भावप्रकाशिका/प्रथमोऽध्यायः/द्वितीयः पादः

← प्रथमोऽध्यायः, प्रथमः पादः भावप्रकाशिका
द्वितीयः पादः
[[लेखकः :|]]
प्रथमोऽध्यायः, तृतीयः पादः →

1.2.1

पादानुयायिनोऽर्थस्येति - चिदचिद्विलक्षणकारणास्तित्वस्येत्यर्थः । नन्वर्थभेदादेव पादक्रमोपपत्तौ सङ्गतिः कुतस्सूत्रकाराभि-मतेत्याशङ्कयाह - पादभेदो ह्रर्थभेदादिति । नतु प्रमविशेष इति भावः । सङ्गतिविशेषादिति - पौर्वापर्यनियामकजिज्ञासाविषयस्यैव सङ्गतित्वादिति भावः । तत्र किं प्रमाणमिति - सङ्गतिविशेषस्य सूत्रकाराभिमतत्वे किं प्रमाणमित्यर्थः । ननु जन्मादिसूत्रत्रयस्यापि प्रथमाधिकरणाधीनारम्भत्वेपि शास्त्रारम्भसिध्द्यर्थत्वमव्याहतमेव, ईक्षत्यधिकरणोपक्रमत्वाच्छास्त्रस्य । ततश्च प्रथमाधिकरणस्य शा-स्त्रारम्भसिध्यर्थत्वकीर्तनमयुक्तमित्याशङ्कयाह - यद्वा जनमादिसूत्र्याः इति । प्रथमपादे सङ्गतिरप्यस्तीति - शास्त्रान्तर्भूतत्वमप्य-स्तीत्यर्थः । नन्वीक्षत्यधिकरणादारभ्यैव शास्त्रं न ततः प्राचीनस्य शास्त्रत्वम्, शास्त्रारम्भार्थतया शास्त्रान्तर्भावस्तु प्रथमाधिकरणस्यापि

1.2.1

समानः । अतः प्रथमाधिकरणानुक्रमे शास्त्रारम्भसिद्धय इत्युक्तमयुक्तमित्याशङ्कयाह - यद्वा शास्त्रारम्भसिद्धय इतिपदमिति । आ-त्यन्तिकलयपर्यन्तत्वाभिप्रायेणेति - आत्यन्तिकलयो मोक्षः, मोक्षस्यानन्दरूपत्वादिति भावः । वस्तुतः परमात्मवृत्तेर्मुक्तगता-मृतत्वस्य कथं तदसाधारणत्वमित्याशङ्कयाह - प्रदेयत्वेनेति । चिह्नभूतमित्यर्थ इति - तथाचातद्धर्मस्यापि तच्चिह्नत्वमुपपद्यत इति भावः । भाष्ये-अतिपतितेति । प्रमाणान्तरविषयत्वगन्धशून्य इत्यर्थः । औत्पत्तिकसूत्र इति - औत्पत्तिकस्तु शब्दस्यार्थेन

1.2.1

सम्बन्धः' इति सूत्र इत्यर्थः । प्रत्यक्षसूत्र इति - "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' इतिसूत्र इत्यर्थः - अन्ययोग-व्यवच्छेदस्त्रिपाद्या क्रियत इति - आक्षेपपरिहारमुखेन नान्ययोग्यव्यवच्छेदाढर्¬मित्यर्थः । ब्राहृ लिङ्गगतमिति । परैरुक्तमिति - स्पष्टब्राहृलिङ्गादिवाक्यानि प्रथमपादे चिन्तितानि, अस्पष्टब्राहृलिङ्गादिवाक्यानि द्वितीयतृतीययोविर्चार्यन्ते । तत्र द्वितीयपादः सविशेषप्रधानः, तृतीयस्तु निर्विशेषप्रधानः । चतुर्थस्तु कारणवाक्यविगानपरिहारपर इति परैरुक्तमित्यर्थः । लिङ्गिप्रतिपादनमिति अव्यक्तादिशब्दैः प्रधानादेः प्रतिपादनादिति भावः । न तल्लिङ्गप्रतिपादनमिति - द्वितीयतृतीयपादयोरिव न लिङ्गमात्रप्रतिपादनमिति भावः ।। सर्वं खल्वित्यादेरिति "सर्वं खल्विदं ब्राहृ तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोको

1.2.1

पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणश्शरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्व-गन्धस्सर्वरसः सर्वमिदमभ्याक्तोऽवाक्यनादरः' एष म आत्मान्तह्र्मदयेऽणीयान् ब्राीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक-तण्डुलाद्वा एष म आत्मान्तह्र्मदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् द्विवो ज्यायानेभ्यो लोकेभ्यस्सर्वकार्मा सर्वकाम-स्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्याक्तोऽवाक्यनादर एष म आत्मान्तह्र्मदये एतद्ब्राहृैतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यश्शाण्डिल्यः' इति श्रुतिः । व्याख्यात्रन्तराभिमतां विषयशुदिं्ध दर्शयति, भाष्ये-स क्रतुं कुर्वीतेति । मनोमय उपास्यतया सम्बन्ध्यत इति - अयं भावः, मनोमयादिपदानां प्रथमान्ततया "स क्रतुं कुर्वीत' इतिप्रकृतो-पासनकर्तृविशेषणसमर्पकत्वमेव युज्यते, नतूपास्यविशेषणसमर्पकत्वमिति न वाच्यम्, मनोमयादिपदानामनपेक्षितोपासनकर्तृस-मर्पकत्वं परित्यज्य विभक्तिविपरिणामेनोपास्यविशेषणसमर्पकत्वस्यैव युक्तत्वादिति । फलवत्सन्निधाविति - "सर्वं खल्विदं ब्राहृ तज्जलानिति शान्त उपासीत' इतिवाक्ये शान्त्यर्थतयोपासनविधानेन तस्य फलवत्त्वात् । स क्रतुं कुर्वीतेतिवाक्ये फलाश्रवणात् फलवदफलन्यायेन तदङ्गत्वं प्रसज्येतेति भावः । विहितोपासनाधिकृतस्यैवेति - न च तस्यैवोपासनान्तरं विधीयत इत्यत्र किं मानम् ? येनास्याश्शङ्काया उत्थितिस्स्यात् । उपकोसलदहरादिविद्यावत् विद्यान्तरानधिकृताधिकारविषयत्वसम्भवादिति वाच्यम्, शान्तेः ब्राहृोपासनाङ्गतया शान्त्यर्थोपासनाधिकृतस्यैव स क्रतुं कुर्वीतेत्युपासनायाप्यधिकृतत्वादित्याशयात् । यद्यपि शान्त्यर्थोपासनवि-धानमिति न परेषां मतम् मृषावादिभिस्ततदनभ्युपगमात् । इत्थं हि तन्मतम् स क्रतुं कुर्वीतेतिवाक्ये उपासनं विधीयते, तदनुवादेन तदङ्गतया शान्त उपासीतेतिवाक्येन शमगुणो विधीयते तस्य विधेरयमथर्वादः, "सर्वं खल्विदं ब्राहृ तज्जलान्' इति तज्जत्वतल्लत्व-तदनत्वैस्सर्वस्य ब्राहृात्मकत्वेनैकात्मकत्वाद्रगद्वेषादेः कर्तुमयुक्तत्वेन शम एव कर्तुमुचित इति "शूर्पेण जुहोति तेन ह्रन्नं क्रियते इतिवदिति तथापि व्याख्यात्रन्तराभिमतमिति तथोक्तम् अत एवोत्तरत्र

व्याख्यात्रन्तरशब्दोपि मृषावादिव्यतिरिक्तविषय एवेति द्रष्टव्यम् । उपासनप्रचुरत्वादिति - "क्रतुमयः पुरुषः' इत्यत्र क्रतुशब्द उपासनपयः । मयट्प्रत्ययश्च प्रातुर्यार्थ इति भावः ।।

क्रतुविधिपरत्वादस्येति - यागविधिपरत्वादित्यर्थः । प्रकृतोपास्यविषयत्व इति - ननु मनोमयत्वादीनां सर्वं खल्विदं ब्राहृेति-वाक्ये प्रकृतब्राहृविशेषणत्वादेव प्रकृतोपास्यविशेषणसमर्पकत्वं भविष्यतीत्याशभ्क्याह - ब्राहृपरत्वानिश्चयादिति । मनोमयत्वा-

1.2.1

दिगुणके संशय इति - भाव इत्यन्तरं सूच्यत इति शेषः । ततश्चोपासनस्येतिपदेनेति - तृतीयान्तपदस्य नान्वय इति शङ्कापास्तेति-ध्येयम् । उपकरणोपकरणित्वलक्षणसम्बन्धविशेषस्यास्पष्टत्वादिति - इदमुपलक्षणम् । उदाह्मताज्जीवलिङ्गादपि वाक्योपक्रम-गततज्जत्वतल्लत्वादिहेतुकसार्वात्म्यरूपब्राहृलिङ्गस्य स्पष्टतया अस्पष्टब्राहृलिङ्गानां द्वितीयपादे विचार्यत्वमिति मृषावाद्युक्तमयुक्तम् । न च विषयवाक्यस्य मनोमय इत्यादेः पूर्वपक्षे भिन्नवाक्यतया मनोमयवाक्ये ब्राहृलिङ्गस्यास्पष्टतेतिवाच्यम्; तर्हि ज्योतिर्वाक्य- स्यापीह पादे विचार्यतापत्तेः । तत्पूर्ववाक्ये सर्वभूतचरणत्वरूपब्राहृलिङ्गस्य स्पष्टत्वेपि ज्योतिर्वाक्ये अस्पष्टतया तस्यापीह चिन्त्य-त्वप्रसङ्गादित्यास्तां तावत् । उभयाकाङ्क्षेति व्याख्येयं पदम् । पञ्चम्यन्वय इति - न वक्तुं युक्तमित्यनेन उभयाकाङ्क्षानिवृत्तिसिद्धेरिति

1.2.1

पञ्चम्यन्वय इत्यर्थः । वाक्ये योजनां परिसमाप्त वाक्यान्तर्गतस्य मनोमयत्वादिगुणकेनेत्यस्य सिंहावलोकितेन प्रयोजनं दर्शयति - मनोमयत्वादि चेत्यादिना ।।

परैव्र्याख्यातमिति - यद्यपि परैर्नैवं व्याख्यातम्, अपितु परमेव ब्राहृेहमनोमयत्वादिभिर्धर्मैरुपास्यम् । कुतः? सवत्र्र प्रसिद्धो-पदेशात् । यत् सर्वेषु वेदान्तेषु प्रसिद्धं ब्राहृशब्दस्यालम्बनं जगत्कारणम्, इह च सर्वं खल्विदं ब्राहृेति वाक्योपक्रमे श्रुतं तदेव मनो-मयत्वादिधर्मविशिष्टमुपदिश्यते' इति व्याख्यातम् । तथापि फलितार्थमादाय तथोक्तमिति द्रष्टव्यम् । कथं युक्तयन्रोक्तिरिति - परो-क्तयुक्तयनादरेण किमर्थं युक्तयन्तरमुपन्यस्यत इत्यर्थः । पूर्वार्धमेकरूपं पठित्वेति - तथा च पूर्वार्धयोरैकाथ्र्यात् उत्तरार्धयोरप्यैकाथ्र्यं युक्तमिति भावः । समाहितात्मा ज्ञानस्वरूपं परिपश्यतीति - अनेन च विशुद्धमनोग्राह्रत्वमुक्तं भवति । आत्मशब्दस्य मनः पर-त्वादिति भावः । धृत्या समाहितात्मा भक्तया पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोतीत्यर्थः । "भक्तया त्वनन्यया शक्यः' इत्यनेनै-

1.2.1

काथ्र्यादिति वेदार्थसङ्ग्रहे प्रतिपादितमिहानुसन्धेयम् । ननु "सर्वाणि ह वा' इत्यादिवाक्यं प्राणशरीरकत्वे कथं प्रमाणं भवितुमर्हति? यौगिकवृत्त्या परमात्मपरत्वस्य पूर्वं साधितत्वादित्याशङ्कयाह - सर्वाणीत्यादिवाक्य इति । अपयर्वसानवृत्येति - आकृत्यधिक-रणन्यायादिति भावः । वैश्वानराधिकरणन्यायेनेति - "साक्षादप्यविरोधं जैमिनिः' इत्युक्तत्वादिति भावः । सुखदुःखेच्छाद्वेषादय इति - यद्यपि "सवर्गन्धस्सर्वरसः' इत्यादौ कल्याणगन्धरसपरत्ववन्मनोमयशब्दस्यापि कल्याणसुखादिमनोविकारपरत्वे वा सर्वं खल्विदं ब्राहृेत्यादिवदसङ्कुचितपरत्वेपि वा न विरोधः । अथापि मनोग्राह्रत्वरूपार्थस्य सम्भवेऽन्तःकरणप्रतिबिम्बतया मनोविकार-भूतजीवाभेदोपचारेण मनोमयत्वोक्तिरयुक्तेति भावः ।।

प्रतिज्ञावाक्यस्याध्याहार्यत्वादिति - कृत्स्नस्येति शेषः । ततश्च पूर्वयोजनायामिव द्वितीययोजनायां न कृत्स्नाध्याहार इति भावः । ननूपासनविधेरिति - विधीयमानोपासनस्येत्यर्थः । उत्पत्तिशिष्टसर्वात्मकत्वेति - उत्पत्तिवाक्यविहितेत्यर्थः । उत्पत्तिवाक्यं प्राथ-

1.2.1

मिकावगतिजनकं वाक्यम् । उपासनविध्येकवाक्यत्वमिति - ननु ब्राहृशब्दस्य द्वितीयान्तत्वे द्वितीयान्तस्य खल्वित्यनेनैकवा-क्यतया अन्वयो न सम्भवेत् । तज्जत्वतल्लत्वतदनत्वत्वैस्सर्वस्य ब्राहृात्मकत्वं शासि#ादवगम्य रागद्वेषादिरहितस्सन् वक्ष्यमाणगुणकं ब्राहृोपासीतेत्यर्थ इति वक्ष्यमाणरीत्या शमविध्यर्थवादतया परमतवदेकवाक्यत्वं सम्भवत्येव । "सर्वं खल्विदं ब्राहृ तज्जलान्' इत्यस्य "शूर्पेण जुहोति' "तेन ह्रन्नं क्रियत' इत्यस्यैव हेतुवन्निगदार्थवादत्वं मतद्वयेपि साधारणम् । इयांस्तु विशेषः, परमते "स क्रतुं कुर्वीत' इत्युपासनं विधीयते सर्वं खल्वितिवाक्ये तदनुवादेन शमो

विधीयते । अस्मन्मते तु सर्वं खल्वितिवाक्ये शमविशिष्यमुपासनं विधीयते । स क्रतुं कुर्वीतेति वाक्ये तु सर्वं खल्वितिवाक्यविहितोपासनानुवादेन मनोमयत्वादयो गुणा विधीयन्त इति । न च प्राप्तोपासनानुवादेन कथमेकस्मिन् वाक्ये मनोमयत्वाद्यनेकगुणविधानमिति वाच्यम्; मनोमयत्वादीनां नानात्वेपि "एतमितः प्रेत्याभिसम्भवितास्मि' इत्यत्रेतिशब्देन क्रमविशेषरूपप्रकारविशिष्टतया प्रतीतेर्विधेयनानात्वेपि विधेयतावच्छेदकैक्याद्वाक्यभेदा-प्रसक्तेः । ततश्चास्मिन्मेपि सर्वं खल्विदमितिवाक्येपि एकवाक्यत्वं सिद्धमेव । कथं भेद इति चेत् उच्यते; सत्यमेकवाक्यत्वम् तथाप्युपास्याकाङ्क्षायां रात्रिसूत्रन्यायेन शमविध्यर्थवादप्रतिपन्नं ब्राहृैवोपास्यतया सम्बध्यते नतु सर्वात्मकत्वविशिष्टं ब्राहृ ब्राहृ-मात्रेणोपास्याकाङ्क्षाशान्तेः, येनोत्पत्तिशिष्टगुणावरोधशङ्कापि स्यादिति भावः । वस्तुतस्तु सार्वात्म्यस्योत्पत्तिशिष्टास्यापि वक्ष्य-माणमनोमयत्वाद्यविरोधान्न वक्ष्यमाणानां मनोमयत्वादीनामन्वय इत्यपि द्रष्टव्यम् । अत एव "तं मामायुरमृतमुपास्व' इत्युपासनविधौ

1.2.1

"आनन्दोऽजरोऽमृतः' इत्यौपसंहारिकगुणानामुपास्यतया विधानमिति "प्राणस्तथानुगमात्' इत्यधिकरणे वर्णितम् । तथा "ओमि-त्येतदक्षरमुद्गीथमुपासीत' इति विहिते उद्गीथावयवत्वगुणकप्रणवोपासने रसतमत्वादीनामप्युपास्यत्वमिति "स्तुतिमात्रमुपादाना'-दित्यत्र समर्थितम् । अत एव शाण्डिल्यविद्यायां सार्वात्म्यस्योपास्यत्वमिति बहुषु स्थलेषु भाष्यटीकयोव्र्यवहारः । न च शान्त्यर्थ-तयोपदिष्टस्य सार्वात्म्यस्य कथमुपास्यविशेषणत्वमिति शङ्कनीयम् ब्राहृण इव सर्वात्मकत्वस्यापि उपास्यत्वोपपत्तेः । इतरथा ब्राहृ-णोपि शमार्थनिर्दिष्टरयोपास्यत्वं न स्यात् न चेष्टापत्तिः । ब्राहृशब्दवाच्यस्योपास्यत्वसिद्धवत्कारेणैव पूर्वोत्तरपक्षयोः प्रवर्तनादिति द्रष्टव्यम् । केचित्तु-गुणानां च परार्थत्वादित्यत्रादृष्टकार्येणापि निरपेक्षतया श्रुतेन पूर्वावगतेनाधठनेनावरुद्धेऽग्नौ भिन्नादृष्टकार्याणामपि पवमानेष्टीनां न निवेशो युक्तः । अत एवाग्नेयावरुद्धे प्रयाजादिर्न करणम् । अन्यथा समप्राधान्यं स्यादिति नयविवेकोक्तेरविरोधेपि न विवेशो युक्त इति वदन्ति । भाष्ये-क्वचित्क्वचिद्ब्राहृशब्द इति । इदं ब्राहृायाति तज्ज्ञानं ब्राहृ संज्ञितम्' इत्यादिष्विति भावः ।।

भाष्ये-ब्राहृशब्देन तदात्मकतया विधीयमानमिति । तदात्मकतया-अन्तर्यामितयेत्यर्थः । सर्वस्य जगतः अन्तर्यामितया विधी-यमानमिति यावत् । तज्जलानिति हेतुत इति भाष्यस्य जन्मस्थितिलयानां तत्कृततादात्म्यस्य च प्रसिद्धत्वेनोपदेशादित्यर्थ इति यदुक्तम् तदयुक्तम्; तद्विवरणे भाष्ये-यस्माज्जगज्जन्मस्थितिलयाः प्रसिद्धा इति कारणत्वप्रसिद्धमात्रप्रतिपादनादित्याशङ्कयाह - कारणत्वनिबन्धनतादात्म्यस्येति । जगज्जन्मस्थितिलयानां हेतुत्वप्रसिद्धौ प्रसक्तायां तत्साध्यतादात्म्यप्रसिद्धिरप्यर्थादुक्तेति भावः ।

1.2.1

प्रसिद्धत्वमस्त्विति - जगज्जन्मस्थितिलयहेतुत्वेन वेदान्तप्रसिद्धमेव प्रतीयतामित्यर्थः । तस्यैव भाष्ये पूर्ववाक्ये प्रतिपादितत्वादिति द्रष्टव्यम् । तादात्म्यमप्यर्थसिद्धमित्याहेति - तादात्म्यमप्यर्थसिद्धमित्यभिप्रयन्नाहेत्यर्थः । भाष्ये-तदात्मकतया तादात्म्यमुपपन्न- मिति । अत्र साध्याविशेषमाशङ्कय श्रुत्यन्तरसिद्धतदात्मकत्वं हेतुः, एतच्छØतिप्रतिपन्नतादात्म्यमुपपाद्यमित्याह - तदात्मकतयेति श्रुत्यन्तरविषयमिति । इदमुपलक्षणम् । तदात्मकतया तादात्म्यमित्यस्य वाक्यस्य शरीरशरीरिभावेन तादात्म्यमिति वाक्यतु-ल्यत्वान्न साध्याविशेषशङ्कापीत्यपि द्रष्टव्यम् । उभयलिङ्गस्य ब्राहृण इति - तथा च प्रलयदशायां ब्राहृमात्रपरिशेषे ब्राहृस्वरूपस्यैव परिणामप्रसक्तया सविकारत्वरूपदोषप्रसङ्गादिति भावः । श्रुत्यन्तरैः कण्ठोक्तं चेति - "तम आसीत्' "यस्य तमश्शरीरम्' इत्या-

1.2.2

दिभिरित्यर्थः । ततः किमुभयलिङ्गकस्येत्यत्राहेति - पूवर्पक्षिणा आपादितस्योभयलिङ्गत्वविरोधस्य कः परिहार उक्तस्यादिति शङ्कार्थः ।।

निषेधवाक्यविरोधेति - अप्राणो ह्रमनाः' इति वाक्यविरोधपरिहारायेत्यर्थः । विशेषवाक्यानुगुणमिति - मनसा तु विशुद्धेन इतिवाक्यानुगुणमित्यर्थः । धमर्भूतज्ञानव्यावृत्त्यर्थमाह - स्वस्मै प्रकाशयतीत्यर्थ इति । सत्यकामपदैकाथ्र्यादिति - सत्यकामपदस्य

1.2.2

नित्यविभूतिमत्त्वार्थकत्वं दहराधिकरणे स्पष्टयिष्यते - अत्र स्वीकरणरूपगुणविधिरिति । नन्वेतदनुक्तिसिद्धं

तद्गुणकत्वप्रतिपा-दनादेव तदुपादानस्य सिद्धत्वादितिचेन्न; सर्वकर्मेत्यादि पुनः पाठस्य सकृत्पठितमनोमयत्वादिगुणोपास्यत्वपरिसङ्खयार्थत्वशङ्का-निरसनाय प्रागुक्तसर्वगुणोपास्यत्वप्रतिपादनार्थतया सार्थक्यमित्याशयात् । पुनः पाठस्य तु प्रयोजनमुत्तरत्र वक्ष्यते - नायमादि-कर्मणीति । आरम्भ आदिकमर्, "गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहर्जीयतिभ्यश्च' इति कर्तरिक्तप्रत्ययविधानमाशङ्कय निराकरोति - न चाभ्याददातिरित्यादिना । तेनैव कत्र्रर्थकत्वं क्तप्रत्ययस्य कल्प्यतामिति - लक्ष्यप्राधान्यवादिनोयं परिहारः,

1.2.3

गत्यर्थत्वमङ्गीकृत्य कल्प्यतामित्यर्थः । महाभाष्ये कथं भुक्ता ब्रााहृणः पीता गावः इत्याशङ्कय अर्श आद्यजन्ततया निर्वाहः कृतः । तदनुरोधेन निर्वाहं दर्शयति - यद्वा कर्तरि प्रतीतिः प्रतिपत्तिरिति । क्त इत्यनेन क्तप्रत्ययान्तजन्यप्रतिपत्तिर्लक्ष्यत इति भावः । नतु वाक्सामथ्र्यविरह इत्यर्थ इति - अवाकीत्यनेन प्रतिपाद्यत इति शेषः ।। तुशब्दाभिप्राय इत्याशयवतोक्तमिति - बद्धे संशयहेतो-

1.2.5

स्सतोऽयथा सिद्धिः कार्या, मुक्तेतु संशायकहेतुरपि नास्तीत्येवंरूपवैषम्यं तुशब्देन द्योत्यत इत्यर्थः । जीवधर्मैरिति - मनोमयत्वादि-भिरित्यर्थः ।।

परमसाध्यहेतुमाहेति - विवक्षितगुणानुपपत्तिद्वारा भाष्ये जीवव्यतिरेके हेतुरुच्यते अनेन सूत्रेण, नतु विवक्षितगुणानुपपत्ताविति भावः । प्राप्यप्राप्तारावेव हीति - "एतमितः प्रेत्याभिसम्भवितास्मि' इत्यत्र एतच्छब्देन प्राक्प्रस्तुतोपास्यस्य परामर्शादितिभावः - स्व-रूपस्यैवेति - दशमस्त्वमसीत्यादाविव स्वरूपस्यैव प्राप्यत्वं प्राप्तृत्वं च सम्भवतीतिशङ्कार्थः । श्रुतिस्वारस्यभङ्ग इति - "एतमितः प्रेत्य' इति श्रुतिस्वारस्यभङ्ग इत्यर्थः । नन्वेवमितः प्रेत्याभिसम्भवितास्मि इति वाक्ये प्राप्यस्य पुल्लिङ्गतया निर्देशात् प्राप्तुरन्यदेवेदमिति

श्रुतौ शब्दविशेषः श्रूयते जीवपरयोः । यथा "व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमय-

