महाभारतम्-05-उद्योगपर्व-190

← उद्योगपर्व-189 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-190
वेदव्यासः
उद्योगपर्व-191 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दाशार्णकेन पुनर्दूतप्रेषणे द्रुपदेन पत्न्यासह कर्तव्यालोचनम् ।। 1 ।।

भीष्म उवाच।

5-190-1x

एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप।
चोरस्येव गृहीतस्य न प्रावर्तत भारती ।।

5-190-1a
5-190-1b

स यत्नमकरोत्तीव्रं संबन्धिन्युनुमानने ।
दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन् ।।

5-190-2a
5-190-2b

स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् ।
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ।।

5-190-3a
5-190-3b

ततः संप्रेषकयामास मित्रांणाममितौजसाम् ।
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ।।

5-190-4a
5-190-4b

ततः समुदयं कृत्वा बलानां राजसत्तमः ।
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ।।

5-190-5a
5-190-5b

ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः ।
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ।।

5-190-6a
5-190-6b

तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी ।।

5-190-7a
5-190-7b

बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् ।
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ।।

5-190-8a
5-190-8b

घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ।।

5-190-9a

स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः।
प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव ।।

5-190-10a
5-190-10b

भीष्म उवाच।

5-190-11x

स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः ।
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ।।

5-190-11a
5-190-11b

विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः ।
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ।।

5-190-12a
5-190-12b

भयेन महताऽऽविष्टो हृदि शोकेन चाहतः ।
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ।।

5-190-13a
5-190-13b

अभियास्यति मां कोपात्संबन्धी सुमहाबलः ।
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ।।

5-190-14a
5-190-14b

किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति।
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ।।

5-190-15a
5-190-15b

इति संचिन्त्य यत्नेन समित्रः सबलानुगः ।
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति।।

5-190-16a
5-190-16b

किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने ।
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ।।

5-190-17a
5-190-17b

अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी ।
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ।।

5-190-18a
5-190-18b

सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः।
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ।।

5-190-19a
5-190-19b

शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ।
कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः ।।

5-190-20a
5-190-20b

मया दाशार्णको राजा वञ्चितः स महीपतिः ।
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ।।

5-190-21a
5-190-21b

जनाता ह नरेन्द्रेण ख्यापनार्थं परस्य वै ।
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ।।

5-190-22a
5-190-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
नवत्यधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-190-3 अगमत् ज्ञातवान् ।। 5-190-5 समुदयं समुदायम् ।।

उद्योगपर्व-189 पुटाग्रे अल्लिखितम्। उद्योगपर्व-191