । नन्वध्यनाङ्गमुपनयनं प्रस्तुत्यैव, "तद्वितीयं जन्मे'त्युच्यते; न तु ब्राहृविद्याङ्गं प्रस्तुत्येति

1.3.38

चेन्न- "त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसी'ति वैदिकलिङ्गेन ब्राहृविद्याङ्गोपनयनस्यापि जन्मान्तरत्वात् । नन्वेवं द्विजातीनां ब्राहृविद्याङ्गोपनयनेन जन्मान्तरोपपत्तौ त्रिजन्मत्वप्रसङ्ग इति चेन्न-इष्टापत्तेः ।

"मातर्यग्रेऽथ जननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्' ।। इति

मनुना यज्ञदीक्षाया अपि जन्मान्तरत्वाभिधानात् । "अनृतात् सत्यमुपैमि', "मानुषाद्दैवमुपैमि', "दक्षिणं पूर्वमाङ्क्त्#े । सव्यं हि पूर्वं मनुष्या आञ्जत' इति मन्त्रार्थवादलिङ्गैराधानपूर्वकयज्ञदीक्षायां मनुष्यतोत्तीर्णदेवजन्मत्वसूचनाच्च । ननु केकयराजाजातशत्रुप्रभृते-रुपनयनाभावेपि विद्योपदेष्टृत्वं दृश्यते । यथा "ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच । बालाकिस्समि-त्पाणिः प्रतिचक्राम, "उप त्वा यानी'ति; तं होवाचाजातशत्रुः, प्रतिलोमरूपमेव स्यात्, यत् क्षत्रियो ब्रााहृणमुपनयेत् । व्येवत्वा ज्ञापयिष्यामीति । ततश्च उपनयनाभावेऽप्युपदेशदर्शनात् शुद्र्रेऽपि तथात्वमस्त्विति चेन्न-तत्राब्राहृणानां ब्रााहृणोपनयनस्यायुक्ततया बाधकबलात् तथाभावेऽपि अन्यत्रउपनयनस्याऽऽवश्यकत्वादिति भावः ।

तदभावनिर्धारणे च प्रवृत्तेः । भाष्ये शूद्रत्वाभावनिर्धारण इति । ननु, "नैतदब्रााहृणो विवक्तुमर्हति समिधं सोम्याहर । उप त्वा नेष्य' इति अब्रााहृणत्वभावनिर्धारणस्यैव दर्शनेन शूद्रत्वाभावानिर्धारणात् अयुक्तमिदम् । किञ्च एतल्लिङ्गवशात् अब्रााहृणानां क्षत्रि-यादीनामप्यधिकारो न स्यात् । किञ्चेदमुपनयनं न ब्राहृाविद्याङ्गम्; अपि त्वध्ययनाङ्गम् । सत्यकामस्य पूर्वमकृताध्ययनत्वात् । एव-मुपाख्यायते-सत्यकामो ह जाबालो जबालां मारमामन्त्रयाञ्चक्रे, "ब्राहृचर्यं भवति ! विवत्सामि किंगीत्रोन्वहमस्मीति । सा हेनमुवाच, नाहमेतद्वेद तात ! यद्गोत्रस्त्वमसीति । बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तु

1.3.39

नामाहमस्मि । सत्यकामो नाम त्वमसि । सत्यकाम एव जाबालो ब्रावीथाः' इति । स ह हारिद्रुमतं गौतममेत्योवाच ब्राहृचर्यं भवति विवत्सामि, उपेयां भवन्तमिति । तं होवाच किंगोत्रो नु सोग्यासीति । स होवाच नाहमेतत् वेद भो यद्गोत्रोहमस्मीति । अपृच्छं मात-रम् । सा मा प्रत्यब्रावीत्, "बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे, साहमेतन्न वेद यद्गोत्रस्त्वमसि; जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसीति । सोऽहं सत्यकामो जाबालोऽस्मि भो इति । तं होवाच नैतदब्रााहृणो विवक्तुमर्हति समिधं सोम्याहर । उप त्वा नेष्ये । न सत्यादगाः इति । तमुपनीये'त्यादि । ततश्चास्यामाख्यायिकायामुक्तं गोत्रापरिज्ञानमकृताध्ययनाङ्गोपनयनस्य बालस्य संभवति; न तु उपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्राहृविद्याधिजिगिमिषया गुरुमुपसीदतः । ततश्च कथमेतदुच्यत इति चेत्-उच्यते । नैतद्ब्रााहृणो विवक्तुमर्हतीत्यत्राब्रााहृणपदस्य शूद्रपरत्वमेव वक्तव्यम् । सत्यवचनं हि शूद्रे असंभावितम् । "अनृतञ्चातिवादश्च पैशुन्य-मतिलोभता । विकृतिश्चाभिमानश्च जन्मतः शूद्रमाविशत्' इति स्मृतिवशात् शूद्रे ईदृशसत्यवचनमसंभावितमितिहि गौतमस्याभिस-न्धिर्युज्यते । नान्यथा । किञ्च त्रैवर्णिकानामुपनयनस्य श्रुतिसिद्धतया क्षत्रियत्वाद्यभावनिर्धारणस्योपनयनाप्रयोजकत्वात् साधारणोप्य-ब्रााहृणशब्दः शूद्रमात्रपर एव प्रकृते उचितः । यच्चोक्तमध्ययनाङ्गमेवेदमुपनयनमिति-तन्न । उत्तरत्र षोडशकलब्राहृविद्योपदेशस्यापि दर्शनादुभयार्थमेवेदमुपनयनम् । तादृशे चोपनयने प्रवर्तमानो गौतमः शूद्रत्वाभावं निश्चित्यैव प्रववृत इति दर्शनात् उभयविधेप्युपनयने शूद्रत्वाभावोपेक्षित इत्येवावसीयते । यदि ब्राहृविद्याङ्गोपनयने शूद्रत्वाभावो नापेक्षितः; अपित्वध्ययनाङ्गोपनयन एवेत्युच्येत-तर्हि ब्राहृविद्याङ्गमुपनयनं सत्यकामस्य जातिमपरीक्ष्यैव कुर्यात्, अतोऽवसीयते, द्विविधेत्युपनयने शूद्रत्वाभावोऽपेक्षित इति ।

