महाभारतम्-04-विराटपर्व-071

← विराटपर्व-070 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-071
वेदव्यासः
विराटपर्व-072 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गंप्रति गमनम् ।। 1 ।। उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ।। 2 ।।











जनमेजय उवाच।

4-71-1x

युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ।।

4-71-1a
4-71-1b

वैशंपायन उवाच।

4-71-2x

वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ।।

4-71-2a
4-71-2b

युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ।।

4-71-3a
4-71-3b

अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान्।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ।।

4-71-4a
4-71-4b

भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ।।

4-71-5a
4-71-5b

सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः।
असङ्गतिना तेन विमानेनाशुगामिना।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ।।

4-71-6a
4-71-6b
4-71-6c

[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ।।

4-71-7a
4-71-7b
4-71-7c

कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ।।

4-71-8a

किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत्।
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ।।

4-71-9a
4-71-9b

तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः ।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ।।]

4-71-10a
4-71-10b

कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ।।

4-71-11a
4-71-11b

विराटनगराच्चैव गजाश्वरथसंकुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ।।

4-71-12a
4-71-12b

विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ।।

4-71-13a
4-71-13b

तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ।।

4-71-14a
4-71-14b

अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत।।

4-71-15a
4-71-15b

नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः।
किंनु खल्वपयातास्ते कुरवो नगरं गताः ।।

4-71-16a
4-71-16b

ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः ।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ।।

4-71-17a
4-71-17b
4-71-17c

न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ।।

4-71-18a
4-71-18b

उत्तर उवाच।

4-71-19x

सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ।।

4-71-19a
4-71-19b

उत्तरामत्र पश्यामि सखीभिः परिवारिताम्।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ।।

4-71-20a
4-71-20b

रथिनश्च पदाताश्च बहवो न च शस्त्रिणः।
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ।।

4-71-21a
4-71-21b
4-71-21c

वैशंपायन उवाच।

4-71-22x

ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु।
परस्परममित्रघ्नं सस्वजे तं समागतम् ।।

4-71-22a
4-71-22b

जना ऊचुः।

4-71-23x

प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः ।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः।
दिष्ट्या संग्राममागम्य भयं तव न किंचन ।।

4-71-23a
4-71-23b
4-71-23c

उत्तर उवाच।

4-71-24x

अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे।
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ।।

4-71-24a
4-71-24b
4-71-24c

अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा।
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ।।

4-71-25a
4-71-25b
4-71-25c

वैशंपायन उवाच।

4-71-26x

उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम्।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ।।

4-71-26a
4-71-26b

ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ।।

4-71-27a
4-71-27b

आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
संपूज्यमानो लोकेन नगरद्वारमागमत् ।।

4-71-28a
4-71-28b

भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च।
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ।।

4-71-29a
4-71-29b
4-71-29c
4-71-29d

प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म।
संभाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ।।

4-71-30a
4-71-30b
4-71-30c
4-71-30d

पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः।
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः ।।

4-71-31a
4-71-31b
4-71-31c
4-71-31d

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ।।

सम्पाद्यताम्

4-71-7 *इमे श्लोकाः थo पुस्तकमात्रे वर्तन्ते।

विराटपर्व-070 पुटाग्रे अल्लिखितम्। विराटपर्व-072