मन्दारमरन्दचम्पूः/व्यङ्ग्यबिन्दुः

               




   

व्यङ्ग्यबिन्दु ।

व्यङ्ग्यबिन्दावलंकारध्वनिलक्षणलक्ष्ययोः ।
ब्रूमहे बालबोधाय तोषाय विदुषामपि ॥
अलंकरोति शब्दार्थावित्यलंकार इष्यते ।
द्विधा शब्दार्थभेदेन शब्दालंकृतयस्तु षट् ॥
छेको वृत्तिस्तथा लाटोऽनुप्रासपदपूर्वगाः ।
पुनरुक्तवदाभासो यमकं चित्रमित्यपि ॥
क्रमात्सजातीयवर्णद्वयस्यावर्तनं यदि ।
व्यवधानं विना तत्र च्छेकानुप्रास इष्यते ॥

सजातीयाव्यवहितवर्णा द्वित्रादयो यदि ।
आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥
कुं जगामाजगामाजाराधिका राधिकापि याम् ।
राजराजन्मुखः कामरामो रामोत्सवो गतः ॥ १ ॥
एकद्विप्रभृतीनां तु व्यञ्जनानां यदा भवेत् ।
आवृत्तिरनियत्यात्र वृत्त्यनुमाप्रास इष्यते ॥
कुञ्जे गुञ्जद्भृङ्गपुञ्जे मञ्जुमञ्जीरशिञ्जितम् ।
कुञ्जेषु केलौ संजातं मञ्जुलाक्ष्या न लक्ष्यते ॥ २ ॥
तात्पर्यभेदवद्यत्र भवेच्छब्दार्थयोर्द्वयोः ।
पौनरुक्त्यं तत्र लाटानुप्रासं परिचक्षते ॥
चातुरी चातुरी सैव या श्रिता राधिका विटम् ।
शब्दे भिन्नेऽपि यत्रार्थः पुनरुक्तवदञ्चति ।
पुनरुक्तवदाभासोऽलंकारस्तत्र कथ्यते ॥
अर्थालंकारमेनं तु केचिदूचुर्विपश्चितः ।
महादेव शिवं कृष्णं माधवं प्रणमत्यसौ ॥ ३ ॥
लक्षणं चित्रबिन्दौ तु प्रोक्तं यमकचित्रयोः ॥
अथात्रार्थालंकृतीनां लक्षणोदाहृती ब्रुवे ।
उपमानन्वयो भ्रान्तिः प्रतीपं रूपकं स्मृतिः ॥
उपमेयोपमोल्लेखः परिणामस्त्वपह्नुतिः ।
उत्प्रेक्षातिशयोक्तिश्च संदेहस्तुल्ययोगिता ॥
प्रतिवस्तूपमा चैव दीपकावृत्तिदीपके ।
दृष्टान्तो व्यतिरेकश्च सहोक्तिश्च निदर्शना ॥
विनोक्तिश्च समासोक्तिः श्लेषः परिकराङ्कुरः ।
अप्रस्तुतप्रशंसा च पर्यायोक्तं परीकरः ॥
व्याजस्तुतिर्व्याजनिन्दाथाक्षेपः प्रस्तुताङ्कुरः ।
विरोधाभासविषमे विशेषोक्तिरसंभवः ॥

विभावनासंगतिश्च विचित्रमधिकं समम् ।
व्याघातोऽल्पं विशेषश्चान्योन्यं कारणमालिका ॥
एकावली यथासंख्यं मालादीपकमप्युत ।
पर्यायः परिवृत्तिश्च परिसंख्या समुच्चयः ॥
विकल्पश्च समाधिश्च सारः कारकदीपकम् ।
काव्यार्थापत्तिरुल्लासः प्रत्यनीकं विकस्वरः ॥
मिथ्याध्यवसितिः काव्यलिङ्गं संभावना तथा ।
अवज्ञार्थान्तरन्यासः प्रौढोक्तिललितं तथा ॥
अनुज्ञोदात्तलेशौ च प्रहर्षणविषादने ।
मुद्रा रत्नावली पूर्वरूपं तद्गुणमीलिते ॥
अतद्गुणश्चानुगुणः सामान्यं पिहितं तथा ।
उन्मीलितोत्तरे सूक्ष्मं विशेषो भाविकं तथा ॥
व्याजोक्तिर्विवृतोक्तिश्च गूढोक्तिर्युक्तिरेव च ।
छेकोक्तिश्चैव लोकोक्तिः स्वभावोक्तिस्ततः परम् ॥
वक्रोक्तिश्च तथा चित्रं प्रतिषेधो विधिस्तथा ।
निरुक्तिर्हेतुरित्येवमलंकारशतं मतम् ॥
रसवान्प्रेय ऊर्जस्वित्समाहितमतः परम् ।
भावोदयो भावसंधिर्भावशाबल्यमप्यथ ॥
प्रत्यक्षमनुमानं चोपमानं शब्द एव च ।
अर्थापत्तिरनुपलब्धिरैतिह्यं संभवस्तथा ॥
इत्थं पुनः पञ्चदशालंकाराः कथिता बुधैः ।
संसृष्टिः संकरश्चेति द्विधोक्तानां च मेलने ॥
इत्थं मिलित्वालंकाराः शतं सप्तदशोत्तरम् ॥
[उपमा--]
स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः ।
वर्ण्यस्यान्येन साम्यं च वाच्यं चेदेकदोपमा ॥

सा तूपमा द्विधा प्रोक्ता पूर्णा लुप्तेति भेदतः ।
साधारणस्य धर्मस्स ह्युपमानोपमेययोः ॥
वाचकस्य च योगे तु सैव पूर्णेति संमता ।
पुनश्च द्विविधा पूर्णा सा श्रौत्यार्थीविभेदतः ॥
श्रौती तु साक्षात्सादृश्यवाचकेवादियोगके ।
सा धर्मि(र्म्य)व्यवधानेन सादृश्यप्रतिपादकाः ॥
प्रतीकाशादिशब्दाः स्युः पूर्णार्थी तत्र कीर्तिता ।
समासगे तद्धितगे वाक्यगे इति ते पुनः ॥
द्वे च त्रिधेत्थं पूर्णेयं षड्विधा परिकीर्तिता ।
भास्वानिवोदयालम्बी नेत्रानन्दकरो हरिः ।
इत्यत्र कथिता सम्यक्पूर्णा श्रौती समासगा ॥ ४ ॥
धरवद्दृढतुङ्गस्य कुचस्यांशुकमस्पृशत् ।
अत्र तद्धितगा पूर्णोपमा श्रौती प्रकाशिता ॥ ५ ॥
पद्मं यथा वितनुते मुखं राधामुखं तथा ।
इत्यत्र वाक्यगा पूर्णा श्रौती सम्यक्प्रकीर्तिता ॥ ६ ॥
आलिङ्गत्यसकृत्कान्त्या कान्ता कामसतीनिभाम् ।
हरिरित्यत्र कथिता पूर्णा चार्थी समासगा ॥ ७ ॥
सौन्दर्ये कामकान्तावत्त्वं कान्ते भासि संततम् ।
इत्यत्रार्थी तद्धितगा पूर्णा सम्यक्प्रकाशिता ॥ ८ ॥
कान्तानेत्रे विराजेते कान्त्या पद्मस्य संनिभे ।
इत्यत्र वाक्यगा पूर्णोपमा चार्थी प्रकीर्तिता ॥ ९ ॥
यत्रैकद्वित्रलोपे वा तत्र लुप्तोपमा मता ।
अधर्मा चावधामेयाधमेयावाचका तथा ॥
अमेयवावाधमेयाधनवावानकाधना ।
अनमेति च सा लुप्ता त्वेकादशविधा मता ॥
लाघवेन प्रवृत्त्यर्थमित्थं संज्ञाः प्रकीर्तिताः ।
धर्मस्य चानुपादाने सैवाधर्मोपमा मता ॥

आर्थी श्रौती च सा द्वेधा ते द्वे च त्रिविधे पुनः ।
समासगे तद्धितगे वाक्यगे इति षड्विधा ॥
चुचुम्ब चन्द्रसदृशं राधिकावदनं हरिः ।
इत्यत्राधर्मोपमा स्यादार्थी प्रोक्ता समासगा ॥ १० ॥
कन्दर्पकल्पमब्जाक्षं मुहुः पश्यति राधिका ।
इत्यत्राधर्मोपमा स्यादार्थी तद्धितगा मता ॥ ११ ॥
दूति बोधय ता कान्तां तुल्यां प्राणैर्ममोक्तिभिः ॥
इत्यत्राधर्मोपमा स्यादार्थी वाक्यगता मता ॥ १२ ॥
राधिकाया मुहुर्भाति विधुबिम्बमिवाननम् ।
इत्यत्रधर्मोपमा स्याच्छ्रौती प्रोक्ता समासगा ॥ १३ ॥
तस्याः पश्य भ्रुवौ भातश्चन्द्रवत्सुन्दरे मुखे ।
इत्यत्राधर्मोपमा स्याच्छ्रौती तद्धितगा मता ॥ १४ ॥
यथा मधुकरः पद्मे तथा कान्तामुखे भवान् ।
इत्यत्राधर्मोपमा स्याच्छ्रौती वाक्यगता मता ॥ १५ ॥
धर्मवाचकलोपे तु तत्र स्यादवधोपमा ।
सा तु कर्मक्यचाधारक्यचालुप्ता क्विपा तथा ॥
कर्तृणमुल्कर्मणमुल्लुप्ताकर्मक्यङेति च ।
समासगेति विबुधैः सप्तधा परिकीर्तिता ॥
विद्रुमीयति तन्नासा मौक्तिकं तेऽधरप्रभा ।
इत्यत्र समता कर्मक्यचा लुप्तावधोपमा ॥ १६ ॥
समाधवा निकुञ्जेऽपि प्रासादीयति राधिका ।
इत्यत्र संमताधारक्यचा लुप्तादधोपमा ॥ १७ ॥
इन्दुबिम्बति ते वक्त्रं कण्ठः कम्बवति प्रिये ।
इत्यत्र विबुधैः प्रोक्ता क्विपा लुप्तावधोपमा ॥ १८ ॥
माननाराचचारे तत्कटाक्षाः संचरन्त्यहो ।
मयीत्यत्र मताकर्तृणमुल्लुप्ता वधोपमा ॥ १९ ॥

राधाधरं सुधादर्श माधवः परिचुम्बति ।
इत्यत्र प्रस्फुटाकर्मणमुल्लुप्तावधोपमा ॥ २० ॥
हन्तकान्ताविप्रलम्भे चन्द्रश्चण्डकरायते ।
इत्यत्र कीर्तिता कर्तृक्यडालुप्तावधोपमा ॥ २१ ॥
याहि सत्वरमब्जाक्षं दूति तापः सुदुस्तरः ।
अस्मिन्समासगा प्रोक्ता विबुधैरवधोपमा ॥ २२ ॥
उपमेयानुपादाने तत्रामेयोपमा मता ।
सापि द्विधार्थी श्रौती च ते द्वे च त्रिविधे पुनः ।
समासगे वाक्यगे च तथा तद्धितगे च षट् ॥
राधिकासदृशी कान्ता नास्ति मत्तोषकारिणी ।
इत्यत्रामेयोपमा स्यादार्थी प्रोक्ता समासगा ॥ २३ ॥
माधवस्य समो लोके नास्ति राधामनोहरः ।
इत्यत्रामेयोपमा स्यादार्थी वाक्यगता मता ॥ २४ ॥
राधाकल्पा न काप्यन्या कामकेलीकलावती ।
इत्यत्रामेयोपमा स्यादार्थी तद्धितगा मता ॥ २५ ॥
नास्त्येव कापि भूलोके राधिकेवातिसुन्दरी ।
इत्यत्रामेयोपमा स्याच्छ्रौती प्रोक्ता समासगा ॥ २६ ॥
अन्या नास्ति तथा कापि यथा राधा मम प्रिया ।
इत्यत्रामेयोपमा स्याच्छ्रौती वाक्यगता मता ॥ २७ ॥
राधिकावन्न कुत्रापि गोप्यां कृष्णमनोहृतिः ।
अत्र तद्धितगामेयोपमा श्रौती प्रकीर्तिता ॥ २८ ॥
धर्मोपमेयानिर्देशे त्वधमेयोपमा मता ।
सापि त्वमेयोपमेव श्रौती तद्धितगां विना ॥
राधिकासदृशी नास्ति यन्मुकुन्दमनोहरा ।
अत्राधमेयोपमा स्यादार्थी सूक्ता समासगा ॥ २९ ॥
राधायाः सदृशी नास्ति यन्मुकुन्दमनोरमा ।
अत्राधमेयोपमा स्यादार्थी वाक्यगता मता ॥ ३० ॥

राधाकल्पा न काप्यस्ति यद्गोपीशतसेविता ।
इत्यत्रार्थी तद्धितगा त्वधमेयोपमा मता ॥ ३१ ॥
राधिकेव न लोकेऽस्ति यन्मुकुन्दपदे सदा ।
रतेत्यत्राधमेया स्याच्छ्रौती प्रोक्ता समासगा ॥ ३२ ॥
यथा राधा तथा नैव यत्कृष्णातिदयोदया ।
अत्र वाक्यगता श्रौती त्वधमेयोपमा मता ॥ ३३ ॥
अधमेयोपमा चेयं न सर्वमतसंमता ।
वाचकस्यानुपादाने स्यात्तत्रावाचकोपमा ।
क्विपा लुप्ता क्यङा लुप्ता त्रिविधेति समासगा ।
खञ्जरीटति चाञ्चल्ये प्रोष्ठीपृष्ठायते द्युतौ ।
पद्मपत्रस्फुरन्नेत्र्या नेत्रमित्यत्र सा त्रिधा ॥ ३४ ॥
वाचकस्योपमेयस्याप्यनिर्देशश्च यत्र सा ।
अमेयवोपमा तत्र प्रोक्तालंकारकोविदः ॥
राधाया अधरश्चारुर्माधुर्येण सुधीयति ।
उपमेयस्य धर्मस्य लोपश्चेद्वाचकस्य च ।
कर्मक्यचावाधमेयोपमा तत्र प्रकीर्तिता ॥
कल्पशाखीयति सतां गोपिकाजनकामुकः ॥ ३५ ॥
उपमानेन धर्मेण लुप्ता चेद्वाचकेन च ।
तदा समासगा प्रोक्ता प्राज्ञैरधनवोपमा ॥
कुरङ्गाक्षी सदापाङ्गान्करोति मयि राधिका ।
वाचकस्योपमानस्य लोपे चावाचकोपमा ।
मन्दं राधा समायाति मृगराजाल्पमध्यमा ॥ ३६ ॥
धर्मोपमानयोर्लोपे प्रोक्ता तत्राधनोपमा ।
आर्थी श्रौतीति सा द्वेधा कीर्तिता द्विविधा यथा ॥
मदेभसंनिभगतिः कदा यातीह राधिका ।
कथं द्रुतं गच्छसि त्वं करिणीव गतिस्तव ॥ ३७ ॥

