भृगुसंहिता/त्रयस्त्रिंशोऽध्यायः
← द्वात्रिंशोऽध्यायः | भृगुसंहिता त्रयस्त्रिंशोऽध्यायः [[लेखकः :|]] |
चतुस्त्रिंशोऽध्यायः → |
अथत्रयस्त्रिंशोऽध्यायः.
अर्चावतारमहत्त्वम्.
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः ।
पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ।। ३३.१ ।।
अनुग्रहाय लोकानां भक्तानामनुकंपया ।
परव्यूहादिभेदेन देवदेवः प्रवर्तते ।। ३३.२ ।।
आद्येन पररूपेण व्यूहाख्येनेतरेण तु ।
तथाविभवरूपेण नानाभावमुपेयुषा ।। ३३.३ ।।
अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः ।
अर्चावताररूपेण पञ्चधावस्थितो हरिः ।। ३३.४ ।।
अनौपम मनिर्देस्यं पुनस्स भजते परं ।
विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ।। ३३.५ ।।
परन्धाम परञ्ज्योतिस्सर्वशक्तिमयोऽमलः ।
निर्द्वन्द्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः ।। ३३.६ ।।
अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः ।
सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ।। ३३.७ ।।
आनादिमत्परं ब्रह्म सर्वहेयविवर्जितं ।
व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परं ।। ३३.८ ।।
शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः ।
सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः ।। ३३.९ ।।
नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः ।
अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ।। ३३.१० ।।
समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः ।
दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः ।। ३३.११ ।।
श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ।। ३३.१२ ।।
पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः ।
देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ।। ३३.१३ ।।
स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः ।
तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ।। ३३.१४ ।।
आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु ।
चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ।। ३३.१५ ।।
तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः ।
तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ।। ३३.१६ ।।
पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः ।
क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ।। ३३.१७ ।।
भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः ।
चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ।। ३३.१८ ।।
विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमाथ् ।
व्यापी नारायण इति तन्नामानि ततःक्रमाथ् ।। ३३.१९ ।।
विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः ।
सदाविष्णोरच्युतस्स्याद्य्यापिनोऽंशोऽनिरुद्धकः ।। ३३.२० ।।
धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः ।
तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ।। ३३.२१ ।।
नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः ।
विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ।। ३३.२२ ।।
अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते ।
नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ।। ३३.२३ ।।
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ।
इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे ।। ३३.२४ ।।
ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे ।
आपादतलचूडाग्रं सन्तापयति सन्ततं ।। ३३.२५ ।।
शिखा तत्र च पीताभा तन्वी नीवारशूकवथ् ।
मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महथ् ।। ३३.२६ ।।
स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः ।
पीतांबरधरस्स्ॐयस्सुप्रसन्नश्शुचिस्मितः ।। ३३.२७ ।।
पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः ।
चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ।। ३३.२८ ।।
श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः ।
हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ।। ३३.२९ ।।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।
अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ।। ३३.३० ।।
अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदं ।
नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ।। ३३.३१ ।।
तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः ।
विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ।। ३३.३२ ।।
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ।
विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परं ।। ३३.३३ ।।
अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः ।
अर्चावतारविषये मयाप्युद्देशतस्तथा ।। ३३.३४ ।।
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ।
विचित्रा देहसंपत्तिरीश्वराय निवेदितुं ।। ३३.३५ ।।
कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता ।
मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ।। ३३.३६ ।।
मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकं ।
सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितं ।। ३३.३७ ।।
तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकं ।
सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणं ।। ३३.३८ ।।
दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते ।
वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरं ।। ३३.३९ ।।
सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः ।
सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमथ् ।। ३३.४० ।।
जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते ।
यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ।। ३३.४१ ।।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ।
तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ।। ३३.४२ ।।
जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना ।
विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ।। ३३.४३ ।।
मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदं ।
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणां ।। ३३.४४ ।।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।
तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेथ् ।। ३३.४५ ।।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीं ।। ३३.४६ ।।
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशोऽध्यायः.