महाभारतम्-05-उद्योगपर्व-105

← उद्योगपर्व-104 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-105
वेदव्यासः
उद्योगपर्व-106 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सुमुखाय आयुर्दानश्रवणकुपितेन गरुडेन इन्द्रोपेन्द्रावभ्येत्य दर्पेक्तिः ।। 1 ।।
उपेन्द्रेण तार्क्ष्यदर्पविमोक्षणाय तदंसे स्वदक्षबाहुविक्षेपे तद्वहनाक्षमेण तेन तत्क्षमापनम् ।। 2 ।।
कण्वेन सुयोधनंप्रति गरुडनिदर्शनप्रदर्शनपूर्वकं गर्वपरिहारेण पाण्डवैः सह शमविधानम् ।। 3 ।।
दुर्योधनेन ऊरुताजनपूर्वकं कण्वोपहासे तेन तं प्रति तव ऊरावेव मृत्युर्भविष्यतीति शापदानम् ।। 4 ।।





कण्व उवाच।

5-105-1x

गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ।।

5-105-1a
5-105-1b

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ।।

5-105-2a
5-105-2b

गरुड उवाच।

5-105-3x

भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम।
कामकारवरं दत्त्वा पुनश्चलितवानसि ।।

5-105-3a
5-105-3b

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ।।

5-105-4a
5-105-4b

वृतश्चैष महानागः स्थापितः समयश्च मे।
अनेन च मया देव भर्तव्यः प्रसवो महान् ।।

5-105-5a
5-105-5b

एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ।।

5-105-6a
5-105-6b

सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ।।

5-105-7a
5-105-7b

`कण्व उवाच।

5-105-8x

श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा।
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ।।

5-105-8a
5-105-8b
5-105-8c

इन्द्र उवाच।

5-105-9x

न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि।
दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ।।'

5-105-9a
5-105-9b
5-105-9c

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ।।

5-105-10a
5-105-10b

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ।।

5-105-11a
5-105-11b

ममापि दक्षस्य सुता जननी कश्यपः पिता।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ।।

5-105-12a
5-105-12b

असह्यं सर्वभूतानां ममापि विपुलं बलम्।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ।।

5-105-13a
5-105-13b

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ।।

5-105-14a
5-105-14b

यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्।
वहामि चैवानुजं ते तेन मामवमन्यसे ।।

5-105-15a
5-105-15b

कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ।।

5-105-16a
5-105-16b

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ।।

5-105-17a
5-105-17b

अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ।।

5-105-18a
5-105-18b

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ।।

5-105-19a
5-105-19b

कण्व उवाच।

5-105-20x

स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ।।

5-105-20a
5-105-20b

गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ।।

5-105-21a
5-105-21b

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे।
अहमेवात्मनात्मानं वहामि त्वां च धारये ।।

5-105-22a
5-105-22b

`न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।'
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ।।

5-105-23a
5-105-23b
5-105-23c

इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् ।
`आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।'
निपपात स भारार्तो विहलो नष्टचेतनः ।।

5-105-24a
5-105-24b
5-105-24c

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ।।

5-105-25a
5-105-25b

न त्वेनं पीडयामास बलेन बलवत्तरः।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ।।

5-105-26a
5-105-26b

व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः।।

5-105-27a
5-105-27b

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः।
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ।।

5-105-28a
5-105-28b

भगवँल्लोकसारस्य सदृशेन वपुष्मता।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ।।

5-105-29a
5-105-29b

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ।।

5-105-30a
5-105-30b

न हि ज्ञातं बलं देव मया ते परम विभो।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ।।

5-105-31a
5-105-31b

कण्व उवाच।

5-105-32x

ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ।।

5-105-32a
5-105-32b

पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ।।

5-105-33a
5-105-33b

एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः।
गरुडो बलवान्राजन्वैनतेयो महायशाः ।।

5-105-34a
5-105-34b

कण्व उवाच।

5-105-35x

तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ।।

5-105-35a
5-105-35b

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ।।

5-105-36a
5-105-36b

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ।।

5-105-37a
5-105-37b

तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ।।

5-105-38a
5-105-38b

प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ।।

5-105-39a
5-105-39b

वैशंपायन उवाच।

5-105-40x

दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ।।

5-105-40a
5-105-40b

कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ।।

5-105-41a
5-105-41b

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ।।

5-105-42a
5-105-42b

` ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् ।
यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ।।'

5-105-43a
5-105-43b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चाधिकशततमोऽध्यायः ।।

उद्योगपर्व-104 पुटाग्रे अल्लिखितम्। उद्योगपर्व-106