महाभारतम्-05-उद्योगपर्व-089

← उद्योगपर्व-088 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-089
वेदव्यासः
उद्योगपर्व-090 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

प्रातः कृताह्निकस्य श्रीकृष्णस्य वृकस्थलात्कुरुपुरमुपेत्य धृतराष्ट्रभवनपरवेशः ।। 1 ।।
तथा धृतराष्ट्रपूजां स्वीकृत्य विदुरसदनगमनम् ।। 2 ।।

वैशंपायन उवाच।

5-89-1x

प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ।।

5-89-1a
5-89-1b

तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ।।

5-89-2a
5-89-2b

` प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च।
तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम् ।।'

5-89-3a
5-89-3b

धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः ।
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ।।

5-89-4a
5-89-4b

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे ।।

5-89-5a
5-89-5b

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ।।

5-89-6a
5-89-6b

कृष्णसंमाननार्थं च नगरं समलङ्कृतम्।
बभूव राजमार्गश्च बहुरत्नसमाचितः ।।

5-89-7a
5-89-7b

न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ।।

5-89-8a
5-89-8b

राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः ।
तस्मिन्काले महाराज हृषीकेशप्रवेशने ।।

5-89-9a
5-89-9b

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्तेस्म महीतले ।।

5-89-10a
5-89-10b

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ।।

5-89-11a
5-89-11b

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः।
पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम् ।।

5-89-12a
5-89-12b

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ।।

5-89-13a
5-89-13b

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः ।
तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ।।

5-89-14a
5-89-14b

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ।।

5-89-15a
5-89-15b

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्।
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ।।

5-89-16a
5-89-16b

तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिः सह माधवः ।।

5-89-17a
5-89-17b

अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम्।
कृपं च सोमदत्तं च समीयाय जनार्दनः ।।

5-89-18a
5-89-18b

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ।।

5-89-19a
5-89-19b

अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः ।।

5-89-20a
5-89-20b

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।
आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः ।।

5-89-21a
5-89-21b

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः।।

5-89-22a
5-89-22b

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ।।

5-89-23a
5-89-23b

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ।।

5-89-24a
5-89-24b

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ।।

5-89-25a
5-89-25b

प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः ।
धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः ।।

5-89-26a
5-89-26b

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ।।

5-89-27a
5-89-27b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकोननवतितमोऽध्यायः ।।

सम्पाद्यताम्

5-89-22 पूजितः स्तुतः ।। 5-89-26 विदुरः पाण्डवानां विचेष्टितं तस्य तं कृष्णं प्रति अपृच्छदित्यनुकृष्यान्वयः। षष्ठ्यो द्वितीयार्थे ।।

उद्योगपर्व-088 पुटाग्रे अल्लिखितम्। उद्योगपर्व-090