महाभारतम्-05-उद्योगपर्व-116

← उद्योगपर्व-115 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-116
वेदव्यासः
उद्योगपर्व-117 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारद उवाच
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः
दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः १
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु २
बहुदेवासुरालोका बहुगन्धर्वदर्शना
बहुलक्षणसम्पन्ना बहुप्रसवधारिणी ३
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम्
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ४
गालव उवाच
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे
हयानां चन्द्र शुभ्राणां देशजानां वपुष्मताम् ५
ततस्तव भवित्रीयं पुत्राणां जननी शुभा
अरणीव हुताशानां योनिरायतलोचना ६
नारद उवाच
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः
उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ७
द्वे मे शते संनिहिते हयानां यद्विधास्तव
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ८
सोऽहमेकमपत्यं वै जनयिष्यामि गालव
अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ९
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत्
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना १०
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ११
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै
भविष्यन्ति तथा पुत्रा मम चत्वार एव च १२
क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज १३
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् १४
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् १५
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च
समये देशकाले च लब्धवान्सुतमीप्सितम् १६
ततो वसुमना नाम वसुभ्यो वसुमत्तरः
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः १७
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः
उपसंगम्य चोवाच हर्यश्वं प्रीतमानसम् १८
जातो नृप सुतस्तेऽय बालभास्करसंनिभः
कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् १९
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः २०
माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम्
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् २१
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् २२
इति श्रीमहाभारते उद्योगपर्वणि षोडशाधिकशततमोऽध्यायः ११६