उपमानस्य लोपश्चेत्तत्र स्यादनमोपमा ।
अनायासमभूत्तस्य राधिकायाश्च मेलनम् ।
काकतालवदुद्याने निर्जने यमुनातटे ॥ ३८ ॥
सकृत्पृथग्धर्मिकाभ्यां सोपमा द्विविधा पुनः ॥
तत्र वर्ण्यावर्ण्यगस्य धर्मस्य सकृदेव तु ।
निर्देशे सति तत्राधा स्यात्सकृद्धर्मिका मता ॥
जनाः प्रणम्रशिरसः सेवन्ते राधिकापतिम् ।
साधूनां हृदयानन्दं गुरुं शिष्या यथा तथा ॥ ३९ ॥
उपमानगतस्यास्याप्युपमेयगतस्य च ।
पृथग्धर्मस्य निर्देशे सा पृथग्धर्मिका मता ॥
सा तु वस्तूपमा बिम्बोपमाभेदाद्द्विधा मता ।
वस्तुप्रतिवस्तुभावेन निर्देशे प्रथमा मता ॥
कुचस्थली कुरङ्गाक्ष्या मालया परिलालिता ।
मेरुस्थलीव गङ्गाया धारया समलंकृता ॥ ४० ॥
बिम्बप्रतिबिम्बभावेन निर्देशे त्वपरा मता ।
स्फुरत्कृष्णनखश्रीकमिदं राधाकुचस्थलम् ।
शिवलिङ्गमिवाभाति चन्द्रलेखाविभूषितम् ॥ ४१ ॥
मालारूपोपमा मालारूपेणापि क्वचिद्भवेत् ॥
पद्माति कञ्जकान्ताति कामकान्ताति राधिका ।
पूर्वपूर्वसमानत्वमुत्तरोत्तरवस्तुनः ।
मेखलारचनन्यायाद्यदि स्याद्रशनोपमा ।
सौन्दर्यमिव चातुर्यं चातुर्यमिव धीरता ।
धीरतेव चटूक्तिश्च राधिकायां विराजते ॥ ४२ ॥
[अनन्वयः--]
एकस्यैवोपमानोपमेयत्वे वस्तुनो यदि ।
अनन्वयः स तु द्वेधा सधर्माधर्मभेदतः ॥

कामकेलीकलाभिज्ञा राधिकेव च राधिका ।
कृष्णस्य सदृशं कृष्णं मुहुरालिङ्ग्य चुम्बति ॥ ४३ ॥
[भ्रान्तिः--]
तिरोहिते च विषये सादृश्यात्कविसंमतात् ।
विशेष्यावृत्तिविषयज्ञानं भ्रान्तिरितीर्यते ।
सा त्वेकविषयान्योन्यविषयेति द्विधा मता ॥
राधिकामुखमम्भोजं मत्वा मत्तमधुव्रतः ।
परिभ्रमन्पर्यचुम्बदत्रैकविषया मता ॥ ४४ ॥
राधिका माधवं मत्वा निशि स्वपतिमागता ।
सोऽपि तां मालती मत्वा चुचुम्बेत्यत्र चापरा ॥ ४५ ॥
[प्रतीपम्--]
उपमानप्रतीकूलः प्रतीपं धर्म इष्यते ।
तत्तु पञ्चविधं प्रोक्तं पञ्चापि ब्रूमहे क्रमात् ॥
उपमानोपमेयत्वव्यत्यासे प्रथमं मतम् ।
उदितोऽयं विधू राधे पश्य ते मुखसंनिभः ।
द्वितीयं तूपमानस्याप्युपमेयत्वलाभतः ।
उपमेयस्य चेद्गर्वपरिहारवचो मतम् ॥
त्यज गर्व मुखेन त्वं तादृशश्चन्द्रमा न किम् ॥ ४६ ॥
व्यत्यासं परिकल्प्यादावुपमानोपमेययोः ।
कल्पितस्योपमेयस्योत्कर्षादन्यस्य चेद्यदि ।
तृतीयं तु प्रतीपं स्यादनादरवचस्तदा ॥
विष कः क्रौर्यगर्वस्ते त्वादृशं दुर्वचो न किम् ।
वर्योपमाना निष्पत्तिवचोऽन्यस्मिंश्चतुर्थकम् ।
जनापवादो दुर्जेयस्त्वन्मुखाभः शशीति यः ॥ ४७ ॥
उपमेयस्य चोत्कर्षात्कैमर्थ्य यत्र कथ्यते ॥
उपमानस्य तत्र स्यात्प्रतीपं पञ्चमं मतम् ।

वृथोदयति निर्लज्जः शशी सति तवानने ।
प्रतीपं पञ्चमं केचिदाक्षेपं परिचक्षते ॥
[रूपकम्-]
बिम्बाविशिष्टे विषये न तिरोहितरूपिणि ।
आरोपविषयीभूतं रूपकं चोपरञ्जकम् ॥
तद्रूपकं मतं द्वेधाभेदताद्रूप्यभेदतः ।
आरोपे सत्यभेदस्याभेदरूपकमिष्यते ॥
प्रमोदं तनुतेऽस्माकं राधिकाया मुखं शशी ॥ ४८ ॥
ताद्रूप्यस्य समारोपे सति ताद्रूप्यरूपकम् ।
मुदं तनोति राधाया मुखमन्यः सुधाकरः ।
अधिकं च समं न्यूनं सावयवं चैव निरवयवम् ।
किं च परम्परितं चेत्येवं चाभेदरूपकं षोढा ॥
पूर्वावस्थात आरोप्यमाणस्याधिक्यदर्शने ।
अवस्थायां तु तस्यां चेदधिकाभेदरूपकम् ॥
आश्रित्य राधिका त्यक्तकलङ्कश्चन्दिरोऽभवत् ॥ ४९ ॥
न्यूनताधिक्ययोश्चैवानिर्देशे सममीरितम् ।
राधिकाया मुखं साक्षाच्चन्द्र एव न संशयः ।
प्राग्दशातो न्यूनता चेत्तन्न्यूनाभेदरूपकम् ॥
असागरोद्भवः साक्षात्सुधाशुस्ते मुखं सखि ॥ ५० ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं परिकीर्तितम् ॥
यत्रावयविनश्चैवावयवानां समासतः ।
समस्तवस्तुविषयं भवेत्तत्र निरूपणम् ॥
राधिकावदनाम्भोजं सस्वदे कृष्णवंभरः ।
अथावयविनो यत्रावयवानां निरूपणात् ।
निरूपणं गम्यते स्यादेकदेशविवर्ति तत् ॥
लावण्यपयसा पुष्टं सदाधरमधूल्लसत् ॥ ५१ ॥

तिलकभ्रमरश्लिष्टं हरिः पश्यति तन्मुखम् ।
यत्रावयविनिरूपणमात्रेऽवयवनिरूपणमात्रे(?) वा ।
तन्निरवयवं ज्ञेयं कविसंरम्भस्य विश्रान्तिः ॥
तद्द्वेधा केवलं माला तयोर्लक्ष्ये ब्रुवे क्रमात् ।
सिचयान्तश्चले तस्याः कुचकुम्भेऽकरोत्करम् ॥ ५२ ॥
सौन्दर्याब्धिर्लता कान्तेर्बाणः कामस्य या प्रिया ।
तत्परम्परितं यत्तु रूपकाश्लिष्टरूपकम् ॥
तदपि द्विविधं प्रोक्तं श्लिष्टाश्लिष्टविभेदतः ।
तद्द्वयं च पुनर्द्वेधा मालाकेवलभेदतः ॥
अथोदाहरणान्येतद्भेदानां ब्रूमहे क्रमात् ।
श्यामालंकारशीतांशुः सुमनोवृन्दमाधवः ॥ ५३ ॥
कमलोदयमार्तण्डः स जीयान्नन्दनन्दनः ।
श्रुतिशेखरविस्फूर्जन्मञ्जुलास्योरुमण्डले ॥ ५४ ॥
नन्दसूनोर्नरीनर्ति राधिकापाङ्गनर्तकी ।
मारदावानलासारः कृष्णप्रेमलतामधु[:] ॥ ५५ ॥
वासुदेवचकोरेन्दुबिम्बं जयतु राधिका ।
राधिकानलिनीवक्त्रकुसुमभ्रमरो हरिः ॥ ५६ ॥
खेलत्युच्छृङ्खलं गोपललनाराममण्डले ।
समाधिकन्यूनभेदात्त्रिधा ताद्रूप्यरूपकम् ॥
सुगमत्वान्न लक्ष्मैतल्लक्ष्याणि ब्रूमहे क्रमात् ।
पङ्कजं पश्य कान्तेति राधयोक्तः स माधवः ॥ ५७ ॥
उवाचान्येन कि तेन सुन्दरे सति ते मुखे ।
निशामुकुलितात्पद्मान्मुखपद्मं मनोहरम् ॥ ५८ ॥
इति ब्रुवन्नाससाद राधां माधवषट्पदः ।
असागरसमुद्भूतामत्रिविष्टपवासिनीम् ।
अन्यां कल्पलतामेनां हरिः पश्यति राधिकाम् ॥ ५९ ॥

केचिदाहुश्चाष्टचत्वारिंशद्भेदांश्च रूपके ॥
[स्मृतिः--]
सदृशानुभवादन्यस्मरणं स्मृतिरिष्यते ।
केवलात्मविशेषात्मभेदात्सा द्विविधा मता ॥
स्मरणे-सदृशस्यैव केवलस्मृतिरीरिता ।
हरिः सस्मार राधाया मालती कामकेलिषु ।
विशेषस्मृतिरित्युक्ता संबन्धिस्मरणे सति ॥
माधवो राधिकां पश्यन्क्षीरपाथोधिमस्मरत् ॥ ६० ॥
[उपमेयोपमा--]
उपमानोपमेयत्वे पर्यायेण द्वयोर्यदि ।
सोपमेयोपमा द्वेधा सधर्माधर्मभेदतः ॥
सुन्दरी मालतीवासौ राधा राधेव मालती ।
राधिका मालतीवासौ राधिकेव च मालती ॥ ६१ ॥
[उल्लेखः--]
अनेकधोल्लेखनं तु विषयैर्वा गृ(ग्र)हीतृभिः ।
एकस्य वस्तुनोऽनेकैरुल्लेखालंकृतिर्मता ॥
विषयग्राहि(ह)कोल्लेखभेदेन द्विविधोऽपि सः ।
विषयाणामनेकत्वे विषयोल्लेख इष्यते ।
श्लिष्टाश्लिष्टविभेदेन द्वेधा लक्ष्यं ब्रुवे क्रमात् ॥
उग्रः शत्रौ गुरुर्वाण्यां चन्द्रो नेत्रप्रहर्षणे।
स्वर्द्रुरर्थिषु लावण्ये कन्दर्पो राधिकाविटः ॥ ६२ ॥
गृ(ग्र)हीतॄणामनेकत्वे ग्राहि(ह)कोल्लेख इष्यते ।
तमीक्षन्ते स्त्रियः कामं द्विषः कालं जना नृपम् ॥ ६३ ॥
[परिणाम.--]
प्रकृतस्योपयोगित्वाद्विषयात्मतया भवेत् ।
आरोप्यमाणो विषयी परिणामस्तदा मतः ॥

सामानाधिकरण्येन व्यधिकरणतया तथा ।
विषयात्मत्वमापन्नः स द्वेधा द्विविधो यथा ॥
प्रसन्नेन दृगब्जेन राधिका वीक्षते हरिम् ।
विधाय राधिका शश्वत्कटाक्षैः पुष्पमालिकाम् ।
प्रत्यग्रामर्पयामास प्रसन्ना नन्दनन्दने ॥ ६४ ॥
[अपह्नुतिः--]
अभेदप्रतिपत्यङ्गाङ्गित्वान्यतरवाँस्तथा ।
निषेधोऽपह्नुतिः सा तु द्विविधाङ्गाङ्गिभेदतः ॥
अभेदप्रतिपत्त्यङ्गत्वं निषेधस्य चेद्यदि ।
अङ्गापह्नुतिरित्युक्ता सा चतुर्धा प्रकीर्तिता ॥
शुद्धापह्नुतिपर्यस्तहेतुकैतवभेदतः ।
वर्ण्येऽन्यारोपफलको वर्ण्यधर्मस्य निह्नवः ॥
कैतवादिपदाव्यङ्ग्यस्तथानुक्तनिमित्तकः ।
शुद्धापह्नुतिः प्राज्ञैः प्रोक्तालंकारकोविदैः ॥
राधिकाया मुखं नेदं किं तु चन्दिरमण्डलम् ।
वर्ण्येऽन्यारोपफलकस्त्वन्यधर्मस्य निह्नवः ।
कैतवादिपदाव्यङ्ग्यः पर्यस्तापह्नुतिर्मता ।
हेतुकेवलभेदेन सा द्वेधा परिकीर्त्यते ॥
कालकूटो विषं नैव विषं पद्मा मता मम ॥६५॥
पीत्वा जागर्ति यच्छंभुर्हरिः पश्यन्विमुह्यति ।
नायं सुधाकरः किं तु मुखं तस्याः सुधाकरः ॥ ६६ ॥
शुद्धैवोक्तनिमित्ता चेद्धेत्वपह्नुतिरिष्यते ।
श्लिष्टाश्लिष्टविभेदेन द्वेधा सा परिकीर्तिता ॥
न मुखं भ्रमराघ्रातमिदं किं तु सरोरुहम् ।
नेदं सरोरुहं नैशं किं तु शुभ्रांशुमण्डलम् ॥ ६७ ॥
कैतवादिपदव्यङ्ग्यो निषेधो यत्र दृश्यते ।

