भृगुसंहिता/चतुस्त्रिंशोऽध्यायः

← त्रयस्त्रिंशोऽध्यायः भृगुसंहिता
चतुस्त्रिंशोऽध्यायः
[[लेखकः :|]]
पञ्चत्रिंशोऽध्यायः →

अथ चतुस्त्रिंशोऽध्यायः

स्वयंव्यक्तादि स्थानपञ्चकम्.

अत ऊर्ध्वं प्रवक्ष्यामि स्थलपञ्चककल्पनं ।
देवदेवो महाबाहुर्हरिर्नारायणस्स्वयं ।। ३४.१ ।।

येन येन प्रकारेण आविरास्तेधरातले ।
अर्चावताररूपेण भक्तसौलभ्यहेतवे ।। ३४.२ ।।

स्वयंव्यक्तं च दिव्यं च सैद्धं पौराणमेव च ।
पौरुषं चेति कथितं स्थलानां पञ्चकं बुधैः ।। ३४.३ ।।

स्वयंव्यक्तं तु तत्प्रोक्तं यत्रासौ हरिव्ययः ।
स्वेच्छया लोकरक्षाये भूम्यामाविर्भवेत्स्वयं ।। ३४.४ ।।

न तत्र देवदेवस्य प्रतिष्ठा विधिसम्मता ।
न चापि कर्षणं नापि बिंबशुद्ध्यादिकाः क्रियाः ।। ३४.५ ।।

बिंबेन सह देवेशस्सन्निधत्ते यतस्स्वयं ।
यानदिच्छा वसेद्भूमौ तावत्कालं समर्चितः ।। ३४.६ ।।

स्वयंव्यक्तस्थले पूजा सर्वलोकशुभप्रदा ।
स्वयंव्यक्तस्थलान्यत्र चत्वार्यासत भूतले ।। ३४.७ ।।

यत्र वैखानसं शास्त्रमाश्रित्य परमं शुभं ।
अर्चयामो जगद्योनिमहमन्ये च ते त्रयः ।। ३४.८ ।।

मरीचिर्मन्धरे विष्णुमर्चयामास केशवं ।
सर्वदेवोत्तमं देवं श्रीनिवासेऽत्रिरर्चयथ् ।। ३४.९ ।।

काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रेऽप्यहं भृगुः ।
यादृशीवर्तते पूजा या बिंबानां च संस्थितिः ।। ३४.१० ।।

न किं चित्तामतिक्रम्य पूर्वोक्तां तु समाचरेथ् ।
स्वयमाविरभूद्देवो यत्र भक्तानुकंपया ।। ३४.११ ।।

कर्तव्यमखिलं तत्र तन्निदेशेन कल्प्यते ।
न वाप्युच्छास्त्रकरणं प्रवर्तयति माधवं ।। ३४.१२ ।।

तस्मात्सर्वप्रयत्नेन पूर्वैराचरितं चरेथ् ।
अन्यथा चेत्तु कुर्वाणो देवायैवापराध्यति ।। ३४.१३ ।।

यन्मायामोहितं सर्वं यस्यान्तं केऽपि नो विदुः ।
तस्य देवस्य माहात्म्यं वक्तुं शक्नोति को भुवि ।। ३४.१४ ।।

यद्यदा चरितं तत्र तत्सर्वं शास्त्रमेव हि ।
तत्रापि च विशेषोऽस्ति प्रायश्चित्तादिदर्शने ।। ३४.१५ ।।

सर्वं प्रामादिकं कुर्यात्तत्र शास्त्रं प्रवर्तकं ।
श्रुतिस्मृती उभेतस्य परमाज्ञां वदन्ति ही ।। ३४.१६ ।।

स्वयंव्यक्तस्थले पूजा सर्वलोकशूभावहा ।
स्वयं व्यक्तो जगन्नाथस्तादात्म्येन शिलादिषु ।। ३४.१७ ।।

स्वयं भक्तजनाभीष्टान्विचार्यैव प्रयच्छति ।
न ह्यत्र साधनापेक्षा स्वयंन्यक्तस्ततो वरः ।। ३४.१८ ।।

देवैः प्रतिष्ठितो यत्र हरिराविर्बभूव हि ।
तद्दिद्यस्थलमुद्दिष्टं देवो दिव्य उदीर्यते ।। ३४.१९ ।।

