महाभारतम्-04-विराटपर्व-052

← विराटपर्व-051 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-052
वेदव्यासः
विराटपर्व-053 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ।। 1 ।। भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् ।। 2 ।। भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् ।। 3 ।।







भीष्म उवाच।

4-52-1x

कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ।।

4-52-1a
4-52-1b

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि।
एवं कालविभागेन कालचक्रं प्रवर्तते ।।

4-52-2a
4-52-2b

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ।।

4-52-3a
4-52-3b

एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ।।

4-52-4a
4-52-4b

पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ।।

4-52-5a

सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ।।

4-52-6a
4-52-6b

सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ।।

4-52-7a
4-52-7b

कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ।।

4-52-8a
4-52-8b

अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ।।

4-52-9a
4-52-9b

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ।।

4-52-10a
4-52-10b

यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ।।

4-52-11a
4-52-11b

प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ।।

4-52-12a
4-52-12b

प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ।।

4-52-13a

तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ।।

4-52-14a
4-52-14b

न हि पश्यामि संग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ।।

4-52-15a
4-52-15b

संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ।।

4-52-16a
4-52-16b

तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ।।

4-52-17a
4-52-17b

एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः ।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे ।
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ।।

4-52-18a
4-52-18b
4-52-19c

दुर्योधन उवाच।

4-52-19x

नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ।।

4-52-19a
4-52-19b
4-52-19c

वैशंपायन उवाच।

4-52-20x

भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ।।

4-52-20a
4-52-20b

यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम्।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ।।

4-52-21a
4-52-21b

अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ।।

4-52-22a
4-52-22b

राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ।।

4-52-23a
4-52-23b
4-52-23c

अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ।।

4-52-24a
4-52-24b

एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति ।
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ।।

4-52-25a
4-52-25b
4-52-25c

वैशंपायन उवाच।

4-52-26x

तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ।।

4-52-26a
4-52-26b

भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ।।

4-52-27a
4-52-27b

द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ।।

4-52-28a
4-52-28b
4-25-28c

विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ।।

4-52-29a
4-52-29b
4-52-29c

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ।।

4-52-30a
4-52-30b

सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ।।

4-52-31a
4-52-31b

वैशंपायन उवाच।

4-52-32x

अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ।।

4-52-32a
4-52-32b

तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ।।

4-52-33a
4-52-33b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः ।। 52 ।।

सम्पाद्यताम्

4-52-18 तस्माद्यद्धोचितं कर्मेति धo पाठः ।। 18 ।। 4-52-32 पद्मगर्भमिति थo पाठः ।। 32 ।।

।। द्विपञ्चाशोऽध्यायः ।। 52 ।।

विराटपर्व-051 पुटाग्रे अल्लिखितम्। विराटपर्व-053