भृगुसंहिता/पञ्चविंशोऽध्यायः

← चतुर्विंशोऽध्यायः भृगुसंहिता
पञ्चविंशोऽध्यायः
[[लेखकः :|]]
षड्विंशोऽध्यायः →

अथ पञ्चविंशोऽध्यायः.

उत्सवविधिः

अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः ।। २५.१ ।।

पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा ।
द्विगुणाराधनायैकमेकं कुंभार्चनाय च ।। २५.२ ।।

होमार्थं बलिदानार्थं तथा स्थानार्चनाय च ।
वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ।। २५.३ ।।

आचार्यमुपसंगम्य संपूज्य च विधानतः ।
"कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ।। २५.४ ।।

आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनं ।
स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ।। २५.५ ।।

ऊर्ध्वपुण्ड्रधरस्सम्यक्संध्यादीन्समुपास्य च ।
ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणं ।। २५.६ ।।

जपेद्द्वादशसूक्तानि नारायणमथारुणं ।
आलये संप्रविश्यैव देवेशं संप्रणम्य च ।। २५.७ ।।

देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेथ् ।
यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच ।। २५.८ ।।

देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः ।
श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ।। २५.९ ।।

आचार्यमृत्विजश्चैव संपूज्य विधिना ततः ।
अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ।। २५.१० ।।

नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः ।
पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ।। २५.११ ।।

दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् ।
षण्णिष्कमानं कटकमङ्गदं चांगुलीयकं ।। २५.१२ ।।

एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणं ।
तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ।। २५.१३ ।।

अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेथ् ।
अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजां ।। २५.१४ ।।

आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः ।
प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरं ।। २५.१५ ।।

यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः ।
ततः पद्माग्निमाधाय परिषिच्य च पावकं ।। २५.१६ ।।

यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः ।
वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनं ।। २५.१७ ।।

क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः ।
कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ।। २५.१८ ।।

तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरं ।
बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ।। २५.१९ ।।

ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा ।
हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च ।। २५.२० ।।

जितेन्द्रिया भवेयुस्ते तथाऽधश्सायिनोऽपि च ।
स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः ।। २५.२१ ।।

यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः ।
सूतके मृतके वापि तेषां नाशौच इष्यते ।। २५.२२ ।।

अथवक्ष्येंकुरार्थन्तु मृत्तिकाग्रहणे विधिं ।
शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ।। २५.२३ ।।

विष्वक्सेनं समादाय यानमारोप्य नाथवथ् ।
आचार्यः पुरतोगच्छे "द्विष्णुर्माऽमिति चोच्चरन् ।। २५.२४ ।।

चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः ।
आदर्शहेमकलशपूर्णकुंभांकुरादिभिः ।। २५.२५ ।।

ध्वजत्रयादिकान्सर्वान्पुरस्कृत्य पदार्थिनः ।
प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनं ।। २५.२६ ।।

याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनं ।
अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ।। २५.२७ ।।

स्ॐये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेथ् ।
एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकां ।। २५.२८ ।।

आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः ।
ग्रामदेवालयादारादारामेऽत्र मनोरमे ।। २५.२९ ।।

नदीतटाकतीरे वा सीमामनतिलङ्घ्य च ।
प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेथ् ।। २५.३० ।।

वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान्बुधः ।
प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेथ् ।। २५.३१ ।।

तत्र स्थानं च संप्रोक्ष्य "दधि क्राव्ण्णऽउच्चरन् ।
भूरूपं तु लिखित्वैव "भूमिर्भूऽम्नेति च ब्रुवन् ।। २५.३२ ।।

ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकां ।
देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेथ् ।। २५.३३ ।।

एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेथ् ।
पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ।। २५.३४ ।।

खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते ।
ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदं ।। २५.३५ ।।

स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः ।
अधोभागे मृदं तस्या नाहरेत कदाचन ।। २५.३६ ।।

एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन् ।
"त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ।। २५.३७ ।।

उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः ।
महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकं ।। २५.३८ ।।

अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेथ् ।
वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेथ् ।। २५.३९ ।।

पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेथ् ।
पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेथ् ।। २५.४० ।।

शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः ।
ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेथ् ।। २५.४१ ।।

पूर्वस्मिन्नुत्तरे पार्श्वे वांकुरानर्पयेत्तधा ।
चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ।। २५.४२ ।।

