← चतुर्दशोऽध्यायः भृगुसंहिता
पञ्चदशोऽध्यायः
[[लेखकः :|]]
षोडशोऽध्यायः →

अथ पञ्चदशोऽध्यायः.
दशावतार कल्पः (रामः) भार्गवः

अतः परशुरामस्य स्थापनं वक्ष्यतेऽधुना ।
बहुभिर्बलवद्भिस्तु राजभिर्धरणी हता ।। १५.१ ।।

तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः ।
भूत्वावतीर्णो लोकेस्मिन्भारनिर्हरणाय वै ।। १५.२ ।।

परशुं च गृहीत्वोर्व्यां नृपान्सर्वान्प्रगृह्य च ।
जघान किलभूयोऽपि रामो भीमपराक्रमः ।। १५.३ ।।

स्थापयेच्छत्रुनाशाय रामं परशुधारिणं ।
श्रीप्रतिष्ठितके चैव अङ्गनाकार एव च ।। १५.४ ।।

मध्यमं दशतालेन रामं द्विभुजमाचरेथ् ।
परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणं ।। १५.५ ।।

वाममुद्देशहस्तं च जटामुकुटशोभितं ।
रक्तवर्णयुतं चैव श्वेतांबरधरं तथा ।। १५.६ ।।

सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेथ् ।
तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजं ।। १५.७ ।।

अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।
"रामं ऋषिसुतं विष्णुं परशुपाणिऽमितीरयेथ् ।। १५.८ ।।

इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेथ् ।
"विष्णुर्वरिष्ठऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ।। १५.९ ।।

उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत्दाशरधिः ।
रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः ।। १५.१० ।।

त्रीन्लोकान्पीडयामास वरदानेन गर्वितः ।
देवास्संपीडितास्सर्वे मुनयश्चाखिलास्तथा ।। १५.११ ।।

तैर्देवैर्मुनिभिस्सर्वैः संस्तुतो हरिरव्ययः ।
तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः ।। १५.१२ ।।

अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य चऽ ।
रामस्तु राक्षसान्हत्वा सर्वान्लोकानपालयते ।। १५.१३ ।।

पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः ।
कूटागारेंगनाकारे फेलाकारं चतुष्फुटं ।। १५.१४ ।।

स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः ।
राघवं तु प्रतिष्ठाप्य यथा वत्संप्रपूजयेथ् ।। १५.१५ ।।

अथातस्संप्रवक्ष्यामि रामलक्ष्मण लक्षणं ।
सीताया वायुपुत्रस्य भरतस्यासुजस्य च ।। १५.१६ ।।

मानोन्मानप्रमाणानि वक्ष्ये संक्षेपतः क्रमाथ् ।
उत्तमं दशतालेन मध्यमेन यथाक्रमं ।। १५.१७ ।।

उत्तमं राघवेन्द्रस्य मध्यमं लक्ष्मणस्य च ।
अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेथ् ।। १५.१८ ।।

नवतालेन मानेन वायुपुत्रं प्रकल्पयेथ् ।
अधमं दशतालेन भरतस्यानुजस्य च ।। १५.१९ ।।

एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः ।
गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते ।। १५.२० ।।

उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै ।
तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेथ् ।। १५.२१ ।।

इष्यते गर्भमानन्तु पुष्यमानं? विभज्य च ।
उत्तमं पञ्चभागं तु चतुर्भागं तु मध्यमं ।। १५.२२ ।।

त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः ।
गर्भमानं प्रवक्ष्यन्ति द्वारमानन्तु वक्ष्यते ।। १५.२३ ।।

सप्तभागे चतुर्भागमुत्तमं तु विधीयते ।
त्षंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेथ् ।। १५.२४ ।।

द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः ।
रामस्याथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयं ।। १५.२५ ।।

आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणं ।
भरतस्यामजस्यापि तथा गलसमं भवेथ् ।। १५.२६ ।।

उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलं ।
षष्टिद्विगोलगं विद्यादेकत्षंशत्रिभागीकम्? ।। १५.२७ ।।

