महाभारतम्-05-उद्योगपर्व-109

← उद्योगपर्व-108 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-109
वेदव्यासः
उद्योगपर्व-110 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

गरुडेन गालवंप्रति दक्षिणदिग्गुणवर्णनम् ।। 1 ।।


सुपर्ण उवाच।

5-109-1x

इयं विवस्वदा पूर्वं श्रौतेन विधिना किल।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ।।

5-109-1a
5-109-1b

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ।।

5-109-2a
5-109-2b

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ।।

5-109-3a
5-109-3b

एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ।।

5-109-4a
5-109-4b

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ।।

5-109-5a
5-109-5b

अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ।।

5-109-6a
5-109-6b

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते।
वृता त्वनवबोधेन सुखं तेन न गम्यते ।।

5-109-7a
5-109-7b

नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ।।

5-109-8a
5-109-8b

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ।।

5-109-9a
5-109-9b

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ।।

5-109-10a
5-109-10b

अत्र सावर्मिना चैव यवक्रीतात्मजेन च।
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ।।

5-109-11a
5-109-11b

अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता ।।

5-109-12a
5-109-12b

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ।।

5-109-13a
5-109-13b

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वैतरणैर्वृता ।।

5-109-14a
5-109-14b

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते।
अत्रावृत्तो दिनकरः सुरसं क्षरते पयः ।।

5-109-15a
5-109-15b

काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः।
अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन् ।।

5-109-16a
5-109-16b

लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः ।।

5-109-17a
5-109-17b

विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ।।

5-109-18a
5-109-18b

अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्।
अत्र भोगवती नाम पुरी वासुकिपालिता ।।

5-109-19a
5-109-19b

तक्षकेण च नागेन तथैवैरावतेन च।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ।।

5-109-20a
5-109-20b

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ।
एष तस्यापि ते मार्गः परिचारस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ।।

5-109-21a
5-109-21b
5-109-21c

।। इति श्रीमन्महाभरते उद्योगपर्वणि
भगवद्यानपर्वणि नवाधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-109-2 ऊष्मपाणां उष्णान्नभोजिनाम् ।। 5-109-3 विश्वे त्रयोदशमितो गणः ।। 5-109-4 द्वितीयं देवस्य धर्मस्य द्वारम् ।। 5-109-11 सावर्णिना अनुना । मर्यादा सूर्यरथस्य ।। 5-109-13 सर्वासवः सर्वेषां प्राणा अत्र प्राप्ताः सन्तः पुनः पञ्चधा गच्छन्ति देहं प्राप्नुवन्ति। प्राणापानादिभेदेनेत्यर्थः ।। 5-109-14 वैतरणैः वैतरणीनदीसंज्ञकनरकाहैः ।। 5-109-15 सुखस्यान्तं नरकम्। दुःखस्यान्तं स्वर्गसुखम्। आवृत्तः कर्कायनगतः। तदाहि वृष्टिर्भवति ।। 5-109-16 वासिष्ठीं काष्ठां उदीचीं वसिष्ठोपलक्षितसप्तर्षिभिरधिष्ठिताम् ।। 5-109-20 निर्याणकाले मरणकाले । तमः आन्ध्यम् ।। 5-109-21 तस्य ते तव परिचारस्य अन्वेषणस्य ।।

उद्योगपर्व-108 पुटाग्रे अल्लिखितम्। उद्योगपर्व-110