स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेथ् ।
अलयाभिमुखे वापि दक्षिणे वा मनोरमे ।। २५.४३ ।।

यमपावकयोर्मध्ये पावकांशेऽथ वा चरेथ् ।
ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ।। २५.४४ ।।

कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः ।
वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेथ् ।। २५.४५ ।।

प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमाथ् ।
पञ्चाग्नीन्कल्पयेद्धीमानुत्सवे चोत्तमे तथा ।। २५.४६ ।।

त्रेताग्नीन्कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमाथ् ।
अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ।। २५.४७ ।।

त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकं ।
उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ।। २५.४८ ।।

भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि ।
देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ।। २५.४९ ।।

"परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः ।
नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परं ।। २५.५० ।।

आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेथ् ।
देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ।। २५.५१ ।।

कुण्डलांगदहारादिभूषणैरपि भूषयेथ् ।
श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ।। २५.५२ ।।

पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च ।
राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ।। २५.५३ ।।

नवकुभारोपणम्
पूर्वोक्तविधिना धीमान्नव कुंभान्प्रगृह्यच ।
"इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ।। २५.५४ ।।

वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रविथ् ।
चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेथ् ।। २५.५५ ।।

कुंभानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् ।
मङ्गलान्यायुधं रत्नं प्रतिकुंभं पृथक्पृथक् ।। २५.५६ ।।

गायत्षा चैव निक्षिव्य मध्यकुंभे विशेषतः ।
द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववथ् ।। २५.५७ ।।

हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेथ् ।
आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक्पृथक् ।। २५.५८ ।।

वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखं ।
सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखं ।। २५.५९ ।।

पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा ।
दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेथ् ।। २५.६० ।।

अभावे गरुडादीनां स्थाने तत्र च तत्र च ।
कुंभान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमाथ् ।। २५.६१ ।।

यावत्तीर्थावसानं स्यात्तावत्कुंभेतु पार्षदान् ।
सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ।। २५.६२ ।।

पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेथ् ।
उत्तराभिमुख स्तिष्ठन्कुरुर्वेद्यास्तु दक्षिणे ।। २५.६३ ।।

प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेथ् ।
प्रधानकुंभमध्ये तु विष्णुं देव्यौ च सान्वयौ ।। २५.६४ ।।

ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमं ।
पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ।। २५.६५ ।।

नारायणं चानिरुद्धं ततः पुण्यं समर्चयेथ् ।
तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहं ।। २५.६६ ।।

किरीटहारकेयूरलंबयज्ञोपवीतिनं ।
कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजं ।। २५.६७ ।।

दक्षिणेनैकहस्तेन भक्तानामभयप्रदं ।
वामेनाप्यन्यहस्तेन स्वकट्यामवलंबितं ।। २५.६८ ।।

पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परं ।
शुकपिञ्छांबरधरं विष्णुं प्रणवरूपिणं ।। २५.६९ ।।

तप्तहाटकसंकाशां पद्मपत्रायतेक्षणां ।
तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभितां ।। २५.७० ।।

सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीं ।
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां ।। २५.७१ ।।

श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवां ।
विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीं ।। २५.७२ ।।

वामभागे महीं श्यामां सर्वाभरणभूषितां ।
वैशाखे रेवतीजातां दधतीं दक्षिणेऽंबुजं ।। २५.७३ ।।

प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां ।
महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्वितां ।। २५.७४ ।।

पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः ।
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।। २५.७५ ।।

वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः ।
कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक् ।। २५.७६ ।।

दक्षिणेनैकहस्तेव भक्तानामभयप्रदः ।
अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ।। २५.७७ ।।

वामेनाप्यन्यहस्तेन स्वकट्यामवलंब्य च ।
अन्यैश्संखधनुर्दण्डधरस्सुंदर विग्रहः ।। २५.७८ ।।

आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः ।
सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ।। २५.७९ ।।

शङ्खचक्रधरस्य्ॐयस्सर्वाभरणभूषितः ।
वरदोऽभयदस्साधूरक्तवासा महाहनुः ।। २५.८० ।।

देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः ।
यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ।। २५.८१ ।।

सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः ।
शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूं ।। २५.८२ ।।

बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः ।
अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ।। २५.८३ ।।

शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।
वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः ।। २५.८४ ।।

युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः ।
नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ।। २५.८५ ।।

शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।
वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः ।। २५.८६ ।।

संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः ।
अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ।। २५.८७ ।।

