महाभारतम्-05-उद्योगपर्व-118

← उद्योगपर्व-117 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-118
वेदव्यासः
उद्योगपर्व-119 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

गालवेन पुनः कन्यात्वमुपगतया माधव्या सह उशीनरनृपं गत्वा स्वागमनकारणकथनम् ।। 1 ।।
तेनाप्यश्वशतद्वयदानेन माधव्यां शिबिनामकतनयोत्पादनम् ।। 2 ।।
कालान्तरे उशीनरान्माधवीमादाय गच्छतो गालवस्य मध्येमार्गं गरुडेन समागमः ।। 3 ।।

नारद उवाच।

5-118-1x

तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा ।।

5-118-1a
5-118-1b

गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ।।

5-118-2a
5-118-2b

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्।
इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ।।

5-118-3a
5-118-3b

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ।।

5-118-4a
5-118-4b

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्।
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ।।

5-118-5a
5-118-5b

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे।
यदि शक्यं महाराज क्रियतामविचारितम् ।।

5-118-6a
5-118-6b

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ।।

5-118-7a
5-118-7b

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः।
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ।।

5-118-8a
5-118-8b

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ।।

5-118-9a
5-118-9b

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ।।

5-118-10a
5-118-10b

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ।।

5-118-11a
5-118-11b

अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम् ।।

5-118-12a
5-118-12b

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ।।

5-118-13a
5-118-13b

कामतो हि धनं राजा पारक्यं यः प्रयच्छति।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ।।

5-118-14a
5-118-14b

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे।।

5-118-15a
5-118-15b

तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ।।

5-118-16a
5-118-16b

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ।।

5-118-17a
5-118-17b

कन्दरेषु च शैलानां नदीनां निर्झरेषु च।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ।।

5-118-18a
5-118-18b

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च।
वातायनविमानेषु तथा गर्भगृहेषु च।।

5-118-19a
5-118-19b

ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ।।

5-118-20a
5-118-20b

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च।
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ।।

5-118-21a
5-118-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टादशाधिकशततमोऽध्यायाः ।।

उद्योगपर्व-117 पुटाग्रे अल्लिखितम्। उद्योगपर्व-119