महाभारतम्-05-उद्योगपर्व-125

← उद्योगपर्व-124 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-125
वेदव्यासः
उद्योगपर्व-126 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मद्रोणाभ्यां दुर्योधनंप्रति श्रीकृष्णवचनादरणविधानम् ।। 1 ।।
तथा धृतराष्ट्रेणापि दुर्योधनंप्रति श्रीकृष्णवाक्यप्रत्याख्याने अनर्थप्राप्तिकथनम् ।। 2 ।।


वैशंपायन उवाच।

5-125-1x

ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् ।
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ।।

5-125-1a
5-125-1b

कृष्णेन वाक्यमुक्तोऽसि सृहृदां शममिच्छता ।
अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः ।

5-125-2a
5-125-2b

अकृत्वा वचनं तात केशवस्य महात्मनः ।
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ।।

5-125-3a
5-125-3b

धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः ।
तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ।।

5-125-4a
5-125-4b

ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु ।
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भंशयिष्यसि ।।

5-125-5a
5-125-5b

आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम् ।
अहमित्यनया बुद्ध्या जीविताद्धंशयिष्यतसि ।।

5-125-6a
5-125-6b

अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्।
पितुश्च भारतश्रेष्ठ विदुरस्य च धीमतः ।।

5-125-7a
5-125-7b

मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः।
मातरं पितरं चैव मा मञ्जीः शोकसागरे ।।

5-125-8a
5-125-8b

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः।
अमर्षवशमापन्नं निःश्वसन्तं पुनःपुनः ।।

5-125-9a
5-125-9b

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः ।
तथा भीष्मः शान्तनवस्तञ्जुषस्व नराधिप ।।

5-125-10a
5-125-10b

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ ।
आहतुस्त्वां हितं वाक्यं तञ्जुषस्व नराधिप ।।

5-125-11a
5-125-11b

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः ।
माधवं बुद्धिमोहेन माऽवमंस्थाः परन्तप ।।

5-125-12a
5-125-12b

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् ।
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ।।

5-125-13a
5-125-13b

मा जीघनः प्रजाः सर्वाः पुत्रान्भ्रातॄंस्तथैव च ।
वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान् ।।

5-125-14a
5-125-14b

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः।
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ।।

5-125-15a
5-125-15b

यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः।
कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः ।
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ।।

5-125-16a
5-125-16b
5-125-16c

एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु।
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ।।

5-125-17a
5-125-17b

वैशंपायन उवाच।

5-125-18x

तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत्।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ।।

5-125-18a
5-125-18b

दुर्योधन न शोचामि त्वामहं भरतर्षभ ।
इमो तु वृद्धौ शोचामि गान्धारीं पितरं च ते ।।

5-125-19a
5-125-19b

यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा।
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ ।।

5-125-20a
5-125-20b

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्।
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ।।

5-125-21a
5-125-21b

अथ दुर्योधं राजा धृतराष्ट्रोऽभ्यभाषत।
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ।।

5-125-22a
5-125-22b

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना ।
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ।।

5-125-23a
5-125-23b

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा ।
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ।।

5-125-24a
5-125-24b

सुसंहतः केशवेन तात गच्छ युधिष्ठिरम् ।
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम् ।।

5-125-25a
5-125-25b

वासुदेवेन तीर्थेन तात गच्छस्व संशमम् ।
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ।।

5-125-26a
5-125-26b

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ।।

5-125-27a
5-125-27b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवाद्यनपर्वणि
पञ्चविंशत्यधिकशततमोऽध्यायः ।।

5-125-25 सुसंहतः सुष्ठ्रु एकीभूतः ।। 5-125-26 तीर्थेन उपायेन ।। 5-125-27 अपराभवो जयः ।।

उद्योगपर्व-124 पुटाग्रे अल्लिखितम्। उद्योगपर्व-126