1.3.39

स्मृतेश्च । स्मृतिशब्दविवक्षितमिति । श्रवणाध्ययनार्थप्रतिषेधस्मृतित्वेन विवक्षितमित्यर्थः । ततश्च श्रवणाध्ययनप्रायश्चित्तस्मृ-तिवचनस्य कथं निषेधस्मृतिवचनत्वमिति न शङ्कनीयमिति भावः । भाष्ये विपरीतवासनायां निवृत्तायां ज्ञानमुत्पत्स्यत इति । ननु मनुष्याणां बहूनि ब्राहृविद्योत्पत्तिप्रतिबन्धकानि दुरितानि । तत्र यानि विविदिषोत्पत्तिप्रतिबन्धकानि, तानि च वेदानुवचनयज्ञदा-नाद्यपूर्वनिवर्तनीयानि; यानि चोत्पन्नविविदिषस्यापि श्रवणादिसाधनसंपत्तिविघटकानि, तानि च सन्यासापूर्वनिवर्तनीयानि; यानि च संपन्नश्रवणस्यापि असंभावनाविपरीतभावनाबाहुल्यापादनमुखेन अविद्यानिवर्तकब्राहृसाक्षात्कारोत्पत्तिप्रतिबन्धकानि, तानि च वेदान्तश्रवणादिनियमसंपाद्यादृष्टनिवत्र्यानि । ततश्च कथं शूद्रादीनां श्रवणनियमसंपाद्यादृष्टविधुराणामधिकार इति चेन्न-नियमा-दृष्टवैगुण्यमात्रेण दृष्टफलानिष्पत्तेः क्वाप्यदर्शनात् । उपनयनाङ्गकाध्ययननियमादृष्टवैगुण्येऽपि दृष्टफलस्याक्षरराशिग्रहणस्य अर्थज्ञानस्य वा अनुत्पत्तेरदर्शनात् । इयांस्तु विशेषः-नियमस्य क्रत्वत्र्थत्वे नियमादृष्टवैगुण्ये क्रतोर्वैगुण्यं पुरुषः प्रत्यवैति । यथा द्रव्यार्जनोपायनि-यमवैगुण्ये । ततश्च श्रवणनियमस्य च क्रत्वर्थत्वाप्रसक्तेः तद्वैगुण्ये पुरुषः प्रत्यवैतीत्येतावद्वक्तव्यम् । ततश्च यस्तूत्पन्नब्राहृविविदिषः शूद्रो वाऽन्यो वा प्रत्यवायमप्युभ्युपेत्य उत्पन्नमपि प्रत्यवायं ब्राहृज्ञानेन निर्धक्ष्यामीति बुद्धया लौकिकभाषाप्रबन्धादिषु प्रवृत्तः तस्य नियमा-दृष्टमन्तरेणापि ज्ञानोत्पत्तेः दुर्निवारत्वात्, उत्पन्ने च ज्ञाने अविद्यानिवृत्तेः दुनिर्वारत्वाच्च परेषां मतमसमञ्जसमिति पश्यामः । भाष्ये-

1.3.39

प्रत्यक्षानुमानवृत्तेति । वृत्तं बोधनमित्यर्थः । साङ्कयहैरण्यगर्भेति । साङ्ख्यादिभिर्नैसर्गिकव्यवहारविरुद्धकर्तृत्वादिविरुद्धात्म-स्वरूपप्रत्यायने सति साधकबाधकप्रमाणस्वरूपशोधनेच्छया प्रत्यक्षानुमानप्रकारबुभुत्सा भवत्येवेति न प्रसञ्जनार्थं वेदान्तापेक्षेति भावः । परमकारणत्वोपयोगीति । "समाननामरूपत्वाच्चावृत्तावप्यविरोधः' इतिसूत्रे चतुर्मुखाद्युपादकत्वेन परमात्मनः परमका-रणत्वस्याऽऽविष्करणादिति भावः । मधुविद्यायामुक्तमिति । "अथ तत ऊध्र्व उदेत्य, नैवोदेता नास्तमेते'त्यादिभागस्य कारणा-