तालानि दशभागैकमुत्तमं दशतालकं ।
चतुर्भागाष्टभागं स्याच्चतुस्तालं तथैव च ।। १५.२८ ।।

दशतालस्य त्षंशेन उत्तमं मध्यमाधमं ।
मध्यमादधमं हीनं मुखे वार्धाङ्गुलक्षयं ।। १५.२९ ।।

उष्णीषमङ्गुलं नेत्रं शिरस्त्षङ्गुलमिष्यते ।
ललाटे हनुपर्यन्तं त्रयोदशार्धाङ्गुलं भवेथ् ।। १५.३० ।।

गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियङ्गुला ।
हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयं ।। १५.३१ ।।

मुखायामं चतुर्मात्रं लिङ्गं पञ्चाङ्गुलायतं ।
नाभिरर्धाङ्गुलं ज्ञेयं निम्नार्धवरितालका ।। १५.३२ ।।

श्रोणी भागार्धमेवं स्यात्कटिः पञ्चाङ्गुलं भवेथ् ।
मेढ्रमूलादिजान्वन्तं सप्तविंशतिकांगुलं ।। १५.३३ ।।

जानुभागमिति प्रोक्तं जङ्घोरू सुसमायुतौ ।
चरणं चतुरङ्गुल्यं मनोर्देशविधानतः ।। १५.३४ ।।

ब्रह्माङ्गुलमूखायामं त्रयोदशांगुलमेव च ।
कनिष्ठांगुलमायाममेकादशांगुलं भवेथ् ।। १५.३५ ।।

अक्ष्णामुष्णीषपर्यन्तं भागार्धाङ्गुलमुच्छ्रयं ।
हिक्कासूत्रान्तमेवं स्वात्स्कन्धमूलद्वयं भवेथ् ।। १५.३६ ।।

स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेथ् ।
भुजद्विमुखमायामं कूर्परं च कलायतं ।। १५.३७ ।।

प्रकोष्ठं विंशदङ्गुल्यं हस्तायाममिति स्मृतं ।
नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणं ।। १५.३८ ।।

आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेथ् ।
ईषत्कुञ्चितमात्रन्तु मात्रार्धं समकुञ्चितं ।। १५.३९ ।।

द्विकलाकुञ्चितं ज्ञेयं त्रिविधं कुञ्चितं भवेथ् ।
पाष्णोन्य्रन्तरसंयुक्तं पञ्चागुलसमन्वितं ।। १५.४० ।।

पादाङ्गुष्ठान्तरं चैव त्रयोदशांगुलमीरितं ।
उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेथ् ।। १५.४१ ।।

नीव्रं कण्ठयवानान्त द्विमुखं विस्तरं भवेथ् ।
दक्षिणे लंबहस्तन्तु ऊरुमूलौ समं भवेथ् ।। १५.४२ ।।

नीव्रं पञ्चांगुलं चैवत्रयोदशांगुलमीरितं ।
हस्तन्तु द्व्यङ्गुल चेति कटीबाहू षडङ्गुलं ।। १५.४३ ।।

त्रियुजा कुञ्चितं स्थित्या त्रिभङ्गाग्र विराजितं ।
दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेथ् ।। १५.४४ ।।

दक्षिणं मुखमाश्रित्य त्रिभङ्गाङ्ग मथोच्यते ।
श्रुङ्गारगुणसंयुक्तं किरीटं वा विशेषतः ।। १५.४५ ।।

वज्रं पुल्लिङ्गवायुक्तं मकरकुण्डलमंयुतं ।
किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतं ।। १५.४६ ।।

उष्णीषं केशपृष्ठान्ते त्रयोदशांगुलमायतं ।
ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः ।। १५.४७ ।।

जानकीं समभङ्गेन वामहस्तेव पुष्पधृथ् ।
दक्षिणं संप्रसार्यैव रुक्मवर्णान्तु कारयेथ् ।। १५.४८ ।।

