शुद्धबिन्दुः ।

शुद्धबिन्दावत्र लक्ष्माचक्ष्महे लक्ष्यलक्षितम् ।
प्रस्फुटं भेदसिद्ध्यर्थं नायकानां परस्परम् ॥
महाप्रबन्धमूलं तु नेता सीतापतिर्यथा ।
सौन्दर्यौदार्यगाम्भीर्यमाधुर्यस्थैर्यशक्तयः ॥
लोकानुरागमहिममहाभाग्यकुलीनताः ।
तेजोवैदग्ध्यलालित्यवाग्ग्मिताधर्मसंग्रहाः ॥
पण्डाविलासकरुणास्पर्धातारुण्यशुद्धयः ।
इति द्वाविंशतिर्नेतुर्गुणा अन्ये यथोचितम् ॥
सौन्दर्यं रूपलावण्यपरिलालितदेहता ।
त्वामालिखन्तीं कञ्जाक्ष [१]ननन्दां वीक्ष्य राधिका ।
लिलेखाह्वाय चतुरा कौसुमं कार्मुकं करे ॥ १ ॥
औदार्यं त्यागताच्छील्यं प्रमोदपरिपोषितम् ॥
(?)मातङ्गमदमत्तालिपुञ्जमञ्जुलगुञ्जितम् ।
माधवस्य बुधागार प्रागेवापाङ्गरङ्गितात् ॥ २ ॥
गाम्भीर्यं क्षोभसंभूतविकारपरिगोपनम् ॥
मागधेन निरुद्धेयं मधुरा माधवाधुना ।
इति दूतवचः श्रुत्वा जहास मृदुलं हरिः ॥ ३ ॥
विकारहेतौ सत्त्वेऽपि माधुर्यं श्लक्ष्णरूपता ॥
युद्धसंनद्ध[२]पाकारिं पश्यन्नपि पुरो हरिः ।
कुसुमैः कुरुते सत्यासमेतः कर्णभूषणम् ॥ ४ ॥

स्थैर्यं प्रत्यूहबाहुल्येऽप्यप्रयत्ननिवर्तनम् ॥
अपि रोषकक्षायाक्षं तर्जितस्ताडितस्तया ।
दूती प्रस्थापयामास माधवो राधिकागृहम् ॥ ५ ॥
शक्तिस्त्वसाध्यकार्यस्याप्यविलम्बेन साधनम् ॥
साध्वी कदम्बसंबद्धां तादृशीमपि राधिकाम् ।
अकरोत्स कुरङ्गाक्षी वशेऽनायासतः क्षणात् ॥ ६ ॥
लोकानुरागोऽनेकैश्च भावैः सर्वमनोहृतिः ।

वृद्धा मुकुन्दं गुरवः कुमारं कामं च कान्ता इतरे नृपालम् ।
मत्वा विरच्यात्ममनोरविन्दैर्माला बबन्धुर्हृदि माधवस्य ॥ ७ ॥

महिमा सर्वसंपूज्यदेवांशत्वं प्रकीर्तितम् ॥
कमलाकामुको देवो देवकीनन्दनोऽजनि ।
सर्वाधिपत्यसंपत्तिर्महाभाग्यमितीर्यते ।
चिन्ताकान्तापरित्यागवशालीलावशं गतः ॥ ८ ॥
क्रीडत्याशाकरिव्यूहः कामं कृष्णे धराधरे ।
महाकुलप्रसूतत्वं कुलीनत्वं विदुर्बुधाः ॥
मुखमेवाह कृष्णस्य सुधाकरकुलोद्भवम् ॥ ९ ॥
विपत्तावपि तेजोधिक्षेपाद्यसहनं मतम् ।
राधिके न वदेदे(रे)वं तत्तादृग्गुणगुम्फिते ॥
स कथं सहते भूयोऽप्यधिक्षेपवचस्तव ॥ १० ॥
वैदग्ध्यमेकीकरणमप्यन्योन्यविरुद्धयोः ॥
भुनक्ति सुखमब्जाक्षो निःसापत्न्यं मही श्रियः ।
शृङ्गारचेष्टा सहजा लालित्यं मृदुला मता ।
जीयात्स्वाभाविकी चेष्टा तादृशी राधिकापतेः ॥ ११ ॥
आभीरभामिनीभावभावने शम्भलीसखी ।
वाग्ग्मिता नीरसोक्तावप्यलं पुष्टीकृतिर्मता ॥
स एव माधवः सैव राधिकेति जनोत्तरम् ॥ १२ ॥
श्रुत्वावयोः समं सङ्गं सखे वक्तीति सोऽब्रवीत् ।