1.3.39

वस्थजीवान्रर्यामिपरत्वस्य तत्र प्रतिपादनादिति भावः । परमात्मविषयत्वं ज्ञापितमिति । यद्यपि "वायुर्वाव संवर्गः । यदा वा अग्नि-रुद्वायति वायुमेवाप्येती'त्यादिना अग्न्याद्यप्ययाधारत्वस्य परमात्मलिङ्गत्वात् संवर्गविद्यायाः परमात्मपरत्वं सिद्धवत्कृत्यैव पूर्वोत्तर-पक्षयोः प्रवृत्तिर्दृष्टा; न तु तदधिकरणे तद्विद्यायाः परमात्मपरत्वसमर्थनं दृष्टम्-तथाऽपि यथाकथंचित् तस्मिन्नप्यधिकरणे कारणत्वा-नुबन्धिविचाररूपत्वमस्तीति सङ्गत्यतिशयोऽस्तीति भावः । अत्रापीति । समन्वयाध्यायेऽपीत्यर्थः ।।

1.3.40

कम्पनात् । परमात्मपरत्वेनोपपादितेति । ननु, "यदिदं किञ्चे'ति वाक्ये परमात्मपरत्वस्य निश्चितपरमात्मप्रतिपादकभावा-ङ्गुष्ठवाक्यद्वयमध्यगतत्वोपपाद्यत्वे, सिद्धान्ते कम्पनस्याङ्गुष्ठवाक्यपरमात्मपरत्वोत्तम्भकत्वं न स्यात्; तन्निर्वाह्रस्य तन्निर्वाहकत्वा-योगादिति चेन्न-पृथगधिकरणवादिपररीत्या दूषणदाने दोषायोगात् (भावात्) । यद्वा एतदस्वरसादाह अस्मिन्नेव मन्त्र इति । पूर्वपक्षानुदय इति भाव इति । इदमप्यत्रानुसन्धेयम्-कम्पनादित्यस्य, शब्दादेव प्रमित इत्यधिकरणशेषतया तदुत्तम्भकहेतूपन्या-सरूपत्वे, "नित्यो नित्यानां चेतनश्चेतनानाम्', "तदेव शुक्रं तद्ब्राहृ तदेवामृतमुच्यते' इत्यादिसंप्रतिपन्नपरमात्मपरभाववाक्यार्थ-स्यैवोत्तम्भकतया सूत्रणसंभवे किमनेन विप्रतिपत्तिशङ्कास्पदप्राणवज्रश्रुतिघटितवाक्यार्थभूतकम्पनोपन्यासेनेति न वाच्यम्-सर्वथा पूर्वपक्षानुत्थित्या पृथगधिकरणत्वशङ्काया असंभवेन, शब्दादेव प्रमित इत्यधिकरणशेषत्वस्यैव वक्तव्यतया कम्पनशब्दस्य विनि-गमनाविरहेण (नाभावेन) ज्योतिर्दर्शनव्यतिरिक्तप्राकरणिकधर्मोपलक्षकत्वसंभवेन कम्पनादिति सूत्रे अनुपपत्त्यभावादिति । "प्राणः कम्पनादित्यश्रवणादिति । एतेन कम्पनादित्यस्य व्यवहितप्रमिताधिकरणशेषत्वे, "आकाशोऽर्थान्तरत्वादिव्यपदेशा'दित्यस्यापि उक्तरीत्या दहराधिकरणशेषत्वं किं न स्यादिति वाचाटवचसोऽपि नावकाश इति द्रष्टव्यम् । वायुनिमित्तमेवेति । वायोरेवाशनि-रूपेण परिणामेन तस्यैव महाभयहेतूद्यतवज्ररूपत्वसंभवादित्यर्थः । वज्रशब्देन न पञ्चवृत्तिप्राणशङ्का भवतीति । यद्यपि प्राणश्रुति-बलादाध्यात्मिकः पञ्चवृत्तिर्वायुरभिधीयते; वज्रश्रुतिबलाच्चाशन्याकारेण परिणतो बाह्रवायुरभिधीयते । प्राणमात्रस्य वज्रोद्यमन-

