भृगुसंहिता/चतुर्दशोऽध्यायः

← त्रयोदशोऽध्यायः भृगुसंहिता
चतुर्दशोऽध्यायः
[[लेखकः :|]]
पञ्चदशोऽध्यायः →

अथ चतुर्दशोऽध्यायः.
दशावतारकल्पः (वामनः)

अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा ।
वैरोचनसुतोह्युग्रो बली च बलिनां वरः ।। १४.१ ।।

तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः ।
हरिर्वामनरूपोऽभूच्छत्री दण्डी च वेदविथ् ।। १४.२ ।।

वटबीजेन सदृशः केवलं सूत्रदण्डभृथ् ।
वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ।। १४.३ ।।

तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः ।
त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ।। १४.४ ।।

बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितं ।
हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ।। १४.५ ।।

देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीथ् ।
त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते ।। १४.६ ।।

वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) ।
दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदं ।। १४.७ ।।

दशतालेन मानेन देवदेवं प्रकल्पयेथ् ।
सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेथ् ।। १४.८ ।।

चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः ।
दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च ।। १४.९ ।।

शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेथ् ।
गदा वामकरे प्रोक्ता तथा खेटकमेव च ।। १४.१० ।।

चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः ।
एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ।। १४.११ ।।

सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितं ।
सर्वाभरण संयुक्तं कीरीटादिविभूषितं ।। १४.१२ ।।

इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितं ।
दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ।। १४.१३ ।।

दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेथ् ।
हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेथ् ।। १४.१४ ।।

तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीं ।
प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ।। १४.१५ ।।

पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववथ् ।
जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिं ।। १४.१६ ।।

इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभं ।
आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेथ् ।। १४.१७ ।।

पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकं ।
ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीं ।। १४.१८ ।।

एवं वर्णक्रमेणैव चित्राभासं च कारयेथ् ।
पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ।। १४.१९ ।।

शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेथ् ।
अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमं ।। १४.२० ।।

शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिं ।
महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेथ् ।। १४.२१ ।।

उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे ।
वामे प्रसारितां चैव सर्वरत्न विभूषितां ।। १४.२२ ।।

तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखं ।
जटामुकुटसंयुक्तं सर्वाभरणभूषितं ।। १४.२३ ।।

हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरं ।
तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ।। १४.२४ ।।

असुरेन्द्रं तथासीनं विनतं पश्चिमामुखं ।
ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितं ।। १४.२५ ।।

एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरं ।
नमुचिं च समासीनं पादपीठावलंबिनं ।। १४.२६ ।।

वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयं ।
कल्पयित्वा यथामार्गं शुक्रं चैव समागतं ।। १४.२७ ।।

वामपादं समासीनं दक्षिणं कुञ्चितं तथा ।
अभयं दक्षिणं हस्तं वामं कट्यवलंबितं ।। १४.२८ ।।

सर्वाभरण संयुक्तं पश्चिमामुखमेव च ।
तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेथ् ।। १४.२९ ।।

दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणं ।
एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ।। १४.३० ।।

मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखं ।
हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेथ् ।। १४.३१ ।।

फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितं ।
उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेथ् ।। १४.३२ ।।

अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितं ।
एवमेव विधानेन कल्पयित्वा यथाक्रमं ।। १४.३३ ।।

श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च ।
कनकाभं बलिञ्चैव नमुचिं च तथै व च ।। १४.३४ ।।

शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपं ।
अनन्तं पीतवर्णं च वासुकिं श्याममेव च ।। १४.३५ ।।

एवं स्थानक्रमेणैव कूटयुक्तेन कारयेथ् ।
अथ वा भित्तिपार्श्वे तु चित्राभासेऽधमाधमं ।। १४.३६ ।।

त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये ।
एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समं ।। १४.३७ ।।

तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमं ।
महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ।। १४.३८ ।।

नमुचिं च तथा शुक्रं गरुडं च तथा चरेथ् ।
अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेथ् ।। १४.३९ ।।

विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परं ।
विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेथ् ।। १४.४० ।।

"पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ ।
"समुचिं कनकाभं च पीतवाससमित्यपि ।। १४.४१ ।।

श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमं ।
"हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ ।। १४.४२ ।।

"प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ ।
"असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ।। १४.४३ ।।

शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः ।
"काश्यपं गरुडं चैव वैनतेयं खगाधिपं ।। १४.४४ ।।

"सहस्रशीर्षं शेषं च नागराजमितीर्य च ।
अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेथ् ।। १४.४५ ।।

"वासुकीं नागराजं च काद्रवेयं मनोरमं ।
एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेथ् ।। १४.४६ ।।

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् ।
त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ।। १४.४७ ।।

तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेथ् ।
जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेथ् ।। १४.४८ ।।

"यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेथ् ।
कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेथ् ।। १४.४९ ।।

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे चतुर्दशोऽध्यायः.