अनन्तोत्संग आसीनः पुष्पांबरधरो हरिः ।
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ।। २५.८८ ।।

दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीं ।
वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः ।। २५.८९ ।।

पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः ।
श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ।। २५.९० ।।

चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः ।
श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ।। २५.९१ ।।

इन्दिराधरणीनाथरिशान्यां पुण्यपूरुषः ।
एतान्देवान्समावाह्य समभ्यर्च्याष्टविग्रहैः ।। २५.९२ ।।

वीशानसायिपङ्क्तीशशान्तान्दिक्ष्वर्चयेत्क्रमाथ् ।
सायं प्रातर्विना कुंभैर्देवं वीशामितैस्सह ।। २५.९३ ।।

वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न ।
होत्रप्रशंसनम्
होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।। २५.९४ ।।

प्रतिष्ठोक्तक्रमेणैव तदालयगतान्सुरान् ।
अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ।। २५.९५ ।।

परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमाथ् ।
वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ।। २५.९६ ।।

स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् ।
यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ।। २५.९७ ।।

कुसुमाञ्जलि मुत्सृज्य "प्रतद्विष्णुंऽरिति ब्रुवन् ।
देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ।। २५.९८ ।।

प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः ।
उत्सवप्रतिमाभावे स्नापने वा विशेषतः ।। २५.९९ ।।

स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा ।
कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेथ् ।। २५.१०० ।।

नादरेन्नित्यवैकल्यं विसर्गावाहने तथा ।
आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमं ।। २५.१०१ ।।

कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवं ।
स्नापयेद्यदि चेद्विद्वान्मध्यमे चोत्सवस्य तु ।। २५.१०२ ।।

स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेथ् ।
स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ।। २५.१०३ ।।

संप्रास्ते स्नपने चात्र कौतुके चोत्सवं विना ।
अचरेदेव सांकर्यं नाचरेदुभयोरपि ।। २५.१०४ ।।

उत्सवे वर्तमाने तु कौतुके स्नपनं यदि ।
संभवेदुक्तकाले तु कर्मणी द्वे समाचरेथ् ।। २५.१०५ ।।

पुराप्रवृत्तकार्ये तु दोषो नानेन संभवेथ् ।
कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेथ् ।। २५.१०६ ।।

गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना ।
स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनं ।। २५.१०७ ।।

अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः ।
आवाह्य कर्ममामन्ते तथा साये विसर्जयेथ् ।। २५.१०८ ।।

पात्र रावाहनं नित्यमर्चनादौ विशेषतः ।
विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ।। २५.१०९ ।।

तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः ।
विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेथ् ।। २५.११० ।।

अर्चनान्ते विशेषेण पुण्याहमपि वाचयेथ् ।
हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ।। २५.१११ ।।

सन्न्यस्य पूर्ववद्धीमान्बन्धयेद्दक्षिणेकरे ।
कुंभान्देव्यौच चक्रादीन्समाबद्ध्य समर्चयेथ् ।। २५.११२ ।।

परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकं ।
जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितं ।। २५.११३ ।।

दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतं ।
तथा मासाधिदै वत्यमब्ददै वत्यमेव च ।। २५.११४ ।।

तदालयगतानां च जुहुयान्मूर्तिभिः क्रमाथ् ।
व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ।। २५.११५ ।।

नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ।। २५.११६ ।।

अवसथ्ये महीसूक्तमेकाक्षरमतो यजेथ् ।
जुहुयात्पैण्डरीकाग्ना "वतो देवादिऽ वैष्णवं ।। २५.११७ ।।

विष्णुसूक्तं पुरुषसूक्तं "यद्देवादिऽसमन्वितं ।
पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणं ।। २५.११८ ।।

जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतं ।
अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ।। २५.११९ ।।

एकाग्निमथ वाधाय जुहुयादधमाधमं ।
सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ।। २५.१२० ।।

अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते ।
ब्राह्ममार्षं तथा रौद्रमैन्द्रं स्ॐयं च वैष्मवं ।। २५.१२१ ।।

सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके ।
आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ।। २५.१२२ ।।

श्रीदैवत्यं च क्ॐआरमादित्यं रौद्रमेव च ।
दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ।। २५.१२३ ।।

इशान्यं स्ॐयमित्येतत्तिथिदैवत्यमुच्यते ।
तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ।। २५.१२४ ।।

तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः ।
त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमाथ् ।। २५.१२५ ।।

मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते ।
याम्यं च वैष्णवं स्ॐयं ब्राह्मं बार्हस्पतं तथा ।। २५.१२६ ।।

स्ॐयमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकं ।
मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ।। २५.१२७ ।।

रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं क्ॐआरमेव च ।
सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ।। २५.१२८ ।।

आदित्यं पैतृकं चैवादिति दैवत्यमेव च ।
योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ।। २५.१२९ ।।

ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा ।
भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतं ।। २५.१३० ।।

कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै ।
देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ।। २५.१३१ ।।

सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः ।
"मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमाथ् ।। २५.१३२ ।।

विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः ।
अष्टौ लोकाधिपाः पञ्च भूता विश्वंभरादयः ।। २५.१३३ ।।

वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः ।
सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ।। २५.१३४ ।।

चक्रश्शान्तो गुरुर्भ्ॐअबुधशुक्रशनैश्चराः ।
हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ।। २५.१३५ ।।

प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः ।
तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतं ।। २५.१३६ ।।

चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न ।
पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा ।। २५.१३७ ।।

अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे ।
समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ।। २५.१३८ ।।

पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा ।
नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजं ।। २५.१३९ ।।

विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमाथ् ।
अलाभे तुलसीं वाथ करवीरं च पङ्कजं ।। २५.१४० ।।

मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च ।
तिलानपूपान्लाजांश्च यवान्सक्तून्यथाक्रमं ।। २५.१४१ ।।

बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकं ।
एवमेव विधानेन द्विकालं होममाचरेथ् ।। २५.१४२ ।।

प्रातस्संध्यावसानेतु सायमर्चावसानके ।
होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेथ् ।। २५.१४३ ।।

उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ।। २५.१४४ ।।

देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः ।
सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ।। २५.१४५ ।।

रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा ।
गजाश्वांदोलिकादौ वा वाहने समलङ्कृते ।। २५.१४६ ।।

"अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलं ।
अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस्तथा ।। २५.१४७ ।।

संक्कृतान्गुडसंमिश्रान्निवेद्य मुखवासकं ।
दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतं ।। २५.१४८ ।।

दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः ।
ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ।। २५.१४९ ।।

ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च ।
संभृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ।। २५.१५० ।।

वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः ।
वीज्यमानं विशेषेण तथा भक्तवरैरपि ।। २५.१५१ ।।

वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः ।
दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ।। २५.१५२ ।।

परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः ।
विप्रैस्त्रयीमधीयानैर्जपस्तुतिपरायणैः ।। २५.१५३ ।।

नृत्यता गायता मापि गाणिक्येन सुसेवितं ।
वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ।। २५.१५४ ।।

षड्जादिगीतनिपुणैर्वाद्यवादककोविदैः ।
गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलं ।। २५.१५५ ।।

वै तण्डिकैस्तथा जल्पैर्निपुणैर्वादशिक्षितैः ।
तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ।। २५.१५६ ।।

मीमांसकैर्याज्ञिकैश्च छान्दसैस्सांख्यकोविदैः ।
योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस्तत्त्ववेदिभिः ।। २५.१५७ ।।

मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः ।
तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितं ।। २५.१५८ ।।

उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः ।
वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ।। २५.१५९ ।।

शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः ।
देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ।। २५.१६० ।।

सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया ।
देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ।। २५.१६१ ।।

यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः ।
देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ।। २५.१६२ ।।

निषादिभिस्समारूढैस्स्त्रीभिश्च भरतोदितैः ।
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतं ।। २५.१६३ ।।

लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः ।
गतागतानि कुर्वाणैरनुयातं समाकुलैः ।। २५.१६४ ।।

शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः ।
आरभ्यावरणादाद्यादेषा परिवृतिर्भवेथ् ।। २५.१६५ ।।

देवेन सार्थमाचार्यो यानमारुह्य तत्र तु ।
रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिं ।। २५.१६६ ।।

अर्चकश्च तथासीनस्सम्यगर्चनमाचरेथ् ।
आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ।। २५.१६७ ।।

वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकं ।
देवेशं पूर्वमारोप्य हस्तेनादायचांकुशं ।। २५.१६८ ।।

निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः ।
अर्चकश्छत्रमादाय तथा देवस्य धारयेथ् ।। २५.१६९ ।।

तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचराथ् ।
ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ।। २५.१७० ।।

