रम्यबिन्दुः ।

रम्यबिन्दावत्र रसलक्षणानि ब्रुवे स्फुटम् ।
तत्रादौ कारणीभूतभावलक्षणमुच्यते ॥
रसानुकूलविकृतिर्भावः स द्विविधो मतः ।
आन्तरश्चैव शारीर इतीदं सर्वसंमतम् ॥
आन्तरस्तु द्विधा स्थायिव्यभिचारिविभेदतः ।
विरुद्धैरवरुद्धैर्वा भावैर्विच्छिद्यते न यः ॥
आत्मभावं नयत्यन्यान्स्थायी यावद्रसस्थितिः ।
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ॥
जुगुप्सा विस्मयश्चाष्टौ स्थायिभावा यथाक्रमम् ।
मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ॥
विलोकयति सा कान्तं सहर्षपुलकोद्गमम् ।
हासो विकृतवेषादिदर्शनान्मानसी क्रिया ।
विकटास्थिमयी माला वस्त्रं चर्माङ्गदं फणी ।
उचितोऽहं वरो गौर्यास्तादृश्या इति सस्मितः ॥ १ ॥
शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ॥
म्रिये प्रियेण चेदेष किं करोतु स्तनंधयः ।
न चेदसह्यं वैधव्यमिति मोहमियाय सा ॥ २ ॥
प्रतिकूलेषु चित्तस्य वैरस्यं क्रोध उच्यते ।
कुठारोऽयं कठोरास्थिखण्डनोद्यत्खणा(?)कृतिः ।
भिन्द्याल्लिङ्गानि पापानां यैर्वृथा मे हतः पिता ॥ ३ ॥
चित्तस्यास्थिरता सर्वकार्येषूत्साह इष्यते ॥

प्राचीनम्--

चापमानय सौमित्रे शरानाशीविषोपमान् ।
समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः ॥ ४ ॥
भयं चित्तस्य वैक्लव्यं व्याघ्रादिजनितं मतम् ।
घनगर्जितमाकर्ण्य विशन्तो गिरिकन्दरान् ।
तेभ्यः प्रतिध्वनेर्भीता निवर्तन्ते मृगार्भकाः ॥ ५ ॥
जुगुप्सा निन्दितज्ञानं दोषसंदर्शनादिभिः ॥
इयं प्रोतकपालालीभूषणा रावभीषणा ।
[सु]पीतो(नो)त्स(त्स्य)न्दिरक्तार्द्रस्तना तिष्ठति ताटका ॥ ६ ॥
विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः ।
युध्यन्तमर्जुनं वीक्ष्य के वा देवा न विस्मिताः ।
न मेने बहु गोविन्दो दृष्टकर्णपराक्रमः ॥ ७ ॥
आभिमुख्यात्तिरोभावाविर्भावाभ्यां चरन्ति ये ॥
स्थायिभावेषु सत्स्वेव रसेषु व्यभिचारिणः ।
निर्वेदग्लानिशङ्काश्च व्रीडासूयामदश्रमाः ॥
आलस्यं दैन्यमावेगश्चिन्तामोहः स्मृतिर्धृतिः ।
हर्षश्चपलता गर्वो जडतौत्सुक्यमुग्रता ॥
विषादनिद्रापस्मारविबोधामर्षसुप्तयः ।
अवहित्थोन्मादमतिमरणव्याधयस्तथा ॥
त्रासो चितर्क इत्येव त्रयस्त्रिंशदमी मताः ।
तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदो निष्फलत्वधीः ॥
तत्रानुभावाश्चिन्ताश्रुवैवर्ण्यश्वासदीनताः ।
फलं किमेतैः सखि मे भूषणैर्भोजनैरपि ।
इत्युक्त्वाश्रु मुमोचासौ सनिश्वासं मृगेक्षणा ॥ ८ ॥
रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निर्बलता मता ॥
अत्रानुभावा वैवर्ण्यकम्पानुत्साहवामताः ।

धराधरादपि गुरुं वेत्ति सा मणिमुद्रिकाम् ।
रतिक्लिन्ना चकोराक्षी राधिका कृष्णकल्पिताम् ॥ ९ ॥
अनर्थप्रतिभाशङ्का परक्रौर्यात्स्वदुर्नयात् ॥
अत्रानुभावाः कपटवीक्षाप्रच्छादनादयः ।
जानात्यन्येति सा प्राणप्रियं कुन्तलमस्पृशत् ।
संकेतकालजिज्ञासालोलुपं वीक्ष्य राधिका ॥ १० ॥
चेतःसंकोचनं व्रीडा दुराचारादिभिर्मता ॥
अत्रानुभावास्तु शिरोनत्यङ्गावरणादयः ।
कृष्णप्रियेति सख्युक्ति श्रुत्वा जाता नमन्मुखी ।
असूया गर्वदौर्जन्यजान्योत्कर्षा सहिष्णुता ॥
अत्रानुभावा दोषोक्त्यवज्ञाभ्रुकुटिमन्यवः ।
वीक्ष्य प्रियान्वितामन्यां बालासीदारुणेक्षणा ॥ ११ ॥
संमोहानन्दसंभेदो मदिरादिकृतो मदः ॥
अत्रानुभावा निद्रा च हसितं रोदनादयः ।
उत्तमानां मध्यमानामधमानां यथाक्रमम् ॥
उल्लसन्नयनघूर्णनमीषद्भाषितस्खलनमञ्चितरोम ।
आदधौ पदमकारणहास्यं सुन्दरीहृदि मदो मदनो वा ॥ १२ ॥
आयासः श्रम इत्युक्तो रताध्वगमनादिजः ।
अत्रानुभावाः कथिताः स्वेदनिश्चेष्टितादयः ॥
प्राप्य मन्मथभरादतिवेगं दुर्वहस्तनभरा सुरतेषु ।
राधिका श्रमजलार्द्रनि[१]टालश्लिष्टकेशमपतद्धृदि तस्य ॥ १३ ॥
क्रियासु मान्द्यमालस्यं दुःखगर्भमदादिभिः ।
अत्रानुभावाः कथिता उपवेशनपूर्वकाः ॥
प्राचीनम्--
चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीभिः ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १४ ॥

सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् ।
अत्रानुभावा मलिनाननतादय ईरिताः ॥
अबलाहननं न हि तव युक्तं सुमनः सुधर्मयुक्तस्य ।
अपि मधुसूदनगुणवत आकलये ते नमः शतं भूयः ॥ १५ ॥
इष्टानभिगमादिभ्य आवेगो जातसंभ्रमः ।
युक्तायुक्तविपर्यासादयश्चात्रानुभावकः ॥
घनगर्जितमाकर्ण्य कन्दर्पाक्रान्तमानसा ।
मानिन्यपि स्वयं सद्यो जगाम शठमन्दिरम् ॥ १६ ॥
आत्मेष्टवस्तुनोऽप्राप्त्या चिन्ता तद्ध्यानमीरितम् ।
अत्रानुभावाः संतापबाष्पनिःश्वसितादयः ॥
कदा पश्यामि राधायाः कुण्डलद्वयमण्डितम् ।
अधरीकृतराकेन्दुमण्डलं मुखमण्डलम् ॥ १७ ॥
मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः ।
अनुभावा अत्र पातस्तम्भविस्मरणादयः ॥

प्राचीनम्---

कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ १८ ॥
स्मृतिः पूर्वानुभूतार्थज्ञानं सदृशदर्शनात् ।
अत्रानुभावाः कथिता भूसमुन्नयनादयः ॥
सस्मार राधिकां कृष्णो मालतीनवसंगमे ।
धृतिरानन्दथुस्तत्त्वज्ञानाभीष्टागमादिभिः ।
अत्रानुभावा अव्यग्रसंभोगकरणादयः ॥
इयं सा राधिका लब्धा किमन्याभिः फलं मम ।
इत्यव्यग्रमना गाढमालिलिङ्ग तदा हरिः ॥ १९ ॥
चेतःप्रसन्नता हर्षः स्यात्प्रेयोदर्शनादिभिः ।
अत्रानुभावाः पुलकस्वेदबाष्पोद्भवादयः ॥

प्राचीनम्--
पुलकितकुचकुम्भपालि राधा व्रजति मुकुन्दमनङ्गकेलिलोला ।
विरचयति न मध्यभङ्गभीतिं गणयति नापि नितम्बगौरवाणि ॥ २० ॥

चापलं त्वनवस्थानं रागद्वेषादिसंभवम् ।
अत्रानुभावाः स्वच्छन्दाचारनिर्भर्त्सनादयः ॥
सु[२]मितलताङ्गीकृतरतिरपि घनपुष्पेषु लोलचित्तोऽयम् ।
कृष्णभुजङ्गः पश्य त्वामभिसमुपैति शीघ्रमित एहि ॥ २१ ॥
आत्मोत्कर्षोऽन्यधिक्काराद्गर्वोऽभिजनतादिजः ।
अत्रानुभावा अन्येषामवज्ञाहसितादयः ॥
तुल्या मया किं सा धूर्त रूपाद्यैस्तव या प्रिया ।
इत्युक्त्वा सस्मितं राधा स्वाङ्गानि मुहुरीक्षते ॥ २२ ॥
जडताप्रतिपत्तिः स्यादिष्टानिष्टागमादिभिः ।
तूष्णींभावोऽत्र कथितः क्रियया वचसापि च ॥
प्रिये समागते तस्थौ क्षणं चित्रार्पितेव सा ।
कालाक्षमत्वमौत्सुक्यं रम्येच्छादिभिरीरितः(तम्) ।
श्वासोच्छ्वासत्वरागत्यादयश्चात्रानुभावकाः ॥
माधवप्रेषितामाराद्दूतिकां वीक्ष्य राधिका ।
समुत्तस्थौ सखीलोकलीलालोलापि सत्वरम् ॥ २३ ॥
दोषापराधदौर्जन्यादिभ्यो निर्दयतोग्रता ।
अत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥
जितोऽसि मन्दकन्दर्प त्वज्जेतास्ति हृदि प्रियः ।
प्रारब्धकार्यासिद्ध्यादेर्विषादश्चित्तभञ्जनम् ।
अत्रोत्तमानां हसनकारणान्वेषणादयः ॥
अनुभावा मध्यमानां विमनस्कत्वपूर्वकाः ।
अधमानां च निःश्वासमुखशोषादयो मताः ॥
गतं तेनैव मे चेतः किमत्र करवाण्यहम् ॥ २४ ॥