प्रसिद्ध एव धर्मः स्यादिष्टापूर्तादिका कृतिः ।
कृष्णादन्यो न लोकेष्ट इष्टशिष्टादिपालनैः ॥ १३ ॥
कार्योपयुक्तवस्तूनां संग्रहः संग्रहो मतः ॥
सर्वसाधनसंपन्ने किमलभ्यं तव प्रभौ ।
सर्वविद्यासमप्रज्ञा पण्डाशब्देन गीयते ।
वासराणां चतुःषष्ट्या सोऽग्रहीत्तावतीः कलाः ॥ १४ ॥
गतिः सधैर्या दृष्टिश्च विलासः सस्मितं वचः ॥

दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
स्मेरेरिता च भणितिर्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥ १५ ॥

अखेदापत्तिविषया चिद्वृत्तिः करुणा मता ।
पूतनाघातनोद्युक्तमाधवस्य महात्मनः ।
अबलाहननत्रस्ता वैरल्यमसवो ययुः ॥ १६ ॥
कृतचित्तविकारस्तु स्पर्धा स्वात्मगुणाधिके ॥

काशीस्थितेर्नूतनशंकराणां साधारणे धूर्जटिलक्षणेऽपि ।
पार्थप्रहारव्रणजातचिह्नं प्राचीनमीशं प्रकटीकरोति ॥ १७ ॥

तारुण्यं यौवनं प्रोक्तं
अजातश्मश्रुभेदेन गतेन क्षणमित्रताम् ।
माधवेन धृतं राज्यमशिष्टकुलकण्टकम् ॥ १८ ॥

        शुद्धिः स्यात्परिपूर्तता ।

कृष्णाङ्गुष्ठसरत्पाथः पुनाति भुवनत्रयम् ।
(?)चतुर्विंशद्गुणान्केचिदूचिरे द्वादशापरे ॥
एतादृग्गुणगम्भीरस्त्रिवर्गी च धुरंधरः ।
यशः प्रतापसुभगो नेता स्यात्स चतुर्विधः ॥
धीरपूर्वोदात्तशान्तललितोद्धतभेदतः ।

महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।
तत्सत्त्वं तच्च गाम्भीर्यं तद्धैर्यं तादृशी कृपा ।
तत्तादृग्विनयत्यागः कृष्ण एव विराजते ॥ १९ ॥
विनयो दक्षता त्यागो माधुर्यं प्रियवादिता ॥
प्रज्ञा बुद्धिः कुलीनत्वं धर्मकामार्थकारिता ।
स्मृतिर्धृतिर्दयोत्साहः कलाज्ञानं च चातुरी ॥
इतीमेऽष्टादश गुणा धीरोदात्ते मनस्विनि ।
धीरः शान्तः प्रसभात्मा धीरशान्तो द्विजादिकः ॥

प्रतिबोधयति व्यासो मुनीन्ब्रह्मसनातनम् ।
सदाचारो विवेकश्च समता च दया तथा ।
महिमा सत्यवाक्यत्वं धीरशान्तगुणा मताः ॥
निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ।

उग्रसेने प्रतिष्ठाप्य राज्यं स सुखमश्नुते ॥ २० ॥
गुणाः स्युर्धीरललिते यौवनं स्थूललक्षता ॥
प्रियंवदत्वं दाक्षिण्यं प्रियता च सुवेषता ।
दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः ॥
धीरोद्धतश्चण्डवृत्तिः सुलभक्रुद्विकत्थनः ।

कल्पाग्निसदृशक्रोधकुटिलभ्रुकुटीपटुः ।
दृप्तक्षत्रकुलारण्यं दग्धुमायाति भार्गवः ॥ २१ ॥
शौर्यं तेजश्च चापल्यं साहसं च प्रतारणम् ॥
मात्सर्योत्साहगर्वाश्च धीरोद्धतगुणा मताः ।
कलावेदविशेषानुरक्तः शृङ्गारनायकः ॥
चतुर्धा धृष्टानुकूलशठदक्षिणभेदतः ।
अकापट्यं त्वितरयोर्वञ्चनं शठधृष्टयोः ॥
व्यक्तागा अपि निर्भीतिर्धृष्टो वितथकत्थनः ।