स्मृता देवास्त्रयस्त्रिंशत्तावत्कोटीमिता अपि ।
सर्वे ते फलकामास्स्युर्वे प्रपद्यन्ते यथा हरिं ।। ३४.२० ।।

तांस्तथा भजते देवो यतोऽसौ करुणानिधिः ।
फलार्थिनो यदा देवाः प्रतिष्ठ्याप्य हरिं क्रमाथ् ।। ३४.२१ ।।

समभ्यर्च्य च संप्राप्य वांभितं तदनन्तरं ।
लोकानुग्रहहेतोर्वै तादृशं देवमन्दिरं ।। ३४.२२ ।।

चिरस्थायि च संकल्प्य यथार्हं समपूजयन् ।
दिव्यस्थलस्थदेवो हि देवानां सन्निधापनाथ् ।। ३४.२३ ।।

अत्यन्तं पुष्टिवः प्रोक्तस्सर्वशान्तिकरस्सृतः ।
दिव्यस्थलस्थपूजा तु शतयोजनविस्तृतं ।। ३४.२४ ।।

पुनाति परितो देशं नात्र संदेह इष्यते ।
दिव्यस्थलानि कथितान्यसंख्येयानि भूतले ।। ३४.२५ ।।

न हि देवास्स्वयं भूमाववतीर्य कलौ क्वचिथ् ।
प्रतिष्ठां देवदेवस्य कुर्वन्ति कुहिचिद्ध्रुवं ।। ३४.२६ ।।

दिव्यस्थलानि भूभागे कलौ तु विरलानि वै ।
भविष्यन्ति बहून्यत्र लुप्तबूजानि सत्तमाः ।। ३४.२७ ।।

दिव्यस्थलकृता पूजा शास्त्रसिद्धा न संशयः ।
नोच्छास्त्रं तु प्रतिष्ठादि कुर्वन्तिदिवि देवताः ।। ३४.२८ ।।

देवाश्च देवलोकेऽपि कृत्वा वैष्णवमन्दिरं ।
आराध्य च जगन्नाथं प्राप्नुवन्ति फलं बहु ।। ३४.२९ ।।

या तु भूमितले पूजा तादृशी दिविजा न वै ।
कर्मभूमिस्तु संप्रोक्ता भूमिर्द्यैर्न हि तत्समा ।। ३४.३० ।।

संचिन्त्य पुण्यं पापं वा भूमौ लोकान्तरेनराः ।
गमिष्यन्तिततो ज्यायान्भूभागस्सर्वकर्मसु ।। ३४.३१ ।।

ततो देवाः प्रतिष्ठाप्य चार्चयित्वा रमापतिं ।
अर्चावताररूपेण स्वयं तीर्णाः पुनः पुनः ।। ३४.३२ ।।

भूमिस्थानखिलान्जन्तून्तार्ययिष्यन्त्यनुग्रहाथ् ।
अतो विप्रास्सदा यज्ञैर्दानैश्च तपसा मुहुः ।। ३४.३३ ।।

तोषयिष्यन्ति देवान्वै तेषामानृण्यहेतवे ।
देवा निसर्गरिपवो मनुष्येषु भवन्त्यपि ।। ३४.३४ ।।

आराधनेन देवस्य चोपकुर्वन्ति मानवान् ।
इदमेव हरेः पूजाबलं संपादितं फलं ।। ३४.३५ ।।

सर्वेऽपि सात्त्विका यान्ति तुष्यन्ति स्वार्जितैः फलैः ।
न द्विष्यन्ति रिपून्वापि तत्रो दाहरणं सुराः ।। ३४.३६ ।।

यथा च्यवनधर्मा स्यात्स्वर्गस्स्वर्गाश्रितोऽथ वा ।
तथादिन्यस्थलानिह न स्युश्शाश्वतिकानि तु ।। ३४.३७ ।।

दिव्यस्थलेषु सर्वत्र दिव्येनैवागमेन तु ।
वैखानसेन पूजासीत्साहि श्रौती च सम्मता ।। ३४.३८ ।।

प्रायश्चित्तोचितान्यत्र निमित्तानि यदातदा ।
शास्त्रोक्तं कारयेदेव नान्यथा कारयेद्विधिः ।। ३४.३९ ।।

ये तु पूर्वार्जितैरेव तपोभिः परमात्मनि ।
रक्तात्मानस्तपस्सिद्धास्संकल्प्य स्वतपःफलं ।। ३४.४० ।।

