प्रमुखा विकल्पसूचिः उद्घाट्यताम्
मार्कण्डेयपुराणम्
अध्यायाः ०९१-०९५
वेदव्यासः
अध्यायाः ०९६-१०० →

91
अथैकनवतितमोऽध्यायः ।
रौच्यवर्णनम्
मार्कण्डेय उवाच
सावर्णिकमिदं सम्यक्प्रोक्तं मन्वन्तरं तव ।
तथैव देवीमाहात्म्ये महिषासुरघातनम् । । १
उत्पत्तयश्च या देव्या मातॄणां च महाहवे ।
तथैव सम्भवो देव्याश्चामुण्डाया यथा भवः । । २
शिवदूत्याश्च माहात्म्यं वधः शुम्भनिशुम्भयोः ।
रक्तबीजवधश्चैव सर्वमेतत्तवोदितम् । । ३
श्रूयतां मुनिशार्दूल सावर्णिकमथापरम् ।
दत्तपुत्रश्च सावर्णिर्भावी यो नवमो मनुः । । ४
कथयामि मनोस्तस्य ये देवा मुनयो नृपाः ।
पारा मरीचिभर्गाश्च सुधर्माणस्तथा सुराः । । ५
एते त्रिधा भविष्यन्ति सर्वे द्वादशका गणाः ।
तेषामिन्द्रो भविष्यस्तु सहस्राक्षो महाबलः । । ६
साम्प्रतं कार्तिकेयो यो वह्निपुत्रः षडाननः ।
अद्भुतो नाम शक्रोऽसौ भावी तस्यान्तरे मनोः । । ७
मेधातिथिर्वसुः सत्यो ज्योतिष्मान्द्युतिमांस्तथा ।
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः । । ८
धृष्टकेतुर्बर्हकेतुः खड्गहस्तो निरामयः ।
पृथुश्रवास्तथार्चिष्मान्भूरिद्युम्नो बृहद्भयः । । ९
एते नृपसुतास्तस्य दत्तपुत्रस्य वै नृपाः ।
मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज । । 91.१०
मन्वन्तरे च दशमे ब्रह्मपुत्रस्य धीमतः ।
सुखासीना निरुद्धाश्च द्विप्रकाराः सुराः स्मृताः । । ११
शतसंख्या हि ते देवा भविष्या भाविनो मनोः ।
यत्पुत्राणां शतं भावि तद्देवानां तदा शतम् । । १२
शान्तिरिन्द्रस्तथा भावी सर्वैरिन्द्रगुणैर्युतः ।
सप्तर्षींस्तान्निबोध त्वं ये भविष्यन्ति वै तदा । । १३
आपोमूतिर्हविष्मांश्च सुकृती सत्य एव च ।
नाभागोऽप्रतिमश्चैव वासिष्ठश्चैव सप्तमः । । १४
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् ।
शतानीकोऽथ वृषभो ह्यनमित्रो जयद्रथः । । १५
भूरिद्युम्नः सुपर्वा च तस्यैते तनया मनोः ।
भविष्या धर्मपुत्रस्य सावर्णस्यान्तरं शृणु । । १६
विहङ्गमाः कामगाश्च निर्माणरतयस्तथा ।
त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः । । १७
मासर्तुदिवसा ये तु निर्माणपतयस्तु ते ।
विहङ्गमा रात्रयोऽथ मौहूर्त्ताः कामगा गणाः । । १८
इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमः ।
हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः । । १९
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ।
सप्तर्षयोऽन्तरे तस्मिन्नग्नितेजाश्च सप्तमः । । 91.२०
सर्वत्रगः सुशर्मा च देवानीकः पुरूद्वहः ।
हेमधन्वा दृढायुश्च भाविनस्तत्सुता नृपाः । । २१
द्वादशे रुद्रपुत्रस्य प्राप्ते मन्वन्तरे मनोः ।
सावर्णाख्याश्च ये देवा मुनयश्च शृणुष्व तान् । । २२
सुधर्माणः सुमनसो हरितो रोहितस्तथा ।
सुवर्णाश्च सुरास्तत्र पञ्चैते दशका गणाः । । २३
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महाबलः ।
सर्वैरिन्द्रगुणैर्युक्ताः सप्तर्षीनपि मे शृणु । । २४
द्युतिस्तपस्वी सुतपास्तपोमूर्तिस्तपोनिधिः ।
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः । । २५
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रविन्दश्च भाविनस्तत्सुता नृपाः । । २६
त्रयोदशस्य पर्याये रौच्याख्यस्य मनोः सुरान् ।
सप्तर्षींश्च नृपाञ्श्चैव गदतो मे निशामय । । २७
सुधर्माणः सुरास्तत्र सुकर्माणस्तथापरे ।
सुशर्माणः सुरा ह्येते समस्ता मुनिसत्तम । । २८
महाबलो महावीर्यस्तेषामिन्द्रो दिवस्पतिः ।
भविष्यानथ सप्तर्षीन्गदतो मे निशामय । । २९
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्सुकः ।
निर्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः । । 91.३०
चित्रसेनो विचित्रश्च नियतिर्निर्भयो दृढः ।
सुनेत्रः क्षत्रबुद्धिश्च सुव्रतश्चैव तत्सुताः । । ३१
