भृगुसंहिता/त्रयोविंशोऽध्यायः
← द्वाविंशोऽध्यायः | भृगुसंहिता त्रयोविंशोऽध्यायः [[लेखकः :|]] |
चतुर्विंशोऽध्यायः → |
अथत्रयोविंशोऽध्यायः.
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनं ।
सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ।। २३.१ ।।
महाबेरस्य मानेन नवाङ्गुलमिति स्मृतं ।
तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलं ।। २३.२ ।।
वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतं ।
तन्मध्ये चारकूटं स्यादेकांगुलमुदाहृतं ।। २३.३ ।।
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा ।
अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकं ।। २३.४ ।।
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादराथ् ।
महाबेरस्य हस्तेन द्वादशांगुलमुच्यते ।। २३.५ ।।
तद्वृत्तं तस्य हस्तेन द्वादशांगुलमुच्यते ।
वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलं ।। २३.६ ।।
वृत्तपट्टस्य विस्तारमेकांगुलमुदाहृतं ।
अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ।। २३.७ ।।
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे ।
कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेथ् ।। २३.८ ।।
अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतं ।
उभयोः पादयोश्चैव सिंहेनैव तु कारयेथ् ।। २३.९ ।।
आयसेनैव वा कुर्याद्दारुणा वा तथैव च ।
सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते ।। २३.१० ।।
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः ।
मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ।। २३.११ ।।
विदध्याद्देव देवस्य हेति प्रवरमुत्तमं ।
प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ।। २३.१२ ।।
स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः ।
अथातस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमं ।। २३.१३ ।।
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना ।
कालचक्रं वीरचक्रं सहस्रविकचं क्रमाथ् ।। २३.१४ ।।
करोद्धृतं वीरचक्रं देवस्य मुखमानतः ।
सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ।। २३.१५ ।।
देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितं ।
ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेथ् ।। २३.१६ ।।
मयं महीमयं दिव्यमष्टारं द्वादशारकं ।
एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ।। २३.१७ ।।
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदं ।
ध्रुवबेरमुखायामं द्विगुणायामविस्तृतं ।। २३.१८ ।।
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकं ।
वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतं ।। २३.१९ ।।
षडङ्गुलसमायाममारकूटं तु त्षङ्गुलं ।
यवा कारकरा ज्ञेया उभयत्र प्रवेशता ।। २३.२० ।।
अरकूटेऽथ सिंहं वा मकरं वाथ पद्मकं ।
ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ।। २३.२१ ।।
शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेथ् ।
चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतं ।। २३.२२ ।।
द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेथ् ।
एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेथ् ।। २३.२३ ।।
चक्राधस्तात्तथा नालं द्वादशांगुलमाचरेथ् ।
चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेथ् ।। २३.२४ ।।
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनं ।
षडङ्गुलायतविस्तारां फलकां संप्रकल्पयेथ् ।। २३.२५ ।।
वृत्तं वा चतुरश्रं वा लंबदामसमायुतं ।
त्रियङ्गुलसमुत्सेधं संधयेत्तरिकोपरि ।। २३.२६ ।।
तदधस्तात्तु ताटिं च कुंभलंबकसंयुतं ।
अष्टांगुलसमुत्सेथं कारयेदिति शासनं ।। २३.२७ ।।
अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा ।
कूरदण्डेन संयोज्य फलकोफलपद्मकं ।। २३.२८ ।।
लता प्रस्थतरं वापि कारयेदिति शासनं ।
पद्मं तु त्षङ्गुनायामं विस्तारमधिकांगुलं ।। २३.२९ ।।
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेथ् ।
चक्रं संवहमानौ तौ यावत्तत्र च कालयेथ् ।। २३.३० ।।
तयोर्मानं समुद्दिष्टं पञ्चांगुलमिति स्मृतं ।
दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलं ।। २३.३१ ।।
पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा ।
वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ।। २३.३२ ।।
षाढशांगुलमायामं विस्तारं संप्रकीर्तितं ।
कर्णिकामध्यमे नालमष्टांगुल समायुतं ।। २३.३३ ।।
नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः ।
हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतं ।। २३.३४ ।।
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेथ् ।
सहस्रविकचं चक्रं पुरुषाकारमाचरेथ् ।। २३.३५ ।।
रक्ताभं नीलवर्णं च नवतालेन मानतः ।
द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेथ् ।। २३.३६ ।।
सुदर्शनं तथा चक्रं सहस्रविकचं तथा ।
अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेथ् ।। २३.३७ ।।
शतधारं कालचक्रं सर्वासुरविमर्दनं ।
सर्वविघ्नहरं चेति कालचक्रं समर्चयेथ् ।। २३.३८ ।।
कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनं ।
षट्ट्रिंशदङ्गुलं वापि षट्पञ्चाशच्छताष्टकं ।। २३.३९ ।।
विस्तारायामतोमानमुत्तमाधममध्यमं ।
मानांगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेथ् ।। २३.४० ।।
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा ।
अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ।। २३.४१ ।।
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा ।
दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतं ।। २३.४२ ।।
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेथ् ।
दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेथ् ।। २३.४३ ।।
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनं ।
चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ।। २३.४४ ।।
अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनं ।
तथाधिवासनं कृत्वा गव्यानामधिवासनं ।। २३.४५ ।।
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितं ।
शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतं ।। २३.४६ ।।
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकं ।
प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवथ् ।। २३.४७ ।।
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः ।
अथाधिवासितं चक्रमादायेवाभिषिच्य च ।। २३.४८ ।।
अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः ।
चक्रस्याभिमुखे कुंभं धान्यपीठोपरिक्रमाथ् ।। २३.४९ ।।
सन्न्यस्य तु गुरुर्धीमान्यदितं भावयेत्तथा ।
ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ।। २३.५० ।।
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांजलीकृतं ।
रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक्प्रपूर्य च ।। २३.५१ ।।
तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च ।
वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ।। २३.५२ ।।
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमाथ् ।
सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः ।। २३.५३ ।।
शाययित्वा तथा चक्रं हौत्रं सम्यक्प्रशंस्य च ।
चक्राङ्गान्यायधांगानि मूर्तिमन्त्रान्प्रचक्षते ।। २३.५४ ।।
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः ।
"भूमाननोऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतं ।। २३.५५ ।।
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च ।
स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववथ् ।। २३.५६ ।।
ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा ।
मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ।। २३.५७ ।।
रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा ।
चक्रमन्त्रौ सुसन्न्यस्य बीजान्सन्न्यस्य पूर्ववथ् ।। २३.५८ ।।
कुंभाच्छक्तिं तथावाह्य पूजयेदासनादिभिः ।
पायसाद्यैर्नि वैद्याथ गुरुं सम्यक्प्रपूजयेथ् ।। २३.५९ ।।
इति श्रीवैखानसे
भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे त्रयोविंशोऽध्यायः.