भृगुसंहिता/चतुर्विंशोऽध्यायः

← त्रयोविंशोऽध्यायः भृगुसंहिता
चतुर्विंशोऽध्यायः
[[लेखकः :|]]
पञ्चविंशोऽध्यायः →

अथ चतुर्विंशोऽध्यायः.
उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमं ।
वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदं ।। २४.१ ।।

राज्ञां विजयदानाय शत्रूणां नाशहेतवे ।
व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ।। २४.२ ।।

कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः ।
मासेतु यस्मिन्कस्मिंश्छित्प्रतिसंवत्सरं चरेथ् ।। २४.३ ।।

एकस्मिन्समयेचैव स तु कालोत्सवो भवेथ् ।
इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ।। २४.४ ।।

स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः ।
भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ।। २४.५ ।।

क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः ।
प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ।। २४.६ ।।

कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः ।
राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ।। २४.७ ।।

अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलं ।
राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेथ् ।। २४.८ ।।

अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः ।
ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेथ् ।। २४.९ ।।

सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेथ् ।
अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ।। २४.१० ।।

शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवं ।
विशस्त्रिगणसान्त्यर्थं स्ॐयमार्गेण वास्तुषु ।। २४.११ ।।

चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः ।
सर्वेषामपि देवानां मुनीनामपि सर्वशः ।। २४.१२ ।।

पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः ।
द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ।। २४.१३ ।।

पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमाथ् ।
अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ।। २४.१४ ।।

तस्मात्परिहरेद्विद्वान्ग्रामादौतं विशेषतः ।
विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ।। २४.१५ ।।

ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च ।
उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेथ् ।। २४.१६ ।।

एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया ।
विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ।। २४.१७ ।।

तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा ।
अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ।। २४.१८ ।।

एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयं ।
तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनं ।। २४.१९ ।।

तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः ।
वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ।। २४.२० ।।

वारद्वयानुषक्ते चेत्तिथौ स्यात्तुपरे तथा ।
अधिमासः परित्याज्यः कालोत्सवविधौहरेः ।। २४.२१ ।।

अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते ।
श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ।। २४.२२ ।।

योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः ।
तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि ।। २४.२३ ।।

परस्मिन्दिवसे स्याच्चेद्यावच्च दशनाडिकाः ।
हीनं चेत्पूर्वदिवसे संकल्प्यावभृथं चरेथ् ।। २४.२४ ।।

उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश ।
नवाहं वाथसप्ताहं अधमं परिचक्षते ।। २४.२५ ।।

त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेथ् ।
मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे ।। २४.२६ ।।

अथवावभृथात्पूर्वमेकविंशतिके दिने ।
ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेथ् ।। २४.२७ ।।

राहुदर्शनसंक्रान्त्योः स्नानं श्रेष्ठं निशास्वपि ।
क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ।। २४.२८ ।।

तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेथ् ।
पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमाथ् ।। २४.२९ ।।

नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः ।
त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ।। २४.३० ।।

न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः ।
उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकं ।। २४.३१ ।।

घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणं ।
ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमं ।। २४.३२ ।।

वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा ।
ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ।। २४.३३ ।।

अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न ।
चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमं ।। २४.३४ ।।

तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमं ।
विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ।। २४.३५ ।।

यथालाभपरीणाहमवक्रं परिगृह्य च ।
ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतं ।। २४.३६ ।।

विमानस्याधिकं कुर्यात्पादहीन मथार्ऽधकं ।
अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशं ।। २४.३७ ।।

वेणुकं यदि संग्राह्यं भूतवेदांगुलायतं ।
षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितं ।। २४.३८ ।।

तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढं ।
तालद्वयमथायामं यममात्रन्तु विस्तृतं ।। २४.३९ ।।

उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा ।
तच्चतुर्थांशकं कृत्वा मूलेऽग्रेद्व्यंशकन्त्यजेथ् ।। २४.४० ।।

मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतं ।
शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमाथ् ।। २४.४१ ।।

प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेथ् ।
दशदर्भयुतं कूर्चमग्रेचैव तु योजयेथ् ।। २४.४२ ।।

दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् ।
मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतं ।। २४.४३ ।।

दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेथ् ।
संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ।। २४.४४ ।।

खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च ।
मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेथ् ।। २४.४५ ।।

स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रविथ् ।
देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेथ् ।। २४.४६ ।।

ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेथ् ।
मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतं ।। २४.४७ ।।

तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकं ।
शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढं ।। २४.४८ ।।

उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकं ।
अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ।। २४.४९ ।।

पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमाथ् ।
अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ।। २४.५० ।।

चतुर्भागं पटं कुर्यादेकभागं शिरो भवेथ् ।
वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ।। २४.५१ ।।

मध्यमस्याग्रमूलं च यष्टिं सम्यक्प्रयोजयेथ् ।
तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतं ।। २४.५२ ।।

ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेथ् ।
अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेथ् ।। २४.५३ ।।

एकै मगथमान्तं च नवधा मानमुच्यते ।
ध्वजदण्डस्य वीशस्य षट्शुभानि निरीक्षयेथ् ।। २४.५४ ।।

यजमानानुकूले च नक्षत्रे च विशेषतः ।
नवार्धतालमानं वा नवतालमथापि वा ।। २४.५५ ।।

अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितं ।
वामपादे समाकुञ्च्य दक्षिणं संप्रसार्य च ।। २४.५६ ।।

किञ्चित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतं ।
पक्षद्वयसमायुक्तं करण्डमुकुटान्वितं ।। २४.५७ ।।

श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु ।
एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ।। २४.५८ ।।

गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः ।
भूषणैरष्टनागैश्च वामहस्ते त्वनन्तकः ।। २४.५९ ।।

वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकं ।
हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ।। २४.६० ।।

महापद्मं वामकर्णे शङ्ख च शिरसि क्रमाथ् ।
गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणं ।। २४.६१ ।।

मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरं ।
पार्श्वयोरुभयोश्चापि चामरद्वय संयुतं ।। २४.६२ ।।

पादपार्श्वद्वयेचैव दीपद्वय समन्वितं ।
पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, ।। २४.६३ ।।

तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः ।
मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतं ।। २४.६४ ।।

पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणं ।
देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ।। २४.६५ ।।

पञ्चवर्णैरलङ्कृत्य वितानस्तंभवेष्टनैः ।
शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेथ् ।। २४.६६ ।।

वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेथ् ।
पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ।। २४.६७ ।।

ऐशान्यामग्निकुण्डे तु चौवासन विधानतः ।
आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ।। २४.६८ ।।

हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः ।
तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेथ् ।। २४.६९ ।।

अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेथ् ।
विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ।। २४.७० ।।

व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच ।
तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतं ।। २४.७१ ।।

वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च ।
"इषे त्वोर्ज्येऽत्वादि जपन्"आप उन्दन्त्विऽति क्रमाथ् ।। २४.७२ ।।

ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् ।
कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ।। २४.७३ ।।

तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेथ् ।
अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ।। २४.७४ ।।

"शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः ।
शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेथ् ।। २४.७५ ।।

परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयतां ।
सायमर्चावसाने तु कुंभपूजां समाचरेथ् ।। २४.७६ ।।

कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः ।
अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ।। २४.७७ ।।

शयने शाययेच्चैव देववादे शिरस्तथा ।
हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ।। २४.७८ ।।

वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेथ् ।
मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेथ् ।। २४.७९ ।।

"शतधारं कदाऽवीति वीशमन्त्रमुदाहृतं ।
तथाद्वादशपर्यायं वैष्णवं च सुहूयतां ।। २४.८० ।।

व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च ।
आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेथ् ।। २४.८१ ।।

पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः ।
मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेथ् ।। २४.८२ ।।

कुंभाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः ।
पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेथ् ।। २४.८३ ।।

अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमाथ् ।
अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेथ् ।। २४.८४ ।।

उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतं ।
धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेथ् ।। २४.८५ ।।

चतुरश्रं समं कृत्वा विस्तारं चैकभागकं ।
शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेथ् ।। २४.८६ ।।

चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितं ।
तस्यैवोत्तरतः पार्श्वेविष्वक्सेनं तथैव च ।। २४.८७ ।।

धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखं ।
न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेथ् ।। २४.८८ ।।

देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः ।
द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेथ् ।। २४.८९ ।।

चक्रादीनां पृथक्कुर्यादासनादीन्पृथक्पृथक् ।
नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेथ् ।। २४.९० ।।

आचार्यो यष्टिमादाय "भूर्भुवस्सुवऽ रीरयन् ।
"उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेथ् ।। २४.९१ ।।

वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः ।
सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रविथ् ।। २४.९२ ।।

शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा ।
द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ।। २४.९३ ।।

पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमं ।
मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ।। २४.९४ ।।

कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेथ् ।
अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतं ।। २४.९५ ।।

रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः ।
सह पुष्पं बलिं पात्रे संगृह्यानुगतं पुनः ।। २४.९६ ।।

चक्रवीशामितान्पश्चान्नाथवद्गमयेत्तदा ।
आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतं ।। २४.९७ ।।

गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमं ।
द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ।। २४.९८ ।।

अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेथ् ।
आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेथ् ।। २४.९९ ।।

मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेथ् ।
यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेथ् ।। २४.१०० ।।

उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै ।
ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः ।। २४.१०१ ।।

ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववथ् ।
अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेथ् ।। २४.१०२ ।।

संधौ तत्संधिमादाय प्राच्यां "भूतेभ्यऽइत्यपि ।
देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ।। २४.१०३ ।।

नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमाथ् ।
"ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ।। २४.१०४ ।।

पुष्पं बलिं तथाधावं संदद्याच्चक्रसन्निधौ ।
यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेथ् ।। २४.१०५ ।।

आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमाथ् ।
पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेथ् ।। २४.१०६ ।।

अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः ।
ततोदिक्पालकानां च तथा भूतबलिं क्षिपेथ् ।। २४.१०७ ।।

दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः ।
संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेथ् ।। २४.१०८ ।।

संध्यन्तरगतां संधिमाचरेद्यदि मोहतः ।
कर्मणो वास्तुजातानामनर्धं भवति ध्रुवं ।। २४.१०९ ।।

प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकं ।
कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ।। २४.११० ।।

वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा ।
धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेथ् ।। २४.१११ ।।

इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमाथ् ।
उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेथ् ।। २४.११२ ।।

यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च ।
ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ।। २४.११३ ।।

कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च ।
नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेथ् ।। २४.११४ ।।

पूर्वं क्षिप्त्वा बलिं धीमान्पुनस्तस्य च तस्य च ।
मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेथ् ।। २४.११५ ।।

नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः ।
तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ।। २४.११६ ।।

"प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः ।
ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ।। २४.११७ ।।

देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः ।
विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ।। २४.११८ ।।

सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह ।
विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः ।। २४.११९ ।।

हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ ।
इत्युक्त्वा घोषयेत्संधौ चक्रस्याभिमुखे पुनः ।। २४.१२० ।।

ब्रह्माद्यान्स्वस्वतालैश्च घोषयेद्वादकः पुनः ।
बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ।। २४.१२१ ।।

जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः ।
बलिशिष्टं भूतपीठे "सर्वभूतेभ्यऽ इत्यपि ।। २४.१२२ ।।

बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ ।
धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ।। २४.१२३ ।।

शान्तं चक्रं च चत्स्थाने स्थापयेन्मतिमान्पुनः ।
ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रविथ् ।। २४.१२४ ।।

"स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह ।
मन्त्रेण मतिमान्पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ।। २४.१२५ ।।

दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतं ।
समाबद्ध्य पुनस्स्निग्धं "भूरिऽसीति जपं स्ततः ।। २४.१२६ ।।

अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेथ् ।
पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ।। २४.१२७ ।।

निवेद्य मुखवासं च प्रणाममपि कारयेथ् ।
तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितं ।। २४.१२८ ।।

स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः ।
आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणं ।। २४.१२९ ।।

बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवं ।
(ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ।। २४.१३० ।।

"नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः ।
वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ।। २४.१३१ ।।

गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे ।
वैनतेय महाबाहो महाबल वयोऽधिप ।। २४.१३२ ।।

विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक ।
आहृतामृतकुंभाय जननीदास्यमोचिने ।। २४.१३३ ।।

सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते ।
यदाधारमिदं सर्वं तदाधाराय ते नमः ।। २४.१३४ ।।

पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयं ।
अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयं ।। २४.१३५ ।।

स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ।
नमःप्राणादिवायूनामीशाय गरुडात्मने ।। २४.१३६ ।।

पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसंपदा ।
निरस्तासुरसन्नाह समरे शत्रुसूदन ।। २४.१३७ ।।

प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये ।
कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ।। २४.१३८ ।।