1.2.6

विज्ञायत इति भाष्ये नपुंसकनिर्देशः कथमित्याशङ्कयाह - अत्रेदमिति निर्देश इति ।।

नान्योन्याश्रय इति - शब्दविशेषस्य जीवपरविषयत्वसिद्धौ जीवपरविषयकशब्दविशेषणोपास्योपासकभेदसिद्धिः, उपास्योपा-सकभेदसिद्धौ जीवपरवि#ेयत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।

सर्वशब्दो जीवविषय इति - न देहादिसङ्घातविषयः, येनोपायस्योपासकयोर्जीवपरयोर्भेदो न सिद्धयेदितिभावः । भ्रान्त्या-श्रयत्वादिति - "भ्रामयन् सर्वभूतानि' इतिप्रतिपाद्यभ्रान्त्याश्रयत्वादित्यर्थः । अवान्तरशङ्कापरिहारेति - अवस्थाभेदेन प्राप्यत्व-प्राप्तृत्वोपपत्तिरितिशङ्कानिराकरणार्थसूत्रद्वयोक्तहेतुसमुच्चयाथर् इत्यर्थः । श्रुतिस्मृत्योस्साम्यासम्भवादाह - अन्वाचयो वेति । अस्मिन् सूत्रे शाङ्करभाष्ये कः पुनरयं शारीरो नाम परमात्मनोऽन्यः यः प्रतिषिध्यते "अनुपपत्तेस्तु न शारीरः' इत्यादिना । श्रुतिर्हि "नान्य-दतोऽस्ति द्रष्टा नान्यतोस्ति श्रोता' इत्येवञ्जातीयकापरमात्मनोन्यमात्मानं वारयति । तथा स्मृतिरपि "क्षेत्रज्ञं चापि मां विद्धि सर्व-

1.2.6

क्षेत्रेषु भारत' इत्येवञ्जातीयकेति । अत्रोच्यते,-सत्यमेवमेतत्; पर एव त्वात्मा देहेन्द्रियमनोबुध्युपाधिभिः परिच्छिद्यमानो बालैश्-शारीर इत्युपचर्यते, यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदभासते, तद्वत्तदपेक्षया च कर्मकर्तृत्वादिभेद-व्यवहारो न विरुध्यते । प्राक् तत्त्वमसीत्युपदेशग्रहणाद्गृहीते त्वात्मैकत्वे बन्धमोक्षादिसवव्र्यवहारपरिसमाप्तिरेव स्यादित्युक्तम्, तदनूद्य दूषयति - अत्र केचिदिति । अन्येषां जीवेश्वरभ्रमाभावाच्चेति - वेद एवभ्रान्तो व्यदिशतीति पक्ष इति भावः । अन्येषां जीवेश्वरभेदभ्रान्त्यभावेपीति - ईश्वरस्य मानान्तरागोचरत्वेन तद्भेदभ्रमासम्भवेपीत्यर्थः । त्वमित्येवोपदेष्टव्यमिति - श्वेतकेतुं प्रतीतिशेषः । मनुसूर्यादिजन्मस्मरणपरत्वसम्भवादिति - अनद्यतनलङ्#िनर्देशस्वारस्यादिति भावः । मुक्तप्राप्यत्वादीनामनु-मातुमशक्यत्वाच्चेति - ततश्च श्रुत्येकसमधिगम्यानां तेषामनुवादो न सम्भवतीति भावः । उपास्यत्वादिनिबन्धन इति - उपासनार्थ

1.2.7

इत्यर्थः । तदेवोपपादयति- तत्तत्फलविशेषार्थिनामिति । श्रुतिः कल्पयतीति चेदिति - ननु श्रुतिकल्पितकर्मकर्तृभेदो न भेदकार्य-साधक इति कथमियं शङ्केति चेत्, अत्यन्तागतिकस्यैतादृशशङ्कोपपत्तेः । किञ्च उपासने प्रवर्तमानस्योपास्योपासकभेदबुद्धेरेवापेक्षि-तत्वेन वास्तवभेदानपेक्षत्वेन शङ्कोपपत्तेरिति द्रष्टव्यम् । जीवविलक्षणं वस्त्विति - जीवभेदं प्रतिज्ञायेत्यर्थः । न ह्रतात्विकभेदः प्रतिज्ञात इत्युत्तरग्रन्थानुसारात् । अपरमार्थभेदव्यपदेशं विजानन्निति - कर्मकर्तृभावलक्षणं भेदमित्यर्थः । तत्त्वार्थहेतुतयेति - जीवविलक्षणत्वरूपभेदहेतुतयेत्यर्थः । ब्राहृजिज्ञासेत्युपक्रमविरोधादिति - इतरथा "अथातोतात्विकभेदजिज्ञासा' इत्येव सूत्रयेदिति भावः ।।

परव्याख्यां दूषयति - व्योमद्द्रष्टव्यमित्युक्त इति । प्रमाणाकाङ्क्षा भवतीति - अर्भकौकस्त्वादिकं व्योमवदौपाधिकं द्रष्टव्य-मित्युक्ते स्वाभाविकमेव किं न स्यात् ? औपाधिकत्वे प्रमाणाभावादिति प्रमाणाकाङ्क्षा भवतीति भावः । प्रमाणमेव दर्शितं भवतीति श्रुत्या व्यपदिश्यत इति हि तस्यार्थः । अतः प्रमाणमेव दर्शितं भवतीति भावः । ननु "प्रशस्यस्य श्रः' ज्यच' इति प्रशस्यशब्दस्य ज्यादेशविधानात् प्रशस्यशब्दादीयसुन्प्रत्यये ज्यायश्शब्दनिष्पत्तिः । न तु वृद्धशब्दादित्याशङ्कयाह - ज्य च वृद्धस्य चेति हि सूत्र-मिति । ज्यच वृद्धस्य चेति हि सूत्रक्रम इत्यर्थः । अयं भावः, वृद्धस्य चेत्यत्र ज्यचेत्यनुयर्तते, वृद्धशब्दादीयसुन्प्रत्यये वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे ज्यादादीयस इतीयसुन्नीकारस्य आकारादेशे ज्यायश्शब्दनिष्पत्तिरिति । नतु प्रशस्यस्य श्र इति तन्निष्पत्तिरिति

1.2.7

प्रशस्यस्यश्र इत्यधिकारे पठितेन ज्यचेतिसूत्रेण प्रकृतेन तन्निष्पत्तिरित्यर्थः । अत्रापि हेतुरणीयस्त्वप्रतिसम्बन्ध्याकारपरत्वाज्ज्याय-श्शब्दस्येति वक्ष्यमाण एव द्रष्टव्यः । ततोपि ज्यायस्त्वश्रवणादिति - ज्यायान् पृथिव्या इत्यादिना पृथिव्यादिभ्यो ज्यायस्त्व श्रवणादित्यर्थः । तस्य वाक्यान्तरस्थत्वादिति - यद्यपि ब्राहृात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितस्सन्नित्यादिना एक-वाक्यत्वमुत्तरत्र वक्ष्यते तथापि ब्राहृणस्सर्वात्मकत्वस्य शमशेषत्वादित्यत्र तात्पर्यम् । वस्तुतस्तु यथा शान्त्यर्थस्योपदिष्टस्यापि ब्राहृणः

1.2.8

"मूलतश्शाखां परिवास्योपवेषं करोति' इत्यत्र शाखापरिवासने अपादनतया अन्वितस्यापि मूलत इत्यस्योपवेषं करोतीत्यनेनापि आकाशावशेनान्वयवदन्वयोऽभ्युपेयते तथा सर्वात्मकत्वस्यापि अन्यार्थनिर्दिष्टस्योपास्यत्वेन विरोध इति द्रष्टव्यम् । पूर्वमप्येतत्प्र-तिपादितम् । लक्षणतो धमिर्निर्देश इति - कारणत्वरूपलक्षणोक्तिमुखेन ब्राहृस्वरूपधमिर्निर्देश इत्यर्थः । भाष्ये-प्राप्तिनिश्चयानु-सन्धानञ्च प्रतिविधायेति । प्राप्तिनिश्चयरूपानुसन्धानमित्यर्थः । प्राप्तिनिश्चयोपेतस्येत्युत्तरभाष्यानुगुण्याच्छØत्यानुगुण्याच्चेति द्रष्टव्यम् । उपास्यतया प्राप्यतयेति - यद्यप्युपास्यत्वे पाप्यत्वं सिद्धम् तथापि द्विःपाठस्तेन क्रमेणानुसन्धानार्थ इति द्रष्टव्यम् । ह्मदिस्थिति-र्द्विरुक्तिरिति - "एष म आत्मान्तह्र्मदये' इति द्विरुक्तिरित्यर्थः ।।

भोगप्रसञ्जने सुखग्रहणमिति - अपुरुषार्थप्रसञ्जने इत्यर्थः । उक्तार्थे श्रुतेः सम्मुखतया प्रमाणत्वासम्भवात् । तथाच श्रुतिरि-त्येतद्वयाचष्टे - तथाच श्रुतिरिति । जीवस्यानभ्युपगम इति - जीवस्यानभ्युपगमादित्यर्थः । अवगतत्व इति - अवश्याभ्यु-पगन्तव्यत्वे सतीतिविशेषः । आनन्दगिरीयविकल्पमुपन्यस्यति - किं शास्त्रादवगमः, उतास्माद्वाक्यादिति । परस्य भोक्तृत्वा-भावोपीति - परस्य जीवस्येत्यर्थः । शारीरस्यैव तावदुपभोकतृत्वं वारयतीति शाङ्करभाष्यानुसारात् । भोक्तृजीवाभेदायत्तभो-क्तृत्वप्रसक्तेः, तथैव परिहर्तव्यत्वाच्च । द्वितीये तु भ्रान्तिसिद्धेति - अस्मदुक्त्या जीवब्राहृैक्यप्रवगतं चेत्, तथा तत्पक्षदोषपरिहार-

1.2.9

प्रकारोपि मदुक्तरेवावगन्तव्यः । तत्रापि किमर्धजरतीयन्यायेनेति भावः । अनभ्युपगमनिरस्तमिति - द्वितीयपक्षस्य स्फटत्वादिति भावः ।। इति सर्वत्रप्रसिध्द्यधिकरणम् ।।

साक्षादग्निपस्तावाभावादिति - साक्षादग्निर्मुख्याग्निः ज्वलनरूपाग्निः तदाधारतया ह्रग्निशब्दः स्थण्डिलरूपाग्नावुपचर्यत इति भावः । ननु स्थण्डिलाग्निविषय एव संशयः । तस्यैवान्नादत्वप्रसिद्धिश्चास्तीत्यत्राह - अग्निप्रकरणस्येति । ओदनोपसेचनसाम-थ्र्यावगतस्येति - ओदनादेर्भोग्यत्वेन लोकप्रसिद्धेर्भोक्तृत्वस्यैव प्रथमं बुद्धाववतारादिति भावः । ननु मन्त्रे मुख्य ओदनो न श्रुतः, येन तत्प्रतिसम्बन्धी अत्ता भोक्ता स्यात्, किन्तु ब्राहृक्षत्रिययोरोदनरूपणमात्रं क्रियते, न ह्रुपचरितौदनस्यापि तत्प्रसम्बन्धिना भोक्त्रा भवितव्यम्, न चास्य "मृगयाविनोदिनोऽमृगाः परनृपतयः' इत्यत्रामृगेषु मृगत्वरूपेण वस्तुतोमृगहन्ता क्षत्रिय एव तत्प्रतिसम्बन्धी प्रतीयते, न तु श्रोत्रियः कश्चिद्ब्रााहृण इति वाच्यम्; तथा नियमाभावात् । "त्वत्कृपाणभुजङ्गस्य क्षीरं विद्विषतां यशः' इत्यत्रोपच-रितक्षीरप्रतिसम्बन्धिनि कृपाणे पातृत्वस्याप्रतीतेः, सत्यामपि प्रतीतौ वास्तवपातृत्वादर्शनादिति चेत् उच्यते, अवश्यं तावदिहानो-दनविषयेण ओदनशब्देन वाच्यगतं कञ्चिद्गुणमपेक्ष्य वर्तितव्यम् । तदिह भोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्-यतीति तत्प्रतिसम्बन्धिनो यस्येति पदोपात्तस्य भोक्तृत्वप्रतीतिरनिवार्या । कृपाणभुजङ्गस्येत्युदाहरणेपि कृपाणे समारोपिततत्पातृ-त्वप्रतीतिरस्त्येव, न च तत्र भुजङ्गत्वरूपणात् पातृत्वप्रतीतिः, न तु यशः क्षीरत्वरूपणमात्रात् । ततश्च ब्राहृक्षत्रस्यौदनत्वरूपण-मात्रेण कथं पातृत्वप्रतीतिरिति वाच्यम्; "करवालस्य ते वीर क्षीरं विद्विषतां यशः' इत्यत्रादौ भुजङ्गत्वरूपणभावेपि क्षीरत्वरूपण-

1.2.9

मात्रेण पातृत्वप्रतीतेः, तचैवं तद्वदेव भोक्तृत्वमप्यारोपितमस्तु, ततश्च वस्तुतः ततसम्बन्धिन अभोक्तृत्वमेव पर्यवस्यतीति कथं भोक्तृत्वं जीवत्वसाधकं स्यादिति वाच्यम्; असति बाधके भोक्तृत्वप्रतीतेः । प्रमात्मस्योचितत्वेन जीवत्वसाधनसम्भवादिति भावः । स्त्रीपुंसा-त्मकत्वादिति - स्त्रीणां भोग्यत्वं सिद्धमेव पुंनपुंसकयोरपि भृत्यादिरूपेण भोग्यत्वमिति भावः । विधेय इत्यभिप्रायेणेति - अबाधक इत्यभिप्रायेणेत्यर्थः । ननूपसेचनशब्देन साधारणमबाधकत्वमात्रं न लक्षयितुमुचितम्, अपितु स्वयमद्यमानत्वे सति अन्यादनहेतुत्वम् तादृशञ्चादनं संहारयितृपरब्राहृपक्ष एव घटते, नान्यि#ेति चेत् नैष दोषः, प्रथमश्रुतौदनशब्देन भोग्यत्वस्य प्रतीतत्वात् । तदनुरोधेनैव चरमश्रुतोपसेचनशब्दस्यापि अबाधकत्वार्थकत्वस्यैव युक्तत्वात् । न चोपसेचनपदानुसारेणौदनपदस्य विनाश्यत्वपरत्वमस्त्विति वा-च्यम्; चरमश्रुतस्वारस्यानुरोधेन प्रक्रमश्रुतस्वारस्यान्यथानयनायोगात् ।।

साधारणाकारं विहायेति - अत एव प्रैतुहोतुश्चमसः प्रब्राहृणः प्रोद्गातॄणां प्रयजमानस्येति । अध्वर्युप्रैष उद्गातृशब्दस्य बहुवचना-नुसारेण रूढिपूर्विकलक्षणया बहुषु वृत्तौ वक्तव्यायां षोडशÐत्वक्साधारणाकारं विहाय विशेषाकारेणोद्गातृगणमात्रलक्षणा पूर्वतन्त्रे निर्णीता । भाष्ये-तदुपसिच्यमानस्येति । तन्मिश्रितस्येत्यर्थः । विष्णोः श्रूयमाणत्वादिति - यद्यपि "सोऽध्वनः' इत्यादिवाक्यं "प्रकरणाच्च' इत्युत्तरसूत्रस्य विषयः, न त्वस्य सूत्रस्य; अत्र निखिलचराचरसंहर्तृत्वस्यैव हेतुकरणात् तस्य च मृत्यूपसेचनसमभि-व्याहारलभ्यत्वान्नान्यापेक्षा, अथापि मृत्यूपसेचनसमभिव्याहारस्य प्रकरणमप्युत्तम्भकमिति सूचनार्थं तथोक्तमिति द्रष्टव्यम् । मृत्यूपसेचनसामथ्र्येति - ननु प्रक्रमश्रुतौदनपदस्वारस्यप्रतिपन्नभोग्यत्वानुसारेण चरमश्रुतं मृत्यूपसेचनत्वमबाधकत्वाभिप्रायेण नेयमित्युक्तमिति चेत् उच्यते; इह ब्राहृक्षत्रयोर्मृत्योश्च तावदोदनोपसेचनभावरूपणात् दध्यन्नरीत्या सम्बन्धः प्रतीयते, तथा च

1.2.9

मृत्युमिश्रणप्रतीत्यनुसारेण ब्राहृक्षत्रशब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम् । मृत्यूपसेचनत्वरूपणसन्निधानादेव ओदनशब्देनापि विनाश्यत्वं लक्षणीयम् । स्वबुद्धयपस्थानीयविशेषाकाररूपगुणग्रहणादपि एकवाक्यतापन्नपदान्तरोपस्थापित-गुणग्रहणस्य बुद्धिलाघवेन एकवाक्यतासामथ्र्येन च न्याय्यत्वात् । "अत एवाक्ताश्शर्करा उपदधाति' इत्यत्र विधेयाञ्जनस्य साध-नापेक्षायां "तेजो वै घृत'मिति वाक्यशेषे श्रुतं घृतमेव ग्राह्रम्, नतु पुरुषबुद्धिकल्पनीयमद्रवद्रव्यमात्रमिति पूर्वतन्त्रे निर्णीतम् । ननु तथापि कथं ब्राहृक्षत्रशब्देन चराचरग्रहणसिद्धिः? ओदनशब्दस्य गौणत्वावश्यम्भावेन तस्य समभिव्याह्मतपदार्थान्तरोपस्थापित-गुणलक्षकत्वेपि ब्राहृ च क्षत्रं चेत्यस्य मुख्यार्थवृत्तिसम्भवात्, न च मृत्यूपसेचनकीर्तनात् तदुपसिच्यमानं सर्वं तेन ग्राह्रमित्युक्तं युक्तम् । "शूर्पेण जुहोति तेन ह्रन्नं क्रियते' इत्यत्र शूर्पशब्दस्य वाक्यशेषे अन्नकरणत्वकीर्तनेपि यद्यन्नकरणं तत्र सर्वत्र लक्षणानुगमात् । ननु शूर्पमात्रस्याप्यन्नकरणत्वेन स्तुतिस्सम्भवति, अन्नकरणत्वस्य शूर्पे दर्वीपिठरादौ च व्यासज्यवृत्त्यभावात् इति चेदिहापि ब्राहृक्षत्र-मात्रस्यापि मृत्युमिश्रणप्रतिपादनं सम्भसतीति तुल्यम् । किञ्च व्यर्थं ब्राहृक्षत्रशब्दयोः कृत्स्नचराचरलक्षकत्वोपपादनम् ओदनशब्दस्य संहार्यत्वलक्षकत्वोपपादनमात्रेणापि तत्प्रतिसम्बन्ध्यत्ता संहर्तेति सिद्धौ शब्दवृत्त्यसङ्कोचप्राप्तसर्वकल्पानुयायिसकलब्राहृक्षत्रजात्य-लिङ्गितव्यक्तिसंहर्तृत्वलिङ्गेनहवात्तुः परमात्मसिद्धेरिति चेत् उच्यते; कर्तृत्वं भोक्तृत्वमुपसंहर्तृत्वमिति पक्षद्वयेपि ओदनपदवत् ब्राहृक्षत्रपदयोरपि लक्षकत्वमवश्यम्भावि । नहि मृत्यादिरूपभोग्यतया वा भक्ष्यतया वा ब्राहृक्षत्रयोरेव भोक्ता कश्चिज्जीवोऽस्ति, न वा परमात्मा तदुभयमात्रसंहर्ता, न चाधिकभोक्तृत्वेपि विशिष्य तदुभयमात्रग्रहणे प्रयोजनमस्ति, न चान्तरादित्यविद्यायाम् "ये चामु-प्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च' इति सर्वलोककामेशितरि परमात्मनि लोकविशेषकामविशेषेशितृत्ववत् सर्वसंहन्तर्यपि परमात्मनि ब्राहृक्षत्रसंहतृत्वोपपत्तिरिति चेन्न तत्राक्ष्यादित्यस्थानभेदेन "स एष ये चामुप्मापराञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च' इति निर्देशभेददर्शनात् तत्र व्यवस्थासिद्धावपि इह तन्मात्रग्रहणे नियामकाभावात् ब्राहृक्षत्रग्रहणमुपलक्षणं न स्वार्थमात्रनिष्ठमिति उपलक्षणीयाकाङ्क्षायां पश्चात्तनमृत्यूपसेचनकीर्तनात् तदुपसिच्यमानं सर्वमुपलक्षणीयमिति निश्चीयते । किञ्च ओदनशब्दस्योक्तयुक्तवा संहार्यत्वलक्षणास्थितौ यच्छब्दयोगेनाऽनुवादकेऽस्मिन्मन्त्रे संहार्यसमर्पकस्य ब्राहृ क्षत्रं चेत्यस्य "सन्मूलास्सोम्येभास्सर्वाः प्रजास्स-दायतनास्सत्प्रतिष्ठाः' इत्यादि पुरोवादानुसारेण चराचरात्मकविनाशिमात्रोपलक्षकत्वमावश्यकमित्यास्तां तावत् ।।

1.2.10

प्राकरणिकहेतुरत्रोच्यत इति - प्राकरणिकः प्रकरणसहित इत्यर्थः । प्रकरणाच्चेति सूत्रे चशब्देन लिङ्गं समुच्चीयते, एवञ्च पर-मात्मप्रकरणात् क इत्था वेदेति दुर्विज्ञानत्वरूपलिङ्गप्रत्यभिज्ञानाच्चेत्यर्थः । नतु विषयवाक्यात् पूर्ववाक्यस्थमहत्त्वविभुत्वादिहेतु-रित्यर्थः । ब्राहृणः प्रकृतत्वे विवादाभावेन लिङ्गेन तस्यासमर्थनीयत्वात् सूत्रभाष्यगतप्रकरणशब्दस्वारस्याच्च । एकप्रकरणत्वं कथमितीति - यद्यपि "महान्तं विभुम्' इत्यादौ ब्राहृ प्रकृतम्, न प्रकृतं च हातुं योग्यम् । अथापि "न जायते म्रियते' इत्यादौ जीवस्यापि प्रकृतत्वात् ब्राहृण एव ग्रहणेन प्रमाणं पश्याम इति भावः । परस्य स्थितिरिति जिज्ञास्यत इति - सामान्यतश्शरी-राधारत्वं जानता शिष्येण शरीरे प्रदेशविशेषः पृच्छ्यत इत्यर्थः ।

प्रकरणविच्छेदं दर्शयतीति - "ऋतं पिबन्तौ' इति वाक्यस्य परमात्मप्रकरणविच्छेदं दर्शयतीत्यर्थः । यस्य ब्राहृ चेत्यादि-वाक्यापेक्षयेति - ऋतपानलिङ्गबलात् ऋतं पिबन्तावितिवाक्ये यस्य ब्राहृ चेत्यस्य पश्चात्पठिते परमात्मप्रकरणविच्छेदेपि नात्तुः परमात्मत्वहानिः । यस्य ब्राहृचेत्यादिवाक्यस्य महान्तं विभुमित्यादिना एकप्रकरणतया ऋतं पिबन्तावित्यनेन एकप्रकरणत्वा-भावादिति शङ्काभिप्रायः । व्यवहितत्वाद्विच्छेदो युक्त इति - ननु "महान्तं विभु'मित्यत्रापि अव्यवधानमस्ति । एवं हि पाठक्रमः,-

1.2.10

"महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्त- स्यैष आत्मा विवृणुते तनूं स्वाम् । नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् । यस्य ब्राहृ च क्षत्रञ्च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः । ऋतं पिबन्तौ सुकृतस्य लोके' इति । ततश्चाव्यवधानं द्वयो-रप्यविशिष्टम् । तत्र च प्रकरिष्यमाणपरामर्शलाभेन प्रकृतहानमयुक्तम् । प्रकृतप्रत्यभिज्ञापकं दुरधिगमत्वलिङ्गं च वर्तते । अतः कथमृतं पिबन्तावितिखण्डान्तरस्थोत्तरवाक्यैकप्रकरणत्वलोभेन प्रकृतैकवाक्यत्वपरित्याग इतिशङ्केति चेत् उच्यते; प्रकरणाच्चेतिसूत्रे प्रक-रणशब्देन परमात्मप्रतिपादकवाक्यसन्दर्भमध्यगतत्वं विवक्षितम् । तदिह गुहां प्रविष्टावितिसूत्रे आक्षिप्य समाधीयत इत्यनवद्यम् । यद्यपीमौ शङ्कापरिहारौ तदेकप्रकरणत्वात्पूर्वप्रस्तुतोक्तावपि स एव भवितुमर्हतीति भाष्याभिप्रेतौ तत्रैव वक्तव्यौ च । तथाप्यनन्त-रमितिपदस्यैकप्रकरणत्वोपपादकत्वादिहोक्ताविति द्रष्टव्यम् । समप्राधान्यशङ्कापरिहारार्थमिति - तथा हि सति परमात्मनः प्रतिपा-द्यत्व शङ्कापि स्यादिति भावः । बुद्धिप्राणयोरन्तरत्वमिति - बुद्धिशब्देनान्तःकरणमुच्यते । नहि संहर्तृत्वमुच्यत इतिवदिति - यस्य ब्राहृ चेति वाक्य इति शेषः । यथाकथञ्चिदिति व्याख्येयं पदम् । युक्तयन्तरमाह - तत्र प्रथमत इति । अनेकैरिति - समभिव्याह्मतैरिति भावः । यथा न विरुध्यत इति - ननु द्वयोरप्यजहत्वस्वार्थलक्षणाप्रतिपाद्यत्वाविशेषात् कथं कस्यचित्प्राधान्यं कस्यचिदप्राधान्यम् ? नहि "काकेभ्यो दधि रक्ष्यता'मित्यादौ काकानां प्राधान्यम् नवा "सृष्टिरुपदधाति प्राणभृत उपदधाति पृष्ठैम्तुवत' इत्यादौ शक्यार्थस्य प्राधान्यमन्यस्याप्राधान्यमुपलभ्यत इति चेदुच्यते; लोके श्रेष्ठवाची शब्द एव हि अश्रेष्ठे उपचरितो दृश्यतो अत एव हि महाभाष्ये "कारकान्तरे कर्तृवाचीशब्द उपचर्यते न कर्तरि कारकान्तरशब्दः' इत्युक्तम् । ततश्च यद्वाचिशब्दो यत्रोपचारेण प्रयुज्यते स तदपेक्षया श्रेयानिति उत्सर्गसिद्धमेतत् । ततश्च तेन न्यायेन मुख्यार्थस्यौपचारिकार्थापेक्षया प्राधान्यं सिद्धमिति भावः । उपकरणभूतान्तःकर-णस्य द्वितीयत्व इति - ऐतेन "त्रयाणामेव चैवमुपन्यासः प्रश्नश्च' इति सूत्रोक्तरीत्योपायोपेयोपेतॄणामेवोपन्यसनीयतया बुद्धिप्राणयोश्च

