महाभारतम्-05-उद्योगपर्व-043

← उद्योगपर्व-042 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-043
वेदव्यासः
उद्योगपर्व-044 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ।। 1 ।।


धृतराष्ट्र उवाच।
कस्यैष मौनः कतरन्नु मौनं
प्रब्रूहि विद्वन्निह मौनभावम्।
मौनेन विद्वानुत याति मौनं
कथं मुने मौनमिहाचरन्ति ।।5-43-1

सनत्सुजात उवाच।
यतो न वेदा मनसा सहैन-
मनुप्रविशन्ति ततोऽथ मौनम्।
यत्रोत्थितो वेदशब्दस्तथायं
स तन्मयत्वेन विभाति राजन् ।।5-43-2

धृतराष्ट्र उवाच।
ऋचो यजूंषि यो वेद सामवेदं च वेद यः।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ।।5-43-3

सनत्सुजात उवाच।
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम्।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ।।5-43-4

न च्छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया सर्वमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ।।5-43-5

धृतराष्ट्र उवाच।
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ।।5-43-6

सनत्सुजात उवाच।
तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ।।5-43-7

तदर्थयुक्तं तप एतदिज्या
ताभ्यामसौ पुण्यमुपैति विद्वान्।
पुण्येन पापं विनिहत्य पश्चा-
त्संजायते ज्ञानविदीपितात्मा ।।5-43-8

ज्ञानेन चात्मानमुपैति विद्वा-
नथान्यथा वर्गफलानुकाङ्क्षी।
अस्मिन्कृतं तत्परिगृह्य सर्व-
ममुत्र भुङ्क्ते पुनरेति मार्गम् ।।5-43-9

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ।।5-43-10

ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत्।
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ।।5-43-11

धृतराष्ट्र उवाच।
कथं समृद्धमप्यृद्धं तपो भवति केवलम्।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ।।5-43-12

सनत्सुजात उवाच।
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।।5-43-13

तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ।।5-43-14

धृतराष्ट्र उवाच।
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ।।5-43-15

सनत्सुजात उवाच।


क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि दश त्रि राजन्।
धर्मादयो द्वादशैते पितॄणां
शास्त्रे गुणा ये विदिता द्विजानाम् ।।5-43-16

क्रोधः कामो लोभमोहौ विधित्सा-
ऽकृपाऽसूये मानशोकौ स्पृहा च।
ईर्ष्या जुगुप्सा च मनुष्यदोषा
वर्ज्याः सदा द्वादशैते नराणाम् ।।5-43-17

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ।।5-43-18

विकत्थनः स्पृहयालुर्मनस्वी
बिभ्रत्कोषं चपलो रोषणश्च।
एतान्पापाः षण्णराः पापधर्मान्
प्रकुर्वते नो त्रसन्तः सुदुर्गे ।।5-43-19

संभोगसंविद्विषमोऽतिमानी
दत्तानुतापी कृपणो बलीयान्।
वर्गप्रशंसी वनितासु द्वेष्टा
एते परे सप्त नृशंसवर्गाः ।।5-43-20

धर्मश्च सत्यं च दमस्तपश्च
आमात्सर्यं ह्रीस्तितिक्षानसूया।
यज्ञश्च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ।।5-43-21

यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य-
स्तस्य स्वमस्तीति स वेदितव्यः ।।5-43-22

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ।।5-43-23

दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा।।5-43-24

क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ।।5-43-25

अपस्मारश्चातिवादस्तथा संभावनात्मनि।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ।।5-43-26

मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ।।5-43-27

श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ।।5-43-28

श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ।।5-43-29

कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ।।
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ।।5-43-30

त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ।।5-43-31

न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत्।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ।।5-43-32

अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ।।5-43-33

अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ।।5-43-34

सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च।।5-43-35

एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत्।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ।।5-43-36

अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत्।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ।।5-43-37

सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ।।5-43-38

निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत्।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ।।5-43-39

दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ।।5-43-40

यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ।।5-43-41

धृतराष्ट्र उवाच।
आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ।।5-43-42

द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ।।5-43-43

सनत्सुजात उवाच।
एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ।।5-43-44

एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते।।5-43-45

सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत्।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ।।5-43-46

मनसान्यस्य भवति वाचान्यस्याथ कर्मणा।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ।।5-43-47

अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्।।5-43-48

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ।।5-43-49

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम्।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ।।5-43-50

छन्दांसि नाम क्षत्रिय तान्यथर्वा
पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा
न वेदवेद्यस्य विदुर्हि तत्त्वम् ।।5-43-51

छन्दांसि नाम द्विपदां वरिष्ठ
स्वच्छन्दयोगेन भवन्ति तत्र।
छन्दोविदस्ते न च तानधीत्य
गता न वेदस्य न वेद्यमार्याः ।।5-43-52

न वेदानां वेदिता कश्चिदस्ति
कश्चित्त्वेतान्बुद्ध्यते वापि राजन्।
यो वेद वेदान्न स वेद वेद्यं
सत्ये स्थितो यस्तु स वेद वेद्यम् ।।5-43-53

न वेदानां वेदिता कश्चिदस्ति
वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं
यो वेद वेद्यं न स वेद सत्यम् ।।5-43-54

यो वेद वेदान्स च वेद वेद्यं
न तं विदुर्वेदविदो न वेदाः।
तथापि वेदेन विदन्ति वेदं
ये ब्राह्मणा वेदविदो भवन्ति।।5-43-55

धामांशभागस्य तथा हि वेदा
यथा च शाखा हि महीरुहस्य।
संवेदने चैव यथामनन्ति
तस्मिन्हि सत्ये परमात्मनोऽर्थे ।।5-43-56

अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान्।।5-43-57

नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम्।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ।।5-43-58

तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ।।5-43-59

तूष्णींभूत उपासीत न चेष्टेन्मनसापि च।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ।।5-43-60

मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ।।5-43-61

सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ।।5-43-62

प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ।।5-43-63

धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ।।5-43-64

।।इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ।।



उद्योगपर्व-042 पुटाग्रे अल्लिखितम्। उद्योगपर्व-044