तस्या दृगञ्जनानीलमधरं गोपय क्षणम् ।
एकस्यामेव कान्तायामनुकूलोऽनुरागवान् ॥
दृशापि न स्पृशत्यन्यां रामस्तां जानकीं विना ।
नायिकामात्रविदितपुरुविप्रियकृच्छठः ॥
दृशैवालोकसे मां त्वं संनिधत्से परा हृदि ॥ २३ ॥
अनेकास्वपि कान्तासु समात्मा दक्षिणः स्मृतः ।
समं स ववृते तासु तारास्विव निशाकरः ।
पतिश्चोपपतिश्चेति स चतुर्धा पुनर्द्विधा ॥
पतिः पाणिग्रहीता स्याद्रुक्मिण्या माधवो यथा ॥ २४ ॥
आचारहानिहेतुस्तु प्रियश्चोपपतिर्मतः ।
गोपकान्ताजनैः साकं विजहार हरिः सुखम् ।
पुनश्चतुर्धा नेता स्यान्नायकः प्रतिनायकः ॥
अनुपूर्वो नायकश्च नायकश्चोपपूर्वकः ।
तेषु सर्वगुणोपेतः कथाव्यापी स नायकः ॥
रामचन्द्रः कथाव्यापी नेता रामायणे यथा ॥ २५ ॥
अन्यायवाँस्तदुच्छेद्य उद्धतः प्रतिनायकः ।
यथा तत्रैव पापात्मा रावणः प्रतिनायकः ॥
समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ।
नेतुः कैश्चिद्गुणैर्हीनोऽपूज्यश्चोपनायकः ।
नायकस्य गुणैर्हीनो नेता त्वाभासनायकः ॥
पुनस्त्रिधा स गुणत उत्तमो मध्यमोऽधमः ।
प्रकृतेः सात्त्विकोऽपि स्याद्राजसस्तामसोऽपि च ॥
इति त्रिधा पुनर्नेता पुनर्द्वेधा प्रकीर्तितः ।
साधारणस्तथासाधारणो ज्ञेयः परिग्रहात् ॥
साधारणोऽनेकजानिरन्यो नियतभार्यकः ।
पुनर्दिव्यस्त्वदिव्यश्च दिव्यादिव्य इति त्रिधा ॥

नायकस्तत्र दिव्यस्तु पौलोमीपतिरुच्यते ।
विक्रमादिरदिव्यः स्यात्कृष्णादिरुभयात्मकः ॥
पुनश्चतुर्धा कथितः कामशास्त्रेषु जातितः ।
दत्तो भद्रः कूचिमारः पाञ्चाल इति सूरिभिः ॥
पद्मिनीवल्लभो दत्तो भद्रः स्याच्चित्रिणीप्रियः ।
पाञ्चालकूचिमारौ तु हस्तिनीशङ्किनीप्रियौ ॥
उदात्तशान्तललितोद्धताः स्युर्धैर्यवृत्तितः ।
धृष्टादयश्च चत्वारः स्वव्यापारप्रवृत्तितः ॥
नायकानां पीठमर्दविटचेटविदूषकाः ।
कुर्वन्त्येते नायिकानुकूलने तु सहायताम् ॥
पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः ।
नेतुश्चानुचरो भक्तः किंचिदूनश्च तद्गुणैः ।
रामायणे च सुग्रीवो रामकार्यस्य साधकः ।
एकविद्यो विटश्चेटः संधानकुशलो मतः ॥
स्वराङ्गादिविकारेण हास्यकारी विदूषकः ।

वल्लभे चिररात्राय विप्रयुक्ते विलासिनि ।
नीवीविस्रंसनोद्युक्ते सोऽकूजत्कुक्कुटस्वरम् ॥ २६ ॥

कार्यान्तरे सहायास्तु मन्त्री स्वं वोभयं च वा ॥
नेतुर्धर्मसहायास्तु पुरोधा ऋत्विगादयः ।
सामाद्युपायेषु नेतुः सहायाः स्युर्यथोचितम् ॥

इति नायकप्रकरणम् ।

युवानुरञ्जनाकारचेष्टा शृङ्गारनायिका ।
वितनोति मुदं यूनां विलासैः सुन्दरीमणिः ॥
स्वीया च परकीया च सामान्या चेति सा त्रिधा ।
स्वीया तत्र त्रिधा मुग्धामध्याप्रौढाविभेदतः ॥
मुग्धा तत्र द्विधा ज्ञातयौवनाज्ञातयौवना ।
द्विधोभे शुद्धविश्रब्धनवोढाभेदतः पुनः ॥