वर्ण्यधर्मस्य तत्र स्यात्कैतवापह्नुतिर्मता ॥
शुद्धहेतुविभेदेन द्विविधा सापि कीर्तिता ।
आद्यैकधान्त्या द्विविधा श्लिष्टाश्लिष्टविभेदतः ॥
बिम्बमेव वरीवर्ति राधाया अधरच्छलात् ।
निर्यान्ति कामविशिखाः कान्ताक्ष्यन्तेक्षणच्छलात् ॥ ६८ ॥
नो चेत्तरुणसंक्षोभस्तत्तादृक्षः कथं भवेत् ।
परिस्फुरति पाथोजं कामिनीवदनच्छलात् ।
नो चेत्कथं भवेत्तस्य चुम्बने भ्रमरादरः ॥ ६९ ॥
यथा वा।
इदं कुवलयं भाति जानकीनयनच्छलात् ।
नो चेत्तादृग्रामराजप्रेमपात्रं कथं भवेत् ॥ ७० ॥
अभेदप्रतिपत्त्यङ्गित्वं निषेधस्य चेत्तदा ।
स्यादङ्ग्यपह्नुतिर्द्वेधा छेकभ्रान्तिविभेदतः ॥
वाक्यान्यथायोजनेन निषेधस्तथ्यवस्तुनः ।
शङ्कातोऽन्यस्य चेत्तर्हि छेकापह्नुतिरुच्यते ॥
पाण्याहतोऽपतत्पादे कान्तः कि नहि कन्दुकः ।
निषेधोऽन्यस्य चेद्भ्रान्तिविषयस्य च वस्तुनः ।
स्वकीयवचसा तत्त्वकथनाद्भ्रान्त्यपह्नुतिः ।
सा तु द्विधा केवला च कल्पिता चेति भेदतः ॥
सोच्छ्वासं सहकम्पं ताप बहुलं सखीह न सहेऽहम् ।
कि ज्वरभारो नहि नहि सशरः संनद्धकार्मुकः कामः ॥ ७१॥
नाहं हिमगिरिजापतिरपि रतिहरणे पटुः सुरद्वेषी ।
बाधय तावबलां मा बाधय कि तेन ते यशो भवति ॥ ७२ ॥
तत्त्वाख्यानोपमां केचिद्बभषुः कल्पितामिमाम् ।
(अथोत्प्रेक्षा--)
अवर्ण्यधर्मसंबन्धाद्वर्ण्ये संभावना भवेत् ।
अन्यत्वेन मतोत्प्रेक्षा वाच्या गम्येति सा द्विधा ॥

इवादीनामुपादाने वाच्योत्प्रेक्षेति कथ्यते ।
इव स्वित्किं किमुद्वापि किमु किंनु कथं ननु ॥
मन्ये शङ्के नु हूं प्रादुः प्रायो नूनं खलु ध्रुवम् ।
किमु स्म बत नामाहो उत्प्रेक्षा बोधका इमे ॥
जातिक्रियाद्रव्यगुणभेदाद्वाच्या चतुर्विधा ।
चतुर्विधापि च द्वेधा भावाभावविभेदतः ॥
अष्टधापि पुनस्त्रेधा वस्तुहेतुफलात्मना ।
स्वरूपं च स्वभावश्च वस्त्विमे चैकवाचकाः ॥
वस्तूत्प्रेक्षा द्विधोपात्तानुपात्तहेतुभेदतः ।
गुणक्रियानिमित्तत्वाभ्यामुपात्तनिमित्तकाः ॥
वस्तुहेतुफलोत्प्रेक्षा द्विविधाः परिकीर्तिताः ।
एतादृशी क्रियावस्तूत्प्रेक्षैव द्विविधा पुनः ॥
उक्तानुक्तस्वरूपाभ्यां पुनस्तु सकला अपि ।
द्विधाहेतुफलोत्प्रेक्षाः सिद्धासिद्धविभेदतः ॥
एवं च वाच्योत्प्रेक्षाः स्युश्चतुर्भिरधिकं शतम् ।
प्राचीनानां मते वाच्योत्प्रेक्षाः षण्णवतिः स्मृताः ॥
नवीनाः केचिदूचुस्तां षट्पञ्चाशद्विधामपि ।
इवादिकानुपादाने गम्योत्प्रेक्षां प्रचक्षते ॥
जातिक्रियाद्रव्यगुणभेदात्सापि चतुर्विधा ।
भावाभावविभेदेन चतुर्धापि च सा द्विधा ॥
इमाः सर्वाः पुनस्त्रेधा वस्तुहेतुफलात्मना ।
द्वेधा हेतुफलोत्प्रेक्षे सिद्धासिद्धविभेदतः ॥
गुणक्रियानिमित्तत्वाभ्यां सर्वा द्विविधा इमाः ।
एवं च गम्योत्प्रेक्षायां भेदाश्चाशीतिरीरिताः ।
दिङ्मात्रं ग्रन्थबाहुल्यभीत्योदाह्ऱियते क्रमात् ॥
मन्दीभवन्स्वान्वयजातराघवप्रदत्तलङ्काधिपतित्वमीक्षितुम् ।
विभीषणस्यास्ति न वेति चिन्तया दिशं जगामेव यमस्य भास्करः ॥ ७३ ॥

करकलितचारुवीटी कुम्भकुचाक्रान्तकुसुम्भमयशाटी ।
कान्ता कामवधूटी तरुणान्मोहितुमिहैति कर्णाटी ॥ ७४ ॥
(अथातिशयोक्ति:--)
यच्चानुपात्तविषयाहार्यस्य विषयं तथा ।
निर्णयस्य हि चाभेदताद्रूप्यान्यतरच्च तत् ॥
द्विविधातिशयोक्तिः सा भेदताद्रूप्यभेदतः ।
अभेदातिशयोक्तिश्चाहार्योऽभेदस्य चेद्यदि ॥
वयस्य पश्य तमसा बद्धं शीतांशुमण्डलम् ।
ताद्रूप्यातिशयोक्तिः स्यात्ताद्रूप्यारोपणे सति ।
पश्य स्फुरति मित्त्रात्र मुक्तलक्ष्मा क्षपाकरः ॥ ७५ ॥
अभेदातिशयोक्तिस्तु शुद्धभेदकभेदतः ॥
संबन्धात्यन्तचपलासंबन्धाक्रमभेदतः ।
सापह्नवा चेति बुधैरष्टधा परिकीर्तिता ॥
भेदकातिशयोक्तिस्तु वर्ण्यस्यान्यत्ववर्णनम् ।
अन्येयं चातुरी तस्या अन्या लावण्यपद्धतिः ।
संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ॥
सूर्याश्वा विश्रमन्त्यत्र ग्रीष्मे गोपुरगह्वरे ॥ ७६ ॥
पौर्वापर्यव्यतिक्रान्तिः कार्यकारणयोर्यदि ।
अत्यन्तातिशयोक्तिस्तु तदा प्राज्ञैः प्रकीर्तिता ॥
आदौ महानभूत्स्नेहः पश्चाद्दर्शनमावयोः ।
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यास्यामीति प्रियोक्तेयमूर्मिकां तनुतेऽङ्गदम् ॥ ७७ ॥
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिः प्रकीर्तिता ।
न सेवे भोजनानन्दं सति त्वयि वरानने ।
समकालत्वेऽक्रमातिशयोक्तिर्हेतुकार्ययोः ।
राधा तदैवानुरक्ता यदा वीक्षति माधवः ॥ ७८ ॥
सापह्नवेति सा प्रोक्ता यद्यपह्नुतिगर्भता ॥

लतायां चन्द्रमा भाति भ्रान्ताः पश्यन्ति तं दिवि ॥
(अथ संदेह:--)
विषयी विषयश्चोभौ विषयौ संशयस्य चेत् ।
कविसंमतसादृश्यात्संदेहालंकृतिर्मता ।
शुद्धा निश्चयगर्भेति सा द्वेधा परिकीर्तिता ॥
राधा हैमलता वेयं मालती वा वरानने ।
राधिका किमियं भीता दिवा नायाति सा पुनः ।
मालतीवाधुनैवागाद्गेहं केयं न विद्महे ॥ ७९ ॥
(अथ तुल्ययोगिता--)
वर्ण्यानां वाप्यवर्ण्यानां साम्यं केवलधर्मतः ।
कथ्यते चेत्तत्र तुल्ययोगिता सा त्रिधा मता ॥
शुद्धा हिताहिता चैव समाभा चेति भेदतः ।
शुद्धापि द्विविधा प्रोक्ता वर्ण्यावर्ण्यविभेदतः ॥
पूर्वाचलप्रान्तभाजि स्फुरद्राकानिशाकरे ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥ ८० ॥
राधिके तव सौन्दर्यं दृष्ट्वा जानीमहे वयम् ॥
कालिन्द्याः कमलायाश्च काषायालम्बनं वरम् ॥ ८१ ॥
हिताहितापि तु हिताहितयोस्तुल्यवर्तनम् ।
श्लिष्टाश्लिष्टविभेदेन सा द्वेधा परिकीर्तिता ॥
अलंकारातियोगं स शत्रोर्मित्त्रस्य चाकरोत् ।
पूजकस्य च्छेदकस्य मन्दारः कटुरेव सः ॥ ८२ ॥
गुणोत्कृष्टैः समीकृत्य समाभा प्रतिपादनम् ।
अनेकवाहिनीयुक्तो नृपो जाड्येन वर्तनात् ।
समुद्रोऽपि भवत्याशु सर्वदा मुखभङ्गवान् ॥ ८३ ॥
(अथ प्रतिवस्तूपमा--)
उपमानोपमेयार्थौ पृथग्वाक्यद्वये यदि ॥
सामान्येन विनिर्दिष्टौ प्रतिवस्तूपमा मता ।
साधर्म्यवैधर्म्यभेदात्सा द्वेधा परिकीर्तिता ॥

प्राचीनम्---
कवितारसचातुर्यं रसज्ञो वेत्ति नो कविः ।
सुतासुरतचातुर्यं जामाता वेत्ति नो पिता ॥ ८४ ॥
आराधितोऽपि नीचः परिदर्शयति स्वकीयकटुभावम् ।
न जहाति पारिभद्रः पयसा सिक्तोऽपि नैजकटुभावम् ॥ ८५ ॥
(अथ दीपकम्--)
वर्ण्यानामप्यवर्ण्यानां धर्मैक्यं दीपकं मतम् ।
दुर्जनधिषणाभीक्ष्णं मृगयति दोषान्गुणेषु विलसत्सु ।
पत्यौ तरुणे सत्यपि जातिविहीनं विटं कुलटा ॥ ८६ ॥
(अथावृत्तिदीपकम्--)
तत्पदार्थोभयावृत्तौ सत्यामावृत्तिदीपकम् ॥
स्तननति वृद्धावृन्दं स्तननति कण्ठीरवस्य चारावः ।
विलसति कमलश्रेणी स्फुरति च मल्लीमतल्लिकाशैली ॥ ८७ ॥
साकूतं वीक्षते राधा वीक्षते पश्य मालती ।
(अथ दृष्टान्तः--)
चेद्बिम्बप्रतिबिम्बत्वं भिन्नवाक्यार्थधर्मयोः ।
दृष्टान्तः स तु साधर्म्यवैधर्म्याभ्यां द्विधा मतः ॥
मुकुन्द एव गोपीनां कदम्बं तोषयत्यहो ।
वसन्त एव वल्लीनां विकासयति संचयम् ॥ ८८ ॥
मुकुन्ददर्शनादेव सस्मितं राधिकाननम् ।
निद्राति तावन्नलिनं यावन्नोदेति भानुगान् ॥ ८९ ॥
(अथ व्यतिरेकः--)
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
व्यतिरेकः स तु त्रेधाधिकन्यूनसमात्मना ॥
स्मरेण सदृशः सोऽभूत्तथापीयं भिदा तयोः ।
वियुक्तस्मयहर्ताद्यस्तत्कर्तान्यः स्वचेष्टितैः ॥ ९० ॥

मञ्जुलनासा विहिता विटकरपरिलालिता श्यामा ।
तरुणीव तव किरीयं किं तु ग्रहणात्करोति दृक्क्षोभम् ॥ ९१ ॥
प्राचीनम्--
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ९२ ॥
(अथ सहोक्तिः--)
सहार्थेनान्वयः प्रोक्तः सहोक्तिः कविरञ्जकः ।
स्थिते कृष्णधराधीशे याचकानीकमध्ययोः ।
देहीति शब्दो दिक्प्रान्तान्कीर्त्या साकं ययौ रयात् ॥ ९३ ॥
(अथ निदर्शना--)
वाक्यार्थस्योपमानस्याभेदारोपो हि दृश्यते ।
उपमेये च वाक्यार्थे तत्र शुद्धा निदर्शना ॥
बन्धुजीवाधराया यदधरे वीटिकार्पणम् ।
इदं दीपकदम्बेन प्रकटीकरणं रवेः ॥ ९४ ॥
उपमानोपमेयान्यतरस्मिन्कथिता बुधैः ।
तदन्यतरधर्मस्यारोपश्चान्या निदर्शना ॥
कान्ते याते मुखे लीला दृश्यते सा सरोरुहे ।
खञ्जरीटविलासं ते धत्ते नेत्रयुगं सखि ॥ ९५ ॥
सतोऽसतो वाप्यर्थस्य परेषां क्रिययात्मनः ।
निबध्यते बोधनं चेदपरा स्यान्निदर्शना ॥
सुमनःसंगमः पुंसां महोन्नतिषु कारणम् ।
इति ब्रुवंस्तन्तुरल्पोऽप्यभवद्राजमौलिगः ॥ ९६ ॥
हतः शत्रुरिति ज्ञात्वा तेजस्वी न परिभ्रमेत् ।
इत्याजगामान्धकारः पुनरस्तंगते रवौ ॥ ९७ ॥
(अथ विनोक्तिः--)
विना संबन्धिना येन केनचिद्वर्ण्यवस्तुनः ।
अरम्यता रम्यता वा विनोक्तिरिति कथ्यते ॥