बाह्येन्द्रियाणां वैकल्यं निद्रादुःखश्रमादिभिः ।
अत्राङ्गभङ्गस्वप्नाक्षिमीलनोज्जृम्भणादयः ॥
स्वप्ने दृष्ट्वा प्रियं बाहू प्रसारयति सा मुधा ।
ग्रहदुःखसुखावेशोऽपस्मारस्तु भयादिजः।
कम्पस्वेदमहीपातलालाफेनोद्गमादयः ॥
कान्तानङ्गग्रहाविष्टमानसा मत्तकाशिनी ।
प्रम्लायति प्रलपति शेते शुष्यति लुण्ठति ॥ २५ ॥
विबोधश्चेतनावाप्तिर्निद्राछेदादिभिर्मता ।
अत्रानुभावा जृम्भाक्षिमर्दनादय ईरिताः ॥
चिरादुत्स्वप्नता याता विद्धेवोन्मीलति क्षणम् ।
परगर्वशमाकाङ्क्षामर्षः स्यादवमानभूः ।
अत्र स्वेदशिरःकम्पनयनारुणतादयः ॥
याहि याहि प्रिया यत्र कदर्थयसि किं वृथा ॥ २६ ॥
निद्रामुखादिभिः सुप्तिरन्तरिन्द्रियमीलनम् ।
अत्राक्षिमीलनश्वासोच्छ्वासाद्या अनुभावकाः ॥
चिरं निद्राति निश्चिन्तं त्वदाश्लेषसुखादियम् ।
आकारगोपनं चावहित्थं लज्जादिसंभवम् ।
अन्यथाकरणप्रेक्षाकथनाच्छादनादयः ॥
शुकचञ्चूक्षतं बिम्बं पश्यात्रेति सखीवचः ।
स्वाधरं गोपयामास श्रुत्वा चैलेन राधिका ॥ २७ ॥
विना विचारमाचार उन्मादः शोकहर्षजः ।
अत्रानुभावाश्च वृथाहासरोदनपूर्वकाः ॥
आगतेयं प्रियतमेत्यालिङ्गति लतामसौ ।
विमृश्य युक्तिभिः शश्वदर्थनिर्धारणं मतिः ॥
अत्रानुभावा भ्रूक्षेपकरचालनपूर्वकाः ॥
न राजीवं निशोन्निद्रमकलङ्की न चन्द्रमाः ।
किं भवेत्तर्हि तादृश्याः सर्वथा राधिकाननम् ॥ २८ ॥

मरणं त्वात्मनो देहेऽप्यनास्था दुःखसंभवा ।
अत्रानुभावाः कथितास्तूष्णींभावादयो बुधैः ॥
चन्द्रमुद्वीक्ष्य(क्ष)ते तूष्णीं बाला जीवितनिःस्पृहा ।
व्याधिः शरीरसंतापो विरहादिकृतो मतः ।
अनुभावा अङ्गपातलुण्ठनादय ईरिताः ॥
नश्येत्तस्यास्तर्हि तापो यद्यौर्वो हिमशीतलः ॥ २९ ॥
त्रासश्चित्तस्य संक्षोभ आकस्मिकभयादिभिः ।
अत्रानुभावा रोमाञ्चगात्रगौरवपूर्वकाः ॥
मानिनी स्तनितं श्रुत्वा गाढमालिङ्गति प्रियम् ।
विकल्पः कल्पनानन्त्यं संदेहादिभिरीरितः ।
अनुभावाः शिरःकम्पभ्व्रङ्गुलीचलनादयः ॥
प्रेषयामि सखीं यद्वा स्वयं यामि तदन्तिकम् ॥ ३० ॥
शारीरोऽपि द्विधा सात्त्विकानुभावविभेदतः ।
स्वपरान्यतरप्राप्तसुखदुःखादिभावनाम् (?) ॥
लब्धं यदन्तःकरणं सत्त्वं तद्वत्तया तथा ।
अयत्नजो देहधर्मः सात्त्विको भाव उच्यते ॥
स्तम्भप्रलयरोमाञ्चाः स्वरभङ्गोऽश्रुवेपथुः ।
स्वेदो वैवर्ण्यमित्यष्टविधः स कथितो बुधैः ॥
हर्षदुःखभयादिभ्यः स्तम्भो गतिनिरोधनम् ।
वीक्ष्य कान्तं प्रिया गन्तुं यतमानापि नाशकत् ।
चेष्टानिरोधः प्रलयः सुखदुःखादिसंभवः ॥
राधिका कृष्णमालोक्य मग्ना मोहमहार्णवे ॥ ३१ ॥
रोमाञ्चः पुलकोद्भेदः प्रियसंदर्शनादिभिः ।
पुलकैरुत्किरत्यन्तःकामो बाणान्प्रियागमे ।
स्वरभङ्गः क्रोधहर्षादिभ्यो गद्गदभाषणम् ॥
व्यक्तिः स्यात्स्वरभेदस्य कोपादुक्तिः क्रियेत चेत् ॥ ३२ ॥