देवदेवं जगन्नाथं नारायणमनायं ।
प्रतिष्ठाप्य क्वचिद्बिंबे समभ्यर्च्य विशेषतः ।। ३४.४१ ।।

उज्जीवनाय लाकानां प्रदास्यन्तीह पूजनं ।
स देशस्सैद्ध इत्युक्तस्सैद्धा तत्रार्चनोच्यते ।। ३४.४२ ।।

न हि सिद्धास्तपस्सिद्धिं कुर्वन्ति विभलां क्वचिथ् ।
यस्यानुग्रहमिच्छन्तस्तपस्यन्तीह साधवः ।। ३४.४३ ।।

यं प्रसादयितुं विप्रा यज्ञदानादि कुर्वते ।
तस्यैवाराधनं हित्वा किं सिद्धास्संप्रकुर्वते ।। ३४.४४ ।।

ते सिद्धास्ते महात्मानस्ते सन्त न्ते तपस्विनः ।
ये स्वकर्मफलं देवं विदित्वा श्रीपतिं हरिं ।। ३४.४५ ।।

प्रतिष्ठाप्य तु तद्रूपमर्चयन्ति निरन्तरं ।
न ह्यन्यः प्रापणे हेतुरर्चनान्मुक्तिहेतवे ।। ३४.४६ ।।

सैद्धस्थले तु या पूजा सर्वशान्तिकरी स्मृता ।
पञ्चाशद्योजनं तस्य परितः पावयेन्महीं ।। ३४.४७ ।।

सिद्धप्रतिष्ठिता देशा बहवो विदिताः पुरा ।
उत्पद्यन्ते भविष्यन्ति सन्तिसिद्धा धरातले ।। ३४.४८ ।।

सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च ।
सिद्धा वैखानसं शास्त्रमाश्रित्यैव स्वनिर्मितं ।। ३४.४९ ।।

देवं संपूजयन्तीह तत्प्रायः प्रचलत्यपि ।
न हि सिद्धाः प्रकुर्वन्तिकिञ्चिदुच्छास्त्रमापदि ।। ३४.५० ।।

तस्मात्सर्वप्रयत्नेन सर्वं सिद्धाश्रितस्थले ।
कुर्याद्वैखानसं शास्त्रमाश्रित्य सकलाः क्रियाः ।। ३४.५१ ।।

सिद्धा जानन्ति शास्त्रार्थान्सिद्धा जानन्ति चागमान् ।
सिद्धास्समर्चयन्त्येव वैखानसविधानतः ।। ३४.५२ ।।

यदि सिद्धाश्रितो देशःपूज्यतेऽन्यैः प्रमादतः ।
राजा तं तु विचार्यैव पुनर्वैखानसैःक्रमाथ् ।। ३४.५३ ।।

सत्वरं याजयेत्कृत्वा प्रायश्चित्तं यथाविधि ।
सैद्धमेके स्थलं प्राहुरार्षमेतच्च सम्मतं ।। ३४.५४ ।।

अथ पौराणिको देशः कथ्यते यत्र यत्र वै ।
गाधा पौराणिकी भूयात्तत्पुराणस्थलं मतं ।। ३४.५५ ।।

अज्ञातकर्तृकाण्यत्र स्मर्यन्ते प्रायशो बहु ।
स्थलानीमानितत्तानि?पुराणानि प्रचक्षते ।। ३४.५६ ।।

पुराणानि त्वनन्तानि स्थलानि पृथिवीतले ।
भवन्त्यथ कलौ प्राप्ते लुप्यन्ते तान्यनेकशः ।। ३४.५७ ।।

दशयोजनपर्यन्तां भूमिं तु परितस्सकृथ् ।
पुनाति देशः पौराणस्तत्र किं चिन्न हीयते ।। ३४.५८ ।।

स्वयंव्यक्तादयस्सर्वे पौराणाः कीर्तिता अपि ।
स्वयंव्यक्तादिभेदेन व्यवहारस्य दर्शनाथ् ।। ३४.५९ ।।

पुराणत्वं च तेषां स्यादन्यत्पौराणमुच्यते ।
पुराणस्थलदेवस्य प्रतिष्ठा विधिसम्मता ।। ३४.६० ।।

प्रतिष्ठिते त्वविधिना स्थरे नैव रमेद्धरिः ।
न हि वृद्धास्समर्चन्ति बिंबमुच्छास्त्रनिर्मितं ।। ३४.६१ ।।