तादृक्षमपि चातुर्यं सौन्दर्यं तव मानिनि ।
व्यर्थमेवेति जानीहि सरसं दयितं विना ॥ ९८ ॥
विना क्रूरस्वरं काकमाकन्दं मकरन्दितम् ।
गाहस्व गाढं गन्तारः कोकिलं मन्वते जनाः ॥ ९९ ॥
(अथ समासोक्तिः--)
अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने ।
समासोक्तिद्विधा सापि श्लिष्टाश्लिष्टविभेदतः ॥
आदौ रक्तो गोभिः संमान्यैन्द्रीमुखं चुचुम्बायम् ।
अद्य समुज्झितरागः स्पृहयति भूयोऽपि वारुणीं गन्तुम् ॥ १०० ॥
(प्राचीनम्--)
विदितं ननु कन्दुक ते हृदयं प्रमदाधरसगमलुब्ध इह ।
करतामरसाभिहतः पतितः पतितः पदतः पुनरुत्पतसि ॥ १०१ ॥
(अथ श्लेषः--)
नानार्थसंश्रयैः शब्दैः साधर्म्यप्रतिपादनम् ।
वर्ण्यावर्ण्योभयेषां चेच्छ्लेषालंकृतिरिष्यते ॥
लसद्वराहश्रीर्व्यक्तकमलाश्लिष्टसद्रसः ।
स सूर्यः सर्वदा भूयात्तेजस्वी मङ्गलाय ते ॥ १०२ ॥
सदानभोगेन राज्ञा सदृशं ते मुखं सखि ।
राजा तव प्रियो भूयात्सदा कुवलयप्रभुः ॥ १०३ ॥
प्राचीनम्--
सर्वालंकारयुक्तापि न श्लिष्टा तरुणीव सा ।
वाणी मनोजातसुखं प्रौढानां न तनोति हि ॥ १०४ ॥
(अथ परिकरः--)
साभिप्रायं विशेष्यं चेत्प्रोक्तः परिकराङ्कुरः ।
त्वदङ्गालोकने तन्वि पौलोमीवल्लभः पटुः ।
(अथाप्रस्तुतप्रशंसा--)
अप्रस्तुतप्रशंसा तु प्रस्तुतं यदि गम्यते ।
अप्रस्तुतस्य कथनात्सारूप्यादिनिबन्धनात् ॥

सारूप्यस्य तथा कार्यात्कारणस्य विशेषतः ।
सामान्यस्य विशेषस्य सामान्यात्कारणात्तथा ।
कार्यस्येति च पञ्च स्युः प्रतिपत्तिविभेदतः ॥
प्राचीनम्---
वेलावनाली यदि नीरदाना निषेवते नीरनिषेचनानि ।
गम्भीरता वा बहुनीरता वा तरङ्गिता वा जलधेर्वृथैव ॥ १०५ ॥
कलाहीनोऽभवच्चन्द्रो राधिके ते मुखोदये ।
आलिङ्गनोत्सुकापीयं नवोढा न स्पृशत्यमुम् ॥ १०६ ॥
कामकेलीसमारम्भे लज्जामाप वरानना ।
मुञ्च मुञ्च विभो क्लेशं तद्भर्ता मधुरामगात् ॥ १०७ ॥
(अथ पर्यायोक्तम्--)
प्रकारान्तरमाश्रित्य तद्विवक्षितवस्तुनः ।
सुचारु कथनं यत्र पर्यायोक्तं तदिष्यते ॥
कन्धरायां सैन्धवास्यं बन्धुरं यस्य सुन्दरम् ।
बन्धनच्छेदको भूयाद्बन्धुरानन्दपाथसः ॥ १०८ ॥
(अथ पर्यायोक्तम्--)
प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतं तथा ।
कारणं गम्यते तत्रान्यत्पर्यायोक्तमीरितम् ॥
कृष्ण साद्य सनिःश्वासं कृशाङ्गी भुवि लुण्ठति ।
स्वस्याथ वा परस्येष्टकार्यसंपादनं मिषात् ।
पर्यायोक्तं तदन्यत्स्यादिति केचित्प्रचक्षते ॥
(प्राचीनम्--)
नवमल्लिकास्त्रजमभीष्टतमःशुचिसंभवां प्रणयिनीशिरसि ।
कलयन्स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा ॥ १०९ ॥
अये ननन्दृसहिता व्रजामि निजमन्दिरम् ।
पिधाया[१]ररमा प्रातः सुखं स्वपिहि सुन्दरि ॥ ११०॥

(अथ परीकरः--)
परीकरः परिकरः साभिप्राये विशेषणे ।
दद्यात्ते संपदो राजन् केशवः कमलापतिः ॥
(अथ व्याजस्तुतिः--)
स्तुत्या वा गम्यते निन्दा निन्दया गम्यते स्तुतिः ।
व्याजस्तुतिरसौ यत्र स्तुत्या वा गम्यते स्तुतिः ॥
त्वामेव प्रेयसीं नूनं जानामि मम दूतिके ।
त्वदीयाभिरनेकाभिः क्रियाभिर्यत्स तोषितः ॥ १११ ॥
साध्वि धिक् त्वां वृथा भर्तृसेवाशुष्कासि संततम् ।
दृशापि न स्पृशस्येनं तादृशं सरसं विटम् ॥ ११२ ॥
सुकृतं कृतमेतेन किं पद्मेन न विद्महे ।
यतः शातोदरीपादसमतासुखमीहते ॥ ११३ ॥
(अथ व्याजनिन्दा--)
व्याजनिन्दा मता निन्दा निन्दया गम्यते यदि ।
विधिरेव विनिन्द्योऽयं किमागस्तव सुन्दरि ।
कन्दर्पकल्पानीदृक्षान्पल्लवान्निर्ममे यतः ॥ ११४ ॥
(अथाक्षेपः---)
आक्षेपोऽपह्नवाद्भिन्नो निषेधो जनरञ्जनः ॥
स चाभासितसंगुप्तभेदाद्द्वेधा प्रकीर्तितः ॥
शुद्धाक्षेपस्तृतीयः स्यादिति केचित्प्रचक्षते ।
शुद्धाक्षेपो निषेधश्चेत्स्वोक्तस्यैव विचारणात् ॥
आनय प्रेयसी दूति यद्वा सागच्छति स्वयम् ।
आभासिताक्षेप उक्तो विशेषप्रतिपत्तये ।
वक्ष्यमाणस्य वोक्तस्य निषेधाभासकीर्तनम् ॥
वक्ष्यमाणोक्तभेदेन स द्वेधा परिकीर्तितः ।
वक्ष्यमाणाक्षेप उक्तो वक्ष्यमाणनिषेधतः ॥

विज्ञापयामस्ते किंचिद्दाशार्हकुलशेखर ।
विज्ञापनं किमथ वा सर्वज्ञे रक्षके त्वयि ॥ ११५ ॥
केचित्तु--
वक्ष्यमाणो भवेद्द्वेधा सामान्यांशविभेदतः ।
प्रतिज्ञाय च सामान्यं निषेधः कथनस्य चेत् ॥
सामान्यवक्ष्यमाणाख्य आक्षेपः परिकीर्तितः ।
अस्योदाहरणम् 'विज्ञापयामः' इत्यादि ।
अंशाक्षेपोऽपि चांशोक्तावंशान्तरनिषेधतः ॥
सर्वलोकाधिपः कृष्णो यूयं चार्कफलोपमाः ।
तद्युक्तमेवमथ वा किमुक्तैरिति साब्रवीत् ॥ ११६ ॥
इत्याहुः।
उक्ताक्षेपो भवेद्द्वेधा सवस्तुकथनात्मना ।
वस्तुनस्तु निषेधश्चेद्वस्त्वाक्षेप इतीर्यते ॥
सारसारसपत्राक्षि सखी नाहं स माधवः ।
भ्रामं भ्रामं निकुञ्जेषु मुहुः शुष्यति ताम्यति ॥ ११७ ॥
कथनस्य निषेधश्चेत्कथनाक्षेप उच्यते ॥
रक्षणीयोऽहमित्युक्ती रक्षादीक्षे कथं त्वयि ।
तिरोहिते निषेधे च व्यक्तेऽनिष्टविधौ सति ।
संगुप्ताक्षेपनामासावलंकारः प्रकीर्तितः ॥
गच्छ गच्छसि चेच्छीघ्रं वृथा किमु विलम्बसे ।
मारसुन्दर तत्रैव कन्याया मे वरो भव ॥ ११८ ॥
(अथ प्रस्तुताङ्कुरः--)
प्रस्तुते वर्ण्यमाने तु प्रस्तुतान्तरवस्तुनः ।
सारूप्येण द्योतनं चेत्तत्र स्यात्प्रस्तुताङ्कुरः ॥
प्राचीनम्--
कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ११९॥

(अथ विरोधाभासः--)
आपाततो विरोधश्चेद्विरोधाभास इष्यते ।
जात्यादीनां विरोधाः स्युर्जातिद्रव्यक्रियागुणैः ॥
तस्मादयं दशविधः कथितः श्लेषजीवितः ।
निरूपणं तु जात्यादेः शेषबिन्दौ भविष्यति ॥
[२]ज्जन्तो लोअमिअं राएत्ति जणेहिं सलहणिज्जोसि ।
माहव णिरिव कहं सा रत्ता वि वलक्खिआ जाआ ॥ १२० ॥
सुगमत्वादिहैतेषा दिङ्मात्रमिति दर्शितम् ॥
(अथ विषमम्--)
घटनानर्हयोर्यत्र घटना विषमं मतम् ।
क्वेयं कनकवर्णाङ्गी सुन्दरी कामिनीमणिः ।
क्व पतिस्तादृशो वक्रः कीदृशी घटना विधेः ॥ १२१ ॥
हेतोर्विरूपकार्यस्योत्पत्तिश्च विषमं मतम् ॥
सितान्कटाक्षान्सृजति नेत्रमिन्दीवरप्रभम् ।
इष्टार्थोद्यमतोऽनिष्टप्राप्तिश्च विषमं मतम् ।
मार्ष्टु कलङ्कं शीताशुर्मुखं सोऽजनि सुभ्रुवः ।
तत्रापि तिलकव्याजात्कलङ्कक्लेशमन्वभूत् ॥ १२२ ॥
इष्टार्थोद्यमनाद्यत्र नेष्टानाप्तिश्च केवलम् ।
अनिष्टस्याप्यवाप्तिश्चेदपरं विषमं मतम् ॥
पाञ्चालीसङ्गसंमोदकाङ्क्षया रङ्गमन्दिरम् ।
प्रविष्टः कीचकस्तत्र सद्यो मर्दनमन्वभूत् ॥ १२३ ॥
परानिष्टार्थमुद्योगात्स्वानिष्टाप्तिश्च तन्मतम् ॥
दिधक्षन्हनुमत्पुच्छमन्वभूत्स्वपुरक्षयम् ।
(अथ विशेषोक्तिः---)
विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे ।

उभयोः सदृश रूपं चातुर्यं विजनस्थितिः ।
अहो तथापि दैवेच्छा नाभूत्सङ्गसुखं तयोः ॥ १२४ ॥
(अथासंभवः--)
असंभवोऽर्थनिष्पत्तेरसंभाव्यत्वकीर्तनम् ॥
को वेद बालः फालाक्षचापमारोपयेदिति ।
(अथ विभावना--)
विनापि कारणं कार्यस्योत्पत्तिः स्याद्विभावना ।
अनादृतोऽपि मीनाक्ष्या तामेवासौ निषेवते ।
विभावना परा धर्मविकलेनापि हेतुना ॥
उत्पत्तौ यदि कार्यस्य सबन्धविकलेन वा ।
अदृढैः कौसुमैः शस्त्रैरजयज्जगदात्मभूः ॥ १२५ ॥
कार्योद्भवश्चेत्प्रत्यूहे सत्यप्यन्या निदर्शना ।
पत्यौ सुप्तेऽपि पार्श्वे सा मामाश्लिष्यति कामिनी ।
विभावना चतुर्थी चेत्कार्योत्पत्तिरकारणात् ॥
इन्दीवरदलात्पश्य निःसरन्ति सिताः शराः ।
विरुद्धहेतोः कार्यं चेत्पञ्चमी स्याद्विभावना ।
कर्पूरपङ्कः(ङ्काः ?) कञ्जाक्षीं हन्त संतापयन्ति ताम् ।
षष्ठी विभावना प्रोक्ता कार्यात्कारणजन्म चेत् ॥
प्राचीनम्--
अम्बुजमम्बुनि जातं क्वचिदपि न च जातमम्बुजादम्बु ।
बाले नवरतिकाले तवाक्षिसरोजाद्विगलितमम्बु ॥ १२६ ॥
(अथासंगतिः--)
भिन्नाधिकरणत्वे तु कार्यहेत्वोरसंगतिः ।
कृष्णे बिभ्रति भूभारं विनम्रा जनमौलयः ।
अन्यत्र करणीयस्य वस्तुनोऽन्यत्र चेद्यदि ।
करणं तत्र विबुधाः द्वितीयासंगतिं विदुः ।
राजन्प्रत्यर्थिवामाङ्गी कङ्कणं नयनेऽकरोत् ॥ १२७ ॥

कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ॥
मोहं हर्तुं प्रवृत्तोऽपि बल्लवीर्मोहयत्यसौ ।
(अथ विचित्रम्--)
विचित्रं विपरीतश्चेत्तत्प्रयत्नः फलेच्छया ।
महत्सुखमवाप्तुं ते भवन्ते शैलवासिताम् ॥ १२८ ॥
(अथाधिकम्--)
आधाराधेययोरानुरूप्याभावोऽधिकं द्विधा ॥
पृथुलादपि चाधारादाधेयाक्षेपया स्वतः ।
आधेयाधिक्यकथनमधिकं प्रथमं मतम् ॥
अनन्तेष्वपि वेदेषु न विश्राम्यति ते स्तुतिः ।
विशालादपि चाधेयादाधाराक्षेपया स्वतः ।
आधाराधिक्यकथनं द्वितीयमधिकं मतम् ॥
प्रादेशमात्रे यत्कुक्षौ ब्रह्माण्डानि लुठन्ति हि ॥ १२९ ॥
(अथ समम्--)
समं स्याद्योगकथनं वस्तुनोरनुरूपयोः ।
मिथोऽनुरूपयोः प्रीती राधामाधवयोरभूत् ।
कारणेनानुरूप्यं च कार्यस्यान्यत्समं मतम् ॥
अबलाहननं युक्तं जातिभ्रष्टस्य ते मधो ॥ १३० ॥
अनिष्टमन्तरा स्वेष्टकार्यसिद्धिर्यदा भवेत् ॥
इष्टार्थोद्यमनात्तत्र तृतीयं सममिष्यते ॥
मा रणं कुरु पुत्रेति जनकेन नियोजितः ।
पितुराज्ञामनुल्लङ्घ्य मारणं कृतवान्द्विषाम् ॥ १३१ ॥
(अथ व्याघातः--)
यत्कार्यसाधनत्वेन प्रसिद्धं यज्जगत्तले ।
तत्तद्विरुद्धकार्यस्य येन केनापि साधनम् ॥
क्रियते यदि तत्राद्यो व्याघातः परिकीर्तितः ।

कुसुमैः प्रीयते लोको हन्ति तैरेव तं स्मरः ।
यत्कार्यसाधनत्वेन चैकेनोपात्तवस्तु च ॥
तत्प्रतिद्वन्द्विनान्येन तद्विरुद्धस्य साधनम् ।
क्रियेत चेद्द्वितीयस्तु व्याघातः परिकीर्तितः ॥
दि[३]ट्ठिविअग्घं मअण जा दिट्ठिआ एव्व जिव्वेन्दि ।
सुविरुव्वअक्खधिक्किइणिवुणाण करेम्हि खु त्थुइं तासम् ॥ १३२ ॥
विशेषकार्यनिष्पादकतया येन केनचित् ।
संभाव्यमानादर्थाच्च सौकर्येण समर्थ्यते ॥
तद्विरोधिक्रियान्येन चेद्व्याघातोऽपरो मतः ।
दारिद्र्यशङ्कामासाद्य मैवं दानपरो भव ।
तामेव शङ्कामासाद्य तात दानपरोऽस्म्यहम् ॥ १३३ ॥
(अथाल्पम्--)
अल्पं तु सूक्ष्मादाधेयादाधारस्यातिसूक्ष्मता ॥
कनिष्ठिकोर्मिकां कान्ता कण्ठाभरणमातनोत् ।
(अथ विशेषः--)
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितेः ।
कथनं प्रथमान्यत्र विशेषालंकृतिर्मता ।
विना कासारमम्भोजं पश्य विद्युति राजते ॥ १३४ ॥
व्यत्यासोऽन्यो विशेषः स्यादाधाराधेययोर्यदि ॥
कुसुमेषु भ्रमराणां स्थितिरिह दृष्टा न चालिषु सुमानाम् ।
अधुनालकमधुपालौ दृष्टा कुसुमस्थितिः सरोजाक्ष्याः ॥ १३५ ॥
अप्रकल्प्यान्यदाधारं प्रसिद्धाधारमन्तरा ।
स तृतीयो विशेषश्चेदाकल्पं कथ्यते स्थितिः ॥
प्राचीनम्--
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥ १३६ ॥

चतुर्थोऽपि विशेषश्चेदनेकत्रैकवर्णनम् ।
यत्र यत्र गता दृष्टिस्तत्र तत्रापि सैव मे ।
एकस्यारम्भतोऽशक्यकार्यान्तरकृतिश्च सः ॥
विद्वंस्त्वा पश्यता लब्धं कमलाकान्तवीक्षणम् ॥ १३७ ॥
(अथान्योन्यम्--) ।
परस्परोपकारस्य कथनेऽन्योन्यमिष्यते ।
लक्ष्म्या विराजते राजा राज्ञा लक्ष्मीर्विराजते ।
(अथ कारणमाला--)
पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुताम् ।
भजते यदि संप्रोक्ता तदा कारणमालिका ॥
सद्विद्यया नयोत्कर्षो नयोत्कर्षेण संपदः ।
संपद्भिर्भवति त्यागस्त्यागेन विपुलं यशः ॥ १३८ ॥
तथोत्तरोत्तरं पूर्वपूर्वकारणतां यदि ।
लभते चेद्द्वितीया तु तदा कारणमालिका ॥
भवति त्रिदिवः पुण्यात्पुण्यमैश्वर्यतो भवेत् ।
ऐश्वर्यं दानतो दानं वैराग्यात्तत्सुसङ्गतः ॥ १३९ ॥
(अथैकावली--)
विशेषणत्वकथनं पूर्वपूर्वान्प्रति क्रमात् ।
यत्रोत्तरोत्तरेषां चेदियमेकावली मता ॥
राधामुखं चन्द्रसारं चन्द्रो माधववक्त्रभाः ।
माधवः कामसदृशः कुशलाय सदा मम ॥ १४० ॥
पूर्वपूर्वेषां तथोत्तरोत्तरं प्रति च क्रमात् ।
विशेषणत्वकथनं द्वितीयैकावली मता ॥
कान्तामुखाभं यत्तस्य यो वैरी स यदुद्भवः ।
तं योऽकरोत्तस्य मूलं यस्तन्नेत्रः स पातु वः ॥ १४१ ॥
प्रथमैवापोहिता चेत्तृतीयैकावली मता ।

न तद्राज्यं प्रजा यत्र न संतुष्टा न ताः प्रजाः ।
यासां न सुप्रभुर्नायं सुप्रभुर्न हरिहृदि ॥ १४२ ॥
(अथ यथासंख्यम्--)
पूर्वोद्दिष्टपदार्थानां पश्चादपि यथाक्रमम् ।
अनुद्देशो भवेत्तत्र यथासंख्यं प्रकीर्तितम् ॥
प्राचीनम्--
वीटीकराग्रा विरहातुराङ्गी चेटीमवादीदिह चित्तजेषुः ।
प्राणप्रियो जीवितमर्धरात्रोऽप्यायाति नायाति न याति याति ॥ १४३ ॥
क्रमालंकारमेतच्च केचिदूचुर्विपश्चितः ।
(अथ मालदीपकम्--)
दीपकैकावलीयोगश्चेन्मालादीपकं मतम् ॥
संपत्तिर्वसुधां प्राप्ता वसुधा कृष्णभूभृतम् ।
कृष्णभूभृद्यशोराशि यशोराशिर्जगत्त्रयम् ॥ १४४ ॥
(अथ पर्यायः--)
एकस्य वस्तुनोऽनेकेष्वाधारेषु प्रवर्तनम् ।
क्रमेणैकैकसंत्यागात्पर्यायः प्रथमो मतः ॥
आदौ पृथ्वीकिटेर्दंष्ट्रां ततः फणिपतेः शिरः ।
त्रेतायां रामदोर्दण्डं पश्चाद्यौधिष्ठिरी भुजाम् ॥ १४५ ॥
आधारेष्वनेकेषु तथैकस्य प्रवर्तनम् ।
पर्यायोऽपि द्वितीयः स्यादेकैकत्यागतः क्रमात् ॥
ओष्ठ एव पुरा राग इदानीं हृदि दृश्यते ।
इमं विकासपर्यायाभिधं केचित्प्रचक्षते ।
एकस्मिन्नेव चाधारेऽनेकाधेयप्रवर्तनम् ॥
पर्यायेण तृतीयश्चेत्पर्यायः परिकीर्तितः ॥
बाल्यमादौ वयः पश्चादधुना स्थाविरं तयोः ॥ १४६ ॥
(अथ परिवृत्तिः--)
समाधिकानां न्यूनानां समन्यूनाधिकैः समम् ।
यदा विनिमयस्तत्र परिवृत्तिरलंकृतिः ॥

प्रीतिं दत्त्वा सरोजाक्षी जगृहे कामिनो मनः ।
तुलसीमञ्जरीमेकां दत्त्वा भेजुर्हरेः कृपाम् ।
दत्त्वा सुधामुचो वाचः कविर्भेजे कपर्दिकाम् ॥ १४७ ॥
(अथ परिसंख्या--)
एकस्य वस्तुनः प्राप्तिरनेकत्रैकदा यदि ।
निषिध्यैकत्र चान्यत्र परिसंख्या नियन्त्रणम् ॥
सा तु द्विधा मता प्रश्नपूर्वकाप्रश्नपूर्विका ।
निषेधस्यापि शाब्दत्वार्थत्वाभ्यां ते द्विधा पुनः ॥
अश्लिष्टश्लिष्टभेदेन सर्वा अपि पुनर्द्विधाः ।
एवं चाष्टविधा प्रोक्ता परिसंख्या मनीषिभिः ॥
कः कटुभावं भेजे दुर्जननिकरो न पारिभद्रतरुः ।
किं क्रूरं जगति भृशं पतिसुतहीनाङ्गनाहृदयम् ॥ १४८ ॥
हृदयं भगवति सुधियो न तु परतरुणीभकुम्भकुचभारे ।
सुमनोजननिचयानां स्तुतिरपि कमलापतेश्चरण एव ॥ १४९ ॥
कस्योप[४]पत्यभावः स्त्रैणस्य न तु सुधीकदम्बस्य ।
कुत्र च विष[५]महितत्वं कमलाकर एव रामराज्यभरे ॥ १५० ॥
[६]विहतवीराभिमता द्युमणिपुरी नापि रामराजपुरी ।
[७]न्मालागुणभङ्गस्त्व[८]धरप्रीतिः सुरत एव ॥ १५१ ॥
(अथ समुच्चयः--)
गुणक्रियोभयेषां वा यौगपद्यं समुच्चयः ।
माधव तव दयितेयं विरहपरीवाहविप्लुता सुतनुः ।
अलसा मलिना दीना विवशा शुष्का निरीक्षते मार्गम् ॥ १५२ ॥
कि चास्याः शृणु वृत्तं माधव यमुनातटीनिकुञ्जेषु ॥
विलुठति ताम्यति शेते भ्राम्यति नितरां मुहुर्मुहुः श्वसिति ॥ १५३ ॥

धावति मुहुरुत्कम्पं व्याकुलतारं समीक्षते भूयः ।
प्रलपति विस्खलदक्षरमुदयद्दैन्यं तनोति सा चेष्टाः ॥ १५४ ॥
केचित्तु भिन्नविषयेऽप्येनमाहुः समुच्चयम् ॥
माधवः प्रेक्षते राधां कन्दर्पो विशति स्वयम् ।
अहंप्रथमिकाभाजां बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥
विनयो दक्षता त्यागो माधुरी चातुरी धनम् ।
विद्या वयः कुलं रूपमुत्तमं कथयन्ति तम् ॥ १५५ ॥
(अथ विकल्पः--)
विकल्पस्तुल्यबलयोर्विरोधः कथ्यते यदि ।
कौरवाः क्रियतां मूर्ध्ना धनुषां वा विनम्रता ।
(अथ समाधिः--)
एककार्यस्य सौकर्यं कारणान्तरसंनिधेः ।
काकतालीयनियमात्समाधिस्तत्र कीर्त्यते ॥
मानं तस्याः परीहर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दैवेन हिमांशुरुदयं गतः ॥ १५६ ॥
(अथ सारः--)
उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते ।
सुन्दरी शारदा तस्याः पद्मा तस्याश्च राधिका ।
उत्तरोत्तरमश्लाघ्यगुणोत्कर्षोऽप्यसौ मतः ।
प्राचीनम्--
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना कि न नीतोऽसौ मामयं प्रार्थयेदिति ॥ १५७ ॥
(अर्थ कारकदीपकम्--)
एककारकगानां तु क्रियाणां कालभेदतः ।
गुम्फनं क्रियते यत्र तत्र कारकदीपकम् ॥

निवारितोऽपि शतशो याचको धनिना भटैः ।
गच्छत्यागच्छति पुनर्द्वारे तिष्ठति पृच्छति ॥ १५८ ॥
(अथ काव्यार्थापत्तिः--)
कैमुत्येनार्थनिष्पत्तिः काव्यार्थापत्तिरीरिता ।
स मागधो जितस्तेन का वार्तामन्यहीभृताम् ।
(अथोल्लासः--)
एकस्य वस्तुनो यत्र गुणेनान्यस्य वस्तुनः ।
गुणस्य वर्णने तस्मिन्नुल्लासः प्रथमो मतः ॥
यदयं तादृशीं राधां सेवते नन्दनन्दनः ।
एको धन्यतमो नूनमितरे तु भुवो भरः ॥ १५९ ॥
एकस्य वस्तुनो यत्र दोषेणान्यस्य वस्तुनः ।
दोषस्तु वर्ण्यते तत्र द्वितीयोल्लास इष्यते ॥
चन्दन नन्दन मा कुरु वासं व्याप्ते वनेऽत्र दुर्वंशैः ।
तेऽन्योन्यघर्षणाग्निस्पृष्टाः सर्वं दहेयुरिह दावम् ॥ १६० ॥
गुणेन दोषकथने तृतीयोल्लास इष्यते ।
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ।
उल्लासस्तु चतुर्थः स्याद्दोषेण गुणवर्णने ॥
त्यक्तोऽस्मि मर्कटेनेति मा व्यथां कुरु सन्मणे ।
लाभोऽयमेव ते यस्माच्चूर्णितोऽसि न चाश्मना ॥ १६१ ॥
(अथ प्रत्यनीकम्--)
प्रतिपक्षस्य बलिनः प्रतीकारेऽतिदुष्करे ।
तत्पक्षस्य तिरस्कारः प्रत्यनीकमितीष्यते ॥
माधवेन जितः कामो बाधते राधिकां मुहुः ।
(अथ विकस्वरः--)
समर्थनार्थं विन्यस्य विशेषार्थस्य कस्यचित् ।
सामान्यं तत्प्रसिद्ध्यर्थमुपमानतया तथा ॥

