महाभारतम्-05-उद्योगपर्व-095

← उद्योगपर्व-094 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-095
वेदव्यासः
उद्योगपर्व-096 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन धृतराष्ट्रंप्रति सन्ध्यर्थं स्वस्यागमनकथनम् ।। 1 ।।
सन्धिविग्रहपक्षयोः गुणदोषपर्वनपूर्वकं पाण्डवविज्ञापननिवेदनम् ।। 2 ।।
तथा हितमुपदिश्य अन्ते यथारुचि करणाभिधानम् ।। 3 ।।


वैशंपायन उवाच।

5-95-1x

तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु।
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ।।

5-95-1a
5-95-1b

जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ।।

5-95-2a
5-95-2b

श्रीभगवानुवाच।

5-95-3x

कुरूणां पाण्डवानां च शमः स्यादिति भारत ।
अप्रणशेन वीराणामेतद्याचितुमागतः ।।

5-95-3a
5-95-3b

राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः ।
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम।।

5-95-4a
5-95-4b

इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।
श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः ।।

5-95-5a
5-95-5b

कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ।।

5-95-6a
5-95-6b

तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति।
त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् ।।

5-95-7a
5-95-7b

त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम।
मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ।।

5-95-8a
5-95-8b

ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः।
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ।।

5-95-9a
5-95-9b

अशिष्टा गतमर्यादा लोभेन हृतचेतसः।
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ।।

5-95-10a
5-95-10b

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ।।

5-95-11a
5-95-11b

शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ।।

5-95-12a
5-95-12b

त्वय्यधीनः शमो राजन्मयि चैव विशांपते ।
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ।।

5-95-13a
5-95-13b

आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।
हितं बलवदप्येषां तिष्ठतां तव शासने ।।

5-95-14a
5-95-14b

तव चैव हितं राजन्पाण्डवानामथो हितम् ।
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः ।।

5-95-15a
5-95-15b

स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते ।
सहायभूता भरतास्तवैव स्युर्जनेश्वर ।।

5-95-16a
5-95-16b

धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।
न हि शक्यास्तथाभूता यत्नादपि नराधिप ।।

5-95-17a
5-95-17b

न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।
इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः ।।

5-95-18a
5-95-18b

यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ।।

5-95-19a
5-95-19b

सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः ।
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ।।

5-95-20a
5-95-20b

सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ।।

5-95-21a
5-95-21b

लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम्।
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ।।

5-95-22a
5-95-22b

तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ।।

5-95-23a
5-95-23b

स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा ।
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुं ।।

5-95-24a
5-95-24b

एतानेव पुरोधाय यत्कृत्य च यथा पुरा।
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ।।

5-95-25a
5-95-25b

एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ।।

5-95-26a
5-95-26b

तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप ।
यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ।।

5-95-27a
5-95-27b

संयुगे वै महाराज दृश्यते सुमहान्क्षयः।
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ।।

5-95-28a
5-95-28b

पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः ।
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ।।

5-95-29a
5-95-29b

शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः।
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ।।

5-95-30a
5-95-30b

न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे।
क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान् ।।

5-95-31a
5-95-31b

समवेताः पृथिव्यां हि राजानो राजसत्तम ।
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ।।

5-95-32a
5-95-32b

त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः।
त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन ।।

5-95-33a
5-95-33b

शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ।।
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ।।

5-95-34a
5-95-34b

शिवेनेमे भूमिपालाः समागम्य परस्परम्।
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ।।

5-95-35a
5-95-35b

सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ ।
अमर्षं च निराकृत्य वैराणि च परन्तप ।।

5-95-36a
5-95-36b

हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये ।
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ।।

5-95-37a
5-95-37b

बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ।।

5-95-38a
5-95-38b

भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः।
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ।।

5-95-39a
5-95-39b

आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च।
भवतः शासनाद्दुःखसमुभूतं सहानुगैः ।।

5-95-40a
5-95-40b

द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः।
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ।।

5-95-41a
5-95-41b

स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ।।

5-95-42a
5-95-42b

तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ ।
नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि ।

5-95-43a
5-95-43b

त्वं धर्ममर्थं संजानन्सम्यङ्वस्त्रातुमर्हसि ।।
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ।

5-95-44a
5-95-44b

स भवान्मातृपितृव्रदस्मासु प्रतिपद्यताम् ।।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ।

5-95-45a
5-95-45b

वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ।।
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ।

5-95-46a
5-95-46b

संस्थापय पथिप्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ।।
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ।

5-95-47a
5-95-47b

धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ।।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च।

5-95-48a
5-95-48b

हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।।
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते।

5-95-49a
5-95-49b

नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ।।
धर्म एतानारुजति यथा नद्यनुकूलजान् ।।

5-95-50a
5-95-50b

ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ।।

5-95-51a
5-95-51b

शक्यं किमन्यद्वक्तुं ते दानादन्यञ्जनेश्वर ।
ब्रुवन्तु ते महीपालाः सभायां ये समासते ।।

5-95-52a
5-95-52b

धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ।
प्रमुञ्चोमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ ।।

5-95-53a
5-95-53b

प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ।
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।
ततः सपुत्रः सिद्धार्थो भुङ्क्ष भोगान्परन्तप ।।

5-95-54a
5-95-54b
5-95-54c

अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा।
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ।।

5-95-55a
5-95-55b

दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ।।

5-95-56a
5-95-56b

स तत्र विवसन्सर्वान्वशमानीय पार्थिवान्।
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ।।

5-95-57a
5-95-57b

तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता।
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ।।

5-95-58a
5-95-58b

स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभां गताम्।
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः।।

5-95-59a
5-95-59b

अहं तु तव तेषां च श्रेय इच्छामि भारत ।
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ।।

5-95-60a
5-95-60b

अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः ।
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशांपते ।।

5-95-61a
5-95-61b

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्ते पथ्यतमं राजंस्तस्मिंतिष्ठ परन्तप ।।

5-95-62a
5-95-62b

वैशंपायन उवाच।

5-95-63x

तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्।
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ।।

5-95-63a
5-95-63b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चनवतितमोऽध्यायः ।।

सम्पाद्यताम्

5-95-3 आगतः अहमिति शेषः ।। 5-95-6 कृपा परस्य सुखार्थे यत्नः। अनुकम्पा परदुःखदर्शने त्रासः। कारुण्यं परदुःखप्रहाणार्थो यत्नः। आनृशंस्यं परदुःखाप्रदानम् ।। 5-95-8 बाह्येषु द्यूतादिषु । आभ्यन्तरेषु जतुगृहादिषु ।। 5-95-11 कुरुष्वेव भवत्स्वेव नतु पाण्डवेषु ।। 5-95-14 एषामपि एषामेव ।। 5-95-15 शासनकाङ्क्षिणः पुत्रान् शासितुमिच्छतस्तव ।। 5-95-16 निष्फलं वैरम्। संविधत्स्व शमं कुरु ।। 5-95-23 पाण्डवैः सह संधास्यन्ते सन्धि करिष्यन्ति ।। 5-95-25 अखिलां निष्कण्टकाम् ।। 5-95-33 प्रकृतिं सत्त्वगुणम् ।। 5-95-42 स्थाता स्थास्यति ।। 5-95-50 आरुजति हिनस्ति। अनुकूलजान् कूलं कूलमनुमृत्य जातान् वृक्षादीन् ।। 5-95-58 परमोपधिः महच्छद्म ।।

उद्योगपर्व-094 पुटाग्रे अल्लिखितम्। उद्योगपर्व-096