1.2.11

त्रिष्वनन्तर्भावेन तत्परपूर्वपक्षस्य कथमुत्थितिरिति शङ्का परास्ता । बुद्धिप्राणयोरप्युपासननिर्वृत्त्युपकरणतयोपायकोटावेवान्तर्भा-वसम्भवेन पूर्वपक्षोदयसम्भवादिति ध्येयम् ।।

परमसाध्योपपादकत्वसूचक इति - अत्तुः परमात्मत्वोपपादकतां सूत्रार्थस्य दर्शयति हिशब्द इत्ययमथर् उत्तरत्र स्पष्टः । दृश्यत इत्यन्वय इति - अन्वयः अनुषङ्ग इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । जीवोपासनमङ्गत्वेन विधीयत इति - तथाचाध्यात्मयोगा-धिगमशब्दस्य जीवोपासनमर्थ इति भावः । भूमौ च वेदप्रसिद्धेरिति - "अदित्यास्त्वोपस्थे सादयामि' इत्यादौ भूमौ च प्रयोगा-भावादिति भावः । सजातीययोरेव द्विवचननिर्देशार्हत्वमिति - विजातीयपरिग्रहे जातिव्यक्तयोरप्युपस्थापनीयतया गौरवम् ।

1.2.12

सजातीयपरिग्रहे तु व्यक्तिमात्रस्यैवोपस्थाप्यतया लाघवमिति भावः ।।

तत्तद्वाक्योदितविशेषणान्तराणीति - ब्राहृजज्ञत्वसेतुत्वादीनीत्यर्थः । उपास्यत्वोपासकत्वेति - ततश्चोपास्यस्य परमात्मनः उपासकदवीयस्त्वशङ्कानिरासाय ह्मदयगुहायां द्वयोरप्यवस्थितिम् ऋतं पिबन्तावितिवाक्यं प्रतिपादयतीति भावः । भाष्ये-यस्सेतु-रीजानानामिति । यज्वनां सेतुः प्रतिष्ठापक इत्यर्थः । ननु भाष्ये-इहापि चायातपावित्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यप- दिश्येते इत्युक्तिरयुक्ता, छायातपशब्दयोरज्ञत्वसर्वज्ञत्वपरत्वस्य पूर्वपक्षिणं प्रत्यसिद्धत्वेन विशेषणस्य हेतुकरणासम्भवादित्याशङ्कय छायातपशब्दयोज्र्ञाज्ञाविति श्रुतिस्मारकतया हेतुकरणं सम्भवतीत्याह - अज्ञत्वसर्वज्ञत्वाभ्यामित्यनेनेत्यादिना ।।

भाष्ये-सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायामिति । अत्रोपयुक्ता श्रुतिर्लिख्यते- "उशन् ह वै वाजश्रवसस्सर्ववेदसं ददौ' उशन्-काम-यमान इत्यर्थः । "तस्य ह नचिकेता नाम पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश । पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । आनन्दा नाम ते लोकस्तान् स गच्छति ता ददत्' । जरद्गवीः प्रयच्छन् आनन्दान् सुकरहितान् लोकान्

1.2.12

पाप्नोतीत्येवममन्यत इत्यर्थः । "स होवाच पितरं तात कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तं होवाच । मृत्वेव त्वा ददामीति । एवं पित्रा कुपितेनोक्तो नचिकेताः परिदेवयाञ्चकार "बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किं स्विद्यमस्य कर्तव्यं किं मयाद्य करिष्यति' इति । अहं बहुनां पुत्राणां शिष्याणां वा मुख्यो मध्यमो वा न सर्वथा अधमः ईदृशमपि मां कुतो यमाय प्रादात्, तस्य वा प्रेत्तेन मया किं प्रयोजनमित्यर्थः । अथापि पितृवचनं मृषा माभूदिति मत्वा किं मयोक्तमिति शोकाविष्टं पितरमाह- "अनुपश्य यथा पर्वे प्रतिपश्य यथापरे । सस्यमिव मत्र्यः पच्यते सस्यमिवाजायते पुनः' । पूर्वेषां पितृपितामहादीनां वर्तमानानां च साधूनां चरितानि शरीरानित्यतां च ज्ञात्वा यमाय मां प्रेषयेत्यर्थः । एवमुक्तेन पित्रा प्रेषितं यमभवनद्वारि तिरुाो रात्रीर्वसन्तं दृष्ट्वा प्रोष्यागतं यमं प्रति आर्याणां वाक्यम्-"वैश्वानरः प्रविशत्यतिथिर्बाहृणो गृहान् । तस्यैतां शाÏन्त कुवÐन्त हर वैवस्वतोदकम्' अध्र्यादिपूजां कुर्वित्यर्थः । अकरणे प्रत्यवायं चोचुः- "आशाप्रतीक्षे सङ्गतं सूनृतं च इष्टापूर्ते पुत्रपशूंश्च सर्वान् । एतद्वृङ्क्त्#े पुरुषस्याल्पमेधसो यस्या-नश्नन् वसति ब्रााहृणो गृहे' कामसङ्कल्पसत्संयोगसत्यवाक्यत्वेष्टापूर्तपुत्रपश्चादीनुपवसन्नतिथिर्नाशयतीत्यर्थः । एवममात्यैरुक्तस्य मृत्योर्वचनम्- "तिरुाो रात्रीर्यदवात्सीः गृहे मे अनश्वन् ब्राहृन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्राहृन् स्सस्तिमेऽस्तु तस्मात्प्रति त्रीन् वरान् वृणीष्व' । इत्येवमुक्तो नचिकेतास्त्वाह- "शान्तसङ्कल्पस्सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे' । शान्तसङ्कल्पः निवृत्तविचार इत्यर्थः । मा अभि-मां प्रतीत्यर्थः । त्वत्प्रसृष्टं मामभि प्रतीतः सोयं पुत्र इति प्रत्यभिज्ञानन् वदेत्, सल्लपत्वित्यर्थः । एवमुक्तस्य मृत्योरुत्तरम्- "यथा पुरस्ताद्भविता प्रतीतः औद्दालकिरारुणिः प्रह्मष्टः । सुखं रात्रीश्शयीत वीतमन्युस्त्वा दर्शितवान्मृत्युमुखात्प्रमुक्तम् ' । यथापूर्वं प्रत्यभिज्ञानात्वित्यर्थः । दर्शितवान् दृष्टवानित्यर्थः । पुनर्नचिकेता आह- "स्वर्गे लोके न भयं किञ्च नास्ति न तत्र त्वं जरया बिभेति' । तत्र वर्तमानो जरया युक्तस्सन् त्वत्तो न बिभेतीत्यर्थः । एवं स्वर्गं

1.2.12

पशस्याह-"सत्वमÏग्न स्वर्गमध्येषि मृत्यो प्रब्राूहि तं अद्दधानाय मह्रम् । स्वर्गलोका अमृतत्वं भजन्ते एतद्वितीयेन वृणे वरेण' स्वग्र्यं स्वर्गसाधनमित्यर्थः । एकमुक्तो मृत्युराह - "प्रते ब्रावीमि तदु मे निबोध स्वग्र्यमÏग्न नचिकेतः प्रजानन् । अनन्तलोकाप्तिमधो प्रत्तिष्ठां विद्धित्वमेतं निहितं गुहायाम्' । अनन्तलोकाप्तिप्रतिष्ठासाधनभूतं विद्वद्बुद्धौ निविष्टमÏग्न जानीहीत्यर्थः । तत्र श्रुतिवाक्यम् "लोका-दिमÏग्न तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा' । इष्टका यावतीर्वा यथा वा-इष्टकास्वरूपतत्सङ्खयादिकमुपदिदेशेत्यर्थः । "स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनराह तुष्टः' । प्रत्यवदत् अन्ववददित्यर्थः । "तमब्रावीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायामग्निः सृङ्काञ्चेमामनेकरूपां गृहाण' । सृङ्का-रत्नमयी माला । त्रिणाचिकेतस्त्रिभिरेत्य सÏन्ध त्रिकर्मकृत्तरति जन्ममृत्यू । ब्राहृजज्ञं देवमीड¬ं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति । त्रिणाचिकेतरुायमेतद्विदित्वा एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशात्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके । यो वाप्येतां ब्राहृजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् । स एव भूत्वा ब्राहृजज्ञात्मभूतः करोति तद्येन पुनर्न जायते । एष तेऽग्निर्नचिकेतः स्वग्र्यो यमवृणीथा द्#ितीयेन वरेण । एतमÏग्न तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व । येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः' । एषां वाक्यानामर्थो ग्रन्थकृतैवानुमानिकाधिकरणे वक्ष्यते । एवमुक्तो मृत्युराह- "देवैरत्रापि विचिकित्सितं पुरा नहि सुज्ञेयमनुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्' । मामोपरौत्सीः-अतिमा सृजैनम्-मां मा बधस्व । एनं वरं मां प्रति अतिसृज मुञ्चेत्यर्थः । एवमुक्तो नचिकेता आह- "देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्' । एव- मुक्तो मृत्युराह-"शतायुषः पुत्रपोत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि' । आयतनम्-निवासस्थानमित्यर्थः । "एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेत-स्त्वमेधि कामानां त्वा कामभाजं करोमि' । त्वमेधि-त्वं महाभूमौ राजा भवेत्यर्थः । "ये ये कामा दुर्लभा मत्र्यलोके सर्वान् कामान् छन्दतः प्रार्थयस्व । इमा रामास्सरथास्सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानु-प्राक्षीः' । मरणसम्बन्धं येयं प्रेतप्रश्नं न प्रष्टुमर्हसीत्यर्थः । एवं प्रलोभितोपि नचिकेता आह- "श्वोभावा मत्त्र्यस्य यदन्तकैतत्सर्वे-न्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितमल्पमेव तवैव भावास्तव नृत्तगीते' इति । श्वः अभावः येषां ते श्वोभावाः, त्वदुपन्य-स्तभोगाः सर्वे अपि विनश्वरा इत्यर्थः । सर्वेन्द्रियाणामिति । किञ्च ते भोगाः सर्वेन्दियबलनाशका इत्यर्थः । तवैव भावास्तव नृत्तगीते इति । भावा रामादयो नृत्तगीतादिकं च तवैव सन्त्वित्यर्थः । "न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वाम् । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयस्य एव' । वित्तं न तृप्तिहेतुः, किञ्च त्वद्दर्शने धनायुषोः को भारः ? अतस्स एव वरणीय इत्यर्थः । "अजीर्यताममृतानामुपेत्य जीर्यन्मत्र्यः क्वधस्थः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् नातिदीर्घे जीविते को रमेत' । क्वधस्थः-भूरूपाधोलोके वर्तमानः । प्रजानन्-विवेकी मनुष्यः देवानामपि समीपं गत्वा वैषयिकभोगप्रवणः । अत्यल्पे जीविते को रमेतेत्यर्थः । "यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्राूमि नस्तत्' । यस्मिन् परलोके देवानामपि विचिकित्सा तमेव ब्राूहीत्यर्थः । अतः परं श्रुतिवचनम्- "योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेतो वृणीते' । अतः परं मृत्युवचनम्-"अन्यच्छ्रे-योऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्यः प्रेयो वृणीते' । सिनीतः-बध्नीतः, भिन्नप्रयोजने श्रेयःप्रेयसी पुरुषसम्बन्धिनी भवतः । तयोर्मध्ये श्रेय आददानस्य साधुत्वम्, अन्यस्य तदभावश्चेत्यर्थः । "श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते । एतः-प्राप्नुवत इत्यर्थः । सम्परीत्य सम्यगालोच्य प्रेयोपेक्षया अभ्यर्हितं श्रेयः धीरो वृणीते । मनदस्तु प्रेयोरूपशरीराप्यायकान्नपानादि वृणीते इत्यर्थः । "न त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यरुााक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः' सृङ्का-कुत्सिता गतिः । दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विषूची- विरुद्धगती इत्यर्थः । "विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्त' । विद्यानीप्सिनम् विद्याभिलाषिणमित्यर्थः । "अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । दन्द्रभ्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः' । दन्द्रभ्यमाणाः-कचत्सितां गतिं गच्छन्त इत्यर्थः ।

1.2.12

"न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे' । बालम्-अज्ञं प्रति, साम्परायः परलोको न भातीत्यर्थः । अयं लोक इत्यस्यार्थः संयमने त्वनुभूयेत्यत्र वक्ष्यते । "श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यों ज्ञाता कुशलानुशिष्टः' । यस्य श्रवणं वेदनं वक्ता लब्धा ज्ञाता वा दुर्लभ इत्यर्थः । कुशलानुशिष्टः-कुशलेनाचार्येणानुशिष्ट इत्यर्थः । "न नरेणावरेण प्रोक्त एष सुविज्ञोयो बहुधा विचिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्रतक्र्यमणुप्रमाणात्' । अवरेण-अल्पज्ञेनाचार्येण प्रोक्तोऽयमात्मा ज्ञातुं शक्यः वादिभिर्बहुधा उत्प्रेक्ष्यमाणः, अन्येन प्राकृतेन मनुष्येण प्रोक्ते उपदिष्टे सत्यवगतिर्नास्ति, यतोऽयमणोरप्यणीयानित्यर्थः । तदेवाह- "नैषा तर्केण मतिरापनेया प्रोक्तोऽन्येन सुज्ञानाय प्रेष्ठ । यं त्वमापस्सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः पृष्टा । आत्मविषया पतिस्तत्प्राप्या न भवति, हे प्रेष्ठ हे प्रियतम ! अन्यप्रोक्तोपि आगमानभिज्ञप्रोक्तोपि सुज्ञानाय न भवति । यद्विषयिणीं मतिं त्वं प्राप्तवानसि, स आत्मा दुरधिगमः । त्वं यतः प्रलोभ्यमानोपि अविचालितः, अतस्त्वं धीरः, तस्मात् त्वादृश एव न शिष्यस्स्यादित्यर्थः । "जानाम्यहं शेवधिरित्यनित्यं न ह्रध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोग्निरनित्यैद्र्रव्यैः प्राप्तवानस्मि नित्यम् । कामस्याÏप्त जगतः प्रतिष्ठां क्रतोरनन्तमभयस्य पारम् । स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यरुााक्षीः । तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति । एतच्छØत्वा सम्परिगृह्र मत्र्यः प्रवृह्र धर्म-मणुमेयमाप्य । संमोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद । सर्वे वेदा यत्पदमामनन्ति सर्वाणि भूतानि च यद्वन्ति । यदिच्छन्तो ब्राहृचर्यं चरन्ति तत्ते पदं सङ्गृहेण ब्रावीम्योमित्येतत् । एतद्धयेवाक्षरं परम् । एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्राहृलोके महीयते । न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । अणोरणी-यान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् । आसीनो दूरं व्रजति शयानो याति सर्वदा । अस्तं वदाम तं देवं मदन्यो ज्ञातुमर्हति । अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । नाविरतो दुश्चारितान्नाशान्तो नासमाहितः । नाशान्तमनसो नापि प्रज्ञानेनैनमाप्नुयात् । यस्य ब्राहृ च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराध्र्ये । छायातपौ ब्राहृविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः । यस्सेतुरीजानानामक्षरं ब्राहृ यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि । आत्मानं रथिनं विद्धि शरीरं रथमेव च' इत्यादि ।

निर्विशेषतापत्तिर्मोक्षश्चेदिति - ततश्चोपायविशेषनिर्धारणं नासत्तावधारणात्मकमोक्षस्वरूपनिर्धारणं न सम्भवतीति मोक्ष-ज्ञानार्थत्वं तदनुबन्धिज्ञानस्य युज्यत इति भावः । ज्ञातेतरविषयत्वादिति - देहातिरिक्तस्य नित्यस्यात्मनो ज्ञातत्वेन प्रन्नस्य

1.2.12

तद्य्वतिरिक्तविषयत्वादित्यर्थः । श्रुत्यन्तरसंवादमिति - "न प्रेत्य संज्ञास्ति' इति वाक्यस्य मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञा-नसङ्कोचाभावेन भूतसङ्घातेनैकीकृत्यात्मनि देवादिरूपज्ञानं नास्तीत्यर्तकत्वादिति भावः । परावरात्मतत्त्वविज्ञानमिति व्याख्येयं पदम् । प्राकरणिकपूर्ववाक्यस्थहेतुपरं द्वितीयमिति - अत्र यद्वक्तव्यम् तत्पूर्वमेवोक्तम् ।

हिशब्दपञ्चम्यन्तपदयोरुभयोः श्रवणादिति - इतरथा हिशब्दस्यात् हेतुत्वार्थकत्वेन पौनरुक्तयप्रसङ्गादित्यर्थः । स्वपक्षे पौनरु-क्तयाभावमुपपादयति - गुहां प्रविष्टयोरिति । सूत्रार्थस्य दर्शयतीति - गुहाप्रविष्टयोरात्मत्वरूपसूत्रार्थस्येत्यर्थः । गुहाप्रविष्टयो-

1.2.12

रात्मत्वादत्ता परमात्मेत्यर्थः । नन्वेवं हि परेषां योजना; गुहां प्रविष्टौ जीवपरावेव । कुतः? आत्मानौ हि तौ, चेतनौ हि तावित्यर्थः । द्वयोरपि चेतनत्वेन सजातीयत्वात् ऋतपानलिङ्गेन निश्चितस्य द्वितीयापेक्षायां सजातीयस्य चेतनान्तरस्यैव ग्रहणमुचितम् । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते द्वितीयो गौरेवान्विष्यते, नाश्चादि । यदुक्तं परमात्मनो गुहाहितत्वं नोपपद्यत इति तन्न; श्रुतिस्मृतिषु परमात्मनोपि गुहादितत्वदर्शनात् परमात्मनोपि गुहाहितत्वं नोपपद्यत इति । अतो भवत्पक्ष इवास्मत्पक्षेपि गुहां प्रविष्टाविति सैत्रं पदं सिद्धान्तयुक्तिसूचकम् । अस्मन्मते पूर्वपक्षयुक्तिसूचकम् । अतः पूर्वपक्षद्योतकनिर्देशोऽनावश्यक इत्यस्वरसादाह - अर्भकौकस्त्वादिति परस्योपपन्न इतीतिच्छेदः । कृतकरत्वादिति - अर्भकौकस्त्वादितिसूत्रेणेत्यर्थः ।अस्मिन्नधिकरणे एष एव न्यायो "द्वासुपर्णो सयुजौ सखायौ' इत्यत्रापि शाङ्करभाष्ये यदुक्तं तद्दूषयति-द्वासुपर्णावितिवाक्य इत्यादिना । ननु षैङ्गिरहस्यब्रााहृणानुसारेण द्वासुपर्णेति मन्त्रस्य बुद्धिजीवपरत्वेन एतन्न्यायातिदेशस्य तद्भाष्य एव दूषितस्य दूषणं किमर्थं क्रियत इत्याशङ्कय तदभिमतबुद्धिजीवपरत्वमपि न सम्भवतीत्याह - तस्य च वाक्यस्येति । ।। इति अत्रधिकरणम् ।।

1.2.13

स्वरूपसत्सन्निधानस्य प्रसिद्धावनुपयोगात् सर्वेन्द्रियकन्दभूते ह्मदये वर्तमानस्य चक्षुषि सन्निधानाभावाच्च व्याचष्टे - सन्निधा-नावगमादिति । चक्षुष्यवगमादित्यर्थ इति - चक्षुषावगमादित्यर्थः, उत्तरग्रन्थानुसारात् । ननु-उन्मीलितं हीत्यादिभाष्येण चक्षुषो देहे जीवस्थितिगतिनिश्चायकत्वमुपपादितम् । नैतावता "अक्षिणि पुरुषो दृश्यते' इति सप्तम्यर्थ उपपादित इत्याशङ्कयाह - अस्मिन् कर्मणीति । अनेन कर्मणा अस्य सामथ्र्यं दृष्टमिति वक्तव्ये अस्मिन् कर्मण्यस्य सामथ्र्यं दृष्टमितिवत् अक्ष्णा दृश्यत इति वक्तव्ये अक्षिणि दृश्यत इत्युक्तिरिति भावः । दृष्टमिति - सूचितमित्यर्थः । उत्तरत्र सूचक इति ग्रन्थानुसारात् । अथवा सूचकमित्यस्य दर्श-कमिति वार्थस्समाश्रयणीयः । ननु "य एषोऽन्ताक्षिणि पुरुषो दृश्यते' इत्यस्य परतमात्मपरत्वस्य "अन्तस्तद्धर्मोपदेशात्' इत्यधिक-रणेन समथिर्तत्वात् कथं तत्तुल्यनिर्देशेऽस्मिन् वाक्ये अस्य पूर्वपक्षस्योत्थितिरिति चेत् सत्यम्, तत्र जीव इति पूर्वपक्षस्तत्रत्यानन्यथा-

1.2.14

सिद्धलिङ्गेन प्रत्याख्यातः, इह तु बाधकलिङ्गाभावात् प्रसिद्धिदृश्यत्वाभ्यां प्रतिबिम्बादिपूर्वपक्षस्योत्थितिः । नन्वेवमपि "एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामानि संयन्ति सर्वाण्येव वामान्यभिसंयन्ति य एवं वेद । एष उ एव वामनिः । एष हि सर्वाणि वामनि नयति, सर्वाणि वामनि नयति य एवं वेत । एष उ एव भामनिः । एष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति । य एवं वेद, इत्या-दिना प्रदर्शितानां सर्वकामोपेतत्वसकलशुभप्रापकत्वसर्वलोकभासमानत्वरूपाणां संयद्वामत्ववामनित्वभामनित्वानां तत्तदनुरूपफल-रूपतात्पर्यलिङ्गानुगृहीतानां "एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्राहृ' इति श्रुतिप्रतिपादितानामौपसंहारिकाणां बहूनामात्म-त्वामृतत्वाभयत्वब्राहृत्वानामनन्यथासिद्धब्राहृलिङ्गानां सत्त्वे प्रसिद्धिदृश्यत्वलिङ्गाभ्यां प्रथमश्रुताभ्यामपि कथं पूर्वपक्षोत्थितिरित्या-शङ्कयाह - इतिकरणञ्चार्थतात्पर्यद्योतकमिति । मनो ब्राहृेत्युपासीतेत्यादौ इतिशब्दप्रयोगे अर्थे तात्पयदर्शनादिति भावः ।।

1.2.15

शिष्यबुद्धिसौकर्यार्थमाह - राद्धान्ते इति । व्याख्यायत इति शेषः । बहुवचनाभिप्रायं वक्तुं पुनरपि तमेव प्रतीकं गृह्णाति - एषा-मितीति । अर्थपरत्वमेव दृष्टमिति चानुसन्धेयमिति - इतिशब्दस्तत्रैवार्थविवक्षां वारयति, यत्र ज्ञानसम्बन्धो विवक्ष्यते यथा मनो ब्राहृेत्युपासीतेत्यादौ । यत्र तूक्तार्थवच्छेदेन वचनसम्बन्धस्तत्रेतिशब्दो नार्थविवक्षां वारयति । यथा इति ह स्मोपाध्यायः कथयती-त्यादाविति भावः । परोक्तसिद्धान्तयुकिं्त दूषयति - तद्यद्यप्यस्मिन्नित्यादिना ।।