दोषानपनयास्माकं गुणानावह सर्वशः ।
विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि.ऽ ।। २४.१३९ ।।

स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) ।
ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ।। २४.१४० ।।

त्रिकालं वा द्विकालं वा एक कालमधापि वा ।
हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ।। २४.१४१ ।।

पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेथ् ।
"जियमत्युच्छ्रयं धन्यं ध्वजंचेति ध्वजं तथा ।। २४.१४२ ।।

ध्वजमूले तथेन्द्रादीन्दण्डे ब्रह्माणमित्यपि ।
सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनं ।। २४.१४३ ।।

वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः ।
घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीं ।। २४.१४४ ।।

इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेथ् ।
ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ।। २४.१४५ ।।

सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिं ।
शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ।। २४.१४६ ।।

नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेथ् ।
वीशामितौ विना धीमान्तीर्थान्तं सर्वरात्रिषु ।। २४.१४७ ।।

चक्रमेव नयेद्विद्वान्बलिरक्षणहेतवे ।
ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ।। २४.१४८ ।।

त्रिकालं वा द्विकालं वाप्येककालमथापि वा ।
पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेथ् ।। २४.१४९ ।।

ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न ।
उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः ।। २४.१५० ।।

अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरं ।
गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयं ।। २४.१५१ ।।

बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च ।
तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ।। २४.१५२ ।।

अहूतव्या उत्सवार्थे देवास्सम्यक्प्रकीर्तिताः ।
देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ।। २४.१५३ ।।

इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः ।
तथैकादश रुद्राश्च द्वादशाहस्करा अपि ।। २४.१५४ ।।

वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतं ।
एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ।। २४.१५५ ।।

अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः ।
त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ।। २४.१५६ ।।

अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः ।
अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ।। २४.१५७ ।।

देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः ।
असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ।। २४.१५८ ।।

यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः ।
अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ।। २४.१५९ ।।

मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः ।
अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ।। २४.१६० ।।

अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेथ् ।
देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेथ् ।। २४.१६१ ।।

स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती ।
तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा ।। २४.१६२ ।।

परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा ।
ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेथ् ।। २४.१६३ ।।

सिद्धान्विद्याधरांश्चैव गरुडगन्धर्वकिन्नरान् ।
किपूरुषांश्चारणान्देवान्महादिक्षु समर्चयेथ् ।। २४.१६४ ।।

भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च ।
राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेथ् ।। २४.१६५ ।।

राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेथ् ।
तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेथ् ।। २४.१६६ ।।

उत्सवार्थं विशेषेण संभारानाहरेत्ततः ।
रथं च शिबिकां चैव यन्त्रडोलादिकांस्तथा ।। २४.१६७ ।।

कारयित्वा च शिल्पोक्तं दीपानन्यान्प्रगृह्य च ।
भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ।। २४.१६८ ।।

तालवृन्तं ध्वजानन्यान्छत्रचामरबर्हिणः ।
नर्तकान्गायकानन्यान्यथोक्तं पूर्वमाहरेथ् ।। २४.१६९ ।।

आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च ।
परिचारान्समाहूय स्वस्वकर्म निवेदयेथ् ।। २४.१७० ।।

मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः ।
आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रविथ् ।। २४.१७१ ।।

"अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः ।
विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमं ।। २४.१७२ ।।

"आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभं ।
समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेथ् ।। २४.१७३ ।।

कदलीपूगकुंभाद्यैरलङ्कुर्याद्गृहांगणं ।
वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभं ।। २४.१७४ ।।

तद्ग्रामवासिनः सर्वेऽलङ्कृता नान्यतत्पराः ।
नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिं ।। २४.१७५ ।।

तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना ।
नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ।। २४.१७६ ।।

प्रवृत्ते चोत्सवे विष्णोस्स्ॐयमार्गेण वास्तुषु ।
अन्यदेवोत्सवं तत्र नाचरेदिति शासनं ।। २४.१७७ ।।

अस्मिन्देवोत्सवे यागे तद्वास्तुषु विशेषतः ।
संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेथ् ।। २४.१७८ ।।

यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति ।
तस्मात्परिहरेद्धीमान्तीर्थान्तं तेषु वान्तुषु ।। २४.१७९ ।।

उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमेऽथ वा ।
संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेथ् ।। २४.१८० ।।


इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशोऽध्यायः.