इति श्रीमार्कण्डेयपुराणे रौच्यमन्वन्तर एकनवतितमोऽध्यायः । ९१ ।
92
अथ द्विनवतितमोऽध्यायः
रुच्युपाख्यानवर्णनम्
मार्कण्डेय उवाच
रुचिः प्रजापतिः पूर्वं निर्ममो निरहंकृतः ।
यत्रास्तमितशायी च चचार पृथिवीमिमाम् । । १
अनग्निमनिकेतं तमेकाहारमनाश्रमम् ।
विमुक्तसङ्गं तं दृष्ट्वा प्रोचुस्तत्पितरो मुनिम् । । २
पितर ऊचुः
वत्स कस्मात्त्वया पुण्यो न कृतो दारसंग्रहः ।
स्वर्गापवर्गहतुत्वाद्बन्धस्तेनानिशं विना । । ३
गृही समस्तदेवानां पितॄणां च तथार्हणाम् ।
ऋषीणामतिथीनां च कुर्वंल्लोकानुपाश्नुते । । ४
स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितॄन् ।
विभजत्यन्नदानेन भूताद्यानतिथीनपि । । ५
स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि ।
अवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिनेदिने । । ६
अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄंस्तथा ।
भूतादींश्च कथं मौढ्यात्सुगतिं गन्तुमिच्छसि । । ७
क्लेशमेवैहिकं पुत्र मन्यामोऽत्र भवेत्तव ।
मृतस्य नरकं तद्वत्क्लेशमेवान्यजन्मनि । । ८
रुचिरुवाच
परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा ।
भवत्यतो मया पूर्वं न कृतो दारसंग्रहः । । ९
आत्मनः संयमो योऽयं क्रियतेऽक्षनियन्त्रणात् ।
स मुक्तिहेतुर्न भवत्यासावपि परिग्रहात् । । 92.१०
प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः ।
ममत्वपङ्कदिग्धोऽपि चित्ताम्भोभिर्वरं हि तत् । । ११
अनेकभवसंभूतकर्मपङ्कांकितो बुधैः ।
आत्मा सद्वासनातोयैः प्रक्षाल्यो नियतेन्द्रियैः । । १२
पितर ऊचुः
युक्तं प्रक्षालनं कर्तुमात्मनो नियतेन्द्रियैः ।
किन्तु लेपाय मार्गोऽयं यत्र त्वं पुत्र वर्तसे । । १३
पञ्चर्णदीनैरशुभं नुद्यतेऽनभिसन्धितैः ।
फलैस्तथोपभोगैश्च पूर्वकर्मशुभाशुभैः । । १४
एवं न बन्धो भवति कुर्वतः कारणात्मकः ।
न च बन्धाय तत्कर्म भवत्यनभिसन्धितम् । । १५
पूर्वकर्म कृतं भोगैः क्षीयतेऽहर्निशं तथा ।
सुखदुःखात्मकैर्वत्स पुण्यापुण्यात्मकैर्नृणाम् । । १६
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते ।
न त्वेवमविवेकेन पापपङ्केन लिप्यते । । १७
रुचिरुवाच
अविद्या पठ्यते वेदः कर्ममार्गः पितामहाः ।
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् । । १८
पितर ऊचुः
अविद्या सत्यमेवैतत्कर्म नैतन्मृषावचः ।
किन्तु विद्या परिप्राप्तौ हेतु कर्म न संशयः । । १९
विहिताकरणात्पुंभिरसद्भिः क्रियते तु यः ।
संयमो मुक्तये नासौ प्रत्युताऽधोगतिप्रदः । । 92.२०
प्रक्षालयामीति भवान्वत्सात्मानं तु मन्यते ।
विहिताकरणोद्भूतैः पापैस्त्वं तु विलिप्यसे । । २१
अविद्याप्युपकाराय विषवज्जायते नृणाम् ।
अनुष्ठिताभ्युपायेन बन्धायान्यायतो हि सा । । २२
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् ।
मां जन्म विफलं तेऽस्तु असम्प्राप्य तु लौकिकम् । । २३
रुचिरुवाच
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रदास्यति ।
भार्यां तथा दरिद्रस्य दुष्करो दारसंग्रहः । । २४
पितर ऊचुः
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः ।
नूनं भावि भवित्री च नाभिनन्दसि नो वचः । । २५
मार्कण्डेय उवाच
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम ।
बभूवुः सहसाऽदृश्या दीपा वाताहता इव । । २६
इति श्रीमार्कण्डेयपुराणे रुच्युपाख्याने द्विनवतितमोऽध्यायः । ९२ ।
8
अथ त्रिनवतितमोऽध्यायः
पितृस्तवनवर्णनम्
मार्कण्डेय उवाच
स तेन पितृवाक्येन भृशमुद्विग्नमानसः ।
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् । । १
कन्यामलभमानोऽसौ पितृवाक्याग्निदीपितः ।
चिन्तामवाप महतीमतीवोद्विग्नमानसः । । २
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः ।