व्यतिरेकस्य वक्ष्यमाणत्वाच्चेति - स्थितिव्यतिरेकस्य हेतूकरिष्यमाणत्वात् तदन्वयो हेतूकर्तुमुचितमिति भावः । नतु प्रदेशपर-तयेति - न परमतवदधिकरणपरतयेत्यर्थः । जीवात्मनि सम्भवतस्तस्येति - नन्वाकाशवत्सर्वगतस्य ब्राहृणः कथकत्यल्पाक्षिस्थान-त्वमित्याशङ्कय यः पृथिव्यां तिष्ठन्नित्यादिस्थानव्यपदेशवत् नामरूपरहितस्यापि ब्राहृणः तस्योदिति नाम हिरण्यश्मश्रुर्हिरण्यकेशः इति नामरूपोपदेशवच्च सर्वगतस्यापि ब्राहृण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यत इत्येव परैरुक्तम् नतु नामरूपवत्ताया अपरमात्मसाध-कत्वमुपन्यस्तम् । येनायं दोषस्यादिति चेत् उच्यते; सर्वगतस्य ब्राहृणः कथमत्यल्पाक्षिस्थानकत्वमितिशङ्कायां "यश्चक्षुषि तिष्ठन्' इति श्रुत्यन्तरे चक्षुषः स्थानत्वेन व्यपदेशादित्येवमस्मदुक्तरीत्या वक्तुं शक्यत्वेन नामरूपरहितस्य ब्राहृणोऽनुचितस्थाननामरूपाणां व्यप-देशदर्शनादिति शिरोवेष्टनेन नासिकाग्रहणस्यायुक्तत्वादित्यत्र तात्पर्यात् । अस्मत्पक्षेपि सम्भवतीति - अन्यथासिद्धिः फलितेति शेषः। अर्थतश्शब्दतश्चेति - "यश्चक्षुषि तिष्ठन्' इत्यादावर्थतः प्रसिद्धिः । "दृश्यते त्वग्रयया' इत्यादौ शब्दतः, इदमुपलक्षणम् । "य एषोऽक्षिणि पुरुषो दृश्यते' इत्यक्षिविद्यायां शब्दतोऽर्थतश्च प्रसिद्धिद्र्रव्या । साधकान्तरप्रदर्शनपरमिदं सूत्रमिति - ननु चक्षुषि स्थितिनियमनादिकं मिलितं परमात्मत्वसाधकम्; उत स्थितिमात्रम् । नाद्यः, स्थितिनियमनादेर्मिलितस्य परमात्मत्वसाधकत्वेपि य एषोक्षिणीतिवाक्ये मिलितस्याश्रवणात् । न द्वितीयः, स्थितिमात्रस्य परमात्मव्यतिरिक्तेष्वपि सत्त्वेन तदसाधारणत्वाभावात् । अतः पूर्वपक्षोक्तयुक्तयन्यथासिद्धिपरत्वमेव वक्तव्यमिति चेत् उच्यते; उत्तरत्र सूत्रार्थनिष्कर्षावसरे श्रुत्यन्तरप्रदर्शनमुखेन स्ववाक्यस्थशङ्का-परिहारपरं द्वितीयसूत्रमित्याचार्यैरेव वक्ष्यमाणत्वान्न तत्राग्रहः ।।

"उपकोसलो ह वै कामलायनस्सत्यकामे जाबाले ब्राहृचर्यमुवास । तस्य ह द्वातिं्रशद्वर्षाण्यग्नीन् परिचचार । स ह स्मान्यानन्ते-वासिनस्समावर्तयंस्तं ह स्मै व न समावर्तयति । तं जायोवाच तप्तो ब्राहृचारी कुशलमग्नीन् पर्यचारीत् । मा त्वाऽग्नयः परिप्रावोचन् प्रब्राूह्रस्मा इति । तस्मै हा प्रोच्यैव प्रवासांचक्रे । स ह व्याधिनाऽनशितुं दध्रे । तमाचार्यजायोवाच । ब्राहृचारिन्तशान किंनु नाश्नासीति । स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यया व्याधिभिः परिपूर्णोस्मि नाशिष्यामीति । अथ हाग्नयस्समुदिरे । तप्तो ब्राहृचारी कुशलं न पर्यचारीत् । हन्तास्मै प्रब्राुवामेति । तस्मै होचुः । प्राणो ब्राहृ कं ब्राहृ खं ब्राहृेति स होवाच विजानाम्यहं यत्प्राणो ब्राहृ कं च तु खं च न विजानामीति । ते होचुः । यदेव कं तदेव खं यदेव खं तदेव कमिति । प्राणं च हास्मै तदाकाशं चोचुः । अथ हैनं गार्हपत्यो-ऽनुशशास । पृथिव्यग्निरन्नमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोहमस्मि स एवाहमस्मीति स य एतमेवं विद्वानुपास्ते । अपहते पापकृत्यां लोकीभवति । सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उपवयन्तं भुञ्जामोऽÏस्मश्च लोके अमुÏष्मश्च य एतमेवंविद्वानुपास्ते अथ हैनमन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति । य एष चन्द्रमसि पुरुषो दृश्यते सोऽह-मस्मि स एवाहमस्तीति स य एतमेवं विद्धानुपास्ते' इत्यादि पूर्ववत् । अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोहमस्मि स एवाहमस्तीति स य एतमेवंविद्धानुपास्ते' इत्यादि । ते होचुरुपकोसलैष सोम्य तेऽस्मद्विद्या

1.2.15

चात्मविद्या च आचार्यस्तु ते गतिं वक्तेति आजगामाहास्याचार्यस्तमाचार्योभ्युवाद उपकोसल इति भगव इति ह प्रतिशाश्रुव । ब्राहृविद इव सोम्य ते सुखं भाति को नु त्वानुशशासेति कोनु मानुशिष्याद्भो इति उहापेव निहनुते इमे नूनमीदृशा अन्यादृशा इति हाग्नीनम्पूदे । किं नु सोम्य किल तेऽवोचन् इदमिति ह प्रतिजज्ञे लोकान् वा व किल सोम्य ते अवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाशे आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रावीतु मे भगवानिति । तस्मै होवाच य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्राहृेति । तद्यद्यप्यस्मिन् सर्पिर्वा उदकं वा सिञ्चति वत्र्मनीव गच्छति एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद । एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद । अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षम् आपूर्यमानपक्षाद्यान् षडुदङ्ङेति मासास्तान् मासेभ्यस्सं-वत्सरं संवत्सरादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान् ब्राहृ गमयति एष देवपथो ब्राहृपथ एतेन प्रति-पद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते' इति श्रुतिक्रमः । श्रुत्यनुरोधेन सूत्रं योजयित्वा सूत्रानुरोधेन श्रुतिं योजयति - तद्गुण-सारत्वादितिन्यायेनेति । अयन्तु हेतुव्र्यतिरेकोक्तिनिरपेक्ष इतीति - इदमुपलक्षणम्, स्वसद्भावसाधने हेत्वन्तरनिरपेक्ष इति द्रष्टव्यम् । अत एव भाष्ये सामान्यत एवकारो नैरपेक्ष्यं द्योतयतीत्युक्तम् । ततश्च ब्राहृणः प्रस्तुतत्वेप्यग्निविद्याव्यवहितत्वान्नास्य परामर्शः, अत-स्सुखविशिष्टाभिधानादिति हेतोरसिद्धिरिति या शङ्का सापि नैरपेक्ष्यद्योतकेनैवकारेण सूत्रकृता व्यावत्र्यत इति भाष्याभिप्राय इति भावः । अङ्गानामप्यङ्गिफलाविरुद्धेति - पात्रधारणोपयुक्तप्रस्तरप्रतिपविरूपतया क्रत्वर्थस्यैव सतः प्रस्तरप्रहरणस्य श्रुतिविनियुक्ता-युरादिफलप्रदिपादकसूक्तवाककरणकत्वान्यथानुपपत्त्या फलसाधनत्ववत् ब्राहृविद्याङ्गभूतायाः अग्निविद्याया अपि फलार्थत्वमुपपद्यत इति भावः । उपक्रमोपसंहारयोरुभयत्रेति योजना, नतु व्याख्येयं पदम् । तद्वाक्यस्योत्तरत्रावतरिष्यमाणत्वादिति मन्तव्यम् । हेतु-चतुष्टयेनेति - यद्यप्युपक्रमोपसंहारयोब्र्राहृसंशब्दनमपि "आचार्यस्तु ते गतिं वक्ता' इत्यग्निवचनवदग्निविद्यायाः प्राक् ब्राहृविद्याया असमाप्तावेव हेतुः । ततश्च प्रस्तुतब्राहृविद्योपक्रमतदुपसंहारमध्यपतितत्वात् "अथ हैनम्' इत्यन्वादेशात् । समुच्चित्योपदेशाच्चेति हेतुत्रयमेवोपन्यस्यत इति शक्यं वक्तुम् । भाष्येपि तथैव प्रतीयते, न प्रकारान्तरेण; तथापि साक्षात्परम्परोपपादकसाधारण्येन

1.2.15

चतुष्टयमुपन्यस्तं द्रष्टव्यम् । पुनः परामर्शो ह्रन्वादेश इति - क्रियान्तरसम्बन्धितया शब्दतः प्रकृतस्य पुनः क्रियान्तरसम्बन्धितया शब्दतः प्रतिपादनमन्वादेशः इत्यर्थः । उपदेष्टव्यत्वविशेषविवक्षयेति - मोक्षफले समप्रधानत्वाभावेन समुच्चयाभावेप्युपदेशक्रियायां समुच्चयस्सम्भवतीति भावः । यद्वा सम्बन्धमात्रपर इति - नतु समप्राधान्येन सम्बन्धपर इत्यर्थः । "द्रव्यसंस्कारकर्मसु परार्थत्वात्फ-लश्रुतिरर्थवादः स्यात्' इति जैमिनीयसूत्रपाठः । द्रव्यगुणसंस्कारकर्मस्विति क्वचित् कोशो पाठो लेखकस्खलनकृतः । एतत्सूत्रार्थश्च शेषत्वात् पुरुषार्थवाद इत्यत्रास्माभिस्स्पष्टयिष्यते । ब्राहृविद्यानुगुणफलत्वं दर्शयतीति - सत्पुत्रपौत्रादिसन्तत्यभिवृद्धेः पितृपिता-महाद्यार्जितविद्यार्थपुण्यकर्मफलाभिवृद्धौ हेतुत्वादित्यर्थः । "शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्पराये कीर्तिं स्वर्गं च वर्धयन्ति' इत्या-पस्तम्बोक्तेरिति द्रष्टव्यम् । भाष्ये-श्रुत्यन्तरे ब्राहृविद्याफलत्वेन श्रूयत इति । नचाग्निविद्यायां ब्राहृविद्योपयुक्तसत्सन्ततिरूपफलजनक-त्वकीर्तनावसरे सत्सन्ततेः ब्राहृविद्याफलत्वप्रापकश्रुत्यन्तरोदाहरणमयुक्तमिति वाच्यम्; निर्दिष्टफलानां पूर्वपक्ष्यभिमतब्राहृविद्या-

1.2.16

विरोधित्वप्रतिक्षेपमात्रे तात्पर्यात् । अङ्गयनुकूलफलजनकत्वाभावेपि अङ्गिविरुद्धफलजनकत्वाभावेप्यङ्गत्वं सम्भवतीत्येव भाष्य-कृत्संरम्भात् अत एव वक्ष्यति- "अन्यथा त्वंशब्दात्' इति सूत्रे आर्थवादिकमपि फलं तदविरुद्धं ग्राह्रुमेवेति । उपशब्दार्थ इति - पर्यन्तवाचिना परीत्युपसर्गेण उपशब्दाथर्भूतं सामीप्यं सूच्यते, अतो विध्ननिवारणपर्यन्तत्वलाभ इति भावः । एकप्रकरणत्वे स्थितेपीति - पूर्वं ब्राहृणः प्रकृतत्वे अग्निविद्याव्यवधानाभावे च सत्यपीव्यर्थः । सह व्याधिनाऽनशितुं दद्ब्रा इति वाक्यार्थमभिप्रयन्नाह, भाष्ये-अनाश्वासमिति । "उपेयिवाननाश्वा'निति नञ्पूर्वादश्नातेरनाश्वानितिरूपम्, अभुक्तवन्तमित्यर्थः । यावतेत्येतद्वयाचष्टे - प्रत्युतेति । नतु ब्राहृशब्देनेति - ब्राहृोपदिष्टं चेत् ब्राहृोचुरित्येव निगमनं स्यादिति भावः ।

निगमनवाक्यस्थ पुंल्लिङ्गेति - "प्राणं च हास्मै तदाकाशं चोचुः' इति निगमनवाक्यस्येत्यर्थः । न चाकाशशब्दस्योभयलिङ्गतया

1.2.16

पुल्लिङ्गत्वसम्भवेपि नपुंसकलिङ्गतत्पदसमभिव्यवाहारान्निगमनवाक्यस्थाकाशशब्दस्यापि नपुंसकतया कथं तत्कटाक्षेण स इति पुल्लिङ्गप्रयोग इति वाच्यम्, स चासावाकाशश्च तदाकाश इति तदाकाशपदस्य समस्ततया तस्य नपुंसकलिङ्गत्वे प्रमाणाभावेन "आत्मन आकाशस्सम्भूतः' "आकाश इति होवाच' "आकाशो ह वै नामरूपयोर्निर्वहिता' "यदेष आकाश आनन्दो न स्यात्' इत्यादिप्रयोगानुसारेण आकाशशब्दस्य पुल्लिङ्गतया प्रसिद्धिप्राचुर्येण पुल्लिङ्गत्वोपपत्तेः, इदञ्चोपलक्षणम् । कं ब्राहृ खं ब्राहृेतिवा- क्यानां ब्राहृेत्यादिवाक्यसारूप्यात् दृष्टिविधित्वमस्त्विति वदतः प्राणो ब्राहृेतिवाक्येपि दृष्टिविधित्वमभिमतम् । अतः प्राणो ब्राहृे-त्यत्रापि दृष्टिविधित्वपरिहारेण प्राणस्यापि ब्राहृत्वमिह सूत्रे सिसाधयिषितम् । अतः प्रक्रमश्रुतपुल्लिङ्गप्राणशब्दानुरोधात् स इति प्राणः परामृष्ट इत्युक्तौ दोषाभावात् न चैवं कंखंशब्दनिर्दिष्टयोब्र्राहृत्वं नोक्तं स्यादिति वाच्यम्; खशब्दाभिधेयो यस्स आकाश इत्युक्ता-वपीतरयोस्समत्वात् । यदि चैकस्य निर्देशे इतरयोरपि निर्दिष्टत्वं सिद्धमिति मतम्, तदस्मत्पक्षेपि समानमित्यास्तां तावत् । वाक्यद्वयस्थाविति - "य एषोऽक्षिणि पुरुषः' इत्यत्र स्थानगुणविध्यर्थं कं ब्राहृेतिवाक्योक्तसुखविशिष्टाभिधानव्यक्तिविशेष एकः पूर्वसूत्रे साधकतयोक्तः । इह तु "यद्वा व कं तदेव ख'मितिवाक्यगताभिधानव्यक्तिविशेष एक इति द्वौ व्यक्तिविशेषावित्यर्थः । अर्थसामथ्र्याच्छØतिव्यक्तिविशेषसिद्धिरिति - नात्माश्रुतेरित्यत्रात्मानुत्पत्तिप्रतिपादिका "न जायते मि#्रयते' इत्यादिका विवक्षिता या श्रुतिः न सा श्रुतिव्यक्तिः "ज्ञोऽत एव' इत्यनन्तरसूत्रे अतश्शब्देन परामृश्यते, अपितु ज्ञत्वपतिपादिका "विज्ञातारमरे केने'-त्यादिकाऽन्यैव श्रुतिः तद्वदित्यर्थः । नन्वश्रुतवेदान्तस्योपकोसलस्य मुमुक्षवे प्रतीकोपासनं नोपदेश्यमिति ज्ञानं तथा प्राणो ब्राहृेत्यत्र प्राणस्य शरीरत्वं शरीरत्वे च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वमित्येतावज्ज्ञानं कथं स्यात् । शरीरं नियाम्यमिति ज्ञानञ्च कथम् ?

1.2.16

तथा कं ब्राहृ खं ब्राहृेत्यत्र प्राणो ब्राहृेत्यत्रेव वैषयिकसुखभुताकाशशरीरकत्वनिश्चयस्यैव सम्भवेनान्योन्यविशेषणभावस्य क्वाप्यदृष्ट-चरस्य कथं प्रतिपाद्यत्वशङ्कोत्थानम्, अतश्चैतादृशविचारसम्भवः कथमितीमामाशङ्कां परिहरति - मुमुक्षोः प्रतीकोपासनमित्यादिना सम्भवति तद्वदितिच्छेदः, पतीकोपासनशङ्काया मुमुक्षूपदेश्यत्वाज्ञाताज्ञातविभागकथनानुपपत्तिनिरास्यत्वे सौत्रहोतोर्निरासकत्वं न

1.2.17

स्यादित्याशङ्कय सौत्रहोतोरपि निरासकत्वं समर्थयते - यद्वा व कं तदेव खमित्यादिना । न ह्रर्थान्तरदृष्टिविध्यज्ञानस्येति - अन्यतरप्रकारं न जानामीति वदन्तं प्रतीत्यर्थः । अज्ञानवचनादिति - दृष्टिविधित्वेन सर्वस्यापि ज्ञातत्वादिति पूर्वमुक्तत्वादित्यर्थः । अन्योन्यविशेषणविशेष्यभावस्याप्रामाणिकत्वादिति - न चापरिच्छिन्नसुखरूपत्वयोः कंखंशब्दाथर्योरन्योन्यव्यवच्छेदकत्व-वन्नीलोत्पलयोरपि परस्परव्यवच्छेदकत्वे को दोषः? यदेव नीलं तदेवोत्पलं यदुत्पलं तन्नीलमिति सम्भवादिति वाच्यम्; तथात्वे विशेषणं विशेष्येणेति समासे पूर्वनिपातानियमप्रसङ्गेनोत्पलनीलमित्यपि वाक्यस्यापि च स्वारस्यपरित्यागेनान्योन्यविशेषणतया ब्राहृस्वरूपपरत्वमेव नोपास्यपरत्वमित्याहुः ।।

उपनिषत्सु प्रतीकोपासनानामिति - ये श्रुतोपनिषदोपि प्रतीकमुपासते तेषामर्चिरादिगतेरनुसन्धेयत्वाभावात्तद्य्वावृत्त्यर्थमधिगत-परमपुरुषयाथात्म्यस्येति व्याचष्ट इत्यर्थः । नन्वेवमपि ये पुनरधिगतपरमपुरुषयाथात्म्या अदृष्टवैगुण्यवशान्न ब्राहृोपासते तेषामर्चिरा-दिगतेरनुसन्धेयत्वाभावात् पुनरपि स दोषस्तदवस्थ इति चेन्न; अधिगतपरमपुरुषयाथात्म्यस्येत्यस्य ब्राहृोपासकस्येत्यर्थात् । ब्राहृ-विद्याङ्गत्वज्ञापकश्रुत्यन्तरज्ञापनाथर्मिति - श्रुताः पठिताः उपनिषदः अङ्गभावप्रतिपादकत्वेन यस्या गतेः सा श्रुतोपनिषत्का, अङ्गभावप्रतिपादकपठ¬मानोपनिषत्प्रतिपाद्यगत्यभिधानादित्यर्थ इत्येवमावृत्त्या श्रुतोपनिषत्कस्य पुरुषस्य श्रुतोपनिषत्कगत्यभि-धानादिति प्रदशर्नार्थम् । श्रुतोपनिषत्केत्यधिकाक्षरोपादानमिति श्रुत्यन्तरप्रतिपाद्यमानार्चिरादिकेति भाष्याभिप्राय इति भावः । ततश्च श्रुतोपनिषत्केत्यनेनायमर्थः कथं लभ्यते ? श्रुतब्राहृण इत्युक्ते कुतो न लभ्यत इति शङ्का पराकृता । सूत्रस्य सवर्तो मुखत्वात् आवृ-त्तिरलङ्कार इति द्रष्टव्यम् - तत्प्रतुनयविरोध इत्यभिप्रायेणेति - प्राप्यस्य परमपुरुषस्योपासनविषयत्वावश्यम्भावादिति भावः । ननु "अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु च न' इति पूर्ववाक्ये अस्मिन्नित्येकवचननिर्देशात्कथं "तेऽर्चिषमेवाभिसम्भवन्ति' इत्युक्ति-रित्याशङ्कय पूर्ववाक्यस्थस्यास्मिन्नित्यंशस्य जात्यभिप्रायत्वान्न दोष इत्यभिप्रयन्नाह - अर्चिषमेवेत्यतः पूर्वमिति । नन्वस्यामुप-

1.2.18

कोसलविद्यायामर्चिरादिगतिप्रतिपादनं व्यर्थम् । "तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासते' इतिपञ्चाग्निविद्यावाक्यसि- द्धत्वात् । न च "आचार्यस्तु ते गतिं वक्ता' इति गतेराचार्यवक्तव्यत्वेनाग्निभिरुपदिष्टत्वात् आचार्येण गतिरुक्तेति वाच्यम्; अग्नयो वा किमर्थं तथोचुरिति पर्यनुयोगस्य तत्रापि समत्वादित्यत्राह - पञ्चाग्निविद्येति । ननु श्रुतोपनिषत्कगत्यभिधानं कथमक्षिपुरुषस्य परमात्मत्वसाधकम्, अग्निभिस्सुखविशिष्टब्राहृोपासनमुदिश्य तच्छेषत्वेन "आचार्यस्तु ते गतिं वक्ता' इति आचर्यवक्तव्यत्वेनोक्ता गतिराचार्येणोपदिष्टेत्येतावताक्षिपुरुषस्य ब्राहृत्वे किमायातम् ? अग्न्युपादिष्टसुखविशिष्टविद्याया ब्राहृविद्यात्वमात्रेणापि अर्चिरा-दिगत्यभिधानस्य सङ्गतत्वात् । नचाग्न्युपदि#ेष्टसुखविशिष्टस्य ब्राहृत्वे सिद्धे सुखविशिष्टाभिधानादेव चेतिसूत्रोक्तन्यायादेवाक्षिपुरु-षस्यापि ब्राहृत्वं सिद्धमिति वाच्यम्; तथात्वे श्रुतोपनिषत्कसूत्रवैयथ्र्यापत्तेः । नचेदमपि सूत्रमग्न्युपदिष्टसुखविशिष्टस्यैव ब्राहृपरत्व-साधकमिति वाच्यम्, एतस्य सूत्रस्य साक्षादक्षिपुरुषब्राहृत्वोपपादकत्वस्यैव ग्रन्थकृदभिमतत्वादितिचेत् उच्यते; "अथ यदु चैवास्मिन् शव्यं कुर्वन्ती'त्यत्र इदंशब्दस्याक्षिपुरुषविद्यानिष्ठविषयत्वस्य परित्यागायोगेनाक्षिपुरुषस्य साक्षाद्ब्राहृत्वसाधकत्वात् ।।

ननु ह्मदयस्य कथं गोलकादिप्रदेशवर्तीन्द्रियकन्दत्वमित्याशङ्कय "शतं चैको च' इत्यादिप्रतिपन्ननाडीद्वारा कन्दत्वमभिप्रयन्नाह -शतं चैका चेत्यादि । इयं च श्रुतिरिति - "आसु तदा नाडीषु' इति श्रुतिरित्यर्थः । अत्र वक्तव्यं सर्वं जगद्वाचित्वादित्यत्र स्पष्टम् ।

1.2.18

ह्मदयशब्दो ह्मद्गतपरमात्मपर इति - इदमुपलक्षणम् । प्रासादगतखट्वास्थे पुंसि प्रासादस्थ इतिवत् ह्मदयस्थपरमात्मस्थे पुंसि ह्मदय-त्वमिति व्यवहारोमुख्य एव । यादवप्रकाशीये तु इत्यादि - परमात्मत्वसाधनमनुपपन्नमिति - जीवव्युदसनमनुपपन्नमित्यर्थः । तदनुवादेन परमात्मत्वसाधनायेति - प्रतिबिम्बव्यावृतिं्त सिद्धवत्कृत्य जीवव्यावृत्तिसाधनायेत्यर्थः । यद्वा पूर्वोपन्यस्तहेतूननूद्य तैर्हेतुभिः जीवव्यावृत्तिसाधनायेत्यर्थः । ननु "अत एव न देवता भूतं चे'तिसूत्रतुल्ययोगक्षेमं भविष्यतीत्यस्वरसादाह - प्राणो ब्राहृेत्यादिवाक्यस्येति । अतो ब्राहृणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यमिति - यद्यप्यत एव च स ब्राहृेत्यत्र प्रतिबिम्बव्यावृत्ति-हेतुभिरेव जीवव्यावृत्तिस्सिद्धयतीत्येवं जीवव्यावृत्तिरेव प्रतिज्ञायते, न ब्राहृेत्युक्तम्; तथापि वक्ष्यमाणरीत्या परमसाध्योपपाद-कोपपादकत्वमेव युज्यत इति भावः । नहि न्यायनिबन्धनेति - ततश्च सुकविशिष्टाभिधानोपपत्तीनामपि तस्मिन्नेव सूत्रे विव-क्षितत्वमभ्युपेयम्, नतु निर्युक्तिकसुखविशिष्टाभिधानस्वरूपमात्रपरमिति भावः । श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिति - "हन्धो ह वै नामैष योऽयं दक्षिणेऽक्षिन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्रमित्याचक्षते । अथ तद्वामेऽक्षिणि पुरुषस्य रूपमेषास्य पत्नी