तत्काले देवमायान्तं भक्ता भागवता जनाः ।
स्पगृहप्रांगणे चैव प्रत्युद्थाय पुनःपुनः ।। २५.१७१ ।।

प्रणम्य चोपहारांश्च दद्युर्बहुविधान्बहून् ।
पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ।। २५.१७२ ।।

दक्षिणां च विशेषेण यथाशक्ति यथारुचि ।
नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ।। २५.१७३ ।।

तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे ।
भक्तानुकंपया देवे स्पगृहद्वारमागते ।। २५.१७४ ।।

को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेथ् ।
तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ।। २५.१७५ ।।

आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेथ् ।
उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ।। २५.१७६ ।।

नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकं ।
सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयं ।। २५.१७७ ।।

तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिं ।
भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ।। २५.१७८ ।।

शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते ।
न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिं ।। २५.१७९ ।।

न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः ।
इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ।। २५.१८० ।।

देहलीमनतिक्रम्य नेयात्तां दीपिकान्वितां ।
तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ।। २५.१८१ ।।

नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः ।
तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चिथ् ।। २५.१८२ ।।

आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् ।
नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेथ् ।। २५.१८३ ।।

एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः ।
एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ।। २५.१८४ ।।

गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमाथ् ।
अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकं ।। २५.१८५ ।।

धामप्रदक्षिणं नीत्वा पुनराविश्य चालयं ।
अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ।। २५.१८६ ।।

पाद्यमाचमनं दत्वा मुखवासं प्रदाय च ।
कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुं ।। २५.१८७ ।।

विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववथ् ।
कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेथ् ।। २५.१८८ ।।

कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः ।
विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ।। २५.१८९ ।।

ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेथ् ।
प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितं ।। २५.१९० ।।

द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः ।
नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेथ् ।। २५.१९१ ।।

कुंभदेवान्समाराध्य ध्वजदेवार्चनं चरेथ् ।
होमं बलिं च दत्वातु कारयेदुत्सवं तथा ।। २५.१९२ ।।

तृतीये पञ्चयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः ।
षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिं ।। २५.१९३ ।।

पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः ।
जलकुङ्कुममादाय कारयेदुत्सवं तथा ।। २५.१९४ ।।

नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च ।
दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुं ।। २५.१९५ ।।

सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनं ।
वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ।। २५.१९६ ।।

ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च ।
तण्डुलोदककुंभादीन्दूर्वाग्रं क्रमुकं तथा ।। २५.१९७ ।।

दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्पृथक् ।
तत्सायं च विशेषेण कृष्णगन्धानुलेपनं ।। २५.१९८ ।।

सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेथ् ।
कृष्णागुरु समादाय सर्ववाद्यसमायुतं ।। २५.१९९ ।।

ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेथ् ।
पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ।। २५.२०० ।।

संस्कृत्य विधिवद्गन्धान्समभ्यर्च्य हरिं ततः ।
"गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ।। २५.२०१ ।।

देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि ।
तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ।। २५.२०२ ।।

तद्गन्धधारणान्नॄणां भदेयुस्सर्वसंपदः ।
सायमर्चावसाने तु रथयात्रां समाचरेथ् ।। २५.२०३ ।।

अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे ।
अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेथ् ।। २५.२०४ ।।

मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेथ् ।
प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ।। २५.२०५ ।।

वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपं ।
बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकां ।। २५.२०६ ।।

जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनां ।
नादेयाद्भिस्समापूर्व "धारास्विऽति च मन्त्रतः ।। २५.२०७ ।।

एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेथ् ।
कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ।। २५.२०८ ।।

आस्तीर्य नववस्त्राणि "वेदाहऽमिति मन्त्रतः ।
"पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ।। २५.२०९ ।।

अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेथ् ।
मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ।। २५.२१० ।।

देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् ।
नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरं ।। २५.२११ ।।

पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः ।
"भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ।। २५.२१२ ।।

"परं रंहेऽति मन्त्रेण देवमादायचादराथ् ।
"प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ।। २५.२१३ ।।

इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज्प्तमण्डले ।
समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ।। २५.२१४ ।।

"अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् ।
"इदमापश्शिऽवेत्युक्त्वा "आपो वा इदऽमुच्चरन् ।। २५.२१५ ।।

अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च ।
पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवं ।। २५.२१६ ।।

"इषे त्वोर्जेऽत्वादि जपन्"भूरानिलयऽ इत्यपि ।
मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिं ।। २५.२१७ ।।