क्षिप्रं भवेत्पितॄणां यो ममाभ्युदयकारकः । । ३
इति चिन्तयतस्तस्य मतिर्जाता महात्मनः ।
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् । । ४
ततो वर्षशतं दिव्यं तपस्तेपे स वेधसम् ।
दिदृक्षुः सुचिरं कालं परं नियममास्थितः । । ५
ततः स्वं दर्शयामास ब्रह्मा लोकपितामहः ।
उवाच तं प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् । । ६
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् ।
पितॄणां वचनात्तेन यत्कर्तुमभिवाञ्छितम् । ।
ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाच्छितम् । । ७
ब्रह्मोवाच
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः ।
सृष्ट्वा प्रजाः सुतान्विप्र समुत्पाद्य क्रियास्तथा । । ८
कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ।
स त्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् । । ९
कामं चेममभिध्याय क्रियतां पितृपूजनम् ।
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितान् । ।
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः । । 93.१०
मार्कण्डेय उवाच
इत्यृषेर्वचनं श्रुत्या ब्रह्मणोऽव्यक्तजन्मनः ।
नद्या विविक्ते पुलिने चकार पितृतर्पणम् । । ११
तुष्टाव च पितॄन्विप्रः स्तवैरेभिस्तथादृतः ।
एकाग्रः प्रयतो भूत्वा भक्तिनम्रात्मकन्धरः । । १२
रुचिरुवाच
नमस्येऽहं पितॄञ्छ्राद्धे ये वसन्त्यधिदेवताः ।
देवैरपि हि तर्प्यन्ते ये च श्राद्धे स्वधोत्तरैः । । १३
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः । । १४
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः । । १५
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैरपि ।
तन्मयत्वेन वाञ्छद्भिर्ऋद्धिमात्यन्तिकीं पराम् । । १६
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिनः । । १७
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टालाभाय प्राजापत्यप्रदायिनः । । १८
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्बिषैः । । १९
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकव्रतचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः । । 93.२०
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् । । २१
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः । । २२
नमस्येऽहं पितॄञ्छ्राद्धैर्ये शूद्रैरपि भक्तितः ।
सन्तर्प्यन्ते जगत्यत्र नाम्ना ख्याताः सुकालिनः । । २३
नमस्येऽहं पितॄञ्छ्राद्धैः पाताले या महासुरैः ।
सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा । । २४
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः । । २५
नमस्येऽहं पितॄ्ञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः । । २६
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोके च तथान्तरिक्षे ।
महीतले ये च सुरादिपूज्यास्ते मे प्रतीच्छन्तु मयोपनीतम् । । २७
पितॄन्नमस्ये परमात्मभूता ये वै विमाने निवसन्ति मूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् । । २८
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विभुक्तिदा येऽनभिसंहितेषु । । २९
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमतोऽधिकं वा सुतान्पशून्स्वानि बलं गृहाणि । । 93.३०
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु । । ३१
येषां हतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्दानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः । । ३२
ये खड्गिमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु । । ३३
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषाममरार्चितानाम् ।
तेषां तु सान्निध्यमिहास्तु पुष्पगन्धान्नभोज्येषु मया कृतेषु । । ३४
