महाभारतम्-04-विराटपर्व-001

← विराटपर्व महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-001
वेदव्यासः
विराटपर्व-002 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् ।। 1 ।।
धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन परिसान्त्वनम् ।। 2 ।।
पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसंपादनेन तद्वितर्जनपूर्वकं धौम्येनसह मन्त्राय क्वचिदुपवेशनम् ।। 3 ।।




।। श्रीवेदव्यासाय नमः ।।

4-1-1x

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।

4-1-1a
4-1-1b

।। जनमेजय उवाच ।

4-1-2x

कथं विराटनगरे मम पूर्वपितामहाः ।
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ।।

4-1-1c
4-1-1d

पतिव्रता महाभागा सततं सुखभागिनी ।
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ।।

4-1-2a
4-1-2b

ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह।
अज्ञातवासमुषिताः कथं च परिचारकाः ।।

4-1-3a
4-1-3b

वैशंपायन उवाच।

4-1-4x

यथा विराटनगरे तव पूर्वपितामहाः ।
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ।।

4-1-4a
4-1-4b

तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः।
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ।।

4-1-5a
4-1-5b

कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः।
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ।।

4-1-6a
4-1-6b

ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः।
समाहूयानुजान्सर्वानिति होवाच भारत ।।

4-1-7a
4-1-7b

द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ।।

4-1-8a
4-1-8b

उषिताश्च वने वासं यथा द्वादश वत्सरान्।
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ।।

4-1-9a
4-1-9b

वैशंपायन उवाच।

4-1-10x

धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः।
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ।।

4-1-10a
4-1-10b

उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः ।
ये तत्र ब्राह्मणा आसन्वनवाससहायिनः ।
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ।।

4-1-11a
4-1-11b
4-1-11c

तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः ।
0

4-1-12a
4-1-12b

विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ।।

4-1-13a
4-1-13b

उषिताश्च वने वासं यथा द्वादशवत्सरान् ।
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ।।

4-1-14a
4-1-14b

अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ।।

4-1-15a
4-1-15b

सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ।।

4-1-16a
4-1-16b

युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च ।
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ।।

4-1-17a
4-1-17b

अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह।
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ।।

4-1-18a
4-1-18b

इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा।
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ।।

4-1-19a
4-1-19b

तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ।।

4-1-20a

प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् ।
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ।।

4-1-21a
4-1-21b

अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा।
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ।।

4-1-22a
4-1-22b

राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः।
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ।।

4-1-23a
4-1-23b

देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा।
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ।।

4-1-24a
4-1-24b

दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः।
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ।।

4-1-25a
4-1-25b

इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे।
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ।।

4-1-26a
4-1-26b

प्रसादाद्‌ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् ।
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ।।

4-1-27a
4-1-27b

विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता।
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ।।

4-1-28a
4-1-28b

प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा।
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ।।

4-1-29a
4-1-29b

और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा।
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ।।

4-1-30a
4-1-30b

प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे।
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ।।

4-1-31a
4-1-31b

हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम्।
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ।।

4-1-32a
4-1-32b

यथा विवस्वता तात छन्नेनोत्तमतेजसा।
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ।।

4-1-33a
4-1-33b

विष्णुना वसता चात्र गृहे दशरथस्य वै।
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ।।

4-1-34a
4-1-34b

एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि।
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ।।

4-1-35a
4-1-35b

वैशंपायन उवाच।

4-1-36x

इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः।
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ।।

4-1-36a
4-1-36b

अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः।
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ।।

4-1-37a
4-1-37b

अवेक्षय महाराज तव गाण्डीवधन्वना।
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ।।

4-1-38a
4-1-38b

सहदेवो मया नित्यं नकुलश्च निवारितौ ।
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ।।

4-1-39a
4-1-39b

न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् ।
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ।।

4-1-40a
4-1-40b

इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः ।
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ।।

4-1-41a
4-1-41b

ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः ।
तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः ।
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ।।

4-1-42a
4-1-42b
4-1-42c

विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम्।
संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः ।
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ।।

4-1-43a
4-1-43b
4-1-43c

अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम्।
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ।।

4-1-44a
4-1-44b

इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः ।
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ।।

4-1-45a
4-1-45b

सर्वे वेदविदो मुख्या यतयो मुनयस्तदा।
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ।।

4-1-46a
4-1-46b

ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः।
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ।।

4-1-47a
4-1-47b

सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः।
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ।।

4-1-48a
4-1-48b

क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः ।
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ।।

4-1-49a
4-1-49b

पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ।।

4-1-50a
4-1-50b

।। इति श्रीमन्महाभारते
विराटपर्वणि
पाण्डवप्रवेशपर्वणि प्रथमोऽध्यायः ।। 1 ।।

सम्पाद्यताम्

4-1-1अयमध्यायो झo पुस्तके वनपर्वान्तिमाध्यायतया वर्तते। विराटo।

विराटपर्व पुटाग्रे अल्लिखितम्। विराटपर्व-002