इत्यादधाति सा मौनं प्रिये प्राप्ते कृतागसि ।
अश्रु नेत्रोद्भवं वारि दुःखहर्षादिसंभवम् ॥
हृदयं धावति प्राप्तमश्रु कान्तं निवेदितुम् ॥ ३३ ॥
रागभीत्यादिजनितं वेपथुर्गात्रकम्पनम् ॥
लतिकेव चकम्पे सा यामीति प्रेयसोदिता ।
हर्षशोकभयादिभ्यः स्वेदस्त्वङ्गाज्जलोद्गमः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी राधिका बभौ ॥ ३४ ॥
वैवर्ण्यमन्यवर्णत्वं रागदुःखभयादिभिः ॥
कुक्कुटे कुर्वति क्वाणमाननं श्लिष्टयोस्तयोः ।
दिवाकरकराक्रान्तशशिकान्तमिवाभवत् ॥ ३५ ॥
अथो रसाननुभवगोचरत्वं नयन्ति ये ।
प्रयत्नजा देहधर्मा अनुभावाश्च ते मताः ॥
अनुभावा द्विधा प्रोक्ताः शुद्धाभिनेयभेदतः ।
तत्रानारोपिताः शुद्धा अन्त्या आरोपिता नटे ॥
द्विविधाः स्युः पुनर्द्वेधा वाचिकाङ्गिकभेदतः ।
वाग्व्यापारो वाचिकः स्यादङ्गव्यापार आङ्गिकः ॥
स्मितं नेत्रप्रसादश्च प्रमोदो मधुरं वचः ।
कटाक्षश्च भुजाक्षेपो धृतिरास्यप्रसन्नता ॥
इत्याद्यङ्गविकाराः स्युः शृङ्गारे त्वनुभावकाः ।
कुञ्चनं वेषवाक्याङ्गविकारा ओष्ठचालनम् ॥
कपोलनासास्यन्दाद्या हास्ये स्युरनुभावकाः ।
निःश्वासवचनं मोहः संतापः परिदेवनम् ॥
देहाभिघातरुदितदाहाद्याः करुणे रसे ।
नानाप्रहारभ्रुकुटीकराग्रपरिपेषणम् ॥
दन्तोष्ठपीडनशिरःकम्पाद्या रौद्र ईरिताः ।
पराक्रमोत्साहशौर्यवीर्यधैर्यप्रधानकाः ॥

आक्षेपादियुता वाचो रसे वीरेऽनुभावकाः ।
रोमाञ्चस्वरभेदाङ्घ्रिकरनेत्रादिकम्पनम् ॥
शुष्कोष्ठतालुकण्ठाद्या अनुभावा भयानके ।
नेत्रास्यघूर्णनं नासामुखाक्ष्याच्छादनानि च ॥
निष्ठीवनाद्या बीभत्से अनुभावा रसे मताः ।
हाहाकारः साधुवादः कम्पो गद्गदभाषणम् ॥
निर्निमेषप्रेषणाद्या अनुभावाः स्युरद्भुते ।
विभावस्तु ज्ञायमानरसोत्पादनकारणम् ॥
स विभावो द्विधा चालम्बनोद्दीपनभेदतः ।
आलम्बनविभावस्तु यमालम्ब्याभिजायते ॥
कार्यं स स्याद्द्वितीयस्तु निमित्तं कारणं मतम् ।
उद्दीपनविभावोऽपि प्रोक्तः प्राज्ञैश्चतुर्विधः ॥
आलम्बनालंकरणं तच्चेष्टा तद्गुणास्तथा ।
तटस्थश्चेति तत्सर्वं निर्दिशामि क्रमादिह ॥
आलम्बनविभावास्तु नायकादय ईरिताः ।
आलम्बनालंकरणं हारनूपुरपूर्वकम् ॥
तथालम्बनचेष्टास्तु हावभावादयो मताः ।
आलम्बनगुणाश्चापि रूपयौवनपूर्वकाः ॥
तटस्थाः शीतकिरणमलयानिलपूर्वकाः ।
माल्यालंकारर्तुगानकाव्यसेवासुधाकराः ॥
चन्दनोद्यानगत्याद्याः शृङ्गारोद्दीपका मताः ।
विकृतालंकारवेषाचारव्याहारपूर्वकाः ॥
उद्दीपनविभावास्तु रसे हास्ये प्रकीर्तिताः ।
शापेष्टनाशदारिद्र्यबन्धनव्यसनादयः ॥
उद्दीपनविभावास्तु कथिताः करुणे रसे ।
संग्रामायुधखड्गाभिभवार्युदितदुर्गिरः ॥

भेदनिर्भर्त्सनाद्याः स्यू रौद्रे तूद्दीपका रसे ।
व्यवसायोत्साहमोहा विषादा विस्मयादयः ॥
उद्दीपका रसे वीरे विभावाः कथिता बुधैः ।
श्मशानारण्यसंग्राममहासत्त्वादिदर्शनम् ॥
दुःस्वरश्रवणक्ष्मापापराधाद्या भयानके ।
बीभत्से चानभिमतगन्धस्पर्शरसेक्षणम् ॥
अहृद्यश्रवणस्मृत्यादय उद्दीपका मताः ।
शिल्पमायाकर्मरूपातिशयवचांसि च ॥
इन्द्रजालादयः प्रोक्ता अद्भुतोद्दीपका बुधैः ।
अनुभावविभावानां नोदाहरणमीरितम् ॥
सुगमत्वात्तथैतेषां ग्रन्थगौरवभीतितः ।
व्यभिचारिविभावानुभावैर्भावैश्च सात्विकैः ॥
एतैः समुल्लासितोऽयं भावः स्थायी रसो मतः ।
अनुभावविभावाद्यैर्यत्र चित्तस्य विश्रमः ॥
रसं तं ब्रुवतेऽन्येऽन्ये प्रबुद्धस्थायिवासनाम् ।
अलौकिको लौकिकश्चेत्येवं स द्विविधो रसः ॥
आत्मचेतःसंनिकर्षमात्रजातस्त्वलौकिकः ।
बहिः स्वसंनिकर्षेभ्यः स्यादुद्भूतस्तु लौकिकः ॥
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सोऽद्भुत इत्यष्टविधः स्यादुभयो रसः ॥
रसोऽपि नवमः शान्तः शमस्थायीति केचन ।
अन्ये तु करुणास्थायी वात्सल्यं दशमोऽपि च ॥
रसस्य तत्र नित्यत्वान्न शान्तिर्नोदयोऽपि च ।
अनित्यत्वात्तु भावानामस्ति शान्तिस्तथोदयः ॥
रसस्य संधिशाबल्ये न केनापि प्रकीर्तिते ।
भावानां संधिशाबल्ये सर्वैः कविभिरीरिते ॥