अधिवास्यतु यामार्धं यामद्वयमथापि वा ।
"परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ।। २५.२१८ ।।

अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च ।
यानमारोप्य देवेशं ग्राममालयमेव वा ।। २५.२१९ ।।

प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतं ।
ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ।। २५.२२० ।।

पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे ।
सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववथ् ।। २५.२२१ ।।

जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेथ् ।
तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिं ।। २५.२२२ ।।

प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः ।
अधिवासविधानेन शयने शाययेद्गुरुः ।। २५.२२३ ।।

प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेथ् ।
तस्मिन्तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवं ।। २५.२२४ ।।

कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे ।
प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ।। २५.२२५ ।।

अमितं चोत्तरेधीमान्धान्यपीठोपरि न्यसेथ् ।
नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेथ् ।। २५.२२६ ।।

पूर्वालङ्कृतवस्त्रादीन्विसृज्यैव प्रयत्नतः ।
अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ।। २५.२२७ ।।

अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः ।
व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतं ।। २५.२२८ ।।

उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतं ।
तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ।। २५.२२९ ।।

पात्रे हरिद्रां संगृह्य सिनीवालीमथार्ऽच्य च ।
उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेथ् ।। २५.२३० ।।

गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा ।
विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेथ् ।। २५.२३१ ।।

भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः ।
एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ।। २५.२३२ ।।

गन्धोषितं च वादैलमाढकं परिगृह्यच ।
पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेथ् ।। २५.२३३ ।।

आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेथ् ।
सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेथ् ।। २५.२३४ ।।

देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः ।
संस्राव्य मूर्थ्नि तत्तैलं "वेदाहऽमिति मन्त्रतः ।। २५.२३५ ।।

हारिद्रचूर्णैस्संस्नाप्य चक्रादीन्स्नापयेत्ततः ।
तच्छिष्टं धारयन्भक्तस्सर्वपापैः प्रमुच्यते ।। २५.२३६ ।।

अथ याने समारोप्य देवं चक्रादिभिस्सह ।
चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेथ् ।। २५.२३७ ।।

देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते ।
नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ।। २५.२३८ ।।

चक्रादीन्पूर्ववत्स्थाप्य प्रमुखे स्थण्डिलं चरेथ् ।
द्रव्येणापूर्व कलशान्गायत्रीमन्त्रमुच्चरन् ।। २५.२३९ ।।

मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकं ।
दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकं ।। २५.२४० ।।

जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः ।
उपस्नानानि विन्यस्य क्रमात्तदधिपान्गुरुः ।। २५.२४१ ।।

आदित्यानप्सरसश्च काश्यपं च गुरुं तथा ।
ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ।। २५.२४२ ।।

मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेथ् ।
"पूतस्तऽस्येति मन्त्रेण "इमा ओषधयऽइत्यपि ।। २५.२४३ ।।

"अभि त्वा शूरऽ"चत्वारिऽ"पूतस्तन्येऽतिचक्रमाथ् ।
कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमाथ् ।। २५.२४४ ।।

"वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेथ् ।
शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ।। २५.२४५ ।।

प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमाथ् ।
हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ।। २५.२४६ ।।

आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेथ् ।
नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ।। २५.२४७ ।।

चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन्दृढं ।
"ये ते शतंऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ।। २५.२४८ ।।

निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः ।
जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ।। २५.२४९ ।।

भवेयुरश्वमेधस्य फलं च समवाप्नुयुः ।
ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ।। २५.२५० ।।

कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः ।
ततो विसृज्य वस्त्रादीन्देवं चान्यैर्विभूष्य च ।। २५.२५१ ।।

तत्रैव नसस्नांभारान्संभृत्य विधिना गुरुः ।
देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुं ।। २५.२५२ ।।

अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनं ।
पश्चाद्देवं समादाय सर्वालङ्कारसंयुतं ।। २५.२५३ ।।

शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणं ।
देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ।। २५.२५४ ।।

पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमाथ् ।
मुहुःपुष्पांजलिं दत्वाजीवस्थाने निवेशयेथ् ।। २५.२५५ ।।

चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च ।
पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेथ् ।। २५.२५६ ।।

नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः ।
यागशालां समासाद्य हुत्वाग्निषु च वैष्णवं ।। २५.२५७ ।।

कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् ।
अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ।। २५.२५८ ।।

तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववथ् ।
पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितं ।। २५.२५९ ।।

पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेथ् ।
चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ।। २५.२६० ।।

तटाके निर्झरे कूपवापीवल्मीकपार्श्वके ।
श्मशानेऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेथ् ।। २५.२६१ ।।

पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ ।
ध्वजमूलं समासाद्य सर्ववाद्य समायुतं ।। २५.२६२ ।।

ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् ।
तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ।। २५.२६३ ।।

परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः ।
देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेथ् ।। २५.२६४ ।।

क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि ।
फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादराथ् ।। २५.२६५ ।।

सर्वपापविशुद्धात्मा सर्वान्कामानवाप्य च ।
अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ।। २५.२६६ ।।

पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहं ।
द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेथ् ।। २५.२६७ ।।

शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेथ् ।
प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ।। २५.२६८ ।।

न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै ।
आस्थानमण्डपे वाथ स्नपनालय एव वा ।। २५.२६९ ।।

चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च ।
पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ।। २५.२७० ।।

मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकं ।
रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ।। २५.२७१ ।।

बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेथ् ।
दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ।। २५.२७२ ।।

उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै ।
पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः ।। २५.२७३ ।।

दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि ।
लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशं ।। २५.२७४ ।।

निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि ।
आदित्यमण्डलं तत्र राजते चन्द्रमण्डलं ।। २५.२७५ ।।

तस्मिन्सुवर्णरूपे तु वह्नि मण्डलमर्चयेथ् ।
विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ।। २५.२७६ ।।

तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवं ।
तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ।। २५.२७७ ।।

तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेथ् ।
पङ्कजं तुलसी बिल्वं करवीरमथोत्पलं ।। २५.२७८ ।।

नन्द्यावर्तं च कुमुदमपामार्गं तथैव च ।
विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमाथ् ।। २५.२७९ ।।

एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः ।
नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ।। २५.२८० ।।

परात्परतरं पारं गुह्याद्गुह्यतरं गुरुं ।
सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ।। २५.२८१ ।।

जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः ।
दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ।। २५.२८२ ।।

पञ्चाग्निष्वथ वाग्नींस्त्रीन्पैण्डरीकमथापि वा ।
देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमाथ् ।। २५.२८३ ।।

उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके ।
हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ।। २५.२८४ ।।

आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेथ् ।
वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ।। २५.२८५ ।।

ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेथ् ।
दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमाथ् ।। २५.२८६ ।।

जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः ।
आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकं ।। २५.२८७ ।।

आज्येन समिधा तत्तद्धविर्भेदैश्च हूयतां ।
एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ।। २५.२८८ ।।

यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः ।
पद्ममण्डलदेवानां कारयेत्प्रतिमादिकं ।। २५.२८९ ।।

तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च ।
सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ।। २५.२९० ।।

चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेथ् ।
अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ।। २५.२९१ ।।

पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकं ।
अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनं ।। २५.२९२ ।।

कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च ।
निवेद्य मुखवासान्ते परिवारबलिं क्षिपेथ् ।। २५.२९३ ।।

इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः ।
विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ।। २५.२९४ ।।

मण्डले देवमारोप्य पूजयित्वा यधाविधि ।
हवींषि पञ्च चोक्तानि निवेद्य च ततः परं ।। २५.२९५ ।।

दद्यात्पुष्पांजलिं मन्त्रैस्समस्तदिवसोदितैः ।
जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेथ् ।। २५.२९६ ।।

नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमाथ् ।
ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमाथ् ।। २५.२९७ ।।

तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेथ् ।
उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतं ।। २५.२९८ ।।

अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेथ् ।
द्वादशाराधनम्
कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ।। २५.२९९ ।।

दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः ।
एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणां ।। २५.३०० ।।

पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्पृथक् ।
गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेथ् ।। २५.३०१ ।।

आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमं ।
अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ।। २५.३०२ ।।

जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेथ् ।
ब्राह्मणान्भोजयेच्चैव प्रदद्याद्भूरिदक्षिणां ।। २५.३०३ ।।

पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः ।
शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकं ।। २५.३०४ ।।

एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियं ।
सर्वान्कामानवाप्यैव सर्वैश्वर्यमवाप्य च ।। २५.३०५ ।।

सर्वान्शत्रून्विजित्वैव प्रजापशुसमन्वितः ।
अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयाथ् ।। २५.३०६ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशोऽध्यायः.