1.2.18

विराट् प्रदेशान्तरे तौ मिथुनं समेताम् । ततः प्राणोऽजायत । इन्द्रस्य' इत्यादिः ज्योतिरधिकरणोदाह्मता श्रुतिद्र्रष्टव्या । यत्सर्वेष्वधि-करणेष्विति - तथा च "अत एव च स ब्राहृ' इत्यस्य परमसाध्योपपादकत्वमयुक्तमिति भावः । उपपाद्यत्वाद्दुर्बलमिति - अन्तर्यामि-ब्रााहृणस्यापि उत्तराधिकरणन्यायोपपाद्यत्वादिति भावः । अक्षिपुरुषविद्याया गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्यस्य अक्षिपुरुष-विद्या गतिचिन्तनाङ्गत्वेन विधीयत इत्यर्थो विवक्षितः, उत गतिचिन्तनमक्षिपुरुषविद्याङ्गत्वेन विधीयते ? इति विकल्प्याद्यं दूषयति - अक्षिपुरुषस्य परमात्मत्वनिर्णयादिति । द्वितीयं दूषयति - गतिचिन्तनस्य सवर्परविद्याङ्गतादिति ।।

1.2.19

विषयं शोधयतीति - इत्थं हि विषयशुद्धिः,-जनकेन ब्राहिृष्ठशुल्कत्वेनानीते गोसहरुो याज्ञवल्क्येन वादकथायां प्रवृत्तेषु केषु-चिद्ब्राहृवादिषु विजितेषु उद्दालकेन सूत्रान्तर्यामिणोः प्रश्नः कृतः । "अथ हैनमारुणिरुद्दालकः प्रपञ्च । याज्ञवल्क्येति होवाच, मद्रे-ष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयमानाः' मद्रेषु देशोष्वित्यर्थः । "तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोसीति । सोऽब्रावीत् कबन्ध आधर्वण इति' । कबन्धः-कबन्धनामा । "सोब्रावीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ न त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः । सर्वाणि च भूतानि सन्द्रब्धानि भवन्ति' इति । सूत्रे पुष्पाणीव प्रोतानीत्यर्थः । "सोऽब्रावीत् पतञ्जलः काप्यो नाहं तद्भगवन् वेदेति । सोब्रावीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोब्रावीत्पतञ्जलं काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रावीत्पतञ्जलं काप्यं याज्ञिकांश्च यो वैतत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्राहृवित्स लोकवित्स देववित्स वेदवित्सभूतवित् स आत्मवित्स सर्वविदिति तेभ्योऽब्रावीत् तदहं वेद स ब्राहृवित् इत्यादिना प्रशस्य काप्याय याज्ञिकेभ्यश्च सूत्रन्तर्यामिणं च गन्धर्वं उपदिदेश, तद्द्वयमप्यहं जान इत्यर्थः । तच्चेत्वं याज्ञवल्क्य सूत्रमविद्वान् तं चान्तर्यामिणं ब्राहृगवीर्यद्युदजसे मूद्र्धा ते विपतिष्यति' इति । ब्राहृमवीः-ब्राहिृष्ठशुल्कत्वेन जनकेन दत्ता गावः । यद्युदजसे-यदि नयसीत्यर्थः । वेद वा अहं तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्च ब्राूयात् वेद वेदेति यथा वेत्थ तथा ब्राूहीति । यः कञ्चिदपि अहं जानामीति ब्राूयात् त्वं यदि जानासि तर्हि वदेत्यर्थः । "स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकस्सर्वाणि भूतानि संद्रब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुः' व्यसृंसिषितास्याङ्गानीति-विरुास्तानीत्यर्थः । वायुना हि गौतम सूत्रेण सन्द्रब्धाणि भवन्ति' इति । एवं सूत्रप्रश्नस्योत्तरे दत्ते-"एवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्राूहि' इति उक्तां-शमभ्युपगम्यान्तर्यामिणं पप्रच्छ "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः' इत्युपक्रम्य "योऽप्सु तिष्ठन् योऽग्नौ तिष्ठन्' इत्येवं क्रमेण अम्ब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्र्दतारका-काशतमस्तेजः पर्यन्तान् पर्यायानुपदिश्य "इत्यधिदैवतम्' इत्युपसंह्मत्य "अथाधिभूतम्' इत्युपक्रम्य "यस्सर्वेषु भूतेषु' इति पर्याय-मुपन्यस्य "इत्यधिभूतम्' इत्युपसंह्मत्य "अथाध्यात्मम्' इत्युपक्रम्य प्राणवाक्चक्षुःश्रोत्रमनस्त्वग्विज्ञानरेतः पर्यायानुपन्यस्य "एष त आत्मा अन्तर्याम्यमृतः "अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नान्योतोस्ति श्रोता नान्योतोस्ति मन्ता नान्योतोस्ति विज्ञाता एष त आत्मा अन्तर्याम्यमृतः अतोन्यदार्तम्' सत्युपसंह्मतम् । माध्यन्दिनपाठे तु लोकवेदयज्ञपर्यायारुायो-ऽधिका इति । प्रत्यगात्ममात्रे अन्तर्यामित्वपूर्वपक्षासम्भवात् उपचितसुकृतजीवविशेषपरः प्रत्यगात्मशब्द इत्याह - प्रत्यगात्मशब्द

1.2.19

इति । यदा निषेधोऽनुपपन्न इति - द्रष्टृत्वस्य रूपादिसाक्षात्कारकर्तृत्वरूपत्व इति शेषः । नियमनस्यार्थसिद्धत्वमुपपादयति - पर-प्रेरणरूपस्येति । ननु जीवः कोऽत्रान्तर्यामी स्यात्, न तावदुपासकजीवः, तस्य "यः पृथिव्यां तिष्ठन्' इत्यादिवाक्यप्रतिपाद्यपृथि-व्यादिस्थितितन्नियमनयोरसम्भवात् । नापि पृथिव्याद्यभिमानी देवताविशेषः, तस्य पृथिव्यादिस्थितिनियमनादिसम्भवेपि उपदेश्यो-पासकजीवभिन्नतया "स त आत्मे'ति निर्देशासम्भवात् । नापि जीवसमुदायः, तस्यापि पृथिव्याद्यतिष्ठत्वेन समुदाये स त आत्मेति निर्देशानुपपत्तेरित्याशङ्कयोपासकस्य वा पृथिव्याद्यभिमानिनो वा जीवसमुदायस्य वा नैकस्यान्तर्यामित्वं पूर्वपक्षे विवक्षितम्, किन्तु

1.2.19

जीवजातीयानां वस्तूनामन्तर्यामित्वं विवक्षितम् न च तथात्वे स त आत्मेति निर्देशानुपपत्तिः, उपदेश्यस्योपासजीवस्यान्तर्यामिब-हुजीवात्मकत्वाभावादिति वाच्यम्, तज्जातीयस्त्वमसीत्यर्थस्य वक्ष्यमाणत्वेनादोषादित्यभिप्रयन्नाह - प्रतिपर्यायं यच्छब्दावृत्त्येति । यथा यस्तिष्ठति स ते पुत्रः यः पचति स ते पुत्र इत्युक्ते पुत्रभेदः प्रतीयते तद्वदित्यर्थः । व्यापकनियामकवस्त्वन्तराभावाभिप्रायेणेति नहि जीवजातीयावच्छिन्नत्वस्य व्यापकं नियामकं वा किञ्चिदस्तीत्यर्थः । यत्तु जीवविशेषान् प्रत्यन्तर्यामित्वमिति - "य आदित्यो तिष्ठन् यश्चन्द्रमसि तिष्ठन्' इत्यादिभिः प्रतिपाद्यमानं जीवविशेषान्तर्यामित्वमिति भावः । अष्टमूत्त्र्यादेरिवेति - रुद्रस्याग्न्याद्यष्ठमूर्त्ति-नियन्तृत्वमिवेत्यर्थः । तत्तद्गणाध्यक्षाणामिति - आदित्यगणाध्यक्षाणामित्यर्थः । एवं प्राप्त इत्यस्यानन्तरं सूत्र इति क्वचित् कोशे पठ¬ते, न तस्य प्रयोजनं पश्यामः । भाष्ये-अधिदैवाधिलोकादिपचिह्नितेष्विति । ननु "यः पृथिव्यां तिष्ठन्' इत्युपक्रम्य पृथिवयम्ब्व-ग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतमस्तेजांसि निर्दिश्य चरमे तेजः पर्याय एव "इत्यधिदैवम्' इतिपदं श्रूयते, नतु पूर्वेषु पर्यायेषु; अतस्तेषां कथमधिदैवपदचिह्नितत्वमितिचेन्न; इत्यधिदैवमितीतिकरणेन पूर्वेषामपि पर्यायाणां परामर्शात् तत्पदचिह्नितत्वोपपत्तेरिति भावः ।।

अनेन सवर्सूत्रेष्वति - अधिदैवाधिलोकादिष्वित्यत्र दैवलोकभूतादिषु विषयेष्वन्तर्यामी परमात्मेत्यपि व्याख्यायास्सम्भवात् तत्परित्यागेनाधिदैवादिशब्दस्य वाक्यपरत्वमभ्युपगम्य वाक्यप्रतिपाद्योऽन्तर्यामीति व्याख्यानात्सर्वसूत्रेष्वपि तत्तद्वाक्यप्रतिपाद्य-

1.2.19

परत्वमेव साध्यं विवक्षितम् । अध्यायस्य वाक्यसमन्वयप्रतिपादनपरत्वादिति भाष्यकाराभिप्राय इति भावः । पदद्वयेति - एतेना-धिलोकपदशून्यः परेषां सूत्रपाठस्तावदप्रामाणिक इति दर्शितम् । बहुपर्यायप्रदर्शनार्थेनाधिदैवशब्देनेति - पृथिव्यम्ब्वग्न्यन्तरिक्ष-वाय्वादित्यदिक्चन्द्रतारकाकाशपर्यायाणामधिदैवानुप्रविष्टानां बहुत्वादित्यर्थः । अवधारणं फलितमिति भाव इति - यद्यप्यौ-पनिषदानि वाक्यानि सवप्र्रशासितृत्वादिकं परमात्मन एव सर्वप्रशासितृत्वं सर्वात्मत्वमिव्येवमाकारेण वदन्तीति भाष्यार्थमालो-च्यैवमुक्तमिति द्रष्टव्यम् । स्वाभाविकं चामृतत्वमितिभाष्यस्यायं भावः,-स्वाभाविकौपाधिकयोर्मध्ये औपाधिकस्योपाधिप्रतिप-त्त्यधीनप्रतिपत्तिकत्वेन विलम्बितप्रतीतिकतया ततोपि स्वाभाविकस्यैव ग्राह्रत्वादिति । किमार्थमिति - व्याप्तिबलात् परमात्मनोपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इत्यर्थस्वभावायत्तमित्यर्थः । द्रष्टृत्वादिकं न करणायत्तमितीति - यद्यपि न च परमात्मनः करणायत्तं द्रष्टृत्वादिकमिति भाष्यपाठः, तथाप्यर्थतः प्रतीकग्रहणामिति द्रष्टव्यम् । ननु न च परस्यात्मनः करणायत्तं द्रष्टृत्वादि-कमिति भाष्यं युक्तम् । दर्शनकर्तृत्वरूपस्य द्रष्टृत्वस्य करणायत्तनियमात् परमात्मनि तादृशद्रष्टृत्वानभ्युपगमाच्चेत्यतो व्याचष्टे - रूपादिमिरिति । ननु स्वभावशब्दो न धर्मपरः, अपितु स्वरूपशब्दपर्यायइत्याशङ्कय समभिव्याहारदर्शनात्पर्यायत्वं नेत्याह-

1.2.19

स्वरूपस्वभावशब्दयोरिति । अदृष्टापेक्षां च व्यावर्तयतीति - चशब्देन स्वव्यतिरिक्तचेतनान्तरसङ्कल्पमपि समुच्चिनोति, स्व-मावशब्द धर्मभूतज्ञानपरतया व्याख्याय सत्तापरतया व्याचष्टे - यद्वा न करणायत्तमिति । साध्याविशेषमाशङ्कयाह - सामान्ये-नेश्वरज्ञानेति । सामान्याकारयोगस्येति - ईश्वरत्वज्ञानत्वावच्छेदेन करणादृष्टादिनैरपेक्ष्यस्येत्यर्थः । तथा च श्रुतिरितिभाष्यस्य तथा श्रुतिश्चेत्यन्वयः । उदाहरिष्यमाणाया हि "पश्यत्यचक्षुः' इति श्रुतेः ज्ञानविशेषोपादानवत्त्वं कारणविशेषनिषेधकण्ठोक्तिमत्त्वमि-त्याकारद्वयमस्ति, "स्वाभाविकी ज्ञानबलक्रिया च' इत्यत्र कारणनिषेधकण्ठोक्तिमत्त्वेपि ज्ञानविशेषोपादानं नास्ति, द्रष्टा श्रोते-त्यादिविशेषोपादानेपि कारणविशेषकण्ठोक्तिर्नास्ति । पश्यत्यचक्षुरित्यत्र तु द्वयमप्यस्तीति सिद्धम् । तत्र च तथाचेत्यत्र तथाशब्दस्य

1.2.20

कारणनिषेधकण्ठोक्तिमत्तापरामर्शितया विशेषोपादानपरामर्शितया वा तदुभयपरामर्शितया वा व्याख्यानं सम्भवतीत्यभिप्रेत्य त्रेधा व्याचष्टे - द्रष्टा श्रोतेत्यादिना । रूपशब्दयोस्साक्षात्कर्तेत्यर्थ इति - न चैवं रूपद्रष्टेत्यादौ पौनरुक्तयप्रसङ्ग इति वाच्यम्; पाकं पचतीतिवत् तत्र द्रष्टृशब्दस्य साक्षात्कर्तृत्वमात्रपरत्वात् घटद्रष्टेत्यादावपि मन्तेत्यादौ का गतिरित्याशङ्कय तादृशस्थले लक्षणया मननसमानविषयसाक्षात्कारवत्त्वमित्यर्थ इत्याह - ये मानसेति । ननु परमात्मनो नित्यमननादिकमस्त्वित्यत आह - चक्षुरादि-बाह्रकरणेति । साधारणाकारग्रहणेति - चक्षुरादिबाह्रकरणैस्साधारणाकारं गृहीत्वा मनोरूपान्तःकरणेन विचार्यबुद्धिरूपेणा-न्तःकरणेन हि जीवोध्यवस्यतीति भावः । तदाश्रयो जीव इति चेति - ततश्च परमात्मनि मन्त्रबोद्धादिशब्दस्य लक्षणा दुर्निरासेति भावः । अतश्शब्दस्वारस्यवशादिति - सर्वनाम्नः पूर्वप्रस्तुतविशेषणविशिष्टपरामर्शित्वनियमादित्यर्थः । अत एव "तस्योपनिषद-हमित्यधिदैवतं तस्योपनिषदहमित्यध्यात्मम्' इत्यत्र तच्छब्दस्य न प्राक्प्रस्तुतब्राहृपरामर्शित्वमात्रम्, अपितु स्थानादिविशेषवि-शिष्टपरामर्शित्वमिति "सम्बन्धादेवमन्यत्रापि' इत्यत्र वक्ष्यत इति भावः । अतश्शब्दस्वारस्यात् इत्येतच्चोपलक्षणम्, अन्यशब्द-स्वारस्यादित्यपि द्रष्टव्यम् । अन्यशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वात्; अत एव इषुनामके कृतौ "इषुविष्र्टुतिस्सप्तहं भवति' इति वैशेषिकाङ्गविधानानन्तरमाम्नाते "समानमितरच्छ्येनेन' इतिवाक्ये इतरश्शब्दपूर्वनिर्दिष्टवैशेषिकाङ्गसदृशानां वैशेषिकाङ्गानामे-वेतरशब्देन ग्रहणम्, पूर्वनिर्दिष्टसादृश्यात्, नतु प्राकृतानामपीति पूर्वतन्त्रे निर्णीततया तन्न्यायेनान्यशब्देनापि सर्वनाम्ना पूवर्नि-र्दिष्टसदृशस्य नियन्तुरेव ग्रहणमिति भावः । ननु "एष त आत्मा' "स त आत्मा' इति व्यतिरेकनिर्देशस्य तद्धर्मव्यपदेशादिति सूत्रखण्डाविवक्षितस्य भाष्ये युक्तितया उपन्यासो न युक्त इत्याशङ्कय तस्य सूत्रकृदभिमतत्वं दर्शयति - एतत्पादाद्यधिकरण इति । ननु "शब्दविशेषात्' इतिसूत्रे "सर्वं खल्विदं ब्राहृ' इति श्रुतिवाक्यार्थनिर्धारणार्थतया "एष त आत्मा' इति व्यतिरेकनिर्देशस्यान-

1.2.21

भिमतत्वात्तस्य युक्तितयोपन्यासो न युक्त इत्यत आह - तस्य प्रदर्शनार्थत्वादिति ।।

ननु "पुमान्न देवो न नरः' इत्यत्रेव देवादिशब्दानां शरीरमात्रपरत्वे बाधकाभाव इत्याशङ्कयाह - तच्चापवादाभाव इति । तद-स्वारस्यापवादश्चेति - न केवलं व्यतिरेकनिर्देशस्वारस्यबाधकाभावः । स्वारस्यसाधकश्चास्तीत्यर्थः ।।

असम्भवनिरस्त इति - परमात्मादित्रिकबहिर्भूतस्यान्तर्यामित्वसम्भावनापदस्य कस्यचिदभावादित्यर्थः । योगसिद्ध इत्यस्या-णिमाद्यैश्वर्ययोगशाली सिद्ध इति वा अष्टाङ्गयोगशाली सिद्ध इति वासम्भावितोऽर्थस्यात् । अर्थद्वयमपि प्रकृष्टपुण्येषु विग्रहादियुक्त-देवेष्वेव सम्भवतीति तत्रैवान्तर्भावाच्छिरोभेदकल्पनं विफलमित्यर्थः । कार्यकरणवत्त्वं जीवत्वे हेतुतयोक्तमिति - देहेन्द्रियवत एव नियन्तृत्वसम्भवादन्तर्यामित्वे देहेन्द्रियवत्त्वमपेक्षितम्, तादृशञ्च देहेन्द्रियवत्त्वं जीवस्यैव सम्भवतीति नेश्वरस्यान्तर्यामित्वं सम्भ-वतीत्युक्तमिति भावः । पुरोवादिशङ्करभाष्यानुसारात् । पृथिव्यादिष्वेकैकस्य शरीरत्वावगमादिति - अयं भावः, देहातिरिक्तनि-यमने हि शरीरेन्द्रियाद्यपेक्षा, नतु स्वदेहनियमनेपि शरीरान्तरापेक्षा दृष्टजरी, तथा च पृथिव्यादीनां परमात्मशरीरत्वादेव परस्य तैरेव

1.2.21

स्वशरीरत्वेन न तन्नियमने शरीरान्तरापेक्षेति, नतु पृथिव्यादिषु हि सशरीरत्वे परस्य जीवत्वप्रसङ्ग इत्याशङ्कयाह - तत्कृतजीवत्व-शङ्काया इति । उपकरणोपकरणित्वलक्षणसम्बन्धो हि जीवत्व साधक इति - शरीरभोक्तृत्वलक्षणसम्बन्धो हि जीवत्वसाधकः । न तादृशसम्बन्धो नियमने अपेक्षित इति भावः । एवमन्तमेकं सूत्रमिति - न तु शारीरश्च "उभयेपि हि भेदेनैनमधीयते' इत्येकं सूत्रमिति भावः । नियन्तृनियाम्ययोरभेदेन तत्परिहार इत्यपीति - ननु तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति, भेदा-भावात् । भेदे हि सत्यनवस्थादोषापत्तिरिति शाङ्करभाष्यं व्याकुर्वताऽऽनन्दगिरिणा भेदाभावादित्यस्य परमात्मनो हि निरङ्कुशं सर्वनियन्तृत्वं श्रोतम्, तादृशि च सर्वनियन्तरि नियन्त्रन्तरस्य कल्पयितुमशक्यतया नियन्तृभेदाभावात् सिद्धान्तेप्यन्तर्यामिणोप्यन्यो नियन्तेत्यनवस्था न प्रसज्यत इत्यर्थो वर्णितः, न तु नियन्तृनियाम्ययोः परजीवयोर्भेदाभावमादायेति चेन्न; तद्भाष्याभिप्रायमावि-ष्कुर्वता मृषावादिगोष्ठीगरिष्ठेन वाचस्पतिमिश्रेणैव नचानवस्था न च नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता स परमात्मैव उपाध्यवच्छेदकल्पितभेदस्तथा ख्यायत इति असकृदावेदितम्, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथा च "नान्योतोस्ति द्रष्टा' इत्याद्या अपि श्रुतयः उपपन्नार्थाः परमात्मनोऽन्तर्यामिणोऽन्यस्याप्यात्मनो द्रष्टुरभावात् अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि संसारानुभवः विधिनिषेधशास्त्राणि चेति नियन्तृनियाम्यभेदस्यैवाविष्करणादित्यास्तां तावत् । प्रतीयमानोपि भेदो मिथ्येति -सर्वोपीत्यर्थः । अत एव नानवस्थेति - जीवपरभेदमिथ्यात्वादेवेत्यर्थः । पृथिव्यादिकं

1.2.21

प्रति जीवस्येवेति - यथा पृथिव्यादिकं प्रति नियन्तुर्नियाम्यभेदरहितस्य जीवस्य नियन्त्रन्तराकाङ्क्षा; एवं नियाम्यभेदरहितस्या-पीश्वरस्य तदाकाङ्कावश्यम्भाविनीत्यर्थः ।। इत्यन्तर्याम्यधिकरणम् ।।

अदृश्यत्वेन परमात्मत्वपरत्वमिति - पृथिव्यादिनियाम्यैरनुपलभ्यमान एव नियमयतीति भाष्ये उक्तत्वात् अदृश्यत्वमपि परमात्मत्वसाधकतयोपन्यास्तमिति ग्रन्थकृदाशयः, वस्तुतस्तु भाष्ये नायमाशय उपलभ्यते । प्रत्युतास्याक्षरस्य "अदृष्टो द्रष्टा' इत्यादाविव न द्रष्टृत्वादिश्चेतनधर्मविशेष इह श्रूयत इत्यादिभाष्यपर्यालोचनायामद्रष्टृत्वादेरचेतनत्वसाधकम् । द्रष्टृत्वादेस्तु तदपवादकत्वमेव प्रतीयते, न त्वद्रष्टृत्वादेरचेतनत्वसाधकत्वमिति द्रष्टव्यम् ।।

1.2.22

न तूभयोरुभयात्मकत्वमिति - अदृश्यत्वादिगुणकस्यापि प्रकृतिपुरुषोभयात्मकत्वमक्षरात्परतः परस्यापि प्रकृतिपुरुषोभया-त्मकत्वमिति न भ्रमितव्यमित्यर्थः । उभयत्रेति व्याख्येयं पदम् । अचिदानयोपस्थापकतोपब्राहृकतयेति - निषिध्यमानदृश्यत्वा-दिगता या अचिदाश्रयोपस्थापकता तदुपबृंहणतयेत्यर्थः । इत्थमत्र विषयशुद्धिः, अव्याख्यातांशे क्वचिदर्थोपि लिख्यते; आथर्वणे- "ब्राहृा देवानां प्रथमस्सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्राहृविद्यां र्विविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्राहृाऽथर्वा तां परोवाचेङ्गिरसे तत्त्वतो ब्राहृविद्याम् । स भरद्वाजाय सत्यवाहाय प्राह । भरद्वाजोऽङ्गिरसे परावराम् । शौनको ह वै महाशालेऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति । तस्मै स होवाच । द्वे विद्ये वेदि- तव्ये । इति ह स्म यद्ब्राहृविदो वदन्ति । परा चैवापरा च । तत्रापरा ऋग्वेदे यजुर्वेदस्सामवेदोऽथर्ववेदश्शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यातिषमितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति । अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्रमगरात्रमवर्ण-मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभु सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः । यस्मात्परं नापरमस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । यर्थोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् । तपसा चीयते ब्राहृ ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम् । यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्राहृनामरूपमन्नं च जायते ।। प्रथमः खण्डः ।।

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि । तान्याचरत नियतं सत्यकामा एष वः पन्थाः सुकृतो ब्राहृलोकः । यथा लोलायते ह्रर्चिस्समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् । यस्याग्निहोत्रमदर्शपूर्णमा-समचातुर्मास्यमनाग्रयणमतिथिवर्जनं च । अहुतमवैश्वदेवमश्रद्धयाऽविधिना हुतमासप्तमात्तस्य लोकान् हिनस्ति । सप्त ते अग्ने स-मिधस्सप्तजिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्तहोत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन । अग्नेस्सप्तापि जिह्वा-भेदान्नामत आह । काली कराली च मनोजवाच सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्तजिह्वाः । एतासु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्राददायन् । तान्नयन्त्येतास्सूर्यरश्मयो यत्र देवानां पतिरेकोधिवासः । एतासु भ्राजमानासु सप्तसु जिह्वासु यथाकालं यः कर्माचरति तमाददाना आहुतयस्सूर्यरश्मयो भूत्वा इन्द्रादिलोकं नयन्तीत्यर्थः । "एह्रेहीति तमाहुतयस्सुवर्चसस्सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यस्सुकृतो ब्राहृलोकः । प्लवा ह्रेते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । ये तच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति । अविद्या-यामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वर्तमाना वयं कृतार्था सत्यभिमन्यन्ति बालाः । यत्ममिर्णो न प्रवेदयन्ति रागोत्तेनातुराः क्षीणलोकाश्च्यवन्ते' । यस्मात्कारणात्