1.3.40

हेतुत्वासंभवात् । अत उभयोश्चिन्तनं संवर्गविद्यावत् क्रियत इत्येव तेषां पूर्वपक्षः । तथैव स्पष्टं कल्पतरावभिधानात् । वाचस्पतिनाऽपि प्राणवज्रश्रुतिबलात् वाक्यं प्रकरणं च भङ्क्तवा आध्यात्मिकप्राणो बाह्रवायुश्चात्र प्रतिपाद्यते इत्यभिधानाच्च-तथाऽपि तद्भाष्ये पुर्वपक्षे वायुरेव प्रतिपत्तव्य इत्युपसंहारदर्शनात् एवविषयत्वप्रतीतेः तथाभिप्रायसंभवमभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । लक्षणाप्रसङ्गादिति भाव इति । न च बिभेत्यस्मादितिव्युत्पत्तिसंभवात् न लक्षणेति वाच्यम्-भयशब्देन भयहेतुप्रतीतेः असति बाधकेऽनुदयेन तत्प्रतीतेर्लक्षणैक-शरणत्वादिति भावः । अध्याहारादपीति । इवशब्दस्याध्याहारादपीत्यर्थः । अत एव पूर्वतन्त्रे प्रयुक्तिलक्षणे (4-2-2.) प्राचीमाह-रतीत्यत्र प्राचीशब्दस्य दिग्वचनत्वा मुख्यत्वसत्त्वेऽपि आहर्तव्यत्वासंभवेन प्रतिशब्दाध्याहारबलात् प्राचीशब्दः प्रागग्रशाखरलक्षक इत्याश्रितमिति भावः । कथं हेतुत्वावगम इति । भयमितिश्रूयमाणे भयादित्यर्थः कथं लभ्यत इत्यर्थः । पूर्वमवतारितस्य भाष्यस्य भया-दस्यादिभाष्यद्वयस्याभिप्रेतामाशङ्कान्तरनिवृत्तिमप्याह एवंतर्हीति । अथवाऽत्र यद्वेत्यध्याहारः । प्रथमान्तपदसामानाधिकरण्य-स्वारस्यभङ्ग इति । प्रथमान्तपदत्वभङ्गः भयशब्दस्य वज्रपदसामानाधिकरण्यस्वारस्यभङ्गश्चेत्यर्थः । इवशब्दाध्याहारश्च स्यादिति । लक्षणा च स्यादित्यर्थः । अध्याहारस्य पूर्वमेव निरस्तत्वात् । यद्यपि वज्रशब्दस्य लक्षणा सर्वपक्षसाधारणी, तथापि पूर्वदूषणे तात्प-र्यम् । प्रथमाया विहितत्वादिति । यद्यपि सुपांसुलुगिति सूत्रे स्वादेश एव विहितः, तथापि प्रथमैकदेशवचनस्य प्रत्यभिज्ञायमानतया तस्यैव विधानमभिप्रेत्य प्रथमाया विहितत्वोक्तिः । यद्वा सुपां सुपो भवन्तीति तत्सूत्रवार्तिकेन सर्वासामपि विभक्तीनां स्थाने सर्वासा-

1.3.41

मपि विभक्तीनां विधानात् प्रथमाया अपि सर्वविभक्तिस्थाने विहितत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । सुपां सुपो भवन्तीत्यादीनाम्, "व्यत्ययो बहुल'मिति सूत्रविहितविभक्तिव्यत्ययो वेत्यर्थः । सक्तून् जुहोतीत्यादौ विभक्तिव्यत्ययदर्शनात् दर्शनं न दोष इति भावः ।

ज्योतिर्दर्शनात् । एतत्प्रकरणहेतुत्वमेवेति । अङ्गुष्ठप्रमितवाक्यद्वयमध्यगतस्यास्य मन्त्रस्य तत्प्रकरणभङ्गेन प्राकृततेजोधातुपर-त्वशङ्का न युक्तेति दशर्यतीत्यर्थः । ज्योतिष्मद्भ्राजमानं महस्वदिति । न चात्रापि ज्योतिश्शब्दस्य तेजःपरत्वसम्भवात् दीप्तिपरत्वं (न?) संप्रतिपन्नमिति वाच्यम्-महस्वदित्यनेन पुनरुक्तिप्रसङ्गादिति भावः । आप्यायनं च दृष्टमिति । अनुग्रहश्च दृष्ट इत्यर्थः । ननु प्राकृततेजसोऽनुग्राहकत्वातिरेकेण निमित्तत्वस्याभावात् निमित्तत्वानुग्राहकत्वे तृतीयतुरीयपादप्रतिपाद्ये इत्युक्तिः कथमित्याशङ्कय- सत्यमनुग्राहकत्वपर्यवसितं निमित्तत्वम्, तथापि तेजउत्पत्तौ तत्कारणानुग्राहकत्वलक्षणनिमित्तत्वं तृतीयपरदरर्थः, उत्पन्नस्य तेचसः स्वकार्यारम्भसामथ्र्यापादकत्वलक्षणमनुग्राहकत्वं तुरीयपादार्थ इत्यभिप्रयन्नाह निमित्तकारणत्वञ्चेत्यादि । तस्मिन् भासमान इति । अनन्तगुणविशिष्टपरमपुरुषे भासमान एव प्रपञ्चाध्यास इत्यस्याभावेन तत्स्फुरणानुरोधि अध्यस्तप्रपञ्चस्फुरणमित्यस्यानुपपत्तेरित्यर्थः ।

1.3.41

न हि तन्मतेपि विशिष्टभानानुविधानभानं प्रपञ्चस्याभ्युपगतम्; अपितु शुद्धस्यैवाधिष्ठानतया तद्भानानुविधानमेवाभ्युपेतमिति भावः । व्यवच्छेद्यतेजोन्तरासंभवादिति । अन्यं भान्तं नानुभातीत्येवं व्यवच्छेद्यानुभानयोग्य तेजोन्तरापसक्तेरित्यर्थः । प्रकरणस्य रुक्मवर्ण-श्रुतीति । मुण्डके, "न तत्र सूर्यो भाती'ति प्रकरणगतया, "यदा पश्यः पश्यते रुक्मवर्णम्' इति रुक्मवर्णश्रुत्या, कठवल्याम्, "न तत्र सूर्यो भाती'ति प्रकरणगतेन, अङ्गुष्ठमात्रः पुरुष इत्यादिपुरुषशब्देन प्रत्यभिज्ञाप्यमानया, "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्' इत्यादित्यवर्णश्रुत्या च सिद्धा या दिव्यविग्रहद्वारकनिरतिशयदीप्तिः, तद्विशिष्ट इत्यर्थः । उत्थानश्रुतिरिति । ब्राहृणः सर्व-गतत्वेन तत्प्राप्तौ शरीरादुत्क्रमणस्यानपेक्षितत्वात् ब्राहृसाक्षात्कारानन्तरभाविन्यां ब्राहृप्राप्तौ उपसंपद्येति क्तवाप्रत्ययेन तत्पूर्वभावित्व-