अभिलाषाद्यात्मकत्वाद्रत्यादिस्थायिनां पुनः ।
अतो न रसतैतेषामानन्दात्मा यतो रसः ॥
यूनोः परस्परं पूर्णः प्रमोदः शुचिरुच्यते ।
दैवतं विष्णुरेवास्य वर्णः श्यामः प्रकीर्तितः ॥
संभोगविप्रलम्भाभ्यां शृङ्गारो द्विविधो मतः ।
संभोगः स्याच्चुम्बनादिभेदाद्यद्यप्यनेकधा ॥
तथापि कामिनीकान्तारब्धभेदाद्द्विधा मतः ।
यथा यथा किरत्येषा कटाक्षविशिखान्प्रिये ।
तथा तथा वहत्येष सान्द्ररोमाञ्चकञ्चुकम् ॥ ३६ ॥
यूनोरन्योन्यमुदितेन्द्रियसंबन्धवर्जनम् ॥
स्याद्विप्रलम्भः शृङ्गारः कथितः स तु पञ्चधा ।
शापप्रवासाभिलाषेर्ष्यावियोगजभेदतः ॥
मुन्यादिकोपजोऽश्लेषो विप्रलम्भस्तु शापजः ।
कुन्तीमलंकृतां पश्यन्मृगयां विव्यथे स्मरन् ।
प्रवासजो विप्रलम्भः प्रिये देशान्तरोन्मुखे ॥
प्रयाणोद्युक्तकान्तस्य श्रुति वृत्तं गतं तदा ।
प्रमोदेनाश्रुणा तस्याः सार्धं धैर्येण निःसृतम् ॥ ३७ ॥
प्रागसंगतयोर्यूनोरनुरागेऽपि जाग्रति ।
अयोगः पारतन्त्राद्यैर्विप्रलम्भोऽभिलाषजः ॥
कटाक्षान्किरतोरादौ साकूतं हसतोस्ततः ।
अयने मेलने दैवाद्यदासीत्तत्कथं ब्रुवे ॥ ३८ ॥
ईर्ष्यासंभूतस्तु मानाद्विश्लेषः सागसि प्रिये ।
धन्याहं त्वत्प्रिया नाम प्रापितास्मि शठाद्य यत् ।
यूनोः कुतोऽपि विश्लेषो युक्तयोश्च वियोगजः ॥
नास्ति किं तत्र चन्द्रोऽयं यन्नाद्यापि समागतः ॥ ३९ ॥
अथ शृङ्गाराङ्कुरादिहेत्ववस्था दश ब्रुवे ।
चक्षुःप्रीतिर्मनःसङ्गः संकल्पश्च प्रजागरः ॥

अरतिः संज्वरः कार्श्यं लज्जात्यागो भ्रमस्तथा ।
ततश्चात्मजिहासा स्युरित्यनङ्गदशा दश ॥
चक्षुःप्रीतिस्तु कथित तदेकालोकने रतिः ।
पश्यन्त्यनिमिषं कान्तमासीच्चित्रार्पितेव सा ।
मनःसङ्गस्तु मनसस्तदेकासक्तता सदा ॥
कुचसंघर्षणाध्वस्तमथ वा बद्धमेतया ।
लावण्याम्भसि मग्नं वा गतं नायाति मे मनः ॥ ४० ॥
संततं तद्गतां चिन्तां संकल्पं ब्रुवते बुधाः ।
दुर्लभो वल्लभो नूनं रागोऽपि मम कोऽप्यसौ ॥
नेक्षे दूती च निपुणा न जाने भवितव्यताम् ॥ ४१ ॥
प्रजागरस्तु चिन्ताभिर्निद्राक्षतिरहर्निशम् ॥
अविनिद्रं सदाम्भोजशोभामेति तदीक्षणम् ।
अरतिस्तु भवेद्द्वेषो हृद्येष्वपि च वस्तुषु ।
चन्द्रं कलयते राधा चक्रवाकीव पावकम् ॥ ४२ ॥
संज्वरस्तनुसंतापभरः स्मरशरोद्भवः ॥
तप्तलोहीयति जलं बालाकरतलं गतम् ।
कार्श्यं तु स्मरसंतापविहिता तनुता तनोः ।
ऊर्मिकां कंकणं तच्च त(म)नुते गदमद्य सा ॥ ४३ ॥
लज्जात्यागस्तु कन्दर्पसंतापेन क्ष(त्र)पाक्षतिः ॥
उल्लङ्घ्य मानिनीधर्मं भणितं राधया तया ॥
भ्रमः स्यादयथाज्ञानं चेतनाचेतनेष्वपि ।
सखीमुखं समालोक्य त्वमित्याभाषते प्रिया ॥ ४४ ॥
आत्मत्यागोद्यमस्त्वात्मजिहासा परिकीर्तिता ॥
प्रविश्य चन्द्रिकाज्वालां पश्यन्तीन्दुं निजास्पृहा ।
प्रलापोन्मादमोहानप्याहुः केचन तदृशाः ।
प्रलापो दयिताश्लिष्टगुणालापो मुहुर्मुहुः ॥