अथ वार्थान्तरन्यासविधया कथ्यते यदि ।
पुनर्विशेषान्तरं चेत्तत्र प्रोक्तो विकस्वरः ॥
अनेकविद्यानिपुणस्य तस्य संगीतराहित्यमभून्न हान्यै ।
एको हि दोषः सुगुणेषु मग्नो भवेत्सुधांशोः किरणेष्विवाङ्कः ॥ १६२ ॥
रे व्यासटि त्वं भज वाजिशालां मौनेन घोटीं मनुते जनस्त्वाम् ।
स्थानप्रभावेन हि वस्तु धन्यं को नाह चित्रं नृपफालपङ्कम् ॥ १६३ ॥
(अथ मिथ्याध्यवसितिः--)
वस्तुनः कस्यचिद्यत्रात्यन्तमिथ्यात्वसिद्धये ।
मिथ्याध्यवसितिर्मिथ्याभूतार्थान्तरकल्पनम् ॥
दुष्कीर्तिर्बधिरश्राव्या मूकगेयास्य भूभुजः ।
(अथ काव्यलिङ्गम्--)
काव्यलिङ्गं हेतुना स्यात्समर्थव्यसमर्थनम् ।
वाक्यार्थत्वे पदार्थत्वे हेतोर्द्वैविध्यमिष्यते ॥
जितोऽनया स्मरो नूनं यामालिङ्गति वल्लभः ।
कन्दर्पमजयद्विप्रस्त्रिनेत्राक्रान्तमानसः ॥ १६४ ॥
(अथ संभावना--)
एकार्थस्य सिद्ध्यर्थ (?) तर्कः संभावना मता ।
पश्येयं तेऽङ्गसौन्दर्य यद्यहं स्यां पुरंदरः ।
(अथावज्ञा--)
अवज्ञैकगुणेनान्यगुणालाभे प्रकीर्तिता ।
कस्तूरिकामपि प्राप्य न सुगन्धिः सुकन्दकः ।
अन्यावज्ञैकदोषेणान्यदोषालाभ ईरिता ॥
नीचानामपुरस्कारे लघुता सज्जनस्य का ॥ १६५ ॥
(अथार्थान्तरन्यासः--)
अप्रस्तुतविशेषार्थान्तरन्यसनपूर्वकम् ।
सामान्यप्रस्तुतस्यार्थान्तरन्यासः समर्थनम् ॥

प्राचीनम्--
तादृशां तादृशैरेव संबन्धो भुवि शोभते ।
विषाननपरिष्वङ्गो विषकण्ठस्य भूषणम् ॥ १६६ ॥
विशेषस्य प्रस्तुतस्य सामान्येन समर्थनम् ।
द्वितीयोऽर्थान्तरन्यासः क्रियते प्रस्तुतेन चेत् ॥
अस्तमिते खरकिरणे तमसा क्रान्तं जगत्तु बहुशोऽभूत् ।
निजशत्रोर्हि परोक्षे लोकः सर्वोऽपि वृद्धिमभियाति ॥ १६७ ॥
कार्यकारणभावेन प्रस्तुतार्थसमर्थनम् ।
तृतीयार्थान्तरन्यासं केचिदूचुर्विपश्चितः ॥
प्राचीनम्--
भूपाः प्रतापरुद्रस्य नता भवत नोन्नताः ।
उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ १६८ ॥
(अथ प्रौढोक्तिः--)
उत्कर्षाकारणे यत्रोत्कर्षहेतुत्वकल्पनम् ।
क्रियते तत्र विद्वद्भिः प्रौढोक्तिरिति कीर्तिता ॥
भ्रामं भ्रामं मुधा कान्ते व्यापारयसि कि मयि ।
नेत्रं कलिन्दकन्याम्भःपुष्टनीलोत्पलच्छवि ॥ १६९ ॥
(अथ ललितम्--)
प्रस्तुते वर्ण्यमानार्थप्रतिबिम्बस्य चेद्यदि ।
वृत्तान्तस्याप्रस्तुतस्य वर्णनं ललितं मतम् ॥
क्व तादृशी कुलवधूः क्व चायं दुर्भगः पुमान् ।
पङ्गुः शृङ्गं समुत्तुङ्गं मेरोरारोढुमिच्छति ॥ १७० ॥
(अथानुज्ञा--)
दोषस्यैवार्थनानुज्ञा तत्रैव गुणदर्शनात् ।
मम दारिद्र्यमेवास्तु याचको यन्न बाधते ।
(अथोदात्तम्--)
चरितं श्लाघ्यमन्याङ्गं चेदुदात्तमलंकृतिः ।

वयस्य पश्य यमुना सा वरीवर्तते पुरः ।
यत्तटीकञ्जपुञ्जेषु रेमे राधिकया हरिः ॥ १७१ ॥
ऋद्धं चेद्वर्ण्यते वस्तु द्वितीयोदात्तमिष्यते ॥
द्वारकायां सुधीगेहप्राङ्गणोत्सृष्टमौक्तिकाः ।
कपोती ग्रसते यत्तत्त्यागलीलायितं विधोः ॥ १७२ ॥
(अथ लेशः--)
गुणे दोषत्वस्य दोषे गुणत्वस्य च कल्पनम् ।
यदि स्यात्तत्र विद्वद्भिर्लेशालंकृतिरुच्यते ॥
गुणवन्तः क्लिश्यन्ते गुणलवविधुरास्तु सर्वदा सुखिनः ।
बध्यन्ते मधुरगिरः कीराः काकास्तु कामसंचाराः ॥ १७३ ॥
(अथ प्रहर्षणम्--)
अपेक्षितार्थसिद्धिश्चेद्विना यत्नं प्रहर्षणम् ।
राधिकासंगमोपायचिन्तां कुर्वति माधवे ।
स्वयमेवागता सा तमालिलिङ्ग मुदा तदा ॥ १७४ ॥
अपेक्षिताधिकार्थस्य सिद्धिश्चान्यत्प्रहर्षणम् ॥
याचते घटिकामेकां राधां सङ्गसुखं हरिः ।
अहोरात्रं सहानेन सापि रेमे मनस्विनी ॥ १७५ ॥
फलस्योपायसिद्ध्यर्थं प्रयत्ने च कृते सति ।
तदैव फललाभश्चेत्तृतीयं स्यात्प्रहर्षणम् ॥
राधिकानयनार्थाय दूतीमन्वेष्टुमुद्यतः ।
मध्येमार्गं नन्दसूनू राधिकामेव दृष्टवान् ॥ १७६ ॥
(अथ विषादनम्--)
अपेक्षितविरुद्धार्थप्राप्तिश्चेत्स्याद्विषादनम् ।
कमलोदरमकरन्दं दूरादागत्य संभ्रमाद्भ्रमरे ।
आघ्रातुमुद्यतेऽस्मिन्हन्त तदानी तदुज्जहार करी ॥ १७७ ॥
(अथ मुद्रा--)
सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरात्पदात् ।

मालतीकुसुमामोदबन्धुरैषा वनस्थली ।
न्यसनं प्रकृतार्थानां प्रसिद्धक्रमतो यदि ।
उदिता तत्र विद्वद्भी रत्नावलिरलंकृतिः ॥

गद्यम्--

 मुरारिरयं कृतघनपुष्पमालाविलासः कृतभूभ[९]रणो भूदारो हि[१०]रण्यकशिपुक्षेत्रदाता अपहृतब[११]लिपरसंपत्तिः प[१२]रशुभोल्लसितः परितोषितज[१३]नकतनयो य[१४]शोदयादृतवपुः श्रीघ[१५]नजनस्तुतः क[१६]विकालसद्भूषणकरो माधवो[१७]ऽरुणेनाधरबिम्बेन, कलानिधिना मुखेन, सुमङ्गलेन मधुरवचसा, प्रहर्षणेन विभ्रमेण, गुरुणा स्तनभारेण, कविस्तुत्येन शीलेन, मन्देन गमनेन, विकचेन नयनोत्पलयुगलेन, तमोरुचिरेण कचनिचयेनोद्भासमानां रुक्मद्युतिरमणीयां रुक्मिणीमवलोकयामास ।

न्यसनं सह पाठानामक्रमेणापि सा मता ।
गुरुणा स्तनभारेण हासेन श्वेतरोचिषा ।
गमनेन सुमन्देन रेजे ग्रहमयीव सा ॥ १७८ ॥
(अथ पूर्वरूपम्--)
पुनः स्वीयगुणत्यागानन्तरं स्वगुणग्रहः ।
कथ्यते यत्र तत्रोक्ता पूर्वरूपमलंकृतिः ॥
राधिकानासिकामुक्ता लोहिताप्यधरत्विषा ।
पुनः स्वां रुचमानिन्ये सितेन स्मितरोचिषा ॥ १७९ ॥

पूर्वावस्थानुवृत्तिश्च विगते सति वस्तुनि ।
कथ्यते चेद्द्वितीयं तु पूर्वरूपमुदाहृतम् ॥
प्राचीनम्--
व्याख्याता स निशि कदाचन प्रदीपे
सशान्ते पुनरपि वाचयाबभूव ।
शिष्यान्स्वान्पुरुकरुणाम्बुधिर्निजाङ्घ्रे-
रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ १८० ॥
(अथ तदुणः--)
तद्गुणः स्वगुणत्यागानन्तरान्यगुणग्रहः ।
अधरप्रभया कान्तानासामुक्तारुणाभवत् ।
(अथ मीलितम्--)
मीलितं यत्र सादृश्याद्भेद एव न लक्ष्यते ॥
नालक्षि कज्जलं नेत्रे नीलोत्पलदलप्रभे ॥ १८१ ॥
(अथातद्गुणः--)
अतद्गुणः संगतान्यगुणास्वीकार उच्यते ।
घनमण्डलसक्तापि ते कीर्तिः शशिसच्छविः ।
(अथानुगुणः--)
पूर्वस्थितस्वीयगुणोत्कर्षश्चेदन्यवस्तुनः ।
संनिधानवशात्तत्रानुगुणालंकृतिर्मता ॥
लभते रक्तिमोत्कर्षं लीलाम्भोजं करांशुभिः ॥ १८२ ॥
(अथ सामान्यः--)
व्यावर्तको विशेषश्चान्योन्यं यत्र न लक्षते ।
सादृश्यात्तत्र सामान्यमलंकारं विदुर्बुधाः ॥
कीर्तावुज्जृम्भितायां ते जनैर्नालक्षि जाह्नवी ।
(अथ पिहितम्--)
पिहितं चेत्परोदन्तं ज्ञात्वा साकूतचेष्टया ।
प्रकाशस्तत्पुरस्तस्या गूढस्य क्रियते यदि ॥
तल्पं सा कल्पयामास प्रेयसि प्रातरागते ॥ १८३ ॥

(अथोन्मीलितम्--)
भेदानध्यवसाये च सादृश्यात्सति कारणात् ।
कुतोऽपि हेतोर्भेदस्य स्फूर्तावुन्मीलितं मतम् ॥
बालापादतले सक्तं यावकं सहजारुणे ।
आर्द्रत्वेनैव जानन्ति स्पर्श स्पर्श सखीजनः ॥ १८४ ॥
(अथोत्तरम्---)
गूढाभिप्रायसहितोत्तरमुत्तरमिष्यते ।
तद्द्विधोन्नेयसंबन्धप्रश्नोत्तरविभेदतः ॥
भवने बान्धवाः सन्ति पान्थ किंचिन्न विद्यते ।
गोष्ठीने तमसाक्रान्ते सुखं वससि चेद्वस ॥ १८५ ॥
प्राचीनम्--
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८६ ॥
(अथ सूक्ष्मम्--)
विदग्धमात्रज्ञेयं चेत्सूक्ष्मं साकूतचेष्टितम् ।
पश्यन्त्यां मयि साकूतं सखी गोष्ठीनियन्त्रिता ।
तरलं गोपयामास सस्मितं तरुणीमणिः ॥ १८७ ॥
(अथ भा[१८]विकम्--)
प्रत्यक्षत्वेन कथनमतीतार्थस्य भाविकम् ॥
अद्यापि तन्मम दृशोर्धुरि वर्तते य-
द्रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य वेगा-
त्कर्णेऽपि तं कनकपत्त्रमनालपन्त्या ॥ १८८ ॥
द्वितीयं भाविकं भूतं मानसत्वेन वर्ण्यते ।
हृद्यद्यापि वरीवर्ति राधा यदक्रोद्रते ।