1.3.41

निर्देशस्यानुपपन्नत्वाच्च, "शतञ्चैका च ह्मदयस्य -नाड¬स्तासां मूर्धानमभिनिस्सृतैका । तयोध्र्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमेण भवन्ती'त्युपासकानां मूर्धन्यनाड¬ा शरीरात् समुत्थानस्य, "यावत् क्षिपेन्मनः,तावदादित्यं गच्छे'दिति तदनन्तरमेव आदित्यप्रा- प्तेश्च वर्णितत्वात् इहापि "शरीरात् समुत्थाय,' "परं ज्योतिरुपसंपद्ये'ति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात्, आदित्यज्योतिषश्च मार्गे प्रथमपवर्भूतार्चिज्र्योतिरपेक्षया परत्वेन कथञ्चित् परत्वोपपत्तेः, आदित्यं प्राप्तस्य च ब्राहृलोकप्राप्त्यनन्तरभाविक्रममुक्तयभिप्रायेण, "स्वेन रूपेणाभिनिष्पद्यत' इत्यस्याप्युपपत्तेश्च अर्चिरादिभार्गपर्वभूतादित्यप्राप्तिरेव, "परंज्योतिरुपसंपद्ये'ति वाक्यार्थ इति पूर्वपक्ष-हेतुरुपन्यस्त इति चेदित्यर्थः । वक्ष्यमाणत्वादिति । चतुर्थाध्याय इति शेषः । हेतुप्रयोगानन्तरमेवेति । "उवराच्चेदाविर्भूतस्वरूपस्तु' इति सूत्रे आविर्भूतस्वरूप आत्मा प्रजापतिवाक्ये अपहतपाप्मत्वादिगुणकतया प्रतिपाद्यते; न तु कर्तृत्वाद्यनर्थाश्रयो जीव इत्युक्ते-

1.3.42

न प्रजापतिवाक्ये आविर्भूतस्वरूपस्य प्रतिपाद्यता; किन्तु परंज्योतिरुपसंपद्येत्यादित्यं प्राप्तस्य बद्धस्यैवेति हेत्वसिद्धौ शङ्कितायां तत्परिहारपरस्य ज्योतिर्दर्शनादिति सूत्रस्य तत्रैव निवेशो युक्त इत्यर्थः । अपरे त्वाहुरिति । तुशब्दोऽप्यर्थः । अपरेप्येवमेवाहुरित्यर्थः । ततश्च पूर्वोक्तपक्षादस्य पक्षस्य किं वैषम्यमिति शङ्का निरस्ता ।। ।। इति प्रमिताधिकरणशेषः ।।

आकाशोऽर्थान्तरत्वादि व्यपदेशात् । आकाशो हवै नामेत्यादीति । आकाशो ह वै नामरूपयोरित्यपि केचित् पठन्ति; आकाशो वै नामरूपयोरित्यपि पाठो दृश्यते । अतः पाठद्वयमपि प्रामाणिकमेवेति द्रष्टव्यम् । स्ववाक्ये परमात्मलिङ्गेति । ननु शाङ्करभाष्ये, द्रष्टृत्वादेः ब्राहृलिङ्गस्याश्रवणादित्येवोच्यते; न स्ववाक्य इति, ततः कथमिदमुच्यते स्थवाक्य इतीति चेन्न-"ते यदन्तरा तद्ब्राहृ; तदमृतम्; स आत्मे'ति वाक्ये परमेव ब्राहृ प्रतिपाद्यते । आकाशो ह वै नामरूपयोर्निर्वहितेत्यंशे तु आकाशशब्दप्रसिद्धया अवकाशद्वारेण नामरूपयोः निर्वोढा भूताकाशो ब्राहृप्रतिपत्त्युपायतया प्रतिपाद्यत इति वाचस्पत्यभिमतपूर्वपक्षं ह्मदि निधाय, तत्र च, आकाशो वै नामरूपयोः निर्वाहितेत्येतावदेव स्ववाक्यम्, तत्र च परमात्मलिङ्गं नास्तीति वक्तुं स्ववाक्य इत्युक्तमिति द्रष्टव्यम् ।

1.3.42

अन्योन्यनिर्वाह्रनामरूपस्येति । ननु मुक्तस्याप्यन्यनिर्वाह्रनामरूपत्वं समानम् । तदपि न साम्प्रतिकीमवस्थामादायोपपादयितुं शक्यते; अपि तु भूतपूर्वगत्या । ब्राहृात्मशब्दयोश्च न स्वारस्यम् । ततश्चाकाशश्रुतिमूलस्य पराभिमतपूर्वपक्षस्य नामरूपनिवोढृत्व-रूपलिङ्गबलात् अनुत्थितौ कथं प्रकरणमात्रशरणस्य मुक्तपूर्वपक्षस्योत्थिरिति चेत्-उच्यते । न प्रकृतत्वमात्रमवलम्ब्य मुक्तपूर्वपक्ष-मुत्थापयामः । "अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्यत स्वेन रूपेणाभिनिष्पद्यत' इति वाक्यप्रतिपाद्ययोः कालभेदेन नाम-रूपभाक्तवतद्राहित्ययोः, "निर्वहिता ते यदन्तरे' त्यत्र प्रत्यभिज्ञानात्, "नामरूपयोः निर्वहिता ते यदन्तरे'त्यत्र पूर्वं निरूढनामरूपस्य

