महाभारतम्-05-उद्योगपर्व-099

← उद्योगपर्व-098 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-099
वेदव्यासः
उद्योगपर्व-100 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारदेन मातलिं पातालं नीत्वा तत्रत्यवस्तुविशेषान्प्रदर्श्य तद्गुणनिरूपणम् ।। 1 ।।
मातलिना तत्र वरानभिरोचनवचनपूर्वकमन्यत्र यात्राकीर्तनम् ।। 2 ।।

नारद उवाच।

5-99-1x

एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम्।
पातालमिति विख्यातं दैत्यदानवसेवितम् ।।

5-99-1a
5-99-1b

इदमद्भिः समं प्राप्ता ये केचिद्भुवि जङ्गमाः।
प्रविशन्तो महानादं नदन्ति भयपीडिताः ।।

5-99-2a
5-99-2b

अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः।
व्यापारेण धृतात्मानं निबद्धं समबुध्यत ।।

5-99-3a
5-99-3b

अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।।
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ।।

5-99-4a
5-99-4b

अत्रादित्यो हयशिराः काले पर्वणि पर्वणि ।
उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत् ।।

5-99-5a
5-99-5b

यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः ।
तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम् ।।

5-99-6a
5-99-6b

ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितः ।
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ।।

5-99-7a
5-99-7b

ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः ।
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ।।

5-99-8a
5-99-8b

अत्र नानाविधाकारास्तिमयो नैकरूपिणः ।
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ।।

5-99-9a
5-99-9b

अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः ।
मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि ।।

5-99-10a
5-99-10b

उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः ।
अमृतं स्पृश्य संस्पर्शात्संजीवयतिदेहिनः ।।

5-99-11a
5-99-11b

अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः ।
दैतेया निवसन्ति स्म वासवेन हृतश्रियः ।।

5-99-12a
5-99-12b

अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः ।
भूतये सर्वभूतानामचरत्तप उत्तमम् ।।

5-99-13a
5-99-13b

अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः ।
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ।।

5-99-14a
5-99-14b

यत्रतत्रशयो नित्यं येनकेनचिदाशितः।
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ।।

5-99-15a
5-99-15b

पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः ।
वरयिष्यामि तं गत्वा यत्नमास्थाय मातले ।।

5-99-16a
5-99-16b

अण्डमेतञ्जले न्यस्तं दीप्यमानमिव श्रिया ।
आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ।।

5-99-17a
5-99-17b

नास्य जातिं निसर्गं वा कथ्यमानं श्रृणोमि वै।
पितरं मातरं चापि नास्य जानाति कश्चन ।।

5-99-18a
5-99-18b

अतः किल महानग्निरन्तकाले समुत्थितः।
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ।।

5-99-19a
5-99-19b

मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् ।
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ।।

5-99-20a
5-99-20b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि ऊनशततमोऽध्यायः ।।

सम्पाद्यताम्

5-99-2 अद्भिः समं प्राप्ताः जलवेगेनानीताः ।। 5-99-3 व्यापारेण जगदनुग्रहरूपेण तदर्थमितियावत्। निबद्धं मर्यादायां स्थापितं ।। 5-99-5 आदित्योऽदितेः पुत्रो विष्णुर्हयग्रीवरूपी ।। 5-99-14 स्वाध्यायाम्रायो वेदपाठः ।। 5-99-17 आप्रजानां निसर्गात् प्रयोत्पत्तिमारभ्य ।। 5-99-18 जातिं जन्म। निसर्गं स्वभावम् ।।

उद्योगपर्व-098 पुटाग्रे अल्लिखितम्। उद्योगपर्व-100