(अथ विशेषकः--)
सदृशानां च वस्तूनां येनकेनापि हेतुना ।
व्यावर्तकविशेषस्य स्फुरणे स्याद्विशेषकः ॥
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
प्राप्ते वसन्तसमये काकः काकः पिकः पिकः ॥ १८९ ॥
(अथ व्याजोक्तिः--)
यया कयापि हेतूक्त्या प्राप्ताकारस्य गोपनम् ।
स्वस्याथ वा परस्यापि व्याजोक्तिः क्रियते यदि ॥
ओट्ठ[१९]म्मि वि त्थणतडम्मि परिक्खदा वि
लालेसि किंत्ति हलिणाछि सुअं सुवंकम् ।
दट्ठूण तुज्झ पइणो हिअअम्मि रोसो
संवड्ढइ प्पअडदो तुइ जालिणित्ति ॥ १९० ॥
(अथ विवृतोक्तिः--)
श्लिष्टं च गुप्तमर्थं तु यद्याविष्कुरुते कविः ।
यथाकथंचित्तत्र स्याद्विवृतोक्तिरलंकृतिः ॥
भ्राम्यति स्फारमुद्याने भ्रमरो रमणादरः ।
सखीसमाजगामेवं वक्ति सा साक्षिसूचनम् ॥ १९१ ॥
(अथ गूढोक्तिः--)
यत्रान्योद्देशकं वाक्यं यदन्यं प्रतिकथ्यते ।
किंचिच्छ्लेषेण चेत्तत्र स्याद्गूढोक्तिलंकृतिः ॥
सदा रामान्तरपृथुलकुचग्रहणोद्यमम् ।
वत्स मा कुरु चौर्येण बली जागर्ति तत्पतिः ॥ १९२ ॥
(अथ युक्तिः--)
यया कयापि क्रियया परेषां वञ्चनं यदि ।
परस्य स्वस्य वा मर्मगुप्त्यै युक्तिरलंकृतिः ॥

त्वामालिखन्तीं कञ्जाक्ष ननन्दां वीक्ष्य राधिका ।
अलिखच्चतुराह्नाय कौसुमं कार्मुकं करे ॥ १९३ ॥
(अथ लोकोक्तिः--)
लोकवादानुकरणं लोकोक्तिर्यदि कथ्यते ।
अनुसरति तव ननन्दा नन्दकुमारं परापि सानन्दा ।
तव किं नीरजनयने पश्य मुदोन्मील्य माधवं नयने ॥ १९४ ॥
(अथ छेकोक्तिः--) ।
अभिप्रायविशेषस्य व्यञ्जकत्वं यदा भवेत् ।
लोकोक्तेरेव तत्र स्याच्छेकोक्तिः परिकीर्तिता ॥
पादचार्येव जानीते शिलाशकलमार्दवम् ।
(अथ स्वभावोक्तिः--)
स्वभावोक्तिर्यथा चारु यथावद्वस्तुवर्णनम् ।
अंशुके कुचतटाद्गलितेऽभूत्स्वस्तिकाकलितकान्तकुचान्ता ।
उन्नमय्य चिबुकाञ्चितहस्तं ह्रीनमद्वदनमक्षि चुचुम्ब ॥ १९५ ॥
(अथ वक्रोक्तिः--)
एकार्थेनोक्तवाक्यस्य काक्वा श्लेषेण वान्यथा।
योजनं क्रियते यत्र वक्रोक्तिस्तत्र कीर्तिता ॥
प्राचीनम्--
असमालोच्य कोपस्ते नोचितोऽयमितीरिता ।
नैवोचितोऽयमिति तं ताडयामास मालया ॥ १९६ ॥
तरणि पश्य सुश्रोणि कान्त कुत्रास्ति नौरिह ।
सवितारं प्रिये वच्मि स्वगृहे वर्तते पिता ॥ १९७ ॥
(अथ चित्रम्--)
चित्रं निबध्यते यत्र प्रश्नाभिन्नोत्तरं तदा ।
शालेः का[२०]सारवत्युर्वी प[२१]थिकस्य हृतं धनम् ।

(अथ प्रतिषेधः--)
प्रतिषेधः प्रसिद्धस्य निषेधः कविरञ्जकः ।
नैवेयं खुरली धूर्त विदुषां वर्तते सभा ॥ १९८ ॥
(अथ विधिः--)
सिद्धस्यैव यदार्थस्य विधानं चेत्तदा विधिः ।
सभायां शास्त्रगोष्ठीषु विद्वान्विद्वान्भवेत्सखे ।
(अथ निरुक्तिः--)
हेतुना येन केनापि योगेनान्वर्थता यदि ।
नाम्नां चेत्कल्प्यते यत्र निरुक्तिस्तत्र कीर्तिता ॥
यद्गर्भात्कन्यकारत्नं लेभे जनकभूपतिः ।
तस्मादस्या भुवो नाम रत्नगर्भेति सार्थकम् ॥ १९९ ॥
(अथ हेतुः--)
कार्येण सार्क हेतोश्चेद्वर्णनं हेतुरुच्यते ।
प्राचीनम्--
एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ २०० ॥
केचित्प्रचक्षते हेतुं हेतुकार्यैक्यवर्णनम् ।
दुर्जनानामर्चनैव गाम्भीर्यं विदुषां महत् ।
प्रश्नं चापि तथात्युक्तिं केचिदूचुरलंकृतिम् ॥
(अथ प्रश्नः--)
प्रश्नः सगूढाकूतश्चेद्बध्यते प्रश्न इष्यते ।
भो पान्थ पुस्तकधर क्षणमत्र तिष्ठ
वैद्योऽसि किं गणकशास्त्रविशारदोऽसि ।
केनौषधेन मम पश्यति भर्तुरम्बा
भर्तागमिष्यति कदा बहुदूरवासी ॥ २०१ ॥
(अथात्युक्तिः--)
अद्भुतासत्यकथनं मतात्युक्तिरलंकृतिः ॥

त्वत्प्रतापाग्निना सप्त सागरा अपि शोषिताः ।
पुनस्त्वद्वैरिकान्ताक्षिवारिभिः परिपूरिताः ॥ २०२ ॥
(अथ रसवान्--)
रसो यत्र परस्याङ्गं स्यात्तन्न रसवान्मतः ।
जीयात्स भूदाररूपी महात्मा जगतां पतिः ।
आतपत्रश्रियं धत्ते दंष्ट्राग्रे यस्य मेदिनी ॥ २०३ ॥
भावः परस्य चाङ्गं चेत्प्रेयोऽलंकार इष्यते ॥
कदा मुदा सामिविलोचनान्तं व्यापारयन्तीं कुटिलालकान्ताम् ।
आलिङ्ग्य कान्तां कुचभारतान्ता चुम्बामि बिम्बाधरमम्बुजाक्षीम् ॥ २०४ ॥
(अथोर्जस्वित्--)
रसाभासः परस्याङ्गं चेदूर्जस्विदलंकृतिः ।
स जीयादप्रतिद्वन्द्वो राजा यद्विषदङ्गना ।
आलिङ्गत्यसकृत्प्रेम्णा पुलिन्दं विन्ध्यभूमिषु ॥ २०५ ॥
भावाभासः परस्याङ्गं चेदप्यूर्जस्विदिष्यते ॥
स्वस्ति तेऽस्तु महीपाल वने त्वद्रिपुकामिनी ।
पुलिन्दतरुणान्वीक्ष्य सव्रीडस्मितमातनोत् ॥ २०६ ॥
(अथ समाहितम्--)
भावशान्तिः पराङ्गं चेत्समाहितमलंकृतिः ।
स भूयान्मम रक्षायै यस्य प्रत्यर्थिना मुखे ।
रणाङ्गणे तृणं वीक्ष्य दृक्कोणं शोणिमात्यजत् ॥ २०७ ॥
(अथ भावोदयः--)
भावोदयः पराङ्गं चेद्भावोदय इतीरितः ॥
कटाक्षान्किरति प्रेम्णा सा बाला मयि या पुरा ॥
किमिदं कुचयोरालीत्युक्ता जाता नतानना ॥ २०८ ॥
(अथ भावसधिः--)
भावसंधिः पराङ्गं चेद्भावसंधिरलंकृतिः ।

संग्रामपटहारावैः कान्तालिङ्गनसंभ्रमैः ।
पुलकाङ्कितसर्वाङ्गः सोऽग्रहीत्तत्क्षणं धनुः ॥ २०९ ॥
(अथ भावशाबल्यम्--)
भावशाबल्यमन्याङ्गं भावशाबल्यमिष्यते ॥
मनोजात त्वं मां व्यथयसि नताङ्गी किमु वृथा
पुराराति शीघ्र व्रज गतदयं मर्दय शरैः ।
यदि स्यात्तातोऽसावहमपि तदा तेऽस्मि जननी
सपत्नीमातुस्तेऽहमिति यदि कृष्णाय कथये ॥ २१० ॥
(अथ प्रत्यक्षम्--)
संनिकर्षभवं चारु ज्ञानं प्रत्यक्षमुच्यते ।
इयं मदनमानिनी किमुत कामिनी वज्रिणो
गिरीशवरसुन्दरी किमु मृगाङ्ककान्ताथ वा ।
इति व्रजजनश्चिरं मनसि हन्त संशय्य तां
समीपभुवि राधिकां सपदि निश्चिकाय स्फुटम् ॥ २११ ॥
(अथानुमानम्--) ।
हेतुसाध्यविनिर्देशे त्वनुमानमलंकृतिः ॥
भ्रूचापवल्ली किल भाति यस्मिन्निन्दीवराशालदृगाशु गोपि ।
भुजध्वजाग्रे मकरोऽपि यस्मान्मन्ये तदङ्गं स्मरराट् शताङ्गम् ॥ २१२ ॥
(अथोपमानम्--)
उपमानं चातिदेशवाक्यार्थज्ञानमिष्यते ।
प्राचीनम्--
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमास्थितः ॥ २१३ ॥
(अथ शब्दः--)
प्रमाणत्वेन वेदादिवर्णने शब्द इष्यते ॥
सखि मा कुरु शीतांशौ दोषारोपं मनस्विनि ।
मुरारेर्मानसं सूनुं यमाहुः श्रुतिराशयः ॥ २१४ ॥

(अथार्थापत्तिः--)
अन्यथानुपपत्त्या च यत्र वस्तुव्यवस्थितेः ।
निर्धारणं पुनस्तस्य तदार्थापत्तिरिष्यते ॥
विधाता निर्ममे देहं हरिणाक्ष्या हरिद्रया ।
नो चेद्रागः सुधाधानादधरे न हि संभवेत् ॥ २१५ ॥
(अथानुपलब्धिः--)
अप्रत्यक्षप्रमाणत्वेऽनुपलब्धिलंकृतिः ।
असदेवावलग्नं तेऽनुपलब्ध्योऽहते बुधः ।
कामेन्द्रजालं यदृते कुचकुम्भस्थितौ पुनः ॥ २१६ ॥
(अथैतिह्यम्--)
पारम्पर्यप्रवादश्च यत्रानिर्दिष्टवक्तृकः ।
निबध्यते तदा तस्मिन्नैतिह्यालंकृतिर्मता ॥
प्राचीनम्--
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २१७ ॥
(अथ संभवः--)
संभवस्तु निमित्तेन वस्तुसंभावना यदि ।
राधिकासदृशी कान्ता नासीदस्ति भविष्यति ।
मैवं वद विधेः सृष्टिर्विचित्रा विपुला मही ॥ २१८ ॥
केचिदाचारात्मतुष्टी प्रमाणालंकृती विदुः ॥
महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ २१९ ॥
प्राचीनम्--
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ २२० ॥
अर्थशब्दोभयेषां वालंकाराणां च मेलने ।
तिलतण्डुलसंश्लेषन्यायात्संसृष्टिरिष्यते ॥

सुकवेर्भणितिः सद्यः श्रवणपुटेष्वहह माधुरीं सृजति ।
तरुणस्वान्तसरोजे प्रेममरन्दं विलासिनी दृष्टा ॥ २२१ ॥
स जयति बल्लवबालो बल्लवललनारतान्तविश्रान्तिम् ।
कुरुते मिलदलिपुञ्जे मञ्जुलमल्लीमतल्लिकाकुञ्जे ॥ २२२ ॥
किचिदुत्स्फटितपङ्कजगन्धैरञ्चितः शिशिरशावसमीरः ।
तं चकार कमला त्वयि कोपं मुञ्चतामिति च वक्तुमिवागात् ॥ २२३ ॥
यत्र नीरक्षीरनयादस्फुटान्योन्यमेलने ।
अलंकृतीनां तत्र स्यात्संकरः परिकीर्तितः ॥
अङ्गाङ्गिभावसंदेहसमप्राधान्यसंकराः ।
तथैकवाचकानुप्रवेशश्चेति चतुर्विधः ॥
अलंकृतीनामन्योन्योत्थाप्योत्थापकता यदि ।
अङ्गाङ्गिभावनामासौ संकरालंकृतिर्मता ।
विजातीयसजातीयभेदेन द्विविधो मतः ॥
कुचकैतवमस्य बिभ्रतः पटजालेन खगस्य बन्धनम् ।
अकरोदिव पाणिपञ्जरस्थितये नन्दसुतस्य कामिनी ॥ २२४ ॥
तिलकभ्रमरस्फारविलासेन मनोरमम् ।
आननं मृगशावाक्ष्याः सरोरुहमिवाबभौ ॥ २२५ ॥
एकालंकारकोट्यां च प्रतिक्षेपो भवेद्यदि ॥
तदन्यालंकारकोटेस्तत्र संदेहसंकरः ।
प्राचीनम्--
मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी ।
फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥ २२६ ॥
अलंकारेण केनापि चैकदोत्थापनं यदि ।
अनेकेषामेकवाक्ये समप्राधान्यसंकरः ॥
अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ २२७ ॥

अनेकालंकृतीनां चेदेकवाचकबद्धता ।
तदैकवाचकानुप्रवेशसंकर इष्यते ।
भुजंगलीलासंतृप्तो नरेन्द्रो दीनहिसकः ।
याच्ञावृत्तिपरो भाति विषवैद्य इव प्रभुः ॥ २२८ ॥