1.3.42

पश्चात्ततद्विमुक्तस्यैव मुक्तस्य प्रतीतेः, "य एषोक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतभयमेतद्ब्राहृे'ति अव्यवहितप्रजा-पतिवाक्ये आत्मत्वब्राहृत्वामृतत्वादीनामपि मुक्ते श्रवणेन तेषामेव शब्दानामिह प्रत्यभिज्ञायमानत्वात्, आकाशाधिकरणदहराधि-करणयोः आकाशशब्दस्य यौगिकत्वसमर्थनेनाकाशत्वस्याप्युपपत्तेः मुक्तपूर्वपक्षोत्थाने न दोष इति द्रष्टव्यम् ।

मुक्तात्मपरत्वं वदद्भिरेवेति । "ते यदन्तरा तद्ब्राहृे'त्ययमंशो मुक्तात्मपरः । "आकाशो ह वै नामरूपयोर्निर्वहिते'त्यंशस्तु भूता-काशपर इति पूर्वपक्षितमित्यर्थः । अनेन वाचस्पतिपक्षापेक्षया वैषम्यमुक्तं भवति । श्रुत्यनुवाद इति । इतरथा निर्वोढेति रूपप्रसङ्गा-दितिभावः । एवमुत्तरत्र सर्वत्रापि द्रष्टव्यम् । बुद्धसौकर्यार्थमाह । राद्धान्त इति । प्रदश्र्यत इति । प्रतिज्ञामन्तरेणापि प्रदर्शनसंभवात् वक्ष्यमाणरीत्या एकवाक्यतायाञ्च संभवन्त्यां तत्परित्यागस्यानुचितत्वञ्च पक्षान्तरमाह यद्वा नामरूपयोः निर्वहितेति । व्यपदेश

1.3.42

इत्यन्वय इति । यद्यप्यस्मिन् पक्षेपि अस्तिभवतिविद्यतीनामन्यतमाध्याहारोऽपेक्षितः-तथापि स न दोषायेति भावः । ननु नामरूपयोः निर्वोढृत्वव्यपदेशस्य कथमर्थान्तरत्वशब्दित व्यपदेशत्वमित्यत आह तदुपपादकधर्मं लक्षयतीति । अर्थान्तरत्वव्यपदेशादित्यस्य भेदकव्यपदेशादित्यर्थ इति भावः । कथं मुक्तस्यानन्तरमभिधानमिति । मुक्तस्यैवाभिधानमिति पूर्वपक्षिणोऽभिमानात् तथोक्तिरिति द्रष्टव्यम् । भाष्ये-सत्यसङ्कल्पत्वाच्च निर्वहितेत्यर्थ इति । ननु, ते यदन्तरेति नामरूपास्पृष्टत्वकथनेन तद्धेतुभूतपाप्नराहित्यस्याक्षेप-संभवेन अपहतपाप्मत्वस्योक्तिसंभवेऽपि सत्यसङ्कल्पत्वस्य प्रदर्शनाभावेन कथम्, ते यदन्तरेत्यनेन तदुपपादनमिति चेन्न-अपहत-

1.3.43

पाप्मत्वस्योक्तिसंभवेऽपि सत्यसङ्गल्पत्वस्य प्रदर्शनाभावेन कथम्, ते यदन्तरेत्यनेन तदुपपादनमिति चेन्न-अपहतपाप्मत्वे सत्यस-ङ्कल्पत्वस्याप्यवश्यम्भावेन तत्प्रदर्शनस्यापि संभवे, "ते यदन्तरे'त्यस्य नामरूपयोर्निर्वहितेत्येतदर्थोपपादकत्वमिति द्रष्टव्यम् । ज्ञानतो बृहत्त्वमिति । जीवबृहत्त्वे ज्ञानपरमात्मप्रसादानुपाधी इति भावः । ननु ब्राहृणोऽभिसंभाव्यतया निर्देशः कथमप्रधानप्रकृतत्वसूचक इत्याशङ्कय यद्यपीत्याक्षेपभाष्यखण्डस्याभिप्रायमाह प्रथमानिर्दिष्टस्याभिसंभवितुरित्यादिना स्वारस्येपीत्यन्तेन । अवान्तरप्रकर-णेनेत्यादि । धूत्वा शरीरमिति वाक्ये जीवपरौ प्रतिपाद्येते इति निर्विवादम् । तत्र प्रजापतिवाक्यरूपावान्तरप्रकरणबलात् तस्य जीव-परत्वे, अन्यार्थश्च परामर्श इतिन्यायेन तत्र ब्राहृपरामर्शः, प्रजापतिवाक्यान्तर्गते, "एष संप्रसादोऽस्माच्छरीरा'दिति वाक्ये इव जीव-प्राप्यप्रतिपादनतया जीवार्थः स्यात् । महाप्रकरणबलात् परब्राहृमहिमप्रतिपादकत्वे दहरविद्यान्तर्गते, "एषसंप्रसाद' इति वाक्ये जीव-परामर्शस्य ब्राहृमाहात्म्यप्रतिपादनशेषत्ववत्, "धूत्वाशरीर'मिति वाक्येऽपि जीवपरामर्शः परब्राहृमहिमप्रतिपादनार्थः स्यादिति भावः । भाष्ये प्राप्यतयोपसंह्यियत इति । ननु, "इति ह प्रजापतिरुवाचे'ति पूर्वमेव द्विरुक्तया प्रकरणसमाप्तेर्दर्शितत्वात् कथं "ब्राहृलोकमभि-संभवामी'त्युपसंहार इति चेत्-जीवावान्तरप्रकरणस्य समापितत्वेऽपि दहराकाशमहाप्रकरणस्यासमापितत्वेनास्य मन्त्रस्य तच्छेषत्वा-दिति भावः । सूत्रकारैरितःपूर्वमकृतत्वादिति । "अनुकृतेस्तस्य च', "अपि स्मर्यत' इति सूत्रयोरपि मुक्तभेदे सावकसद्भावमात्रप्रद-