1.2.22

कर्मिणो रागोपहतास्तत्त्वं न जानन्ति, तस्माच्च्यवन्त इत्यर्थः । "इष्टापूत्र्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रभूढाः । नाकस्य पृष्ठे सुकृतेऽनुभूत्वा इमं लोकं हीनतरं चाविशन्ति' । अनुभूत्वा-अनुभूयेत्यर्थः । हीनतरं वा अतिहीनं नरकं वा इत्यर्थः । "तपश्श्रद्धे येह्रुपवसन्त्यरण्ये शान्ता विद्वांसो ब्राहृचर्यं चरन्ति । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतस्स पुरुषो ह्रव्ययात्मा । परीक्ष्य लोकान् कर्मचितान् ब्रााहृणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्राहृनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्राहृविद्याम् ।। द्#ितीयः खण्डः ।।

तदेतत्सत्यम् । यथा सुदीप्तात्पावकाद्विष्फुल्लिङ्गाः सहरुाशः प्रभबन्ते सरूपाः । तथाक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति । दिव्यो ह्रमूर्तः पुरुषस्स बाह्राभ्यन्तरो ह्रजः । अप्राणो ह्रमनाश्शुभ्रो ह्रक्षरात्परतः परः । एतस्माज्जायते प्राणो मन-स्सर्वेन्द्रियाणि च । स्वं वायुज्र्योतिरापः पृथिवी विश्वस्य धारिणी । अग्निर्मूद्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो ह्मदयं विश्वमस्य पद्य्भां पृथिवी ह्रेष सर्वभूतान्तरात्मा । तस्मादग्निस्समिधो यस्य सूर्यस्सोमः पर्जन्य ओषधयः पृथिव्या । पुमान् रेतस्सिञ्चति योषितायां वह्नीः प्रजा बहुधा सम्प्रसूताः । तस्मादृचस्सामयजूंषि दीक्षा ब्राहृाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकस्सोमो यत्र पवते यत्र सूर्यः । तस्माच्च देवा बहुधा सम्प्रसूतास्साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्राहृचर्यं विधिश्च । सप्तप्राणाः प्रभवन्ति तस्मात् सप्तार्चिषस्समिधस्सप्तहोमाः । सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्त सप्त । अतस्समुद्रा गिरयश्व सर्वे अस्मात्स्यन्दन्ते सिन्धवस्सप्तरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्रन्तरात्मा । पुरुष एवेदं सर्वं ततो ब्राहृ परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रÏन्थ विकीरतीह सोम्यः । तृतीयः खण्डः ।।

आविस्सन्निहितं गुहाचरं नाम महत्पदम् । तत्रेदं सर्वमर्पितम् । एजत्प्राणं निमिएञ्च यत् । एतज्जानथ सदसद्वरेण्यम् । परं विज्ञा-नाद्यद्वरिष्ठं प्रजानाम्' । जानथेति-हे शिष्या इति शेषः । "यदर्चिमद्यदणुभ्योऽणु यच्च यÏस्मल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्राहृ तत्प्राणस्तदवाङ्मनः' । वाङ्मनसागोचरमित्यर्थः । "तदेतत्सत्यं तदमृतं वेद्धव्यं सोम्य विद्धि । ऋग्धनुर्यजुर्बाणस्सामज्याघोषणादिना । आथर्वणमयं शुभ्रं प्रतिगृह्णीत सुव्रतः । धनुर्गृहीत्वोपनिषदं महारुां शरं ह्रुपासना निशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेकाक्षरं सोम्य विद्धि । प्रणवो धनुश्शरो ह्रात्मा ब्राहृ तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । लक्षं सर्वगतं चैव शरो मे सर्वतो मुखम् । वेद्धा सर्वगतश्चैव विद्धं लक्षं न संशयः । आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् । यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः । अरा इव रथनाभौ संहता यत्र नाड¬स्स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथात्मानं स्वीयः पाराय तमसः परस्तात्' । पाराय-तीरभूतायेत्यर्थः । "यस्सर्वज्ञस्सर्ववित् । यस्यैष महिमा भुवि । दिव्ये ब्राहृपुरे ह्रेष व्योम्नि आत्मा प्रतिष्ठितः । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्तह्र्मदये सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः । आनन्दरूपममृतं यद्विभाति । भिद्यते ह्मदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । हिरण्यमये परे कोशे विरजं ब्राहृ निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति

1.2.22

सर्वं तस्य भासा सर्वमिदं विभाति । न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः कुतोऽन्या देवताः । स एष देवः कृतभूतभावनः स्वयं विरुद्धो विरजः प्रकाशते । ब्राहृैवेदममृतं यत्पुरस्तात् ब्राहृ पश्चाद्दक्षिणतश्चोत्तरतश्च । अतश्चोध्र्वञ्च प्रसृतं ब्राहृ ब्राहृैवेदं सर्वमिदं वरिष्ठं ब्राहृ । पद्मकोशप्रतीकाशं सुषिरञ्चाप्यर्थोमुखम । ह्मदयं तद्विजानीयाद्विश्वस्यायतनं महत् ।। चतुर्थः खण्डः ।।

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुद्भमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । यदा पश्यः पश्यते रुक्मवर्णं कर्ता-रमीशं पुरुषं ब्राहृयोनिम् । तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । प्राणो ह्रेष सर्वभूतैर्विभाति विजानन् विद्वान् भवति नातिवादी' । अतिवादी न भवति-बहुगह्र्रवाङ्म भवतीत्यर्थः । "आत्मक्रीड आत्मरतिः क्रियावानेष हि ब्राहृविदां वरिष्ठः । सत्येन लभ्यस्तपसा ह्रेष आत्मा सम्यज्ज्ञानेन ब्राहृचर्येण नित्यम् । अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रः । यं पश्यन्ति यतयः क्षीण- दोषाः । सत्यमेव जयति नानृतम् । सत्यस्य पन्था विततो सेवयानः । येनाप्नुवन्ति ऋषयो ज्ञानतृप्ताः । यत्र तत्सत्यस्य परमं निधानम् । ब्राहृ च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यस्येतन्निहितं गुहायाम् । न चक्षुषा गृह्रते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः । एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा' । विभवति वैभवयुक्ता भवति । परमात्मनि प्रसन्ने असङ्कुचितज्ञानो भवतीत्यर्थः । "यं यं लोकं मनसा संविभाति विशुद्धसव्वः कामयते यांश्च कामान् । अनन्तं लोकं जयति तांश्च कामान् तस्मादात्मस्थं ह्रर्चयेद्भूतिकामः ।। पञ्चमः खण्डः ।।

स यो ह वै तत्परं धर्मधाम यस्मिन् विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्रकामास्ते शुक्लमेतदतिवर्तन्ति धीराः' । शुक्रम्-पुरुषमित्यन्वयः । शुक्लं शरीरोपादानभूतं यच्छुग्लमित्यर्थः । "कामान् यः कामयते मन्यमानः स कामभृज्जायते यत्र तत्र । पर्यात्म-कामश्च कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्-यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । नायमात्मा बलहीनेन लभ्यो न च प्रमादान्न तपसोप्यऽलिङ्गात्' । तपश्शब्दो ज्ञानपरः । चक्राङ्कनादिलिङ्गशून्यज्ञानेन च न लभ्य इत्यर्थः । "एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशति ब्राहृधाम' । एतैरुपायैः-बलाप्रसादसलिङ्गज्ञानैरित्यर्थः । "सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मनो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्ता-त्मानस्सर्वमेवाविशन्ति । वेदान्तविज्ञानसुनिश्चितार्थास्सन्न्यासयोगाद्यतयश्शुद्धसत्त्वाः । ते ब्राहृलोके तु परान्तकाले परामृतात्परि-मुच्यन्ति सर्वे । गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वमेकं भवन्ति । यथा नद्यस्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् । स यो ह वैतद्ब्राहृ वेद ब्राहृैव भवति । नास्याब्राहृवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । तदेषः श्लोकः । क्रियावन्तः श्रोत्रिया ब्राहृनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्राहृविद्यां वदेत शिरो वृतं विधिवद्यैस्तु चीर्णम् । तदेत-त्सत्यमृषिरङ्गिराः प्रोवाच नैतदचीर्णव्रतोऽधीते नाकृतपावनो नासन्न्यासी च नमः परमर्षिभ्यो नमः परमर्षिभ्यः ।। षष्ठः खण्डः ।।

अर्हार्थीयतृजन्तपदेति - ननु किमत्र प्रमाणम् ? "ल तृचा' विति तृच एव सम्भवात् नित्यसाक्षात्काराश्रये तस्मिन् "अर्हे कृत्यतृचश्च' इत्यर्हार्थत्ववस्यान्याय्यत्वाच्च, सत्यपि तस्य अर्हार्थत्वे अदृष्ट इत्यस्य भूतार्थत्वे विरोधाभावेन "धातुसम्बन्धे प्रत्यया' इति विहितस्य णिनिप्रत्ययस्य भूतार्थतया अग्निष्टोमयाजीत्यस्याग्निष्टोमेनेष्टवानित्यर्थकतया तस्मिन् भवितेति ल्युडर्थिभूतानद्यतन-भविष्यत्त्वस्यासम्भवेन तत्र धातुसम्बन्धे प्रत्यया इति सूत्रवशेनाग्निष्टोमयाजीत्यस्य भविष्यदर्थाश्रयणोपि अविरोधेन इह तथात्वे प्रमाणाभावादिति चेत् उच्यते; "वेदाहं समतीतानि मां तु वेद न कश्चन' इत्यादिस्मृत्यनुसारेण स्वयमितरैरदृश्य एव सन् इतरान् पश्यतीत्यस्य तदर्थतया अदृष्ट इत्यस्यादृश्यत्वाथर्कत्वाददृश्यत्वस्य च ब्राहृणि पूर्वाधिकरणे प्रतिपन्नत्वात्कथमदृश्यत्वपदावलम्बनेन

1.2.22

पूर्वपक्ष इति भावः । नाचिद्य्वावर्तकत्वमित्यर्थ इति - प्रत्युताचित्साधकमेवेत्यर्थः । दृष्टान्तश्च चेतनेति - ऊर्णनाभेश्चेतनत्वादिति भावः । नञुपश्लिष्टेति - नञिव युक्तमन्यसदृशाधिकरणे तथाह्रर्थगतिरिति न्यायात् नञिवशब्दयोरेकाथर्वृत्तित्वादिति भावः । इदञ्चोपादानोपादेयभेदाभ्यपगमपक्ष इति ध्येयम् । सादृश्यस्य भेदगर्भत्वादुपादानोपादेयभेदमङ्गीकृत्याह - अबालाकृशेति । ननु चेतनदृष्टान्तानुगुण्यकायर्सारूप्यनिषेधस्वारस्यहेतुभिः यत्तदद्रेश्यमित्यादौ परमात्मपरत्व्वयुदासेन प्रधानपरत्वाश्रयणेपि अक्षरा- त्परतः परः इति वाक्येन परमात्मत्वपरित्यागे प्रमाणं पश्यामः, प्रत्युत "यस्सर्वज्ञस्सर्ववित्' इत्यादिश्रुत्यनुरोधेन ब्राहृविद्यासमाख्या-नुरोधेन च परेषां प्रथमपूर्वपक्ष इव परमात्मपरत्वमेवास्त्वित्याशङ्कय यथा निषेधस्वारस्यवशेन तस्यैव द्रव्यस्यावस्थान्तरयुक्तस्य ग्रहणमित्युच्यते तथा "दिव्यो ह्रमूर्तः पुरुषः' इतिमन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधदर्शनात् तस्यैवा-वस्थान्तरयुक्तस्य ग्रहणमुचितम्; अतस्सर्वज्ञत्वादिकमपि जीव एव मुक्त्यवस्थापेक्षया नेतुं शक्यमित्यभिप्रयन्नाह - प्रधानत्वस-मर्थनमुपजीव्येति । ननु निषेधस्वारस्यमवलंब्य "यत्तदद्रेश्य'मितिवाक्ये प्रधानत्वपूर्वपक्षो न युक्तः । "अगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्' इति जीवे प्रसिद्धगोत्रादिनिषेधबाहुल्यात्तत्रापि वाक्ये पराभिमतद्वितीयपक्ष इव जीवपरत्वमेव किं न स्यात्, अन्यथा "अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्रमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुमूक्ष्मं तदव्ययं यद्भू-तयोनिं परिपश्यन्ति धीराः' इत्यन्तं प्रधानपरम् । "यस्मात्परं नापरमस्ति किञ्चित्' "यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्' "वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्' इति तदुत्तरवाक्यं जीवपरम् । "यर्थोर्णनाभिस्सृजते गृह्णते च' "यथा पृथिव्या-मोषधयस्सम्भवन्ति' "यथा सतः पुरुषोत्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्' इति तदुत्तरवाक्यं प्रधानपरम् । "तपंसा चीयते ब्राहृ

1.2.22

ततोऽन्नमभिजायते । अन्नात्प्राणो मनस्सत्यं लोकाः कमर्सु चामृतम्' इत्यारभ्य "परीक्ष्य लोकान् कर्मचितान् ब्रााहृणो निर्वेद-मायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्राहृनि#ेठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्राहृविद्याम्' सत्युपरितनसन्दर्भो जीवपरः । तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विष्फुलिङ्गास्सहरुाशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति' इति प्रधानपरम् । "दिव्यो ह्रमूर्तः पुरुषस्य बाह्राभ्यन्तरो ह्रजः । अप्राणो ह्रमनाश्शुभ्रो ह्रक्षरात्परतः परः' इति जीवपरमिति कथमि-वैतत्पण्डितानां ह्मदयं प्रथममधिरोहेदिति चेन्न; "यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः' सत्यानन्तर्यमचोदनेत्यधिकरणन्या-येनानन्तर्यमात्रस्याप्रयोजकतया दूरस्थेनापि योग्यतावशात् सम्बन्धोपपत्तेः प्रधानजीवयोव्र्यतिकरेण प्रतिपाद्यत्वस्यागत्या स्वी-कार्यत्वादिति भावः । चेतनदृष्टान्तः कथमित्यत्राहेति - प्रधानस्य प्रतिपाद्यत्व इति शेषः । भाष्ये-प्रसूत इति तत्र दृष्टान्ता इति । अत्र इतिर्हेतो, यतः पुरुषाधिष्ठितप्रधानं प्रसूते, अतश्चेतनाचेतनदृष्टान्ता उपन्यस्यन्त इत्यर्थः । ननु प्रधानजीवावत्र प्रतिपाद्येते इति पूर्वः पक्षः साङ्खयमतावलम्बी, साङ्कयमते च पुरुषस्य सन्निधानमात्रेणैवोपकर्तृत्वं नाधिष्ठातृत्वेनेत्याशङ्कय तदनुरूपदृष्टान्तस्यापि सत्त्वात् पुरुषाधिष्ठितं प्रधानं परिणमत इति वा पुरुषसन्निधानमात्रेण परिणमत इति वा किञ्चित्तन्मतमवलम्ब्य पूवपक्षः प्रवर्तितुमर्हतीत्यभि-प्रयन्नाह - अनधिष्ठितत्वेपीति । पूर्वपक्षमुपसंहरति - अत इति ।।

इतीत्यस्यानन्तरं राद्धान्ते अदृश्यत्वेतीति कोशेषु पाठो दृश्यते, तस्य मन्दप्रयोजनस्यापि शिष्यावदानार्थमिति ध्येयम् । ननु प्रकृष्ट-पुण्यस्य जीवस्य बद्धदशायां कथं सार्वज्ञ्यमित्यत आह - तदवस्थोपलक्षित इति । पुण्योपलक्षित इत्यर्थः । नित्यमुक्तस्य गोत्रवर्णनि-

1.2.22

षेधस्वारस्याभावात् पुण्योपलक्षितमुक्त इत्युक्तमिति द्रष्टव्यम् । प्रकृताक्षरपर इति भाव इति - पूर्वपक्षिणोपि विवादाभावादिति भावः । कारणत्वप्रत्यभिज्ञानाच्चेति - "तथाक्षरात्सम्भवतीह विश्व'मिति पूर्वप्रस्तुतपञ्चम्यन्तप्रत्यभिज्ञानं चशब्देन समुच्चीयते । कारणत्व-मनूद्येति - तस्यापि विधाने गौरवादिति भावः । ननु भूतयोनित्यलिङ्गप्रत्यभिज्ञानादपीति "अथ परा यया तदक्षरमधिगम्यत' इति वाक्यप्रतिपाद्यस्य "यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः तस्मात्' इतिनिर्दिष्टस्य च कारणत्वप्रत्यभिज्ञानादैक्यमभ्युपगम्याक्षरात्परतः पर इत्यवधि पञ्चम्यन्ताक्षरपदनिर्दि#ेष्टस्य भूतयोन्यक्षरभेदकल्पनापेक्षया अथ परा यया तदक्षरमितिवाक्यप्रतिपन्नाक्षरस्याक्षरात्परतः पर इति पञ्चम्यन्ताक्षरपदनिर्दिष्टप्रधानैक्यमेव ज्यायः । उभयत्राप्यक्षरश्रुतिप्रत्यभिज्ञानात् । ततश्च तस्मिन् प्रधाने सार्वज्ञ्यादिविधान-मनुपपन्नमित्यर्थः । भूतयोनित्वलिङ्गानुगृहीतस्येति - यद्यपि येनाक्षरं पुरुषमितिवाक्ये भूतयोनित्वं न श्रुतम्, तथापि "यस्सर्वज्ञस्सर्व-विद्यस्य ज्ञानमयं तपः तस्मादेतद्ब्राहृ नामरूपमन्नञ्च जायते' इतिवाक्यस्य "येनाक्षरं पुरुष'मितिवाक्यस्य चैकाथ्र्यस्य चोभयसम्प्रतिप-न्नतया भूतयोनित्वलिङ्गानुगृहीताक्षरशब्दतया प्रत्यभिज्ञा बलवतीति तात्पर्यम् । प्रथमभाविनः प्रबलतयेति - एतेन "तथाक्षरात्सम्भ-वतीह विश्वम्' "तथाऽक्षराद्विविधास्सोम्य भावाः अक्षरात्परतः परः' इत्येतेषां पञ्चम्यन्तसारूप्यादेकविषयत्वमित्येतदपि निरस्तं वेदितव्यम् । पुरुषत्वादिति - चेतनत्वात् सार्वज्ञ्ययोग्यत्वं सम्भवतीति भावः । व्यपदिश्यत इत्यर्थ इत्यस्यानन्तरं तत्र हेतुमाह प्रकृतमदृश्यत्वादिगुणकमितीति ग्रन्थ उपेक्षितः । अतश्च वकयुत्क्रमेण प्रतीकग्रहणशङ्काया नावकाशः । अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थ इति - उत्तरग्रन्थानुसारात्तस्यैव हेतूकर्तुमुचितत्वादिति द्रष्टव्यम् । पुरुषशब्दवाच्यत्वेन चेति - नच पूर्वपक्षिणः

1.2.23

"तेनेदं पूर्णं पुरुषेण सर्व'मित्यादीनां भूतयोन्यक्षरपरत्वमसम्मतम् । पुरुषशब्दितजीवपरमित्येव तदभिप्रायादिति वाच्यम्; "यस्मात्परं नापरमस्ती'त्यत्र यच्छब्दादिबलेन प्रकृतभूतयोन्यक्षरप्रतिपादकत्वस्य पुरुषशब्दे वक्तव्यत्वात् "येनाक्षरं पुरुषं वेद सत्य' मित्यत्रापि प्रक्रमश्रुताक्षरशब्दानुरोधेन पुरुषपदस्य वर्णनीयतया एकविषयत्वस्य वक्तव्यत्वाच्चेति द्रष्टव्यम् । प्रकृतमदृश्यत्वादिगुणकमिति भाष्ये प्रकृतमित्यस्य प्रधानप्रतिपाद्यत्वेन प्रकृतत्वमर्थ इत्यभिप्रयन्व्याचष्टे - अदृश्यत्वादिगुणकमक्षरमेवेति । परतः परत्वेनोच्यत इत्य-भ्युपेत्यमिति - अप्रधानप्रतिपाद्यस्य प्रधानप्रतिपाद्यात्परत्वेनोक्तयसम्भवादिति भावः । ब्राहृशब्दयोभिन्र्नविषयत्वदर्शनादिति - तच्चोत्तरत्र भाष्य एव स्फष्टम् । समानविभक्तिनिर्देशस्वारस्यादिति - अक्षरात्परतः पर इति पदद्वयस्यापीत्यर्थः । पञ्चम्यन्तपद-सापेक्षत्वादिति - अत एव देवदत्तपुत्र इत्यादौ न सामानाधिकरण्यं पुत्रपदस्य षष्ठयन्तपदसापेक्षत्वादिति द्रष्टव्यम् ।।

परब्राहृविषया विद्या परविद्येति - न तु "अथ परा' इति श्रुताविवापरोक्षत्वमर्थ इति भावः । भाष्ये-गुरुपरम्परया अङ्गिरसा प्राप्तामिति । "ब्राहृा देवानां प्रथमस्सम्बभूव' इत्यादिश्रुतिरत्रानुसन्धेया । व्याख्यानप्रकारमाह - तत्र कैश्चिदिति । मृषावादिमतमाह-

1.2.23

कैश्चित्कर्मज्ञानमिति - अपरा च धर्मसाधनफलविषयेति मुण्डकभाष्ये शङ्करेण व्याख्यातत्वादिति भावः । अपरमात्मज्ञानमपरवि-द्येति - जीवमानमित्यर्थः । अत्रत्यवाक्येनेति - "न मेधया न बहुना श्रुतेन' इति वाक्येन मेधाशब्दितस्योपासनस्यापि नैष्फल्याव-गमादित्यर्थः । विवेकादिसाधनसप्तकानुगृहीतमित्यत्र साधनसप्तकस्यागमजन्यज्ञानाङ्गत्वाभावात् अनुगृहीतमित्यत्र सहकृतमित्यर्थ इत्यभिप्रयन्नाह - साधनसप्तकं शास्त्रजन्यज्ञानं चेति । उत्थितमित्यर्थ इति - "आगमोत्थं विवेकाच्च' इति श्लोके उत्थितमिति शेष

1.2.23

इत्यर्थः । तत्रेत्यादिवाक्येनेति - भाष्यगतं तत्रेतिपदं न भाष्यकारीयम्, अपितु श्रुतिगतमित्यर्थः । "परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः' इति हि श्रुतिः । स्पष्टीकृतमिति भाष्येपि वेदस्य ज्ञानोत्पत्तिहेतुत्वादित्यत्र वेदशब्देन सूचितम्, तेन चात्रागमोत्थत्वं शाब्दं प्रतीयत इति शङ्का भाष्य एव परिह्मतेति द्रष्टव्यम् । कर्मस्वायत्तममृतमिति - लोकाश्चेति शेषः । अमृतत्वसाधनभूतं कर्मे- त्यर्थ इत्यत्रापि स्वर्गामृतत्वसाधनत्यर्थः । स्वर्गापवर्गेति भाष्यानुरोधात्, ततश्च लोका अमृतं च कर्मस्वायत्तमिति श्रुत्यन्वय इति भावः । यद्वा भोग्यपदेनान्नशब्दो व्याख्यात इत्यर्थः । कमनीयत्वाय-कामनाविषयत्वायेत्यर्थः । अनाग्रयणमिति - आग्रयणः-

1.2.23

शरदि कर्तव्येष्टिविशेषः । अहुतमिति स्वकाले अहुतमित्यर्थः । त्रिवर्गसाधनकर्मविषयमिति - दर्शपूर्णमासाग्रयणवैश्वदेवातिथि-पूजानां नित्यतया यथाशक्ति तदवश्यकर्तव्यत्वस्यापवर्गकर्मस्वपि सत्त्वात् तत्परत्वेपि न दोष इति द्रष्टव्यम् । कर्मफलाभिन्धि- मदिति - कर्मण अवरत्वं फलाभिमसन्धिमत्त्वमेवेत्यर्थः । इदञ्चोपलक्षणम्, ज्ञानापूर्वकत्वमपि द्रष्टव्यम् । येभिनन्दन्तीति - ये चाभिनन्दन्तीत्यर्थः । ततश्च फलाभिसन्धिमत्कर्मकारिणां तदभिनन्दितॄणां च जरामृत्युवश्यत्वमित्यर्थः । अतस्सर्वा ओषधय इत्येवमन्तेष्विति - "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । पद्य्भां पृथिवी ह्रेष सर्वभूतान्तरात्मा तस्मादग्निस्समिथश्च सूर्यः । तस्मादृचस्मामयजूंषि दीक्षा । तस्माच्च देवा बहुधा सम्प्रसूताः । सप्त प्राणाः प्रभवन्ति तस्मात् । अतस्समुद्रा गिरयश्च सर्वे ।