दिने दिने ये प्रतिगृह्णतेऽर्च्चां मासांतपूज्यां भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तृप्तिम् । । ३५
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां च नवार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीनिभाः शूद्रजनस्य ये च । । ३६
तेऽस्मिन्समस्ता मम पुण्यगन्धधूपान्नतोयादिनिवेदनेन ।
तथाग्निहोमेन च यान्तु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः । । ३७
ये देवपूर्वाण्यतितृप्तिहेतोरञ्जन्ति कव्यानि शुभाहुतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः । । ३८
रक्षांसि भूतान्यसुरांस्तथोग्रान्निर्नाशयन्तस्त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः । । ३९
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया । । 93.४०
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्मृताः । । ४१
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । । ४२
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः । । ४३
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ।
कल्याणः कल्यताकर्त्ता कल्यः कल्यतराश्रयः । । ४४
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ।
वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा । । ४५
विश्वपाता तथा धाता सप्तैवैते तथा गणाः ।
महान्महात्मा महितो महिमावान्महाबलः । । ४६
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ।
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः । । ४७
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् । ।
ते मेऽनुतृप्तास्तुष्यन्तु यच्छन्तु च सदा हितम् । । ४८
इति श्रीमार्कण्डेयपुराणे रौच्यमन्वन्तरे रुच्युपाख्याने
पितृस्तवनं नाम त्रिनवतितमोऽध्यायः । ९३ ।
94
अथ चतुर्नवतितमोऽध्यायः
पितृवरप्रदानवर्णनम्
मार्कण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः । । १
तद्दृष्ट्वा सुमहत्तेजः समासाद्य स्थितं जगत् ।
जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ । ।२
रुचिरुवाच
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् । । ३
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् । । ४
मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितरश्चार्णवेषु ये । । ५
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः । । ६
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः । । ७
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः । । ८
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे । । ९
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् । । 94.१०
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः । । ११
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्त्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः । । १२
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः । । १३
मार्कण्डेय उवाच
एव स्तुतास्ततस्तेन तेजसा मुनिसत्तम ।
निश्चक्रमुस्तेऽपि ततो भासयन्तो दिशो दश । । १४
निवेदितं च यत्तेन पुष्पगन्धानुलेपनम् ।
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् । । १५
प्रणिपत्य पुनर्भक्तया पुनरेव कृताञ्जलिः ।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः । । १६
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।
वरं वृणीष्वेति स तानुवाचानतकन्धरः । । १७
रुचिरुवाच
साम्प्रतं सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम ।
सोऽहं पुत्रीमभीप्सामि धन्यां दिव्यां प्रजावतीम् । । १८
पितर ऊचुः
अद्यैव सद्यः पत्नी ते भवत्वतिमनोरमा ।
तस्यां च पुत्रो भविता भवतो मनुरुत्तमः । । १९