1.3.44

र्शनपन्त्वेन ऐक्योपदेशादिपरिहारस्य तत्राकृतत्वादिति भावः । यद्यपीहापि साधकप्रमाणमेवोपन्यस्यते-तत्राप्यस्य सूत्रद्वयस्य साधक-प्रमाणादाढर्¬ापादन्मुखेन ऐक्योपदेश-भेदनिषेधश्रुत्यन्यथाकरणपर्यन्तत्वमस्तीति भावः । वस्तुतस्तु पूवर्तन्त्रे प्रथमपादे सिद्धस्यैव चोद-न्यप्रामाण्यस्य, "श्रुतिलक्षणमानुपूव्र्यम्' इति पुनः कथनवत् पूर्वसिद्धमुक्तभेददाढर्¬ाय पुनः प्रतिपादनोपपत्तिः । मुक्तप्राप्ततयोक्तस्येति । "अश्व इव रोमाणी'ति पूर्ववाक्य इति शेषः । परस्परसापेक्षयोरेव ऐक्योपदेशभेदनिषेधयोः साध्यसाधकत्वं मन्वान आह इतरेतरयोगे वेति । स्वग्रन्थे निर्दिष्टमिति । ततश्च यत्र यत्र निर्वहितेति श्रूयते, तस्य सर्वस्यापि श्रुत्यानुवादरूपत्वेन स्वग्रन्थत्वाभावात् नासाधुत्व-

1.3.44

मिति भावः ।

पत्यादिशब्देभ्यः । ननु, "सर्वस्य वशी सर्वभ्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीयान्, एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये'ति हि श्रुतिक्रमः । ततश्च कुतः तत्परित्यागेन भाष्ये व्युत्क्रमेण श्रुत्युपन्यास इ या(त्यत्रा?) ह सूत्र पत्यादिशब्देभ्य इतीति । वाक्यस्य पूर्वमितीति । "तस्य परमाम्राडितम्' इति निर्देशेन अवयववाचिपूर्वादिशब्दयोगे षष्ठी भवतीति ज्ञापितत्वात् षष्ठयाः साधुत्वं द्रष्टव्यम् । न च, "स न साधुना भूयान्' इत्यादिवाक्यस्य सर्वस्याधिपतिरिति वाक्यं नावयवः; येन पूर्वशब्दस्यावयववाचित्वं स्यादिति शङ्कयम्-स न साधुना कर्मणा भूयानित्यादिवाक्यस्येति

1.3.44

टीकागतस्य शब्दस्य प्रकरणगतवाक्यमात्रपरत्वादिति द्रष्टव्यम् । पश्चात् एष भूताधिपतिरिति वाक्यमिति । श्रुतौ पठितमिति शेषः । तन्त्रेण क्रोडीकारार्थमिति । बहुव्रीहितत्पुरुषाभ्यां पतिशब्दद्वयमध्यवर्तिनाम्, "स न साधुते'त्यादि वाक्यानामेत्यादरेण क्रोडाकरणा-र्थमित्यर्थः । ननु वश्यादिशब्देभ्य इत्युक्तावपि पूर्वोत्तरवाक्यानां क्रोडीकारमात्रं सिध्यतीत्यस्वरसादाह अभ्यासरूपेति । प्रथमश्रुतव-श्यादिशब्दं परित्यज्य मध्यश्रुतपतिशब्दमुपादाय, "पत्यादिशब्देभ्य' इति सूत्रणात् पातशब्दगतोऽभ्यासः सूच्यत इति भावः । पत्या-दिशब्दैः सहेति । वशी ईशानः भूतपाल इत्यादीनां प्रथमान्तानामेव पत्यादात्यादिशब्देन ग्रहणमुचितमित्यभिप्रेत्येदमुक्तमिति द्रष्टव्यम् । एत चेत्यादिभाष्यस्वारस्यानुरोधेन, "सुषुप्त्युत्क्रान्त्योर्भेदेने'ति सूत्रे बद्धजीवातिरेकम्बरस्यानुरोधेन च सूत्रद्वयस्य क्रमेण बद्धमुक्ताति-रेकप्रतिपादनपरत्वं भाष्यकारस्य निमतमित्यभिप्रायेणाह किं जीवमात्रादर्थान्तरत्वे विप्रतिपत्तिरित्यादिना । पूर्वसूत्रोक्तपरिष्वङ्गा-न्वारोहयोरपि मुक्तव्यावर्तनक्षमत्वात् सूत्रद्वयेनापि मुक्तव्यावृत्तिः प्रतिपाद्यत इत्यभिप्रायेणाह यद्वा सूत्रद्वयेक्तैरिति । वर्णनीयाविति