1.2.23

अतश्च सर्वा ओषधयो रसाश्च' इति तत्प्रकरणगततदेतच्छब्दैरित्यर्थः । तदेतच्छब्दैः परामृश्येत्यस्यानन्तरभूतं भूतयोनित्वं सप्रपञ्चमु-पपाद्येत्यध्याहारोऽपेक्षितः । ननु भाष्ये षष्ठखण्डप्रतिपाद्योपासनपरभक्तिरूपत्वस्य पञ्चमखण्डप्रतिपाद्यब्राहृसाम्यलक्षणब्राहृानुभव-फलात्प्रागेव प्रतिपादनमसङ्गतमित्याशङ्कयाह - पाठक्रमादिति । तस्य क्रमभावित्वमुक्तमिति - वेदान्तविज्ञानसुनिश्चितार्था इति । वेदान्तार्तनिश्चयबम्तः कमर्सन्न्यासयोगाद्यनवन्तश्शुद्धान्तः करणाः, ते परान्तकाले-देहावसानकाले, परामृताः-परममृतं ब्राहृ

1.2.23

आत्मतया येषां ते परामृताः, जीवन्मुक्ता एव सन्त इत्यर्थः । ब्राहृलोकेषु ब्राहृणि मुच्यन्ते । भिन्नघटाकाशवत् निर्वृतिमुपयान्तीत्यर्थ इत्येवं जीवन्मुक्तिपरममुक्तिक्रमभावित्वमुक्तं शाङ्करमुण्डकभाष्य इति भावः । सर्वगस्य ब्राहृण इति - न तु सर्वशून्यस्येत्यर्थः । ब्राहृ-प्राप्तिप्रतिपादकमिति वक्ष्यत इति - "कार्यं बादरिरस्य गत्युपपत्तेः' इत्यधिकरण इति शेषः । इतरचेतनाचेतनवदिति - न चेदं न वक्तव्यम् चेतनान्तरवत्सिद्धेरिति वाच्यम् । मुक्तिदशायामेस न लयः, अपितु आप्रलयं तदिन्द्रियाणामप्यवस्थानमिति प्रदर्शनार्थमिति द्रष्टव्यम् । परमात्मनैक्यापत्त्यभावादिति - ननु "गताः कलाः पञ्चदश प्रतिष्ठाः' इतिमन्त्रस्य मोक्षकाले दशेन्द्रियपञ्चभूतरूपाः या देहारम्भिकाः कलाः तास्स्वस्वप्रतिष्ठाङ्गताः स्वं स्वं कारणं प्राप्ता भवन्तीत्यर्थः । ये च देहाश्रयाश्चक्षुरादिकरणनिष्ठा देवास्ते आदि-त्यादिषु गता भवन्तीत्यर्थः । कर्माणि विज्ञानमयश्च आत्मा कर्माणि अभुक्तफलानि कर्माणि विज्ञानोपाधिको जीवश्च परस्मिन् ब्राहृण्यविशेषतां गच्छन्तीत्यर्थ इति मुण्डकभाष्ये शङ्करेणार्थो वर्णितः, नतु मुक्तपरित्यक्तः देहादीनां परमात्मन्यैक्यमिति चेत् सत्यम्; तानि परे तथाह्राहेतिसूत्रे "एवमेवास्य परि द्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती'तिवाक्यमुदाह्मत्य परब्राहृविदः कृत्स्नं कलाजातं ब्राहृैव सम्पद्यत इत्युपसंहारादेवमाशङ्कय पयिह्मतमिति द्रष्टव्यम् । पूर्वोक्तसाम्यापत्तिनिगमनपरमिति - "वैष्णवं

1.2.23

वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकान् अभिजयति' इत्यत्रेव एवकारसादृश्यवाची, "साम्यैवमेववद्वे'ति निघण्टु-पाठादिति भावः । ब्रार्हृपर्यन्तेति - न च ब्राहृशब्दस्य ब्राहृात्मकपरत्वे लक्षणा स्यात्, शरीरवाचिशब्दानां शरीरिपर्यन्तत्वेपि शरीरिवाचिशब्दानां शरीरवाचित्वाभावादिति वाच्यम्, तुल्यन्यायतया शरीरिशब्दानामप्यपृथक्सिद्धशरीरवाचित्वसम्भवात् गत्यभावे लक्षणाया अप्यदोषत्वात् । प्रोक्षणीष्वर्थसंयोगादितिन्यायमिति - प्रोक्ष्यते सिच्यते आभिरिति योगादेव प्रोक्षणीशब्दस्य अप्सु वृत्तिसम्भवान्न तत्र रूढिः कल्पनीयेत्युक्तम्, तन्न्यायादिति भावः । अत्र केचित्; ननु कथमदृश्यत्वादिगुणकस्याक्षरशब्दाभिहि- तत्वम् ? अव्याकृतेऽक्षरशब्दस्य रूढत्वात् रूढेर्योगापहारित्वादित्याशङ्कय प्रोक्षणीन्यायेन रूढेरभावाद्योगस्य च ब्राहृसाधारणत्वान्न दोष इत्याह-अश्नुत इति वा न क्षरतीति वेति । इत्येव भाष्यस्यावतारिकामाहुः । इदमप्यसदर्थद्वयमिति - वक्ष्यमाणमिति शेषः । देवताविशेषरूढ इति - "कृशानुरेतास्सर्वज्ञो धूर्जटिर्नीललोहितः' इति निघण्टुपाठादिति भावः । अक्षरशब्दयोरिति - अत्र द्वित्व-मविवक्षितम् । "अक्षरात्सम्भवतीह विश्वम्' तथाक्षराद्विविधास्सोम्य भावाः' अक्षरात्परतः परः' इति त्रयाणामैकाथ्र्यं सिध्यतीति द्रष्टव्यम् । तथात्वं श्रूयत इति - अन्नादिप्रपञ्चहेतुत्वं श्रूयत इत्यर्थः । उत्तरत्र तथात्वमित्यस्याप्ययमेवार्थः । ब्राहृ वनमिति - वन-

1.2.24

मित्यधिकरणमुच्यते, ब्राहृ स वृक्ष इत्युपादानत्वम् । ब्राहृाध्यतिष्ठद्भवनानि धारयन्निति निमित्तत्वं चेति भावः । ननु शैवमते पञ्च-म्यन्ताक्षरशब्दयोरेकार्थत्वात् । "तपसा चीयते ब्राहृ' तस्मादेतद्ब्राहृ' इति वाक्यद्वयस्य ब्राहृशब्दयोरप्येकार्थत्वाच्चाक्षरब्राहृशब्दयोः कारणकार्यविषयत्वं नास्त्येव । किञ्च तन्मते अक्षरशब्दितस्य पुरुषस्य सर्वोपादानत्वाभ्युपगमेन कार्यत्वानभ्युपगमात्कारणपरामर्शि वा कार्यमशिर् वा इति विचारो न युक्तः । तद्मादेतद्ब्राहृनामरूपमन्नञ्च जायत इत्यत्रापि न ब्राहृशब्दितस्योत्पत्तिः श्रूयते, किन्तु भूत-योन्यक्षरमेतद्ब्राहृान्नादिरूपेण परिणमत इति ह्रुच्यते, नहि कुलालान्मृत्पिण्डो घटो भवतीत्युक्ते मृत्पिण्डस्योत्पत्तिः कुलालकायत्र्वं वा प्रतीयत इत्यस्वरसादाह - किञ्च येनाक्षरमिति । भूतयोन्यक्षरधर्माणामिति - अपाणिपादत्वादीनाममूर्तत्वादिना प्रत्यभिज्ञा-नादिति भावः । तच्छब्दसामानाधिकरण्याच्चेति - नच स बाह्राभ्यन्तर इत्येतद्बाह्राभ्यन्तरसाहित्यवाचकमेकं पदं किं न स्यादिति वाच्यम्; तथात्वे बाह्राभ्यन्तर इत्यनेनैव तदर्थस्य लाभात्स इत्यस्य वैयथ्र्यप्रसङ्गात् । तयोरनन्यत्वसिद्धिरिति - पुरुषद्वित्वे प्रमाणा-भावादितिभावः । न पुरुषशब्दो नेय इति - "दिव्यो ह्रमूर्तः पुरुषः' इति पुरुषशब्द इत्यर्थः । पुरुषनारायणोत्तरनारायणेति - पुरुष-

देवताकत्वान्नारारणर्षिकत्वाच्च पुरुषसूक्तस्य पुरुषनारायणत्वम्; एवमुत्तरनारायणेत्यत्रापि द्रष्टव्यम् । अक्षह्मदयाभिज्ञस्येति - अक्ष-ह्मदयाख्यविद्याभिज्ञस्येत्यर्थः ।। ननु भाष्ये सर्वभूतान्तरात्मनः परमात्मन एव सम्भवतीत्ययुक्तम् । सर्वभूतान्तरामत्वस्यापि एतद्वा-

1.2.24

क्यप्रतिपाद्यत्वेन एतद्वाक्यप्रतिपाद्यद्युमूद्र्धत्त्वादिसर्वभूतान्तरात्मत्वान्तधर्मवत्त्वं परमात्मन एव सम्भवतीत्येव वक्तुं युक्तत्वादित्त्या-शङ्कय "पृथिवी ह्रेष सर्वभूतान्तरात्मा' इत्यत्र हिशब्देन पूर्वोक्तद्युमूद्र्धत्वादेस्सर्वभूतान्तरात्मत्वहेतुकरणात् द्युमूद्र्धत्वाद्युपपाद्यं सर्व-भूतान्तरात्मत्वं परमात्मन एव सम्भवतीत्यर्थ इत्त्यभिप्रयन्नाह - सर्वभूतान्तरात्मसम्बन्धितयोच्यमानमिति ।।

शारीराद्विशिनष्टीति - शारीरादित्यनन्तरं विलक्षणत्वेनेत्यध्याहार्यम् । विशिनष्टि हि प्रकृते भूतयोनिं शारीराद्विलक्षणत्वेनेति परैरुक्तत्वाच्छारीरस्य विलक्षणत्वावधित्वेनैव निर्दिष्टतया विशेषणक्रियावधित्वेन निर्दिष्टत्वात् । विशिनष्टीत्युक्तेन केन विशेषणे-नेत्याकाङ्क्षाया इव कस्माद्विशिनष्टीत्याकाङ्क्षाया अदर्शनाच्च । न च कथं तर्हि भाष्यकृता विशिनष्टि हि प्रकरणं प्रधानात्पुरुषाच्चेति निर्दिष्टमिति वाच्यम्; प्रधानात्पुरुषाच्चेत्यस्य व्यावर्तयतीत्यर्थ इति तत्यि#ोत्तरवाक्यान्वितत्वात् । नच कथं तर्हि किं कस्मादिति टीकोक्तिरिति वाच्यम्; तस्या अपि किं कस्माद्य्वावर्तयतीत्यर्थकत्वादितिध्येयम् । अक्षरात्परो हि जीव इति - परतोक्षरादिति सामानाधिकरण्यापेक्षया वैयधिकरण्यस्य ज्यायस्त्वस्य प्रामुपपादितत्वादिति भावः । ननु धर्मशब्देनेति - अदृश्यत्वादिगुणको धर्मोक्तेरिति धर्मशब्देनेत्यर्थः । "एतस्माज्जायते प्राणः' इति मन्त्रात्क्रियानुषङ्गेण अग्निर्मूद्र्धेतिमन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भो भूतयोन्यक्षराज्जायतेत्यर्थपरत्वमङ्गीकृत्य रूपोपन्यासादिति सूत्रस्य च "पुरुष एवेदं सर्वम्' इति सार्वज्ञ्यरूपब्राहृलिङ्गोपन्यासाद्भूत-योनिः परमात्मेयपि योजनान्तरं परैर्दर्शितम् । तदनूद्य दूषयति - रूपोपन्यासाच्चेतीति । प्रकरणवशादिति - सन्निधिवशादित्यर्थः । अवान्तरप्रकरणस्येति - सन्निधेः प्रकरणविरोधे दुर्बलत्वादित्यर्थः । ततश्च प्रकरणं खल्वेतद्विश्वयोनेस्सन्निधिश्च जायमानानां सन्नि-धेश्च प्रकरणं बलीय इति । ननु अजायतेत्यध्याहारमन्तरेण विन्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेन्न; प्रकरणिनः शरीरेन्द्रिय-रहितस्य विग्रहवत्त्वविरोधादिति वाचस्पत्यानुगुण्यं च सिध्द्यति । मीमांसकप्रवादविरोधश्च पीरह्मतो भवति । अत्रेदमवधेयम्;

1.2.25

अस्मन्मते भट्टमत इवान्तरप्रकरणभेदेन प्रकरणद्वैविध्यमेव नास्ति, अवान्तरप्रकरणशब्दाभिलप्यवस्तुसन्निधिरेव, नचैवमभिक्रमस्य प्रयाजाङ्गत्वं न सिध्द्येदिति वाच्यम् । गुरुमतरीत्या समर्थनसम्भवादिति ।। इत्यदृश्यत्वादिगुणकाधिकरणम् ।।

समानप्रकरणे वाजसनेय इति - अग्निरहस्ये "वैश्वानरं ह वै भगवान् सम्प्रति वेद तन्नो ब्राूहि' इति श्रवणादित्यर्थः । अग्निश-ब्दोपक्रमः कोशेषु द्रष्टव्यः । त्रिष्वपि क्रमेण प्रयोगं दर्शयति - अक्षरात्परतः परः इत्यादिना । हरो जीव इत्यर्थः । विधिशब्दस्य मन्त्रत्वे भावस्यादितिन्यायेनेति - दर्शपूर्णमासयोः श्रूयते "आग्नेयोऽष्टाकपालः' इति बहूनि चाग्नेरभिधानानि "अग्निश्शुचिः पावकः' इत्यादीनि । तत्राग्निवाचिषु स्वाहाकारोज्खित्यादिनिगदेषु येन केनचिच्छब्देनाभिधानं कर्तव्यम्, उत विधिगतेनैवाग्नि-शब्देनेति विशये अग्न्यर्थो देवताकर्तव्य इत्येतावांश्चोदनार्थः । तस्य तच्छब्दोहिश्यमानस्य देवतात्वमिति प्रयोगावस्थायां शब्दो-च्चारणमापतति, तन्नियमे च नास्ति प्रमाणम्, पावकशब्देनाप्युद्दिश्यमानस्य चोदनाविहितमग्नेर्देवतात्वं सम्पादितमेव भवति, तस्माच्छब्दप्रयोगानियम इति पूर्वपक्षं कृत्वाऽवश्यं ह्रत्रशब्दोच्चारण एव पुरुषो नियोक्तव्यः, शब्दोच्चारणस्यैव पुरुषव्यापारत्वात् । ततश्च शब्दस्यरूपमेव उच्चारणान्वयित्वेन विधीयते, तद्विधाने चार्थस्य देवतात्वं प्राप्तमेवानूद्यते, येन हिशब्देन हविस्त्यज्यते तस्या-

1.2.25

र्थस्तस्य देवता भवति तस्माच्छब्दोच्चारणस्यैव विधानान्न पर्यायप्रसक्तिरिति पर्यायशब्दानां बाध इति बाधलक्षणे "विधिशब्दस्य मन्त्रत्वे बाधस्यात्तेन चोदना' इत्यधिकरणे सिद्धान्तितम्, यथा शब्दानियमपूर्वपक्षेपि प्रथमाध्यायप्रतिष्ठापितप्रामाण्यस्य न हानि-स्तद्वदत्र वैश्वानरशब्दस्यार्थानियमपूवर्पक्षेपि न प्रतिष्ठापितप्रामाण्यहानिरिति भावः । इदमुपलक्षणम् । "छागो वा मन्त्रवर्णात्' इत्यादिपूर्वपक्षोत्थानस्यापीति द्रष्टव्यम् । अत्र केचित्; तदधिकरणपूर्वपक्षे न पदार्थानध्यवसायो न वाक्यार्थानध्यवसायः, इह तु वैश्वानरपदार्थानध्यवसाये तद्धटितवाक्यस्य संशायकत्वेन प्रमापकत्वात् प्रतिष्ठापितप्रामाण्यस्य हानिर्भवत्येव । अत एव पिकयव-वराहवेतसशब्दार्थानध्यवसाये तद्धटितचोदनाया अप्रामाण्यमित्युक्तम् । अत एव भावार्थनये किन्नामपदेन विषयतया कर्माप्र्यते, उताख्यातपेदेनेत्यध्यवसाय इति संशये अनध्यवसायात्मक एव पूर्वपक्षः प्रवर्तितः । तत्र चाप्रामाण्ये प्रमाणाध्याय एव इयं चिन्ता स्यादित्याशङ्कयोपोद्धातत्वेनात्रैव युक्ता साक्षात्सङ्गतेरुपोद्धातसङ्गतिबलीयस्त्वादित्युक्तं विवरणे । ततश्च स्वर्गकामाद्यधिकरणेषु प्रसिद्धप्रामाण्याक्षेपवदिहापि पूर्वपक्षिणः प्रामाण्याक्षेपो न दोषमावहतीति वदन्ति । अग्निशब्दसामानाधिकरण्येति - "स एषो-ऽग्निर्वैश्वानरो यत्पुरुषस्स यो हैतमÏग्न वैश्वानरं पुरुषं पुरुषविधम्' इत्यादिवाक्यप्रतिपन्नसामानाधिकरण्येत्यर्थः । परैर्वैश्वानरशब्दस्य जाठरतृतीयभूततदधिष्ठातृदेवतारूपार्थतृतीयसाधारणत्वात् आत्मशब्दस्य जीवपरमात्मस्वरूपार्थद्वयसाधारणत्वाच्च पञ्चधा संशयो

1.2.25

वर्णितः, तद्दूषयति - जीवपरसाधारणात्मशब्दसद्भावेपीत्यादिना । अग्निमित्यस्य विवरणं महाभूततृतीयमिति । यद्यपि नाग्नि-शब्दस्य भूतृतीयं सर्वमर्थः । तथापि ज्वलनसामान्यमर्थः । न देवता न जाठराग्निविशेष इति भावः । केतुमादित्यमिति - आदि- त्योदये दिनव्यवहारात्तस्य केतुशब्दितं चिहत्वमिति भावः । तद्विषयभूतास्स्यामेति - अस्मासु शोभना मतिस्तस्य भूयादित्यर्थः । मतिसम्बन्धस्य भूततृतीये अचेतने वा जाठरे वा असम्भवाद्देवतापरत्वमाश्रयणीयमिति भावः । हिकमित्यव्ययमिति - प्रसिद्धौ वर्तत इति शेषः । विशेष्यत इति विशेष इतिभाष्यस्य कर्मत्वरूपप्रत्ययार्थव्याख्यानरूपत्वे स्वरसतः प्रतीयमानेपि साधारणशब्द-विशेषादितिसूत्रस्थविशेषपदस्य कर्मणि घञन्तत्वे साधारणशब्द एव विशेष इति कर्मधारयस्याश्रयणीयत्वात् कर्मधारये च विशेष-शब्दस्य पूर्वनिपातप्राप्त्या पश्चान्निर्देशानौचित्यात्सूत्रस्वारस्यानुरोधार्थं विशेषशब्दस्य भावार्थत्वमभिप्रेत्य साधारणशब्दस्येति षष्ठयर्थीभूतकर्मत्वव्याख्यानपरं विशेष्यत इतिभाष्यमिति व्याचष्टे - नेदं विशेषशब्दस्येत्यादिना । ननु विशेष्यत इत्यस्य विशेष-शब्दव्याख्यानरूपत्वाभावे विशेष इति पृथक्पदमनन्वितं स्यादित्याशङ्कय विशेष इति कृदन्तं पदम्, कर्मार्थषष्ठीनिमित्तमित्यध्याह्मत्य व्याख्येयमित्याह - विशेष इति कृदन्तं पदमिति । अध्याहारदेशं विशेषणविशेष्यभावस्य कामचारित्वं चाभिप्रयन् भाष्यस्वार-स्यानुरोधेनान्यथा व्याचष्टे - यद्वा विशेष्यत इत्यादिना । फलविशेषनिर्देशादीनां परमात्मधर्मत्वाभावादाह - लिङ्गपर इति । अतन्निष्ठस्यापि लिङ्गत्वमुपपद्यत इति भावः । ननु विशेषपदस्य कर्मसाधारणत्वपक्षे भावप्रधानत्वानाश्रयणेन कथं विशेष्यमाणत्वा-दित्यर्थलाभ इत्यत आह - फलितार्थ इति । भाष्ये औपमन्यवादय इति । प्रचीनशाल औपमन्यवत्सत्ययज्ञः पौलुपिरिन्दद्युमनो आश्वनेयो जनकश्शार्कराक्ष्यो बुटिल आश्वतराश्विः । प्राचीनशालादिशब्दा आद्याः पञ्चमि नामानि । ते हैते महाशाला महाश्रोत्रि-यास्समेत्य मीमांसा चक्रुः । महाशालाः-विस्तीर्णशालाः, सम्पन्ना इत्यर्थः । "को न आत्मा किं ब्राहृ' इति ते ह सम्पादयाञ्चक्रुः,

1.2.26

निश्चितवन्त इत्यर्थः । उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीयमात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुस्स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये । सर्वं वक्तुं नोत्सह इत्यर्थः । हन्ताहम-न्यमभ्यनुशासानीति । तान् होवाच । अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः । तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातस्सञ्जिहान उवाच । न मे स्तेनो जनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान्न खैरी खैरिणी कुतः । यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भ- गवद्य्भो दास्यामि वसन्तु भगवन्त इति । ते होचुः येन हैवार्थेन पुरुषश्चरेत् तं हैव वदेत् । यत्प्रयोजनमुद्दिश्य पुरुषः प्रवर्तते तदेव वदे-दित्यर्थः । आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्राूहीति । तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे । तान् हानुपनीयैवैतदुवाच, यत एवं महाशाला महाश्रोत्रियाः ब्रााहृणास्सन्तो महाशालत्वाद्यभिमानं हित्वा समि-द्भारहस्ता जातितो हीनं राजानं विद्यार्थितया विनयेनोपाजग्मुः, तथान्यैरपि विद्योपादित्सुभिर्भवितव्यम्, योग्येभ्य एव विद्या दातव्येत्ययमर्थ आख्यायिकया सूच्यते । फलविशेषनिर्देशश्चेति - सर्वलोकाद्याश्रयान्नानुभवसर्वपापप्रदाहरूपफलद्वयनिर्देश इत्यर्थः । परैः द्युमूद्र्धत्वादिकल्पना सर्वविकारानुगते ब्राहृण्येव सम्भवतीत्युक्तम्, तद्दूषयति - द्युभूद्र्धत्वादीति ।।

श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितेति - न तु "आकाशस्तल्लिङ्गात्' इत्यत्रेव तदसाधारणधर्मरूपलिङ्गपरः । स्मर्यमाणस्वरूपस्य परमपुरुषासाधारणधर्मत्वाभावेन परमपुरुषत्वे लिङ्गत्वोक्तययोगात्, अतो लिङ्गशब्दो ज्ञापकपर इति भावः । यद्यपि श्रुतिलिङ्गादिसूत्रे सामथ्र्यं लिङ्गम्, तच्च शब्दगतम्, अर्थगतमित्येव व्यवह्मतम् । तथापि तदपि ज्ञापकान्नातिरिच्यत इति भावः । यद्वा श्रुतिलिङ्गवाक्ये

1.2.26

तत्स्वरूपकथनार्थमिति द्रष्टव्यम् । इत्थं भूमित्यादिभाष्यस्य द्युप्रभृतीत्यादिना सूत्रार्थप्रतिपादकेन भाष्येण पौनरुक्तयमाशङ्कय इतिशब्दान्वयानन्वयाभ्यां परिहरति - इतिशब्दार्थेनान्वितमिति । भाष्ये-तथाहीति । "औपमन्यव कं त्वमात्मानमुपास्व इति दिवमेव भगवो राजन्निति होवाच एष वै सुतेजाः आत्मा वैश्वानरोयं त्वमात्मानमुपास्से तसमात्तव सुतं प्रसुतमासुतं कुले दृश्यते । सुतप्रसुतासुतशब्दैरेकाहाहीनसत्रयोगा लक्ष्यन्ते । "अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्राहृवर्चसं कुले य एत-मेवात्मानं वैश्वानरमुपास्ते मूद्र्धा त्वेष आत्मन इति होवाच मूद्र्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाच एष वै विश्वरूप आत्मा वैश्वानरोऽयं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते । प्रवृत्तोऽश्वतरी रथोदासीनिष्कोत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्राहृवर्चसं कुले य एतमेवात्मानं वैश्वानरमुपास्ते चक्षुस्त्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति । अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत् वायुमेव भगवो राजन्निति होवाच एष वै पृथग्वत्र्मा वैश्वानरोयं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति । पृथग्रथश्रेणयोऽनुयन्ति । अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति पि#्रयं भवत्यस्य ब्राहृचर्यसङ्कुले य एतमेव- मात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति । अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स इति आकाशमेव भगवो राजन्निति होवाच एष वै बहुल आत्मा वैश्वानरोयं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोसि प्रजया च धनेन च । अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्राहृवर्चसं कुले य एतमेवं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मन इति होवाच सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति । अथ होवाच बुटिलामाश्वतराशिं्व वैय्याघ्रपद्य कं त्वमात्मानमुपास्स इति ।