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः ।
रुचे रौच्य इति ख्यातिं यो यास्यति जगत्त्रये । । 94.२०
तस्यापि बहवः पुत्रा महाबलपराक्रमाः ।
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः । । २१
त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।
क्षीणाधिकारो धर्मज्ञ ततः सिद्धिमवाप्स्यसि । । २२
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् । । २३
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न सन्देहो यच्चान्यदभिवाच्छितम् । । २४
तस्मात्पुण्यफलं लोके वाञ्छद्भिः सततं नरैः ।
पितॄणां चाक्षया तृप्तिं स्तव्याः स्तोत्रेण मानवैः । । २५
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ।
श्राद्धे च इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् । । २६
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः ।
स्तोत्रश्रवणसम्प्रीत्या सन्निधाने परे कृते । । २७
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् । । २८
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ।
अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् । । २९
अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य वा कृतम् । । 94.३०
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । । ३१
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ।
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति । । ३२
शिशिरे द्विगुणाब्दांश्च तृप्तिं स्तोत्रमिदं शुभम् ।
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि । । ३३
ग्रीष्मे षोडशैवैतत्पठितं तृप्तिकारकम् ।
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते । । ३४
वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ।
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति । । ३५
अस्माकमेतत्पुरुषस्तृप्तिं पञ्चदशाब्दिकीम् ।
यस्मिन्गृहे च लिखितमेतत्तिष्ठति नित्यदा । । ३६
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतः पुरः । । ३७
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तम । । ३८
इति श्रीमार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृवरप्रदानं नाम चतुर्नवतितमोऽध्यायः । ९४ ।
95
अथ पञ्चनवतितमोऽध्यायः
मालिनीपरिणयवर्णनम्
मार्कण्डेय उवाच
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ।
प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः । । १
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ।
प्रश्रयावनता सुभूः प्रम्लोचा वै वराप्सराः । । २
अतीव रूपिणी कन्या मत्सुता तपतां वर ।
जाता वरुणपुत्रेण पुष्करेण महात्मना । । ३
तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम् ।
मनुर्महामतिस्तस्यां समुत्पस्यति ते सुतः । । ४
मार्कण्डेय उवाच
तथेति तेन साऽप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।
उज्जहार ततः कन्यां मालिनी नाम नामतः । । ५
नद्याश्च पुलिने तस्मिन्स रुचिर्मुनिसत्तमः ।
जग्राह पाणिं विधिवत्समानाय्य महामुनीन् । । ६
तस्यां तस्य सुतो जज्ञे महावीर्यो महामतिः ।
रौच्योऽभवत्पितुर्नाम्ना ख्यातोऽत्र वसुधातले । । ७
तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये ।
तनयाश्च नृपाश्चैव ते सम्यक्कथितास्तव । । ८
धर्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः ।
नृणां भवत्यसन्दिग्धमस्मिन्मन्वन्तरे श्रुते । । ९
पितृस्तवं तथा श्रुत्वा पितॄणां च तथा गणान् ।
सर्वान्कामानवाप्नोति तत्प्रसादान्महामुने । । 95.१०
इति श्रीमार्कण्डेयपुराणे मालिनीपरिणयो नाम पञ्चनवतितमोऽध्यायः । ९५ ।
। ।
इति रौच्यमन्वन्तरं समाप्तम् । ।