प्रौढा रतिप्रियानन्दमोहितेति द्विधा मता ।
मध्याप्रौढे पुनस्त्रेधा धीराधीरोभयात्मना ॥
ज्येष्ठाकनिष्ठाभेदेन त्रिविधे ते पुनर्द्विधा ।
कन्यापरोढाभेदेन परकीयापि च द्विधा ॥
सामान्या गणिकादिः स्यात्सैकैवं कथिता बुधैः ।
सामान्यापरकीये द्वे प्रौढे इत्येव संमते ॥
विना मुग्धामष्टविधा अवस्थाभेदतश्च ताः ।
समुग्धा अप्यष्टविधा इत्येताः केचिदूचिरे ॥
स्वाधीनपतिका विप्रलब्धा वासकसज्जिका ।
विरहोत्कण्ठिता प्रोष्यद्वल्लभा खण्डिता तथा ॥
कलहान्तरिता चाभिसारिकेति विभेदतः ।
गुणतस्तास्त्रिधापि स्युरुत्तमामध्यमाधमाः ॥
पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
पुनस्त्रिधोद्धतोदात्ता ललिताशान्तिका इति ॥
अक्षता च क्षता यातायातायायावरेत्यपि ।
पुनश्चतुर्धा कथिताः पूर्वैर्भोजादिभिर्बुधैः ॥
पद्मिनी चित्तिनी(त्रिणी) चैव शङ्किनी हस्तिनीति च ।
पुनश्चतुर्धा कथिताः कामशास्त्रेषु जातितः ॥
कफिनी वातला पित्तला प्रकृत्या पुनस्त्रिधा ।
अथोक्तानां च भेदानां लक्षणोदाहृती ब्रुवे ॥
स्वामिन्येवानुरक्तात्मा सा स्वीया परिकीर्तिता ।
जानकी सेवते रामं वनेऽपि भवने तथा ।
तद्गुणाभर्तृशुश्रूषा शीलसंरक्षणक्षमा ॥
आर्जवं गुरुभक्तिश्च सदाचारो विवेकता ।
उदयद्यौवना मुग्धा लज्जाविजितमन्मथा ॥
दृष्ट्वा नवरते कान्तं लज्जते वेपथे वधूः ॥ २७ ॥

लज्जा भयमधैर्यं च चापल्यं चाल्पकोपता ।
उत्कण्ठा शिशुचेष्टा च भूषणेष्वपि तद्गुणाः ॥
यौवनस्य परिज्ञाने सति सा ज्ञातयौवना ।
पश्यन्तीं स्वसखीं वीक्ष्य दृढं बध्नाति कञ्चुकम् ।
यौवनस्यापरिज्ञाने सा स्यादज्ञातयौवना ॥
किमिदं सखि मे वक्षो गाध(ढ)तामवगाहते ॥ २८ ॥
सा तु शुद्धनवोढा स्यादनिच्छन्त्यक्षमा रतम् ।
क्रोडीकृता बोधितापि यतते गन्तुमेव सा ।
सा विश्रब्धनवोढा स्यादिच्छन्त्यप्यक्षमा रतम् ॥
सुष्वाप भर्तृसविधे नीवीदत्तकराम्बुजा ॥ २९ ॥
लज्जामन्मथमध्यस्था मध्या चोद्भूतयौवना ॥
कान्ता रहः प्रियतममद्रष्टुं द्रष्टुमीहते ।
सापराधे प्रिये कोपो व्यक्ताव्यक्तश्च मत्सरः ॥
सपत्नीष्वभ्यसूया च प्रायो मध्यागुणा मताः ।
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥
आलिलिङ्ग स्वयं कान्ता दयितं मारसुन्दरम् ॥ ३० ॥
रतिप्रीतिश्च संमोहः प्रियाकर्षणकौशलम् ।
रतिप्रागल्भ्यमित्याद्याः प्रौढायाः कथिता गुणाः ॥
रतिप्रिया तु सुरतप्रमोदपरिलालिता ।
कर्णोत्पलं तयागोपि प्रातः कान्ते रतोद्यते ।
आनन्दमोहिता सङ्गसुखविस्मृततत्क्रिया ॥
सो रते दयिताश्लिष्टा व्यस्मरत्स्वां तनूमपि ॥ ३१ ॥
मध्या धीरा तु वद(च)ती सोत्प्रासं सागसं प्रियम् ।
सदा रामान्तरासक्त्त्या श्रान्तोऽस्यास्स्व प्रिय क्षणम् ।
मध्या त्वधीरा परुषैः खेदयेद्वल्लभं रुषा ॥
तदेकासक्तचित्तस्य मयि ते कोऽयमादरः ॥ ३२ ॥

