महाभारतम्-05-उद्योगपर्व-126
← उद्योगपर्व-125 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-126 वेदव्यासः |
उद्योगपर्व-127 → |
महाभारतस्य पर्वाणि |
---|
पुनर्भीष्मद्रोणाभ्यां दुर्योधनंप्रति परेषां युद्धसंनाहात्पूर्वमेव तैःसह शमविधानम् ।। 1 ।।
वैशंपायन उवाच। | 5-126-1x |
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ। | 5-126-1a 5-126-1b |
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् । | 5-126-2a 5-126-2b |
यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः। | 5-126-3a 5-126-3b |
यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः। | 5-126-4a 5-126-4b |
यावन्न चरते मार्गान्पृतनामभिधर्षयन् । | 5-126-5a 5-126-5b |
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् । | 5-126-6a 5-126-6b 5-126-6c |
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।। | 5-126-7a 5-126-7b |
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् । | 5-126-8a 5-126-8b |
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्। | 5-126-9a 5-126-9b |
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च । | 5-126-10a 5-126-10b |
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः । | 5-126-11a 5-126-11b |
अभिवादयमानं त्वां शिरसा राजकुञ्जरः । | 5-126-12a 5-126-12b |
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः । | 5-126-13a 5-126-13b |
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च। | 5-126-14a 5-126-14b |
शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः । | 5-126-15a 5-126-15b |
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः। | 5-126-16a 5-126-16b |
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् । | 5-126-17a 5-126-17b |
घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् । | 5-126-18a 5-126-18b |
।। इति श्रीमन्महाभारते |
5-126-2 मेधाग्नौ संग्रामाग्नौ । मेघो यज्ञः ।। 5-126-3 वैशसं वैरम् ।।
उद्योगपर्व-125 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-127 |