तथा मृदुस्तथा रागी चतुरः सुन्दुरस्तथा ।
मानवत्यपि कान्ता द्राक्स्वयमेव यथा व्रजेत् ॥ ४५ ॥
उन्मादमोहावारात्प्रागत्रैव कथितौ मया ॥
आहुरेता दशाः केचिच्छृङ्गारे त्वभिलाषजे ।
केचिदाहुर्विप्रलम्भसामान्येऽपि दशा इमाः ॥ ४६ ॥
हासस्य परिपोषस्तु रसो हास्यः प्रकीर्तितः ॥
वर्णोऽस्य शुक्लो देवस्तु सिन्धुरानन ईरितः ।
हास्यस्य देवतां केचिद्ब्रुवन्ति रजनीकरम् ॥
स्वनिष्ठः परनिष्ठश्चेत्यादौ स द्विविधो मतः ।
स द्वेधापि त्रिधा ज्येष्ठमध्यमाधमभेदतः ॥
उत्तमानां स्मितं प्रोक्तं मध्यानां हसितं मतम् ।
प्रोक्तं तथातिहसितमधमानां कवीश्वरैः ॥
स्वीयहासपरीपोषो विकृतस्वक्रियादिभिः ।
यः स स्वनिष्ठो हास्यः स्याद्रस इत्युदितो बुधैः ॥
प्राचीनम्---
लेखिनीमित इतो विलोकयन्कुत्र कुत्र न जगाम पद्मभूः ।
ता पुनः श्रवणसीमसंगतां प्राप्य नम्रवदनः स्मितं दधौ ॥ ४७ ॥
अन्यहासपरीपोषो विकृतान्यक्रियादिभिः ।
परनिष्ठो हास्य इति प्रोक्तः स रसकोविदैः ॥
मन्दगं वस्त्रमुद्धृत्य मघवन्मणिकुट्टिमे ।
ततोऽम्भःपतितं वीक्ष्य जहसुर्द्रौपदीमुखाः ।
अन्येषां सुगमत्वाच्च दिङ्मात्रमिति कीर्तितम् ॥ ४८ ॥
अनिष्टाप्तीष्टनाशाभ्यां करुणः शोकपोषणम् ।
केचिदाशाच्छेदजन्येन्द्रियग्लानिं च तं विदुः ॥
वर्णः कपोतचित्रं स्याद्देवता वरुणो मतः ।
स्वनिष्ठः परनिष्ठश्चेति द्विधा करुणो रसः ॥

स्वनिष्ठः करुणः स्वस्य स्वेष्टनाशादिसंभवः ।
प्राचीनम्---
कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४९ ॥
परनिष्ठः परानिष्टप्राप्त्यादिजनितो मतः ॥
प्राचीनम्---
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ५० ॥
सर्वेन्द्रियाणामौद्धत्यं यद्वा मात्सर्यपूर्वकैः ।
क्रोधस्य च परीपोषौ रसो रौद्रः प्रकीर्तितः ।
वर्णो रक्तस्तु रौद्रस्य देवता रुद्र ईरितः ।
प्राचीनम्---
अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा नो चेन्मौलावारचयाञ्जलिम् ॥ ५१ ॥
सर्वेन्द्रियप्रहर्षस्तु रसो वीरः स तु त्रिधा ॥
दानवीरदयावीरयुद्धवीरविभेदतः ।
वर्णो गौरो देवता तु त्रिलोकेशः शचीपतिः ॥
दानवीरो मतो दानाध्यवसायादिसंभवः ।
इन्द्राय श्येनरूपाय शिबिर्मांसानि दत्तवान् ।
तस्मै ब्राह्मणरूपाय न दद्या चर्मवर्म किम् ॥ ५२ ॥
आर्द्रताध्यवसायादेर्दयावीरस्तु संभवः ॥
प्राचीनम्---
अयि विहंगवराक कपोतकं विसृज धेहि धृति मम मेदसा ।
शिबिरहं विदितो भवता न किं सकलसत्त्वसमुद्धरणक्षमः ॥ ५३ ॥
प्रतापाध्यवसायादिजोत्सवो युद्धवीरकः ।
संग्रामसंगते रामे दृष्टिश्चापं करः शरम् ।
सर्वाङ्गं पुलकं चित्तं धृतिर्धावति सत्वरम् ॥ ५४ ॥