धीराधीरा तु वक्रोक्त्या सबाष्पं वदति प्रियम् ।
युवा कान्तश्च रागी त्वमित्युक्त्वाश्रु मुमोच सा ।
प्रौढा धीरा तु चातुर्यात्खेदयेद्वल्लभं रुषा ॥
जहौ प्रत्युद्गमात्तल्पं सागसं प्रियमीक्ष्य सा ॥ ३३ ॥
संतर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम् ।
दृष्ट्वा कृतागसं कान्तमबध्नात्पुष्पमालया ।
धीराधीरा तु संतर्ज्य रत्यौदास्यं भजेत्प्रिये ॥
तल्पान्निष्कासयामास दयितं कलितागसम् ॥ ३४ ॥
स्नेहाधिक्यवती ज्येष्ठा भर्तर्यूना कनिष्ठिका ।
नेत्रे निमील्य कस्याश्चिच्चुम्बत्यन्यां रहः प्रियः ।
परकीया त्वप्रकटीकृतान्यपुरुषस्पृहा ॥
वसन्तवनसंपत्तिमीदृशीं वीक्ष्य सुन्दरि ॥ ३५ ॥
मम चित्तं पराधीनं किं वा कर्तुं समीहते ।
मृषोक्तिः साहसं चैव गोपनं च प्रतारणम् ।
संकेतचेष्टाचातुर्यं परकीयागुणा मताः ॥
तत्र कन्या त्वनूढा स्यात्सोत्कण्ठा पितृपालिता ।
कन्या सौधात्प्रेक्षते तमलसा लोलवीक्षणैः ॥ ३६ ॥
परोढा तु परेणोढा गुप्तान्यपुरुषस्पृहा ॥
सखि कुञ्जं निरीक्ष्येदं परस्मिन्रज्यते मनः ।
सामान्यां धनिकोदारजनेष्वेवानुरागिणी ।
आढ्योऽत्युदारः कान्तोऽयमेनमुत्कण्ठते मनः ॥ ३७ ॥
मृषानुरागो मात्सर्यं रतितत्रप्रगल्भता ॥
प्रायो चित्तादिलाषाद्याः सामान्याया गुणा मताः ।
प्रियोपलालिता नित्यं स्वाधीनपतिका मता ॥
हृदापि न स्मरत्यन्यां मां विना दयितो मम ।
अस्यास्तु चेष्टाः कथिताः स्मरपूजामहोत्सवः ।
वनकेली जलक्रीडा कुसुमापचयादयः ॥

विप्रलब्धा तु संकेतं गतान्यासक्तवल्लभा ।
स यस्मान्नागतः कुञ्जं कस्या वा वर्तते गृहे ॥ ३८ ॥
निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसितादयः ॥
दूतीसंप्रेषणाद्याः स्युर्विप्रलब्धागुणा मताः ।
भूषितात्मगृहा कान्तागमे वासकसज्जिका ॥
गेहं विभूष्य चात्मानं सा द्वारे त्वां प्रतीक्षते ।
अस्यास्तु चेष्टासंभोगमनोरथविचिन्तनम् ।
प्रियागमनमार्गाभिवीक्षाप्रभृतयो गुणाः ॥
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ।
समानय द्रुतं कान्तं सखि ते विहितोऽञ्जलिः ॥ ३९ ॥
अस्या गुणास्तु संतापो वेपथुश्चाङ्गन्सादनम् ॥
अरतिर्बाष्पमोक्षश्च स्वावस्थाकथनादयः ।
देशान्तरगते कान्ते खिन्ना प्रोषितवल्लभा ॥
दूरस्थो दयितो मारस्तुदत्यद्य कथं सहे ।
अस्यास्तु जागरः कार्श्यं निमित्तादिविलोकनम् ।
मालिन्यमनवस्थानं प्रायः शय्यानिषेवणम् ॥
ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता ।
मागा मत्सविधं धूर्त या प्रिया तद्गृहं व्रज ॥ ४० ॥
अस्यास्तु चिन्ता निःश्वासस्तूष्णींभावोऽश्रुमोचनम् ॥
मुहुः प्रलाप इत्याद्याश्चेष्टा इष्टा मनीषिणाम् ।
कलहान्तरिता पश्चात्तप्ता निर्याप्य नायकम् ॥
परुषं ब्रुवती धिङ्मां सरसे तादृशि प्रिये ।
अस्यास्तु भ्रान्तिसंतापमोहनिःश्वसितज्वराः ।
मुहुः प्रलाप इत्याद्याः कथिताः स्युर्गुणा बुधैः ॥
कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका ।
ययौ सा प्रियसंकेतं स्वयमेव स्मरार्दिताः ॥ ४१ ॥

दिवाश्यामाविभेदेन द्विविधा साभिसारिका ॥
दिवाभिसारिका सा स्याद्या दिवैव सरेत्प्रियम् ।
सलिलाहरणव्याजाद्ययौ कुञ्जं प्रियस्पृशम् ।
श्यामाभिसारिका सा स्याद्या रात्रौ सरति प्रियम् ॥
विलोक्य स्वजनान्सुप्तान्प्रियसंकेतमाययौ ॥ ४२ ॥
ज्यौत्स्नीतमस्विनीभेदादियं चापि पुनर्द्विधा ।
शुभ्रवस्त्रा सरेत्कान्तं रात्रौ ज्यौत्स्न्यभिसारिका ॥
क्षौम वसाना सा याति प्रियं चन्दनचर्चिता ।
नीलवेषा सरेत्कान्तं तमस्विन्यभिसारिका ।
प्रियान्तिकं प्रयात्येषा धृतनीलनिचोलिका ॥ ४३ ॥
ज्योत्स्ना यानपरा त्वाद्या तमोयानपरापरा ॥
यानमात्रविभेदेन भेदा एवं प्रकीर्तिताः ।
अस्याः संतापचिन्ताद्या विक्रियाः स्युर्यथोचितम् ॥
उत्तमा हितकर्त्री स्यादहितं कुर्वति प्रिये ।
कान्तं कृतागसमपि प्रियं सदकरोत्प्रिया ।
हिताहितोत्कृतिहिताहितकर्त्री च मध्यमा ॥
तताड लीलापद्मेन रुषा कान्तं कृतागसम् ॥ ४४ ॥
प्रसीदेति ब्रुवाणं तं पुनः प्रेम्णा व्यभूषयत् ।
अधमा कथिता या सा हितेऽप्यहितकारिणी ।
अनागस पादगतमपि कान्तं व्यभर्त्सयत् ॥ ४५ ॥
दिव्याः शच्यादयः प्रोक्ता अदिव्या मालतीमुखाः ॥
दिव्यादिव्या इति प्रोक्ता जानकीरुक्मिणीमुखाः ।
गर्वशालिन्युद्धता स्यादुदात्ता गूढमानिनी ॥
ललिता साध्यमानेहा शान्ता निर्मानमानसा ।
उदात्तैव भवेद्धीराथाधीरा तूद्धता मता ॥
ललिता तु भवेन्मुग्धा शान्ता स्वीयोत्तमा मता ।
भुक्तान्येन पुरा पश्चादूढान्येनाक्षता मता ॥

