महाभारतम्-05-उद्योगपर्व-189

← उद्योगपर्व-188 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-189
वेदव्यासः
उद्योगपर्व-190 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पुंवेषगूहितया शिखण्डिन्या द्रोणाद्धनुर्विद्याभ्यसनम् ।। 1 ।।
द्रुपदेन शिखण्डिन्याः दशार्णाधिपतिकन्यया विवाहकरणम् ।। 2 ।।
दाशार्णकसुतया धात्रीद्वारा स्वपित्रे शिखण्डिन्याः स्त्रीत्वज्ञापनम् ।। 3 ।।
दाशार्णकेन दूतमुखेन द्रुपदंप्रति स्वविप्रलम्भफलतया सबन्धोस्तस्य समुच्छेदनिवेदनम् ।। 4 ।।




भीष्म उवाच।

5-189-1x

चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु।
ततो लेख्यादिषु तथा शिल्पेषु च परंतप ।।

5-189-1a
5-189-1b

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह।
तस्य माता महाराज राजानं वरवर्णिनी ।।

5-189-2a
5-189-2b

चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ।।

5-189-3a
5-189-3b
5-189-3c

द्रुपद उवाच।

5-189-4x

कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ।।

5-189-4a
5-189-4b

भार्योवाच।

5-189-5x

न तन्मिथ्या महाराज भविष्यति कथंचन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ।।

5-189-5a
5-189-5b

यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ।।

5-189-6a
5-189-6b

क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ।।

5-189-7a
5-189-7b

ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ।।

5-189-8a
5-189-8b

ततो राजा द्रुपदो राजसिंहः
सर्वान्राज्ञः कुलतः सन्निशाम्य।
दाशार्णकस्य नृपतेस्तनूजां
शिखण्डिने वरयामास दारान् ।।

5-189-9a
5-189-9b
5-189-9c
5-189-9d

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ।।

5-189-10a
5-189-10b

स च राजा दशार्णेषु महानासीत्सुदुर्जयः।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ।।

5-189-11a
5-189-11b

कृते विवाहे तु तदा सा कन्या राजसत्तम।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ।।

5-189-12a
5-189-12b

कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्।
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ।।

5-189-13a
5-189-13b
5-189-13c

धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ।।

5-189-14a
5-189-14b

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च ।।

5-189-15a
5-189-15b

ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ।।

5-189-16a
5-189-16b

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ।।

5-189-17a
5-189-17b

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह ।।

5-189-18a
5-189-18b

ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ।।

5-189-19a
5-189-19b

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत् ।।

5-189-20a
5-189-20b

दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ।।

5-189-21a
5-189-21b

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ।।

5-189-22a
5-189-22b

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव ।।

5-189-23a
5-189-23b

अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ।।

5-189-24a
5-189-24b

कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान्।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ।।

5-189-25a
5-189-25b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
एकोननवत्यधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-189-4 शूलयुक्तः पाणिः शूलपाणिः सोऽस्यास्तीति शूलपाणी तस्य ।। 5-189-20 उत्सार्य नीत्वा ।। 5-189-21 अभिषङ्गात्पराभवात् ।।

उद्योगपर्व-188 पुटाग्रे अल्लिखितम्। उद्योगपर्व-190