महाभारतम्-05-उद्योगपर्व-083

← उद्योगपर्व-082 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-083
वेदव्यासः
उद्योगपर्व-084 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण श्रीकृष्णे पृथांप्रति कुशलप्रश्नपूर्वकस्वभिद्धादननिवेदनसमाश्वासनप्रार्थना ।। 1 ।।
श्रीकृष्णस्य मध्येमार्गं तामदग्न्यादिमहर्षिसमागमः ।। 2 ।।
महर्षिभिः श्रीकृष्णे धृतराष्ट्रादिभिः सह तत्संवादशुश्रूषया तत्र स्वागमननिवेदनम् ।। 3 ।।





युधिष्ठिर उवाच।

5-83-1x

या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला।
उपवासतपःशीला सदा स्वस्त्ययने रता ।।

5-83-1a
5-83-1b

देवतातिथिपूजासु गुरुशुश्रूषणे रता।
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ।।

5-83-2a
5-83-2b

सुयोधनभयाद्या नो त्रायतामित्रकर्शन ।
महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात् ।।

5-83-3a
5-83-3b

अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ।।

5-83-4a
5-83-4b

भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ।।

5-83-5a
5-83-5b

ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम।
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते ।।

5-83-6a
5-83-6b

अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ।।

5-83-7a
5-83-7b

प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमपहायैनामगच्छाम वयं वनम् ।।

5-83-8a
5-83-8b

सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव।
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ।।

5-83-9a
5-83-9b

अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ।।

5-83-10a
5-83-10b

भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम्।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ।।

5-83-11a
5-83-11b

` यथावयो यथास्थानं प्रपद्यस्व जनार्दन।'
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ।।

5-83-12a
5-83-12b
5-83-12c

वैशंपायन उवाच।

5-83-13x

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ।।

5-83-13a
5-83-13b

व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत्परवीरघ्रं दाशार्हमपराजितम् ।।

5-83-14a
5-83-14b

यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविद विदितं सर्वराजसु ।।

5-83-15a
5-83-15b

तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ।।

5-83-16a
5-83-16b

अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित्।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ।।

5-83-17a
5-83-17b

वैशंपायन उवाच।

5-83-18x

एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः।
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ।।

5-83-18a
5-83-18b

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन्।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ।।

5-83-19a
5-83-19b

तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः ।।

5-83-20a
5-83-20b

इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम्।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ।।

5-83-21a
5-83-21b

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः।
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ।।

5-83-22a
5-83-22b

ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ।।

5-83-23a
5-83-23b

अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ।।

5-83-24a
5-83-24b

सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः।
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन्।।

5-83-25a
5-83-25b

कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ।
` पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः ।।'

5-83-26a
5-83-26b
5-83-26c

तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः।
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ।।

5-83-27a
5-83-27b

किं वा कार्यं भगवतामहं किं करवाणि यः ।
केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम् ।।

5-83-28a
5-83-28b

` एवमुक्ताः केशवेन मुनयः शंसितव्रताः ।
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ।।

5-83-29a
5-83-29b

अधश्शिराः सर्पमाली महर्षिः स हि देवलः ।
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली

5-83-30a
5-83-30b

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा।
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ।।

5-83-31a
5-83-31b

दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः।
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ।।

5-83-32a
5-83-32b

शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः।
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ।।'

5-83-33a
5-83-33b

तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्।
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ।।

5-83-34a
5-83-34b

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ।।

5-83-35a
5-83-35b

दैवासुरस्य द्रुष्टारः पुराणस्य महामते।
समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ।।

5-83-36a
5-83-36b
5-83-36c

एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव ।।

5-83-37a

धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव।
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ।।

5-83-38a
5-83-38b

` सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः ।
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ।।'

5-83-39a
5-83-39b

भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।
त्वं च यादवशार्दूल सभायां वै समेष्यथ ।।

5-83-40a
5-83-40b

तव वाक्यानि दिव्यानि तथा तेषां च माधव।
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ।।

5-83-41a
5-83-41b
5-83-41c

याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्।
आसीनमासने दिव्ये बलतेजःसमाहितम् ।।

5-83-42a
5-83-42b

वैशंपायन उवाच।

5-83-43x

प्रयान्तं देवकीपुत्रं परवीररुजो दश।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ।।

5-83-43a
5-83-43b

पदातीनां सहस्रं च सादिनां च परन्तप।
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे ।।

5-83-44a
5-83-44b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्र्यशीतितमोऽध्यायः ।।

सम्पाद्यताम्

5-83-6 ऊढात् विवाहात्। श्वशुराणां गृहे इति शेषः ।। 5-83-36 पुराणस्य दैवासुरस्य देवासुरसमुदायस्य ।।

उद्योगपर्व-082 पुटाग्रे अल्लिखितम्। उद्योगपर्व-084