भुक्ता [३]शक्तिसुतेनोढा राज्ञा सत्यवती यथा ।
गते भर्तरि यद्यन्यं श्रिता सा तु क्षता मता ।
यथा तारा रविसुतं निहते वालिनि प्रिये ॥ ४६ ॥
यातायाता तु युगपदूढानेकैस्तु भर्तृभिः ॥
यथा पाण्डुसुतैरूढा द्रुपदस्य कुमारिका ।
ऊढैकेन तु संत्यक्ता क्रमाद्यायावरा मता ।
यथा बहुवरैरूढा माधवी चोपलात्मजा ॥ ४७ ॥
पद्मिनी चन्द्रवदना शिरीषमृदुला तथा ॥
लज्जा मानवती श्यामा गुरुसेवारता सदा ।
चित्रिणी लोलनयना शिल्पसंगीतलोलुपा ॥
तन्वङ्गी कुञ्जरगतिर्भृङ्गी श्यामलकुन्तला ।
शङ्खिनी स्याद्बृहन्मध्या कोपिन्यल्पस्तनी तथा ॥
दीर्घपादा द्रुतगतिः कुटिलाक्षी च पिङ्गला ।
हस्तिनी बहुभुक्क्रूरा निस्त्रपा पिङ्गकुन्तला ॥
ह्रस्वा स्थूलाधरा गौरशरीरामन्दगामिनी ।
कफिनी दृढरागा स्याच्छ्यामा सुस्निग्धलोचना ॥
वातुला तु कठोराङ्गी चञ्चला कृष्णपाणिजा ।
श्यामधूसरवर्णा च बहुभोज्या प्रलापिनी ॥
पित्तला शोणनयना गौराङ्गी कुशला रते ।
सा चतुर्धा पुनरपि नायिका प्रतिनायिका ॥
उपपूर्वा तथा चानुपूर्विका नायिकेति च ।
स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ॥
यथा द्रुपदजा प्रोक्ता वेणीसंहारनाटके ।
हेतुरीर्ष्यारुडादीनां सपक्षा प्रतिनायिका ।
दुर्योधनस्य दयिता तत्र भानुमती यथा ॥ ४८॥
तस्याः कैश्चिद्गुणैर्हीना पूज्या चैवोपनायिका ॥

समा न्यूनापि वा किंचित्कनीयस्यनुनायिका ।
संबन्धिनी भिक्षुकान्ता दासी मालिककामिनी ॥
तक्रविक्रेतृका बाला रजकी शिल्पिनी नटी ।
कारुकान्ता सखी धात्री सैरन्ध्री प्रतिगेहिका ॥
लिङ्गिनी दूतिका चामूः सहाया नेतृसंगमे ।
भावो हावश्च हेला च कान्तिः शोभा प्रगल्भता ॥
लीला विलासो विच्छितिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥
चकितं विहृतं हासो दीप्तिर्धैर्यं कुतूहलम् ।
माधुर्यं च तथौदार्यमिति त्र्यधिकविंशतिः ॥
कामिनीनामलंकारा यौवने परिकीर्तिताः ।
भाव इत्युच्यते प्राज्ञै रसाभिज्ञानयोग्यता ॥
शृण्वन्ती कृष्णचरितं राधा किंचिद्विलज्जते ।
ईषद्दृष्टविकारः स्याद्भावः प्रेमाभिसूचकः ।
श्रुत्वा[४]स प्रेयसो वृत्तं किञ्चिदुत्पुलका वधूः ॥ ४९ ॥
सुव्यक्तविक्रियो भावो हेला शृङ्गारसूचकः ॥
सस्मितान्सानुरागार्द्रान्कटाक्षान्किरति प्रिया ।
मन्मथाप्यायिनी सर्वशोभा कान्तिरिति स्मृता ।
मुखे हासरुचा धूतं कुचे हाररुचा हतम् ।
पादे नखरुचा भीतमाललम्बे कचं तमः ॥ ५० ॥
रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ॥

