महाभारतम्-05-उद्योगपर्व-084
← उद्योगपर्व-083 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-084 वेदव्यासः |
उद्योगपर्व-085 → |
महाभारतस्य पर्वाणि |
---|
श्रीकृष्णप्रयाणे कुरुपराजयसूचकदुर्निमित्तसमुत्पत्तिः ।। 1 ।।
श्रीकृष्णस्य शुभशकुनसमुदयः ।। 2 ।।
मार्गे तत्रतत्र विपरगणाद्यश्वर्चितस्य कृष्णस्य सायाह्ने वृकस्थलाभिगमनम् ।। 3 ।।
तत्रत्यद्विजव्रजपूजितस्य कृष्णस्य तद्गृहगमनागमनपूर्वकं तान्भोजयित्वा तद्रजन्यां वृकस्थले सुखसंवासः ।। 4 ।।
जनमेजय उवाच। | 5-84-1x |
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः। | 5-84-1a 5-84-1b |
वैशंपायन उवाच। | 5-84-2x |
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः। | 5-84-2a 5-84-2b |
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत । | 5-84-3a 5-84-3b |
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः । | 5-84-4a 5-84-4b |
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत । | 5-84-5a 5-84-5b |
तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा। | 5-84-6a 5-84-6b |
प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत । | 5-84-7a 5-84-7b |
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः । | 5-84-8a 5-84-8b |
यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत । | 5-84-9a 5-84-9b |
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः । | 5-84-10a 5-84-10b |
संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः । | 5-84-11a 5-84-11b |
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः । | 5-84-12a 5-84-12b |
स शालिभवनं रम्यं सर्वसस्यसमाचितम्। | 5-84-13a 5-84-13b |
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान्। | 5-84-14a 5-84-14b |
नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः। | 5-84-15a 5-84-15b |
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः। | 5-84-16a 5-84-16b |
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् । | 5-84-17a 5-84-17b |
वृकस्थलं समासाद्य केशवः परवीरहा । | 5-84-18a 5-84-18b |
` ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः। | 5-84-19a 5-84-19b |
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः । | 5-84-20a 5-84-20b |
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि । | 5-84-21a 5-84-21b |
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः। | 5-84-22a 5-84-22b |
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप । | 5-84-23a 5-84-23b |
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्। | 5-84-24a 5-84-24b |
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्। | 5-84-25a 5-84-25b |
तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः । | 5-84-26a 5-84-26b |
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः । | 5-84-27a 5-84-27b |
।। इति श्रीमन्महाभारते उद्योगपर्वमि |
5-84-2 दैवानि कशुनानि। औत्पातिकानि अशकुनानि ।। 5-84-7 खेशरीरं छायापुरुषशरीरम् ।। 5-84-13 भवन्ति अस्मिन्निति भवने क्षेत्रम् ।। 5-84-16 उपप्लाव्यात् ग्रामात् ।। 5-84-
उद्योगपर्व-083 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-085 |