न हि पौराणिके देशे यजमानस्य गौरवं ।
अर्थस्य गौरवं चापि दर्शनीयं महात्मभिः? ।। ३४.६२ ।।

यदि पश्येद्विसूढात्मा रौरवं नरकंव्रजेथ् ।
एष एव विशेषस्स्यादन्यत्सैद्धवदाचरेथ् ।। ३४.६३ ।।

पुराणस्थलपूजा तु शास्त्रदृष्टेन वर्त्मना ।
प्रमादेतु समीकार्यान तेन स्याद्व्यतिक्रमः ।। ३४.६४ ।।

मानुषं पञ्चमं प्रोक्तं स्थलं यत्र विशेषतः ।
ग्रामे वा नगरे वापि शास्त्रोक्ते सुमनोरमे ।। ३४.६५ ।।

प्रतिष्टाप्यार्चके विष्णुस्सर्वदेवेश्वरेश्वरः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैर्वान्यैर्नरोत्तमैः ।। ३४.६६ ।।

वैखानसेन शास्त्रेण पञ्चरात्रेण वा पुनः ।
मानुषस्थलपूजा तु योजनं परितस्थ्सलं ।। ३४.६७ ।।

पापयेत्तस्य तु प्रोक्ताशक्तिरन्यातु तावती ।
मनुष्याः पुण्यकर्माणस्तत्र तत्र दिने दिने ।। ३४.६८ ।।

प्रेरिता भगवद्भक्त्याधनिनो निर्धना अपि ।
निर्माय भगवद्गेहं प्रतिष्ठाप्य श्रियःपतिं ।। ३४.६९ ।।

अर्चयन्ति विशेषेण वैखानसविधानतः ।
विशालः पृथिवीभागः कालोऽनादिरन्तकः ।। ३४.७० ।।

शास्त्रं चाप्यतिगंभीरं भक्ताश्च बहवो हरौ ।
तस्मात्सर्वप्रयत्नेन सर्वस्याप्यनुशासनं ।। ३४.७१ ।।

प्रोक्तं विखनसा पूर्वं भगवच्छास्त्रमुत्तमं ।
अनेनैव प्रकारेण सर्वत्राराधयेद्धरिं ।। ३४.७२ ।।

भक्ताश्च बहुधा शास्त्रं प्रशंसन्तीदमेव ही ।
तदुक्तेनैव विधिना कल्पयेदालयादिकं ।। ३४.७३ ।।

यथा मानाधिकरणे मया प्रोक्तस्स विस्तरः ।
यत्र वा दृश्यते भेदो भगवच्छास्त्रशिल्पयोः ।। ३४.७४ ।।

शिल्पशास्त्रं परित्यज्य भगवच्छास्त्रतश्चरेथ् ।
प्रधानमेतच्छास्त्रं स्याद्भगवद्गेहकल्पने ।। ३४.७५ ।।

न तच्छास्त्रमनादृत्य कार्यं किं चित्समाचरेथ् ।
लोभान्मोहादथाज्ञानाच्छास्त्रेऽस्मिन्न धृतं चरेथ् ।। ३४.७६ ।।

अतिक्रम्यापि शास्त्रं तत्पूजा निष्भला भवेथ् ।
यजमानो विपद्येत तस्मादत्रोक्तमाचरेथ् ।। ३४.७७ ।।

तेनैव तु विधानेन प्रतिष्ठादिकमाचरेथ् ।
ऐहिकामुष्मिकं यस्मात्फलद्वयमवाप्यते ।। ३४.७८ ।।

ग्रामे विष्ण्वर्चनाहीने विष्ण्वर्चाहीनवेश्मनि ।
तीर्थपानं सुरापानमन्नं गोमांसभक्षणं ।। ३४.७९ ।।

देवधामविहीनं तु श्मशानं ग्राम उच्यते ।
गृहं च चितितुल्यं स्याद्यत्र नाराध्यते हरिः ।। ३४.८० ।।

यो मोहादथ वालस्यादकृत्वा देवतार्चनं ।
भुङ्क्ते स याति नरकान्सूकरेष्वसि जायते ।। ३४.८१ ।।

केशवार्चागृहे यस्य न तिष्ठति शूभप्रदा ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तथ् ।। ३४.८२ ।।

बिंबशुद्ध्यादिकं कृत्वा शास्त्रोक्तविधिना पुनः ।
कलान्यासादिकं सर्वं विधाय परमेश्वरः ।। ३४.८३ ।।