प्राचीनम्--

तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं विलम्बेन पुरो निषण्णाः ।
तादृक्षशोभाह्रियमाणनेत्र्यः प्रसाधने संनिहितेऽपि सख्यः ॥ ५१ ॥

प्रगल्भताङ्गसादः स्यादमनः क्षोभपूर्वकः ।
तथा व्रीडा विधेयापि तथा मुग्धापि सुन्दरी ।

कलाप्रयोगे चातुर्ये सखीष्वाचार्यतां गता ॥ ५२ ॥
प्रियानुकरणं लीलावाग्भिर्गत्यादिचेष्टितैः ॥
मनोवाक्कायचेष्टाभिस्त्वामेवानुकरोति सा ।
तात्कालिको विकारस्तु विलासः प्रियदर्शनात् ।
मां विलोक्यातनोदङ्गभङ्गमुन्नमितस्तनम् ॥ ५३ ॥
विच्छित्तिरतिरम्यत्वमत्यल्पैरपि भूषणैः ॥

प्राचीनम्--

अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् ।
इदमाभरणं नितम्बिनीनामितरद्भूषणमङ्गदूषणाय ॥ ५४ ॥

विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।
कटौ हारं कुचे काञ्चीं कृत्वा तं द्रष्टुमुत्वरा ।
रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ॥
गृहीते हरिणा चादौ कुञ्जे राधाकुचांशुके ॥ ५५ ॥
हसति भ्रुकुटीं धत्ते मुहुर्नृत्यति वेपते ।
मोट्टायितं मिषादिष्टकथादौ भावसूचनम् ।
व्याजात्कुतोऽपि कान्तस्य प्रस्तावे सस्मितानना ॥ ५६ ॥
संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ॥
मुदमाप प्रियकृतैर्नखदन्तक्षतादिभिः ।
मनाक्प्रियकथालापे बिब्बोकोऽनादरक्रिया ।
भुग्नभ्रु नमयत्यास्यं निशम्य प्रेयसः कथाम् ।
सुकुमाराङ्गविन्यासो ललितं परिकीर्तितम् ॥
कलक्वणितमञ्जीरं याति सा मदमन्थरम् ॥ ५७ ॥
गाम्भीर्यभङ्गभयजं संभ्रमं चकितं विदुः ।

आलोकयन्ती विजने नखक्षतं कृत्वा कुचं त्यक्तपटं कराम्बुजे ।
सीत्कुर्वती चापि मुहुर्मदागमे चकार यत्सास्तु तदेव मे सदा ॥ ५८ ॥

विहृतं प्राप्तकार्यस्य वाक्यस्याकथनं ह्रिया ॥

केलये याचिता राधा प्रियं नोवाच किंचन ।
आकस्मिकं स्मितं हासो यौवनादिविकारजम् ।
मय्यागच्छति सा चक्रे विनाहेतुं सितं स्मितम् ॥ ५९
अलंकारसमुद्भूतो दीप्तिः कान्तेश्च विस्तरः ॥
लिलेख मकरीं कान्ता द्युसृणेन कपोलयोः ।
तावलंचक्रतुस्तस्या मकरी मकरीनतौ (?) ॥ ६० ॥
धैर्यं स्याद्भूरिकृच्छ्रेऽपि मर्यादादेरलङ्घनम् ।
मारस्तुदतु मां कामं न गच्छेद्धूर्तमन्दिरम् ।
रम्यदृष्टौ चापलं तु कुतूहलमितीर्यते ॥
तदाननं मुहुस्तन्वि द्रष्टुमुत्कण्ठते मनः ॥ ६१ ॥
माधुर्यं सुन्दरानर्घ्यभूषभावेऽपि रम्यता ।
कान्ताङ्गे भूषणारोपो जनदुर्दृष्टिभीतितः ।
औदार्यमनुरागस्तु नायके सहजः सदा ॥
अनागसि यथापूर्वं सागस्यद्य तथैव सा ॥ ६२ ॥