इत्यलंकारप्रकरणम् ।


ध्वनिस्तु लक्षणामूलाभिधामूलभिदा द्विधा ।
तत्राद्ये लक्षणामूले वाच्यं स्यादविवक्षितम् ॥
विवक्षितं चान्यपरमभिधामूलकध्वनौ ।
आद्यस्तु लक्षणामूलो गूढव्यङ्ग्यप्रधानकः ॥
अर्थान्तरे संक्रमिते वाच्येऽत्यन्ततिरस्कृते ।
इति द्विधापि स द्वेधा पदवाक्यगतत्वतः ॥
एवं चतुर्विधः प्रोक्तो लक्षणामूलकध्वनिः ।
वाच्यस्यार्थान्तरत्वेन परिणामो यदा भवेत् ॥
अर्थान्तरे संक्रमितवाच्यमाहुस्तदा ध्वनिम् ।
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु ।
अर्थान्तरे संक्रमितवाच्यं चेह पदे भवेत् ।
शृणु मे वचनं वत्स कुरु भक्ति वृषध्वजे ॥ २२९ ॥
अर्थान्तरे संक्रमितवाच्यं वाक्ये भवेदिह ।
वाच्यार्थे त्वन्वयायोग्ये स्यादत्यन्ततिरस्कृतम् ॥
नीलिमालिप्तदिक्प्रान्ताः कान्तादृक्प्रान्तवीचयः ।
इत्यादिषु पदे वाच्यं स्यादत्यन्ततिरस्कृतम् ॥ २३० ॥
धवलिम्ना विलिम्पन्ति यशांसि तव दिक्तटीः ।
इत्यत्र वाक्ये वाच्यं च स्यादत्यन्ततिरस्कृतम् ॥ २३१ ॥
यस्तु वाच्यविवक्षायां गूढव्यङ्ग्यप्रधानकः ।
स विज्ञेयोऽभिधामूलो द्विविधश्चैष कीर्तितः ॥
स संलक्ष्यक्रमव्यङ्ग्यालक्ष्यव्यङ्ग्यक्रमात्मना ।
उक्तो बुधैः स संलक्ष्यक्रमोऽनुरणनोपमः ॥

शब्दार्थोभयशक्त्युत्थस्त्रिधानुरणनध्वनिः ।
स्यात्पर्यायासहिष्णुत्वे शब्दशक्त्युद्भवो ध्वनिः ॥
अलंकृतेर्वस्तुनो वा प्राधान्याच्छब्दशक्तितः ।
यत्र व्यक्तिर्भवेत्सोऽयं शब्दशक्त्युद्भवो द्विधा ।
पदवाक्यगतत्वेन द्विविधोऽपि पुनर्द्विधा ॥
चित्ते स्फुरति तद्रूपं हरेर्दैत्यद्विपद्विषः ।
इत्यत्र शब्दशक्त्युत्थः स्यात्पदेऽलंकृतिध्वनिः ॥ २३२ ॥
प्रतापवानिनो भाति भजन्नुदयमुच्चकैः ।
इत्यादौ शब्दशक्त्युत्थः स्याद्वाक्येऽलंकृतिध्वनिः ॥ २३३ ॥
समरे त्वद्भुजाशौर्य पश्यन्त्यनिमिषद्विषः ।
इत्यादौ शब्दशक्त्युत्थः स्यात्पदे वस्तुनो ध्वनिः ॥ २३४ ॥
अवनी च वनी च त्वद्द्विषां न दिशति स्थितिम् ।
इत्यादौ शब्दशक्त्युत्थो वाक्ये वस्तुध्वनिर्भवेत् ॥ २३५ ॥
अर्थस्य तु स्वतःसिद्ध्या कविप्रौढोक्तिकल्पनात् ।
वक्तुः कविनिबद्धस्य प्रौढोक्त्या कल्पनात्तथा ॥
त्रैविध्यादर्थशक्त्युत्थध्वनिश्चापि त्रिधा मतः ।
वस्त्वलंकारभेदेन त्रिविधोऽपि पुनर्द्विधा ॥
ते व्यङ्ग्यव्यञ्जकत्वेन षड्विधाश्च पुनर्द्विधा ।
पुनर्वाक्यगतत्वेन तथा पदगतत्त्वतः ॥
तथा प्रवन्धगत्वेन सर्वेऽपि त्रिविधी मताः ।
इत्यर्थशक्तिमूलोऽयं स्यात्षट्त्रिंशद्विधो ध्वनिः ॥
अथ स्वतःसिद्धार्थशक्तिमूलध्वनिं निरूपयामः--
अविदूरे निशा याति किमित्यालि विलम्बसे ।
इत्यादौ वस्तुना वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २३६ ॥
अपुरश्चरणायासं राममन्त्रः फलत्यसौ ।
इत्यादावपि वाक्ये स्याद्वस्तुनालंकृतिध्वनिः ॥ २३७ ॥

मन्वते वज्रनिर्घोषं क्ष्वेडितं ते द्विषद्गणाः ।
इत्यलंकारतो वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २३८ ॥
प्राणान्मुञ्चन्ति निशितैस्त्वद्बाणैः सह वैरिणः ।
इत्यलंकारतो वाक्ये विज्ञेयोऽलंकृतिध्वनिः ॥ २३९ ॥
द्विषत्कान्तार्चति ब्रध्नं क्षणदाभावकाङ्क्षया ।
इत्यादिषु पदे ज्ञेयो वस्तुना वस्तुनो ध्वनिः ॥ २४० ॥
अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिर्निरूप्यते--
शत्रुस्त्रैणस्मितज्योत्स्नां निधुनीते भवन्महः ।
इत्यादौ वस्तुना वस्तुध्वनिर्वाक्ये प्रकीर्तितः ॥ २४१ ॥
जयश्रीस्त्वां भजत्याजौ सेनाधूल्यन्धकारिते ।
इत्यादौ कीर्तितो वाक्ये वस्तुनालंकृतिध्वनिः ॥ २४२ ॥
नानावर्णे जगत्पूर्वं त्वत्कृतेरभवद्विभो ।
इत्यादिषु पदे वाच्यो वस्तुना वस्तुनो ध्वनिः ॥ २४३ ॥
अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलध्वनिं ब्रूमः--
प्रेमातिमानतो नश्येत्प्रसीद प्रणते प्रिये ।
इत्यादौ कथितो वाक्ये वस्तुना वस्तुनो ध्वनिः ॥ २४४ ॥
मीलिते स्मरतापेन शठ तस्या दृगम्बुजे ।
अत्र वाक्ये च कथितो वस्तुनालंकृतिध्वनिः ॥ २४५ ॥
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ।
इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्या वस्तुनो ध्वनिः ॥ २४६ ॥
प्रवातकदलीवास्ते तमालं वीक्ष्य सा हरौ ।
इति वक्तृवचःसिद्धा(द्धो)ऽलंकृत्यालंकृतिध्वनिः ॥ २४७ ॥
शठाधुना सा तनुते साहसं शशिवीक्षणे ।
अत्र वक्तृवचःसिद्धो वस्तुवस्तुध्वनिः पदे ॥ २४८ ॥
इत्यसावर्थशक्त्युत्थो दिशामात्रमुदाहृतः ।
पदप्रबन्धगत्वेनाप्युदाहार्यो यथोचितम् ॥

भवेदेकविधः सोऽयं शब्दार्थोभयशक्तिजः ।
मानहृद्द्विजराजोऽयं भाति सर्वज्ञशेखरः ॥ २४९ ॥
वाक्य एव भवेदेष शब्दार्थोभयशक्तिजः ।
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिरिष्यते ॥
वाक्ये पदैकदेशे च प्रबन्धे च तथा पदे ।
वर्णेषु रचनायां च गतत्वेन स षड्विधः ॥
वक्ष्ये साकृ(क्र)शिमाश्लिष्टा शठोच्छ्वसिति सांप्रतम् ।
अत्र वाक्ये विप्रलब्धशृङ्गारध्वनिरीरितः ॥ २५० ॥
संनिधत्ते सदा चित्ते तद्वक्त्रं तरुणीमणेः ।
असंलक्ष्यक्रमव्यङ्ग्यध्वनिरत्र पदे भवेत् ॥ २५१ ॥
एवमग्रेऽप्युदाहार्य वर्णादिषु यथोचितम् ।
एतत्सर्वं रम्यबिन्दौ सप्रपञ्चं प्रकाशितम् ॥
एवं च चैकपञ्चाशद्विधः शुद्धो ध्वनिर्मतः ।
मिश्रणेऽन्योन्यमेतेषां भेदा द्विड्दृग्गुणध्रुवाः (१३२६) ॥
चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया ।
पञ्चधा योजने तेषां भेदाः स्वाग्निरसारयः (६६३०) ।
क्रमाद्गतिर्लिपीनां स्यादङ्कानां वामतो गतिः ॥
इति ध्वनिप्रकरणम् ।
गुणीभूतव्यङ्ग्यमपि चाष्टधा परिकीर्तितम् ।
अगूढं वाच्यसिद्ध्यङ्गं तुल्यप्राधान्यमस्फुटम् ॥
संदिग्धमपराङ्गं च काकाक्षिप्तमसुन्दरम् ।
अगूढतासहृदयैरिवान्यैरपि वेद्यता ॥
सोऽयं विजयते राजा सुमनःसंघरञ्जकः ।
वाच्यसिद्ध्यङ्गमेतद्यद्विना वाच्यं न सिध्यति ।
भूभृदाभाति काश्मीरपङ्कगैरिकपाटलः ॥ २५२ ॥
वाच्यव्यङ्ग्यार्थयोस्तुल्ये तुल्यप्राधान्यमिष्यते ॥
जातस्त्वद्वैरिसुदृशा स्मरणायाञ्जनं दृशः ।

स्याद्यत्सुहृदयस्यापि दुःखवेद्यं तदस्फुटम् ।
भूपो गुणाहितप्रीतिर्भुनक्त्यम्बुधिमेखलाम् ॥ २५३ ॥
संदिग्धं तत्तु कथितं वाच्यात्प्राधान्यसंशये ॥
त्वामालोक्य रणे वैरी वीक्षते विजनं हेयम् ।
अपराङ्गं यदाङ्गे चेद्रसादेस्तु रसादिकम् ।
क्षणध्वस्तखरानीकं जानकी सस्वजे प्रियम् ॥ २५४ ॥
काक्वाक्षिप्तं तु तत्र स्याद्यत्र काक्वा विभाव्यते ।
मन्ये सा सुभगा मत्तो यां त्वमेवानुधावसि ।
वाच्यान्निकृष्टं व्यङ्ग्यं चेदसुन्दरमितीर्यते ॥
अतपःक्लेशसुकृतं ब्रह्मर्षे तव दर्शनम् ॥ २५५ ॥
चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया ।
पञ्चधा योजने तेषां चत्वारिंशद्विधं च तत् ॥
एवं निरूपिते साङ्गे ध्वन्यलंकारलक्षणे ।
सन्तो महान्तः क्षाम्यन्तु यत्किंचित्स्खलितं यदि ॥
जलजनिजनिजायाप्रेमपाकेन गोपी-
जनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतो व्यङ्ग्यबिन्दुः
सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे व्यङ्ग्यबिन्दुर्दशमः समाप्तिमगमत् ।


  1. अररं कपाटम्.
  2. 'रञ्जयल्लोकमिम राजेति जनै श्लाघनीयोऽसि ।
    माधवनृप कथ सा रक्तापि वलक्षिता जाता ॥' इति च्छाया.
  3. 'दृष्टिविदग्ध मदनं या दृष्ट्यैव जीवयन्ति ।
    सुविरूपाक्षधिक्कृतिनिपुणानां कुर्मः खलु स्तुति तासाम् ॥' इति च्छाया.
  4. उपपतेर्जारस्य, उपपत्तेर्युक्ते.
  5. विषैर्मृणालैर्महितत्वं, विषमाणा दुर्जनाना हितत्व च
  6. 'न विमुख (अर्थात्समुख) हतैर्वीरैः, अविभिर्मेषैर्हतैमारितैवीरैः, मारितमेषकैर्वा.
  7. सतो मालागुणस्य, सुधीश्रेणिगुणस्य.
  8. अधरे नीचे ओष्ठे च.
  9. भरणं पोषण धारण च; एतेन वराहावतारनिष्पत्ति.
  10. सुवर्णभोजनाच्छादनभूमीना दाता, हिरण्यकशिपुनामकदैत्यस्य विदारकः; एतेन नृसिंहावतारनिष्पत्तिः
  11. बलिना परेषाम्, बलिनामकस्य परा; एतेन वामनावतारनिष्पत्ति..
  12. परेण शुभेन उल्लसितः, परशुशस्त्रस्य भया कान्त्योल्लसित; एतेन परशुरामावतारवर्णनम्.
  13. जनकस्तनयश्च, जनकनाम्नस्तनया; एतेन रामावतारनिष्पत्तिः.
  14. यशसा दयया च, यशोदयया वा; एतेन कृष्णावतारवर्णनम्.
  15. श्रिया घनैः पूर्णैर्जनै , श्रीघन इति जनैः स्तुतः; एनेन बुद्धावतारवर्णनम्.
  16. कवीना काले समये दानार्थ सद्भूषणः करो यस्य, कविकैव लसद्भूषण यस्मिस्तादृक्करो यस्य; एतेन कल्क्यवतारवर्णनम्.
  17. अरुणादिपदानां सूर्यादिपरत्वेन सर्वेषामङ्गाना ग्रहमयत्व व्याख्येयम्.
  18. 'उन्मीलितोत्तरे सूक्ष्म विशेषो भाविक तथा ।' इत्यलकारोद्देशग्रन्थे तु भाविकात्माविशेषक उक्तः.
  19. 'ओष्ठेऽपि स्तनतटेऽपि परिक्षतापि लालयसि किमिति हरिणाक्षि शुक सुवक्रम् ।
    दृष्ट्वा तव पत्युर्हृदये रोषः सवर्धते प्रकटतस्त्वयि जारिणीति ॥' इति च्छाया.
  20. 'शालेः सारवत्युर्वी का' इति प्रश्ने 'कासारवती' इत्युत्तरम्.
  21. 'कस्य धन पथि हृतम्' इति प्रश्ने 'पथिकस्य' इत्युत्तरम्.