प्रतिष्ठाप्यार्च्यते यत्र परितो योजनावधि ।
पूयतेऽनुग्रहाद्विष्णोः स देशोऽप्राकृतस्स्मृतः ।। ३४.८४ ।।

तत्र पार्षदसंयुक्तश्श्रिया लक्ष्म्या समन्वितः ।
यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः ।। ३४.८५ ।।

तत्र देवास्त्रयस्त्रिंशत्पितरः पन्नगाश्च ये ।
साध्या विद्याधरा यक्षास्सर्वा वै देवयोनयः ।। ३४.८६ ।।

सर्वसंवत्समृद्धिस्स्यात्पर्जन्यो वर्षुको भवेथ् ।
वायुर्वाति सुखं तत्र सूर्यस्तपति तेजसा ।। ३४.८७ ।।

चन्द्रमाश्शीतलैर्देशं सेवते किरणैस्तथा ।
भूमिस्सस्यवती च स्यात्प्रसन्नं च नभो भवेथ् ।। ३४.८८ ।।

नक्षत्रग्रहताराश्च प्रसादाभिमुखास्समे ।
राजन्वती प्रजा च स्यात्पशुपुत्रसमन्विता ।। ३४.८९ ।।

न व्याधिजं भयं किं चिन्नापि ज्वरकृतं तथा ।
न व्यालजं भयं वापि भवेदत्रन संशयः ।। ३४.९० ।।

नोपप्लवो नृपाणां वा मृगाणां वाप्यपां भवेथ् ।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रास्तत्र निवासिनः ।। ३४.९१ ।।

स्वे स्वे कर्मण्यभिरता भवेयुस्सुखजीविनः ।
आग्निहोत्राश्च हूयन्ते तप्यन्तेऽत्र तपांसि च ।। ३४.९२ ।।

दीयन्ते भूरिदानानि यत्र देवो हरिस्प्वयं ।
अप्राकृतमिमं देशं सन्निधानाच्छ्रियः पतेः ।। ३४.९३ ।।

प्राकृतं यो वदेन्मूढस्स याति नरकं ध्रुवं ।
अप्राकृतमिमं देवं नरो यश्चापनिह्नुते ।। ३४.९४ ।।

चण्डालस्स तु विज्ञेयो निष्कृतिर्नास्य दृश्यते ।
महापातकीनां तद्वद्दृष्टं पातकिनामपि ।। ३४.९५ ।।

उपपातकिनां चापि प्रायश्चित्तं विशेषतः ।
शास्त्रापलापिनां नैव प्रायश्चित्तं प्रदृश्यते ।। ३४.९६ ।।

यस्तु सामान्यभावेन मन्यते स्थलमीदृशं ।
ब्रह्महत्यामवाप्नोति भ्रूणहत्यां तथैव च ।। ३४.९७ ।।

स्वर्णस्तेये च यत्पापं सुरापाने च यद्भवेथ् ।
गुरुतल्पस्य गमने यच्चपापमुदीरितं ।। ३४.९८ ।।

वृषलीगमने यच्च पापं सर्वं तदश्नुते ।
नास्ति शास्त्रात्परं ज्ञानं नस्यात्तस्मात्प्रवर्तकं ।। ३४.९९ ।।

तस्मात्तस्यावमानेन सद्यः पतति दूषकः ।
तस्मिन्देशे विशेषेण सर्वेभागवता हरौ ।। ३४.१०० ।।

देवपादोदकादीनि पीत्वा यास्यन्तिसद्गतिं ।
न हि सर्वोऽपि सर्वत्र स्वयंव्यक्तस्थलादिकं ।। ३४.१०१ ।।

गत्वैवाराधयेद्विष्णुं सदा तच्चाप्यसंभवि ।
अत एव कृपासिंधुर्भगवान्भूतभावनः ।। ३४.१०२ ।।

अर्चावताररूपेण ग्रामे ग्रामे गृहे गृहे ।
अवतीर्य महाबाहुर्भक्तसौलभ्यहेतवे ।। ३४.१०३ ।।

अर्च्यते शास्त्रविधिना तत्र कार्योन संशयः ।
तस्मादप्राकृतं देशं न ब्रूयात्प्राकृतं नरः ।। ३४.१०४ ।।

न च सामान्यभावेन तं पश्येद्यदि पश्यति ।
नश्यत्येव न संदेह इति शास्त्रविनिश्चयः ।। ३४.१०५ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे चतुस्त्रिंशोऽध्यायः.