सर्वेन्द्रियाणां विक्षोभः परिपोषो भयस्य वा ॥
भयानकः स तु द्वेधा स्वान्यनिष्ठविभेदतः ।
भयानकस्य वर्णस्तु श्यामो देवो यो मतः ॥
स्वापराधादिसंभूतः स्वनिष्ठः स्याद्भयानकः ।
गोपीगृहेषु कृतमाग उदीक्ष्य माता
मा ताडयत्यतिरुषेति गृहीतशङ्कः ।
वेषं पुपोष कपटज्वरजर्जराङ्गं
निःश्वासकम्पबहुलं किल नन्दसूनुः ॥ ५५ ॥
परकीयविभावैश्च परनिष्ठः परस्य चेत् ॥
वृकोदराननादाजौ सिंहनादे विनिर्गते ।
केचिद्भुवं गताः केचित्कम्पिता दुद्रुवुः परे ॥ ५६ ॥
जुगुप्सायाः परीपोषो यद्वा हृद्येक्षणादिभिः ।
सर्वेन्द्रियाणां संकोचो रसो बीभत्स ईरितः ॥
वर्णो नीलो देवता तु महाकाल उदाहृतः ।
स्वनिष्ठः परनिष्ठश्चेत्येव सोऽपि द्विधा मतः ॥
स्वनिष्ठः स्वकृतस्पर्शादिभ्यः स्वस्य भवेद्यदि ।
मन्दोदरीं समाधातुं व्रजन्रामो रणक्षितौ ।
तादृङ्मज्जादिकं दृष्ट्वा निष्ठीवति विकुञ्चति ॥ ५७ ॥
परनिष्ठः पराहृद्यस्पर्शादिश्रवणादिजः ॥
विष्ठाकूपे निमग्नोऽयमिति निष्ठीवति स्मरन् ।
विस्मयस्य परीपोषो रसः प्रोक्तोऽद्भुतो बुधैः ।
वर्णः पीतो देवता तु परमेष्ठी प्रकीर्तितः ॥
श्यामवर्णं त्वद्भुतस्य केचिदूचुर्विपश्चितः ।
स्वान्यनिष्ठविभेदेन सोऽद्भुतोऽपि द्विधा मतः ॥
स्वनिष्ठः स्वस्य संभूतः स्वकर्मातिशयादिभिः ।
सदान्तःपुरगा राधा तादृश्यपि कुलाङ्गना ।
कथं वशं मया नीतेत्याययौ विस्मयं स्मरन् ॥ ५८ ॥

परनिष्ठोऽद्भुतोऽन्यस्य परकर्मादिसंभवः ॥
आनने वीक्ष्य कृष्णस्य ब्रह्माण्डं विस्मिताभवत् ।
केचिदाहुः प्रवृत्तिं च निवृत्तिं च फलद्वयम् ।
माया रसः प्रवृत्तौ तु निवृत्तौ शान्त इष्यते ॥
माया रसस्य भावस्तु स्थायी मिथ्यामतिर्मता ।
विभावा भुक्तिभोगाद्या अनुभावाः सुतादयः ॥
हर्षगर्वमदाद्याः स्युर्मायायां व्यभिचारिणः ।
मिथ्यामतिपरीपोषो मायारस इतीष्यते ॥
यदि रामा यदि च रमा तनयो विनयोदयोपेतः ।
यदि तनये तनयश्चेत्परलोकेऽस्मात्किमाधिक्यम् ॥ ५९ ॥
शमस्य परिपोषस्तु रसः शान्त उदाहृतः ।
अनुभावास्तु मोक्षाद्या विभावा ज्ञानपूर्वकाः ॥
ग्लानिश्रमविषादाद्याः शान्ते स्युर्व्यभिचारिणः ।
हेयं हर्म्यं धनं देयं पेयं तीर्थजलं पदम् ।
ध्येयं गेयं हरेर्वृत्तं मग्नेनासारसंसृतौ ॥ ६० ॥
व्रीडोन्मादमदावेगविषादौत्सुक्यविस्मयाः ॥
शङ्कासूया भयं ग्लानिर्निद्रा व्याधिः स्मृतिर्धृतिः ।
चिन्तावहित्था मरणं चापलं जडतापि च ॥
इत्येव विंशतिर्भावाः शृङ्गारे व्यभिचारिणः ।
केचिदूचुश्च सकलाः शृङ्गारे व्यभिचारिणः ॥
शङ्कासूया चपलता निद्रा स्वप्नः श्रमस्तथा ।
अवहित्था ग्लानिरिति हास्ये स्युर्व्यभिचारिणः ॥
दैन्यं ग्लानिर्व्याधिचिन्ते निर्वेदो जडता स्मृतिः ।
रसे भावाः प्रयोक्तव्याः करुणे व्यभिचारिणः ॥
हर्षासूयोत्साहगर्वमदाश्चपलतोग्रता ।
रसे रौद्रे प्रयोक्तव्यास्ते भावा व्यभिचारिणः ॥

