महाभारतम्-04-विराटपर्व-067
← विराटपर्व-066 | महाभारतम् चतुर्थपर्व महाभारतम्-04-विराटपर्व-067 वेदव्यासः |
विराटपर्व-068 → |
महाभारतस्य पर्वाणि |
---|
सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ।। 1 ।। भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ।। 2 ।। अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः ।। 3 ।। उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ।। 4 ।। अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ।। 5 ।।
वैशंपायन उवाच । | 4-67-1x |
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ | 4-67-1a 4-67-1b |
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी । | 4-67-2a 4-67-2b |
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम्। | 4-67-3a 4-67-3b |
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत । | 4-67-4a 4-67-4b 4-67-4c |
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत। | 4-67-5a 4-67-5b |
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः । | 4-67-6a 4-67-6b |
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् । | 4-67-7a 4-67-7b |
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः । | 4-67-8a 4-67-8b |
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान्। | 4-67-9a 4-67-9b |
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम्। | 4-67-10a 4-67-10b |
सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः । | 4-67-11a 4-67-11b |
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः । | 4-67-12a 4-67-12b |
ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम्। | 4-67-13a 4-67-13b |
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः। | 4-67-14a 4-67-14b |
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम्। | 4-67-15a 4-67-15b |
संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः । | 4-67-16a 4-67-16b |
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन । | 4-67-17a 4-67-17b |
ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः । | 4-67-18a 4-67-18b |
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम्। | 4-67-19a 4-67-19b |
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः। | 4-67-20a 4-67-20b |
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः । | 4-67-21a 4-67-21b |
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि । | 4-67-22a 4-67-22b |
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि। | 4-67-23a 4-67-23b |
राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् । | 4-67-24a 4-67-24b |
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् । | 4-67-25a 4-67-25b |
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी। | 4-67-26a 4-67-26b |
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा। | 4-67-27a 4-67-27b |
लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् । | 4-67-28a 4-67-28b |
अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत्। | 4-67-29a 4-67-29b |
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् । | 4-67-30a 4-67-30b |
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन्। | 4-67-31a 4-67-31b |
संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम्। | 4-67-32a 4-67-32b |
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति। | 4-67-33a 4-67-33b |
भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः । | 4-67-34a 4-67-34b |
वैशंपायन उवाच। | 4-67-35x |
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य। | 4-67-35a 4-67-35b |
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम्। | 4-67-36a 4-67-36b |
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः । | 4-67-37a 4-67-37b |
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि। | 4-67-38a 4-67-38b |
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे। | 4-67-39a 4-67-39b |
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य । | 4-67-40a 4-67-40b 4-67-40c |
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः। | 4-67-41a 4-67-41b 4-67-41c |
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति। | 4-67-42a 4-67-42b |
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम्। | 4-67-43a 4-67-43b |
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् । | 4-67-44a 4-67-44b |
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः। | 4-67-45a 4-67-45b |
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः । | 4-67-46a 4-67-46b 4-67-46c |
।। इति श्रीमन्महाभारते विराटपर्वणि |
4-67-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ।। 11 ।। 4-67-16 अनीहमानाः अचेष्टमानाः ।। 16 ।। 4-67-18 यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ।। 18 ।। 4-67-19 आदस्त्व गृहाण ।। 19 ।। 4-67-20 अमूढसंज्ञैः अस्माभिरिति शेषः । सव्यतस्त्वमेवं हि धममाहुर्जितस्येति धo पाठः ।। 20 ।। 4-67- 25 संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः ।। 25 ।। 4-67-45 हिमत्वा च वैराटिमुवाचेति पाठान्तरम् ।। 45 ।।
विराटपर्व-066 | पुटाग्रे अल्लिखितम्। | विराटपर्व-068 |