1.3.44

शङ्काबीजामति । वर्णनीयाविति समर्थनेन ऐक्यभेदानषेधश्रुतिलक्षणशङ्काबीजं परिह्मतं भवतीत्यर्थः । एतावदेवेति । अतो नारम्भ-णाद्यधिकरणैः पुनरुक्तेति भावः । जगत्कारणत्वनिर्वाहकन्यादिति । विशेष्यमात्रस्य ब्राहृणः प्रपञ्चोपादनत्वाभावेन सूक्ष्मचिदचि-द्विशिष्टस्य स्थूलचिदद्विशिष्टं प्रति हेतुत्वस्य वक्तव्यत्वादिति भावः । मुख्यत्वनिर्वाहस्य वक्ष्यमाणत्वं दर्शयति तत्रारम्भणाधिकरण-इत्यादिना । बुद्धान्तादीति । जाग्रदादीत्यर्थः । धर्मिवाचिपदाश्रवणं न दोष इति । "जगद्वाचित्वात्', "वाक्यान्वया'दित्यादिष्विति भावः । तस्येति । चतुथर्पादस्येत्यर्थः । ननु जगद्वाचित्यादित्यादौ व्युदसनप्रतिज्ञाऽपि न श्रूयत इत्याशङ्कयाह नेति पदस्येति । अनु-षङ्गेपि न दोष इति । अध्याहारापेक्षया अनुषङ्गस्य ज्यायस्त्वात्; तव त्विहानुषङ्गस्याप्यसंभवादिति भावः । किंच शेषभूतप्रतिज्ञा-यामनुषङ्गो न दोषायेति युक्तयन्तरमाह प्रधानादिपरत्वव्युदासस्येति । ननु "कारणत्वेनाकाशादिषु' इत्यस्य नेतिपदानुषङ्गो न युज्यते । "परब्राहृणो जगदुत्वद्यत इति निर्णेतुं शक्य'मिति तत्र प्रतिज्ञा भाष्योक्तेत्याशङ्कयाह क्वचिदध्याहारदर्शनेपीति । परमात्मपरत्वेऽपि न सन्देह इति । यद्यपि, सर्वस्य वशीत्यादयः शब्दा अपि जीव एव यथाकथञ्चिद्योजनीयाः । नास्मिन् सन्दर्भे कस्यचिदपि वाक्यस्य परमात्मपतिपादकत्वमस्तीत्येव पूर्वपक्षो वाचस्पतिना दर्शितः-तथापि सर्वस्य वशी सर्वस्येशान इत्यादीनां जीवप्रतिपादकत्ववाद-स्यातिसाहसत्वादसंशय इति द्रष्टव्यम् । किञ्चेश्वरस्येति । ईश्वराध्यस्तजीवभ्रमनिवृत्त्यर्थं खलु जीवस्याधिष्ठानभूतेश्वरतादात्म्यमुपदि-श्यते । तत्रेश्वरे जीवभ्रमः किमीश्वरस्य, उत जीवस्य ? न प्रथमः, सर्वस्य भ्रमासंभवात् । न द्वितीयः, अधिष्ठानभूतेश्वरज्ञानशून्यस्य तत्र

जीवस्य भ्रमानुदयादित्यर्थः । तात्पर्यलिङ्गदशर्नाच्चेति । अभ्यासापूर्वत्वरूपतात्पर्यलिङ्गदर्शनाच्चेत्यर्थः । शाखान्तरे चेति । कौपीत-कीश्वेताश्वतगदावित्यर्थः । "सता सोम्य तदा सम्पन्नो भवती'ति सद्विद्यायां श्रवणाच्चेत्यर्थः । शाब्दस्य हेतोर्विरुद्धत्वादिति । सुषु-प्त्युत्क्रान्त्योर्भेदस्य जीवत्वपूर्वपक्षासाधकत्वादिति भावः । यस्तु पूर्वपक्षहेतुः पूर्वमुक्तः; स न शाब्द इत्याह भोक्तुः प्रकृततयेति । ननु उत्सूत्र एव पूर्वपक्षः; आद्यसूत्रमपि सिद्धान्तसाधकमेवास्त्वित्याशङ्कयाह तच्छाङ्काव्युदसनेति । निरुपाधिकैश्वर्यवत्त्वं चेति । ततश्च चिदचिद्वैलक्षण्यसाधने संवादनिरपेक्षप्राज्ञत्वादेरेव हेतूकरणसंभवेन तत्र शाखान्तरसंवादस्य हेतूकरणासंभवादिति भावः ।।

इति अर्थान्तरत्वव्यपदेशाधिकरणम् ।।

इति चतुष्षष्टिप्रबन्धनिर्माणालङ्कर्मीण दशोपनिषद्भाष्यकार

श्रीमद्रङ्गरामानुजमुनिविरचितायां

श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां

प्रथमस्याध्यायस्य तृतीयः पादः ।।