वितर्कामर्षसंमोहक्रोधासूयामदोग्रताः ।
गर्वो विबोध आवेगो वीरे हर्षस्तथा धृतिः ॥
भयानके ग्लानिदैन्ये त्रासश्च मरणं तथा ।
बीभत्से तु विषादश्चोत्साहो व्याधिर्भयं मदः ।
अपस्मारश्च मरणमिति स्युर्व्यभिचारिणः ।
अद्भुते जडतावेगमोहहर्षास्तथा धृतिः ॥
शृङ्गाराद्धास्यसंभूती रौद्राच्च करुणो भवेत् ।
वीरात्स्यादद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥
अन्योन्यं हास्यकरुणौ तथा वीरभयानकौ ।
रौद्राद्भुतौ च शृङ्गारबीभत्सौ शत्रुरूपिणीणौ ॥
रसाभासस्तु रत्यादेरनौचित्यप्रवर्तने ।
स्मृत्वा दंदह्यते चेतो दृशाप्यस्पृशती सतीम् ।
भावाभासस्तु भावानामनौचित्यप्रवर्तने ॥
कटाक्षयति सा बाला पुरा या मा निराकरोत् ॥ ६१ ॥
भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम् ।
विमते विनते तस्य दृक्कोणं शोणिमात्यजत् ।
अथ भोजनृपादीनां मतमत्र प्रकाश्यते ॥
रसो वै स इति श्रुत्या रस एकः प्रकीर्तितः ।
अतो रसः स्याच्छृङ्गार एक एवेतरे तु न ॥
धर्मार्थकाममोक्षाख्यभेदेन स चतुर्विधः ।
कथितो धर्मशृङ्गारे धीरोदात्तस्तु नायकः ॥
स्वकीया नायिका प्रोक्ता भारती वृत्तिरिष्यते ।
पौरस्त्या तु प्रवृत्तिः स्यात्पाञ्चाली रीतिरिष्यते ॥
कथितश्चार्थशृङ्गारे स धीरोद्धतनायकः ।
सर्वाश्च नायिकास्तत्र प्रवृत्तिर्मागधी मता ॥
वृत्तिरारभटी ज्ञेया गौडी रीतिः प्रकीर्तिता ।
नायकः कामशृङ्गारे स धीरललितो मतः ॥

सर्वाश्च नायिकास्तत्र प्रवृत्तिर्दाक्षिणात्यजा ।
वृत्तिस्तु कैशिकी ज्ञेया वैदर्भी रीतिरिष्यते ॥
कथितो मोक्षशृङ्गारे धीरशान्तस्तु नायकः ।
स्वकीया नायिका लाटी रीतिर्वृत्तिस्तु सात्वती ॥
अवन्त्या तु प्रवृत्तिः स्यादथोदाहरणक्रमः ।
धरामपालयद्धर्माद्राजा धार्मिकशेखरः ।
सपत्नान्दुर्जयाञ्जित्वा तद्राज्यमहरद्बलात् ॥ ६२ ॥
तथा तथानुरक्तोऽभूत्सा पश्यति यथा यथा ।
जजाप राम रामेति भ्रामयन्नक्षमालिकाम् ॥ ६३ ॥
अथ रीतिप्रवृत्तीनां ब्रूमहे लक्षणान्यपि ।
रीतिः प्रोक्ता गुणश्लिष्टपदसंघटना बुधैः ॥
वैदर्भी लाटिका गौडी पाञ्चालीति चतुर्विधा ।
बन्धा पारुष्यरहिता शब्दकाठिण्य(न्य)वर्जिता ॥
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ।
कुन्दचन्दनमन्दारैः समा चन्द्रांशुसचयैः ।
कीर्तिस्ते गोपकान्तानां संततं कान्त राजते ॥ ६४ ॥
शान्तार्णबहुला दीर्घसमासा लाटिका मता ॥
लसता पदपद्मे ते राम राम सदा हृदि ।
ओजः कान्तिगुणोपेता गौडी रीतिरितीर्यते ।
एष दुर्वारदोर्वीर्यशर्वरीचरगर्वहा ॥ ६५ ॥
पाञ्चाली चापि वैदर्भी गौडी रीत्युभयात्मका ॥
राजा विराजते सोऽयमर्थिसार्थेप्सितार्थदः ।
प्रवर्तनं प्रवृत्तिः स्यादतिप्रेम्णार्जनादिषु ।
पौरस्त्या च तथावन्त्या मागधी दाक्षिणात्यजा ॥
एवं चतुर्विधा प्रोक्ता प्रवृत्तिः सा तु कोविदैः ।
प्रवर्तनं स्यात्पौरस्त्या धर्मकीर्त्यार्जनादिषु ॥
अस्थिरासारसंसारे धर्मकीर्तिद्वयं स्थिरम् ॥ ६६ ॥

अवन्त्या तु प्रवृत्तिः स्यात्सदा निर्वाणकाङ्क्षया ।
सदास्तु ते पदध्यानं किं मे स्वर्गसुखादिभिः ।
अर्थार्जनप्रवृत्तिस्तु प्रवृत्तिर्मागधी मता ॥
क्षणाद्राज्यं हरिष्यामि निगृह्य रिपुसंचयम् ।
भोगार्जनप्रवृत्तिस्तु प्रवृत्तिर्दाक्षिणात्यजा ।
प्रियागमनवेलेयं शय्यां कल्पय दूतिके ॥ ६७ ॥
वर्गेष्वाद्यतृतीयाश्च यवलाश्चातिकोमलाः ॥
धनौ रमौ शसौ हश्च वर्णाः शान्ताः प्रकीर्तिताः ।
शेषाष्टवर्गः सर्वोऽपि परुषाः परिकीर्तिताः ॥
परुषा अन्यसंयुक्ता अतिप्रौढा भवन्ति हि ।
कोमला अन्यसंयुक्ता यान्तीषत्सुकुमारताम् ॥
असंलक्ष्यक्रमं व्यङ्ग्यं सप्रपञ्चं निरूपितम् ।
तुष्यन्तु परिगृह्णन्तु निर्मत्सरतया बुधाः ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतो रम्यबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे रम्यबिन्दुर्नवमः समाप्तिमगमत् ।

  1. ‘निचोल' इति भवेत् .
  2. पुष्पितवल्लीकृतसुरतः.