इति नायिकाप्रकरणम् ।


व्यापाररूपिणी वृत्ती रसावस्थानसूचिका ।
द्विधा शब्दार्थभेदेन सा द्वे अपि चतुर्विधे ॥
कैशिक्यारभटी चैव सात्वती भारतीति च ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अर्थवृत्तिरिति प्रोक्ता नेतृव्यापाररूपिणी ।
शब्दवृत्तिं चार्थवृत्तिमप्यहं क्रमशो ब्रुवे ।
अत्यर्थसुकुमारार्णसंदर्भा कैशिकी मता ॥
ददर्श कान्ता सस्नेहं कान्तं कन्दर्पसुन्दरम् ।
नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः ॥
समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ।
अस्यास्त्वङ्गानि चत्वारि नर्म तत्पूर्वका इमे ॥
स्फूर्जः स्फोटश्च गर्भश्च लक्ष्मैतेषां क्रमाद्ब्रुवे ।

शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जनः ॥
अग्राम्यपरिहासश्च नर्म तत्तु त्रिधा मतम् ।
शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ॥
शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ।
संभोगेच्छाप्रकटनादनुरागनिवेशनात् ॥
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
संभोगेच्छाप्रकटनं त्रिधा वाग्देहचेष्टितैः ॥
अनुरागप्रकाशोऽपि त्रिधा वाग्देहचेष्टितैः ।
प्रियापराधनिर्भेदोऽप्युक्तस्त्रेधैव पूर्ववत् ॥
शुद्धहास्यजमप्युक्तं त्रिधा वाग्देहचेष्टितैः ।
हास्याद्भयेन सहिताज्जनितं भयहास्यजम् ॥
तद्द्विधा मुख्यमाङ्गं च तद्द्वयं च पुनस्त्रिधा ।
वाग्देहचेष्टितैरेवं नर्माष्टादशधोदितम् ॥
नर्म स्फूर्जो भयात्सौख्यव्यापारो नवसंगमे ।
नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः ॥
छन्ननेतृप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अत्युद्धतार्णसंदर्भा वृत्तिरारभटी मता ॥
क्रुद्धः परश्वधच्छिन्नक्षत्रियोऽभ्येति भार्गवः ॥ ६३ ॥
मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् ।
छेद्यैर्भेदैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः ॥
अङ्गान्यस्यास्तु चत्वारि संक्षिप्तिरवपातनम् ।
वस्तूत्थापनसंफेटाविति पूर्वे बभाषिरे ॥
संक्षिप्तिरिह सा प्रोक्ता मायया वस्तुगोपनम् ।
विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ॥
तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ।
संफेटः स्यात्समाघातः कृतसंरम्भयोर्द्वयोः ॥
ईषत्प्रौढार्णसंदर्भा सात्वती वृत्तिरिष्यते ।

विसृज्य घोर संसारं विहर त्वं हरौ मनः ।
हर्षप्रधाना संत्यक्तदोषभावा च सात्वती ॥
अङ्गान्यस्यास्तु चत्वारि संलापोत्थापकौ तथा ।
संघात्यकस्तृतीयः स्याच्चतुर्थः परिवर्तकः ॥
परस्परं समालापः संलापो रसगर्भितः ।
प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ॥
अन्यस्य भेदनं यत्तु संघात्योऽर्थादिशक्तिभिः ।
पूर्वकार्येणान्यकार्यनिर्वाहः परिवर्तकः ॥
ईषन्मृद्वर्णसंदर्भा भारती वृत्तिरिष्यते ।
को वेद बालः फा(लो भा)लाक्षचापमारोपयेदिति ॥ ६४ ॥
धीरोदात्तचरित्रात्मा धर्मशृङ्गारसंश्रया ॥
शौर्यौदार्यगुणोपेता भारती वृत्तिरिष्यते ।
अस्यास्त्वङ्गानि चत्वारि निग्रहोऽनुग्रहस्तथा ॥
त्यागः स्वीकार इत्येवं कथितानि मनीषिभिः ।
कैशिक्याद्यर्थवृत्तीनां साङ्गानां सुगमत्वतः ॥
ग्रन्थगौरवभीतेश्च न कृतं लक्ष्यवर्णनम् ।
तच्चतुर्विधशृङ्गारसमत्वेनोदिते इमे ॥
मध्यमारभटी चैव तथा मध्यमकैशिकी ।
मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥
जघान दानवान्क्रूरान्मांसशोणितभोजनान् ।
मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी ।
तादृक्प्रिये कृतरुषं धिङ्मा धिङ्मम जीवितम् ॥ ६५ ॥
शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः ॥
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ।
कैशिकीं सात्वतीं चैव केचिदारभटीमपि ।
शब्दार्थवृत्तिं ब्रुवते भारतीं शब्दमात्रकाम् ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतः शुद्धबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्धटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवे कृतौ मन्दारमरन्दे चम्पूप्रबन्धे शुद्धबिन्दुरष्टमः समाप्तिमगमत् ॥


  1. चिन्त्योऽयं प्रयोगः
  2. ‘बिडौजाः पाकशासनः' इत्यमरः.
  3. पराशरेण.
  4. 'आस' इति 'अस गतिदीप्त्यादानेषु' इत्यस्य 'दिदीपे' इत्यर्थकम्.