1.2.26

अप एव भगवो राजन्निति होवाच एष वै रयिरात्मा वैश्वानरोयं त्वमात्मानमुपास्ते तस्मात्त्वं रयिमान् पुष्टिमानत्स्यन्नं पश्यसि प्रिय-मत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्राहृचर्यसङ्कुले य एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभे-त्स्यद्यन्मां नागमिष्य इति । अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाच एष वै प्रतिष्ठात्मा वैश्वानरोऽयं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोसि प्रजया च पशुभिश्च अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्त्यस्य ब्रार्हृवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति । तान् होवाच एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वान् सोऽन्नमात्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मखन्नमत्ति, तस्य हवा एतस्यात्मनो वैश्वानरस्य मूद्र्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वत्र्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिह्र्मदयं गार्हपत्त्यो मनोऽन्वाहार्यपचनमास्य-माहवनीयः, तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यसि' इत्यादिना प्राणाद्याहुतिपञ्चकं प्रदश्र्य स यदिदमविद्वानग्निहोत्रं जुहोति' इति पठ¬ते । इत्थं श्रुतिक्रमः । भाष्ये-तानेकैकं पप्रच्छेति । एकैकमिति क्रियाविशेषणम् एवमुत्तरत्रापि; एकैकमुपास्यमानतया कथितानामित्यादावपि द्रष्टव्यम् । नतु नाभिरितीति - "खं वै नाभि'रित्यु-पबृंहणानुगुण्ये सत्यपीति शेषः । स्वभूलत्वेन वैश्वानरविद्याया इति - स्मृतेर्वेदमूलकत्वावश्यम्भावात्तस्यास्मृतेर्मूद्र्धैव सुतेजा इति वाक्यमेव मूलं भविष्यतीति भावः । अस्ति ह्रग्निमूद्र्धेति - ननु "अग्निमूद्र्धा' इत्याथर्वणवाक्यं "द्यां मूद्र्धान'मिति स्मृतिवचनस्य मूलाकाङ्क्षां शमयितुं प्रभवति । तत्राग्निमूद्र्धत्वश्रवणेपि द्युमूद्र्धत्वस्याश्रवणात् । न च "असौ वाव लोकः' इति श्रुत्यनुसारादग्निशब्दस्य

1.2.27

द्युलोकपरत्वमस्तीति वाच्यम्; उपचरिताग्निशब्दप्रयोगविषयत्वस्य पर्जन्यपृथिव्यादिष्वपि सत्त्वेन तदनुसारेणार्थनिर्णयासम्भवात्; अतो वैश्वानरविद्यावाक्यमेव मूलमिति चेन्न; "शीष्र्णोद्योस्समवर्तत पद्य्भां भूमिर्दिशः श्रोत्रात्' इत्यादीनां बहूनां परमात्मपरतया निर्णीतानां वाक्यानां भूलत्वसम्भवेन स्मृतिवचनस्य विप्रतिपन्नवैश्वानरविद्यैकशरणत्वमिति भावः ।।

दूरस्थत्वादिति - यदस्याधिकरणस्य छान्दोग्यवाक्यवद्वाजसनेयवाक्यमपि विषय एव, अतो न दूरस्थत्वादिवैषम्यम्; तथापि "पुरुषमपि चैनमधीयते' इति वाजसनेयकस्य तटस्थवदुदाह्मतत्वादेवमुक्तमिति द्रष्टव्यम् । भाष्ये-समानाधिकरणतयाग्निरिति श्रूयत इति । वाजसनेयकेऽग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्तवा "स एषो वैश्वानरो यत्पुरुषः सहैतमेवमÏग्न वैश्वानरं पुरुषविधं पुरुषेऽन्तः-

1.2.27

प्रतिष्ठितं वेद' इति श्रूयत इत्यर्थः । अन्तःप्रतिष्ठितत्वस्याग्निशब्दनिर्देशसाहित्यविवक्षासिद्धिः कथमितिशङ्कायामेकवाक्योपादानादिति दर्शयति - स यो हैतमेवमग्निमिति । परैः "शब्दादिभ्योन्तःप्रतिष्ठामा'दिति सूत्रखण्डो जाठरादित्रयशङ्कापरतया व्याख्यातः भाष्य-कारैस्तदनादरेण जाठरमात्रशङ्कापरतया तत्खण्डस्य व्याख्याने कारणमाह - शब्दादिभ्य इत्यादिसूत्रखण्डमित्यादिना । तथा दृष्टयुपदेशादित्यत्र दृष्टिशब्दः परैर्जाठरे परमात्मदृष्टिपरतया व्याख्यातः, तदुपेक्षणे किं कारणमिति शङ्कते - दृष्टिशब्दोऽतस्मिन् तथात्वानुसन्धानेति । सूत्रतात्पर्यविरुद्धमिति - यद्यप्युद्गीथप्रस्तावादौ अध्यस्योपास्यमानाकाशप्राणादेः "आकाशस्तल्लिङ्गात्' "अत एव प्राणः' इति परमात्मपरत्वसमर्थनपरसूत्रतात्पर्याविरोधवदविरोधस्सम्भवति, नच तत्रापि दृष्टिविरोधिपरत्वे विमतिः । "संज्ञात-श्चेत्तदुक्तमस्ति तु तदपि' इत्यत्र भाष्ये कण्ठत एवाविष्कृतत्वात्, तथापि तत्र गत्यभावाद्दृष्टिविधित्वेपि इह तदाश्रयणस्यायुक्तत्वात्; अत एव परैरपि दृष्टिविधित्वपक्षं परित्यज्य अथवा जाठरवैश्वानरोपाधिः परमेश्वर एवेह द्रष्टव्यत्वेनोपदिश्यत इत्युक्तमिति द्रष्टव्यम् । अग्निशब्दादिभिर्हीतिभाष्ये-अग्निशब्देन त्रेताकल्पनादिलिङ्गैश्च जाठरप्रतिपाद्यमानत्वं निषिध्यमानमयुक्तम्, लिङ्गानां प्रतिपादकत्वा-भावादित्याशङ्कय प्रतिपाद्यत इतिपदं शब्दलिङ्गसाधारणज्ञापनपरतया व्याचष्टे - ज्ञाप्यत इत्यर्थ इति । ननु वैश्वानरादिशब्दस्य परमात्मपरत्वे त्रेताकल्पनादिलिङ्गं कथं साक्षात्परमात्मन्यन्वेत्वित्याशङ्कयाह - तदिति । भाष्ये किञ्चेति । हेतुद्वयसमुच्चयप्रतिपाद-नस्य सूत्रारूढतां दर्शयति - अपि चेत्यत्रेति । पुरुषशब्दवाच्यतयाप्यधीयत इत्यभिप्रायेणेति - अधीयत इत्यस्य शब्दकर्मत्वस्यै-

1.2.29

वोचितत्वात् । पुरुषमपि चैनमधीयत इति सूत्रखण्डस्य एतस्मिन् पुरुषशब्दमध्ये तारं प्रयुञ्जत इति पर्यवसन्नमर्थं ह्मदि निधायाह - किन्तु पुरुषशब्दवाच्यतयापीति । क्षरत्वाद्युपाधिनेति - "द्वाविभौ पुरुषौ लोके क्षरश्चाक्षर एव च' इति क्षरपदसमभिव्याहाररूपो-पाधिबलेनेति भावः । "पुरुषं पुरुषविधं पुरुषेन्तःप्रतिष्ठितं वेद' इति पुरुषान्तःप्रतिष्ठितत्ववत् पुरुषत्वस्यापि श्रवणेन पुरुषान्तःप्रतिष्ठि-तत्वमात्रस्याश्रवणान्न जाठरत्वमिति परैव्र्याख्यातम्, तन्निराचष्टे - अत एव पुरुषमिति । हेत्वन्तराणामपीति - "तथाचासम्भवा'-

1.2.29

दित्यस्य हेत्वन्तरनिरासकत्वं पुरुषमपि चेत्यस्यान्तःप्रतिष्ठाननिरासकत्वमिति व्यवस्था निर्मूलेति भावः ।। समुदितस्येति - त्रिवृ-त्कृतस्य भूततृतीययस्येत्यर्थः ।।

अग्निशब्दसामानाधिकरण्येन विनेति - यद्यप्यग्निशब्दो वैश्वानरशब्दवत् बह्वर्थसाधारण एव "विश्वस्मा अÏग्न भुवनाय' इति-भूततृतीये "एषोऽग्निर्वैश्वानरो येनेदमन्नं पच्यते' इति जाठरे । "त्वमग्ने यज्ञानां होता' इति देवतायाम् "ह्मदयेऽग्नौ वैश्वानरे प्रास्यत्' इति परमात्मनि; इत्येवमादिप्रयोकदशर्नात्, तथापि वैश्वानरशब्दे यौमिकार्थाभिव्यक्तिवदग्निशब्दे यौगिकार्थाभिव्यक्तिर्नास्तीतिभावः । पुनरुक्तिप्रसङ्गादिति - नच वैश्वानरशब्देनैवापर्यवसानवृत्त्याग्निविशिष्टस्याभिहिततयाग्निशब्दस्यैव यौगिकार्थपरत्वं किं न स्यादिति वाच्यम्, अग्नौ वैश्वानरे प्रास्यादित्यग्निशब्दस्य प्रक्रमस्थत्वेन पुनरुक्तत्वशङ्कानुदयेनाग्निशब्दस्यापर्यवसानवृत्त्या परमात्मपरत्वस्य सिद्धतया पश्चाछØतवैश्वानरशब्द एव पौनरुक्तयशङ्कोदयादिति भावः । परमात्मविषयवाक्यान्तरेष्वपीति - अग्निशब्दरहितेषु "आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि' इत्यादिवाक्येष्वित्यर्थः । एकप्रयोजकत्वायेति - एकस्यैव प्रयोजकत्वसिध्यर्थमित्यर्थः । वैश्वानरशब्दो दृष्टान्ततयोक्त इति - ननु पौनरुक्तयप्रसङ्गपरिहाराय वैश्वानरशब्दस्य यौगिकत्वमाश्रितम् । अग्निशब्दे तादृशबाधका-भावात् कुतो योग इति चेन्न; रूढ¬र्थासम्भवे अपशूद्राधिकरणइव योगस्यैव ज्यायस्त्वमिति जैमिन्यभिप्राय इति भावः । विशद-तरत्वेपि प्रयोगादिति - ज्ञानस्य साक्षात्त्वमित्यादिप्रयोगदर्शनादिति भावः । भिदाद्यजन्त ऋष्यणन्तो वेति - गोत्रापत्त्ये भिदा-द्यञन्तः अनन्तरापत्ये ऋष्यणित्यर्थः । ततश्च भिदाद्यञन्तादृष्यणो बाधितत्वात् कथमत्र ऋष्यणितिशङ्का निरस्ता । पुरुषसमष्टि-वाचित्वेपीति - "नरे च संज्ञाया'मिति संज्ञायां ङीप्विधानात् समष्टिपुरुषसंज्ञात्वेपीत्यर्थः । विश्वानर एव वैश्वानर इति - प्रज्ञादे-

1.2.29

राकृतिगणत्वादणप्रत्ययः । विद्याभेदस्यादिति - यद्यपि नोपास्याकारभेदमात्रं विद्याभेदकम्, एकस्यामेव शाण्डिल्यविद्यायां मनो-मयत्वप्राणशरीरत्वादीनामविरुद्धानां बहूनामुपास्याकाराणां दर्शनात् किं बहुना, सर्वास्वपि परविद्यासु "आनन्दादयः प्रधानस्य' अक्षरधियान्त्ववरोधः' इति न्यायेन सत्यत्वज्ञानत्वानन्दत्वादीनां बहूनामाकाराणामनुयायित्वदशर्नाच्च न विद्याभेदप्रसक्तिः, तथा-प्यग्निशरीरत्वाग्रनेतृत्वयोर्विरोधमभ्युपगम्यैवमुक्तमिति द्रष्टव्यम् । विलम्बाविलम्बसाम्यात्तुल्यबलत्वमितीति - रूढ¬र्थानुपपत्ति-प्रतिसन्धानमूलत्वेन दौर्बल्यं यौगिकार्थरूढ¬र्थापर्यवसानवृत्तिलब्धाथर्योस्समानम् । तत्रापर्यवसानवृत्तिलब्धार्थस्य प्रथमप्रतिपन्न-रूढ¬र्थानुगुणत्वं प्राबल्यहेतुः, तत्पक्षे रूढ¬र्थस्यापरित्यागात्, यौगिकार्थस्य तु मुख्यत्वमेव प्राबल्यहेतुः । रूढ¬थर्वद्यौकिकार्थस्यापि मुख्यत्वादिति तुल्यबलत्वमिति भावः । ननु रूढ¬र्थापर्यवसानलब्धार्थस्य रूढिपूर्वकलक्षणापेक्षया अधन्येन यौगिकार्थेन तुल्यत्वं वदता अपर्यवसानलब्धार्थे लक्षणैवोक्ता स्यात् नचेष्ठापत्तिः, चराचरव्यपाश्रयाधिकरणे परमात्मनि मुख्यत्वस्यैवाकृत्यधिकरणन्यायेन समर्थितत्वादिति चेत् उच्यते मुख्यार्थान्तरानुपपत्तिप्रतिसन्धानमूलकतया यौगिकार्थवद्विलम्बितप्रतीतिकस्यापि ब्राहृणः "वचसां वाच्यमुत्तमम्' । नतास्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती' इत्यादिप्रमाणानुसारात् समुदायशक्तिगोचरत्वमस्ति; नहि विलम्बमात्रेण मुख्यार्थत्वहानिः "आदित्यस्य गावः प्रकाशयन्ति' इत्यादौ किरणादीनां विलम्बितोपस्थितिकानामपि मुख्यार्थत्वदर्शनादिति द्रष्टव्यम् एकेनैव वाक्येन वैकल्पिकार्थेति - नन्वग्निशरीरत्वाग्रनेतृत्वरूपार्थयोरेकवाक्यविहितत्वे अरुणैकहायन्योरिव समुच्चयस्यैवावश्य-म्भावेन विकल्पस्याप्रसक्तया वैकल्पिकार्थद्वयविधानवादिनो वाक्यभेदपुरस्कारेणैव विकल्पस्याभ्युपगन्तव्यतया कथं वाक्यभेदो-पादानम् ? तदनिष्टं स्यात् । किञ्च वाक्यभेदभीत्या विकल्पं परित्यज्य विद्याभेदस्वीकर्तव्य इत्याक्षिपतो मते एकेनाग्निशब्देन वृत्ति-द्वयाश्रयणोनार्थद्वयविधाने वृत्तिद्वयविरोधप्रसङ्गेनावृत्तिलक्षणवाक्यभेदस्याभ्युपेतव्यतया वाक्यभेददोषस्यानुद्धाट¬त्वमिति चेत्,

1.2.30

उच्यते; अग्निशरीरकत्वाग्रनेतृत्वरूपगुणद्ववत्तया विधाने विद्याभेदो वा स्यात् तस्यामेव विद्यायां वाक्यभेदमाश्रित्य विकल्पाभ्युप-गमेऽष्टदोषदुष्टो विकल्पस्यात् वाक्यभेददोषश्च स्यादित्यत्र तात्पर्यात् । यौगिक इति हि सूत्रतात्पर्यमिति - रूढ¬भावे योग एव ज्यायान्, मुख्यत्वात्, न त्वपर्यवसानवृत्तिः, तस्याः योगिकार्थवन्मुख्यत्वाभावादिति जैमिनेर्मतं नतु द्वयोरपि तुल्यबलत्वम् । येन विद्याभेदो विकल्पो वा स्यादिति भावः । न द्वितीयेति कृत्वेति - "तानि द्वैधं गुणप्रधानभूतानि' इत्यधिकरणे व्रीहिनवहन्तीत्यत्र किमवधातार्था व्रीहयः, उत व्रीह्रर्थो वा अवघातः ? इतिविचार्य भावार्थाधिकरणन्यायेन भूतस्य द्रव्यस्य क्रियानिवृत्तिर्दृष्टं प्रयोजनं लभ्यत इत्यवघातार्था व्रीहयः अवघातस्त्वदृष्टार्थः इति पूर्वपक्षं कृत्वा अवघातस्य कर्मौपयिकतुषविमोकादिलक्षणदृष्टप्रयोजनेन सप्रयोजनत्वे सम्भवति यागादिवददृष्टाथर्कल्पनाया अन्याय्यत्वात् अवघातस्य व्रीह्रर्थत्वमेव । व्रीहीणां च तण्डुलपिष्टप्रणाडिकया यागार्थत्वमिति न कुत्राप्यदृष्टं कल्पनीयमिति सिद्धान्तितम् । तत्र ननु व्रीहीनवहन्तीति द्वितीयाश्रुत्या अवघातस्य व्रीह्रर्थत्वा- वगमात् कथं पूर्वपक्षोत्थितिरित्याशङ्कय द्वितीया नास्तीति सिद्धवत्कारेण पूर्वपक्षः प्रवर्तत इति पूर्वमीमांसकैर्वर्णितमित्यर्थः ।।

बुध्यारोहार्थत्वं किं न स्यादिति - प्रियशिरस्त्वादिवदिति भावः ।।

1.2.32

ननु सम्पतिं्त दर्शयतीत्येतावति वक्तव्ये परमात्मोपासनोचितमेव फलं दर्शयतीतिभाष्ये निर्देशो निष्प्रमाणक इत्याशङ्कय प्रागुप-क्षिप्तस्य प्राणाहुतेः परमात्मसमाराधनरूपत्वस्योपपादकं तदित्यत्राह - अग्निहोत्रसम्पत्तेः परमात्मसमाराधनार्थत्वमिति । पर-

1.2.33

मात्मसमाराधनं प्राणाहुतिः, तस्या अग्निहोत्रहोमत्वार्था गाह्यपत्त्याग्न्यादिसम्पत्तिरिति भावः । तस्य सर्वेषु लोकेष्वित्याद्युक्तः फल-विशेष एव प्राणाहुतेः परमात्मसमाराधनत्वं ज्ञापयतीति भावः । सर्वं सामराधितं भवतीति - यागस्य देवपूजार्थत्वात्पूजायाश्चारा-

धनरूपत्वाद्यागहोमयोश्चानतिभेदात् हुधातोराराधनमर्थ इति भावः । तदङ्गपरोपासनफलं दर्शयतीति - उपासनफलस्य सर्वपाप-प्रदाहस्य प्राणाग्निहोत्रे प्रदर्शनं प्राणाग्निहोत्रस्य तदङ्गत्वज्ञापनार्थमित्यर्थः । इदञ्च प्राणाहुतिमात्रस्येत्याद्युत्तरवाक्ये स्पष्टमिष्यते । उपासकस्य पूर्धाद्यवयवानामेवेति - "यस्त्वेवमेवं' इति पूर्ववाक्ये उपासकस्य प्रकृततया "तस्य ह वा एतस्य' इत्यत्र तच्छब्देन तस्यैव परामृष्टव्यत्वात् "उर एव वेदिर्लोमानि बर्हिः' इत्युत्तरवाक्ये उपासकोरःप्रभृतीनामेव परामृष्टव्यत्वेन "तस्य हवा एतस्यात्मनो वैश्वानरस्य मूद्र्धैव सुतेजाः' इत्यादौ मूर्धादिशब्दैरप्युपासकमूर्धादिपरामर्शस्योचितत्वाच्च । नचैवमात्मनो वैश्वानरस्येति व्यपदेशः कथं घटतामिति वाच्यम्; उपास्योपासकाभेदविवक्षया वैश्वानरादिशब्दप्रयोगोपपत्तेरिति भावः । मुकितरेव फलमितीति । ज्ञाप-यितुमुक्ततयेत्यन्वयः । यद्यपि "सर्वेष्वात्मस्वन्नमत्ति' इत्यत्रानिष्टनिवृत्त्यंशो न कण्ठोक्तः ब्राहृानुभवमात्रस्योक्तत्वात् तथापि तदन्त-र्गतत्वमस्तीत्यभिप्रयन्नाह - फलान्तर्गतेति । वाक्यप्रतिपन्नस्याङ्गभावस्येति - यद्यपि नानेन वाक्येनाङ्गाङ्गिभावः प्रतिपाद्यते, तथापि "उर एव वेदिर्लोमानि बर्हिः' इत्यग्निहोत्रसम्पत्तिवाक्ये "तस्य हवा एतस्य' इत्यस्यानुकर्षात्तादथ्यर्सिद्धमिति भावः । शङ्क-रादिभिस्तु "अभिव्यक्तेः' इत्यादिसूत्रचतुष्टयं मतभेदेन प्रादेशमात्रश्रुतिनिर्वाहभेदप्रदर्शनपरं व्याख्यातम् अतिमात्रस्यापि परमात्मन योगवसात् प्रादेशमात्रत्वोपपत्तिरिति आश्मरथ्यो मन्यत इति अभिव्यक्तेरिति सूत्रार्थमाहुः । प्रादेशमात्रह्मदयादयावच्छिन्नमनोनु-स्

1.2.33

"उपासकानुग्रहार्थं प्रादेशमात्रतया अभिव्यक्तिसम्भवात् द्युपृथिव्यादिप्रादेशसम्बन्धिनी प्रादेशी मात्रा परिमाणं यस्य स तथोक्तमिति मरणीयतया रूढिपूर्वकलक्षणाया प्रादेशमात्रत्वमिति बादरिरिति द्वितीयसूत्रार्थमाहुः । वाजसनेयके प्रादेशमात्रे उपासकमूद्र्धचुबु-कान्तराले त्रैलोक्यात्मनो वैश्वानरस्य द्युप्रभृतीनां मूद्र्धाद्यवयवानां सम्पादनात्प्रादेशमात्रत्वोपपत्तिः । एवं हि साजसनेयके श्रूयते;-

प्रादेशमात्रमिव ह वै देवास्सुविदिता अभिसम्पन्नास्तथा तु एतान् वक्ष्यामि । यथा प्रादेशमात्रमिवाभिसम्पादयिष्यामीति । स होवाच मूद्र्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इति चक्षुषी उपदिशन्नुवाच एष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाच एष वै पृथग्वत्र्मा वैश्वानर इति मुख्याकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति मुख्या आप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति चिबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानर इति । अयमर्थः, प्रादेशमात्रमिव देवास्सूर्यादयः अभिसम्पन्नाः प्राप्ताः उपासनतया यदा तदा ते विदिता भवन्ति । अहं केकयराजः, युष्मभ्यम् औपमन्यवादिभ्यः, एतान् देवान्, तथा वक्ष्यामि यथा प्रादेशमात्रमेवाभि-सम्पादयिष्यामीति औपमन्यवप्रभृतीन् प्रति वक्तव्यत्वेन प्रतिज्ञाय अश्वपतीं रोजोवाच, किं कुर्वन्नित्युक्ते अस्य मूद्र्धानमुपदिशन् कराग्रेण दर्शयन् एष वै भूरादिलोकानतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति प्रसिद्धे मूद्र्धनि वैश्वानरस्याधिदैवं यो मूद्र्धा द्युलोकः तत् दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नाह एष वै सुतेजास्स हि सूर्योधिदैवतं वैश्वानरस्य चक्षुरितिप्रसिद्धयोश्चक्षु-षोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुः तद्दृष्टिरित्यर्थः । इत्यादि सर्वत्र ज्ञेयमिति, इत्थं सम्पत्तेरिति सूत्रार्थमाहुः । अस्मिन् प्रादेश-मात्रे मूद्र्धचिबुकान्तराले एनं परमात्मानं जाबाला अप्यधीयते । "एषोऽनन्तोऽव्यक्त आत्मा सोविमुक्ते प्रतिष्ठितः' इति । सोविमुक्तः अस्मिन् प्रतिष्ठ इति वरणायान्नस्य मध्ये प्रतिष्ठित इति । का वै वरणा काच नासीति तत्र चेयामेव नासिकां वरणा नासीति निरूच्य पुनरप्यामनन्ति । कतमच्चास्य स्थानं भवति भ्रुवोः प्राणस्य च यस्सन्धिस्स एष द्युलोकस्य परस्य सन्धिर्भवतीति । ततश्च नासिकाभ्रू-मध्यप्रदेशमात्रवर्त्तिनि परमात्मनि प्रादेशमात्रोपपत्तिरिति चतुर्थसूत्रार्थमाहुः । तेषां मते चतुस्सूत्र्या अपि प्रादेशमात्रत्वनिर्वाहमात्र-

1.2.33

प्रदर्शनपरत्वेन अस्मन्मत इव प्रत्येकं भिन्नभिन्ननिवृत्त्या शङ्काया अभावात् नातीव सप्रयोजनमित्याह - अ#ीभव्यक्तिरनुस्मरणी-यत्वमित्यादिना । द्युप्रभृतिमूद्र्धत्वादिसम्पादनमिति पाठः । मस्तकचिबुकान्तराल इत्येतत् काकाक्षिन्यायेनोभयत्र सम्बध्यते, मस्तकचिबुकान्तराले द्युमूद्र्धत्वादिसम्पादनं मस्तकचिबुकान्तराले परस्य स्थितेरिति चोभयत्र सम्बध्यते, श्रुत्या प्रतिपादनमित्य-स्यानन्तरं प्रादेशमात्रत्वश्रुतिनिर्वाहौपयिकमिति शेषः पूरणीयः ।।