श्यामवस्त्रधरां चैव दिव्यस्त्रीमण्डनोपमां ।
लक्ष्मणं समभङ्गेन तप्तकाञ्चनसन्निभं ।। १५.४९ ।।

भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकं ।
लक्ष्मणस्याथ वामे तु स्थितौ बाणधनुर्धरौ ।। १५.५० ।।

हनूमन्तं पिङ्गलाभं वार्ताविज्ञापने परं ।
एवं सायुधवर्गन्तु वक्ष्यतेऽत्र निरायुधं ।। १५.५१ ।।

प्रसारि दक्षिणं पादमितरच्चैव कुञ्चितं ।
दक्षिणे नाभयं हस्तं वामं कटिकमुच्यते ।। १५.५२ ।।

स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः ।
दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेथ् ।। १५.५३ ।।

"रामं दाशरथिं विष्णुं काकुत्स्थऽमिति चाह्वयेथ् ।
"सीतामयोनिजां लक्ष्मीं वैदेहीऽमिति चाह्वयेथ् ।। १५.५४ ।।

"रामानुजं च स्ॐइत्रिं लक्ष्मणं लक्ष्मिवर्धनम्ऽ ।
"भरतं रामप्रियं चेति कैकैयीसुतमेव च ।। १५.५५ ।।

सद्वृत्तऽमिति चावाह्य भरतस्य विशेषतः ।
"शत्रुघ्नं सुमनस्कं च लक्ष्मणानुजमेव च ।। १५.५६ ।।

दशरथोद्भवऽमित्येव शत्रुघ्नं च समाह्वयेत्
कपिराजं हनूमन्तं शब्दराशिं महामतिम्, ।। १५.५७ ।।

जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः ।
"रायामीऽशेति मन्त्रेण शतमष्टाधिकं यजेथ् ।। १५.५८ ।।

"श्रिये जातऽश्च सीताया होमे मन्त्र उदीरितः ।
"तन्मा यशोग्रऽ मन्त्रेण भरतस्य च हूयते ।। १५.५९ ।।

"शन्नो निधत्ताऽमुच्चार्य लक्ष्मणस्य हुनेत्सुधीः ।
"भूमानन्तोग्रऽ इत्युक्त्वा शत्रुघ्नस्य समाचरेथ् ।। १५.६० ।।

"मरुतः परमाऽत्मेति मारुतस्येव मारुते ।
सर्वत्र जुहुयान्मन्त्रं शतमष्टाधिकं बुधः ।। १५.६१ ।।

अर्चनं चोत्सवं चैव स्नपने च हरेरिव ।
हली
दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलं ।। १५.६२ ।।

बलभद्रं विदुस्सोऽपि वसुदेवस्य संबभौ ।
भूभारमोचनार्थाय विष्णुस्सबलभद्रकः ।। १५.६३ ।।

हत्वानरककंसादीन्सर्वान्लोकानपालयथ् ।
एवं स्थापयितुं राममिच्छेत्कारयितं च यः ।। १५.६४ ।।

सोमछन्दविमाने वा हस्तिपृष्ठेऽथ वाबुधः ।
तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकं ।। १५.६५ ।।

दशतानेन मानेन कृत्वा रूपं समाहितः ।
दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च ।। १५.६६ ।।

श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढं ।
बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच ।। १५.६७ ।।

तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेथ् ।
एवं तु सायुधं कुर्याद्वक्ष्येऽहं तु निरायुधं ।। १५.६८ ।।

वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ।
अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेथ् ।। १५.६९ ।।

अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेथ् ।
"रामं यदुवरं विष्णुं हलायुधऽमितिक्रमाथ् ।। १५.७० ।।

"इन्दिरां रेवतीं चैव लक्ष्मीं रामप्रियाऽमिति ।
एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववथ् ।। १५.७१ ।।

"क्ष्मामेकाऽमिति मन्त्रेण शतमष्टाधिकं यजेथ् ।
अर्चनं चोत्सवं चैव स्नपनं च हरेरिव ।। १५.७२ ।।

इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णऽधिकारे पञ्चदशोऽध्यायः