प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायाः ०९१-०९५ मार्कण्डेयपुराणम्
अध्यायाः ०९६-१००
वेदव्यासः
अध्यायाः १०१-१०५ →

96
अथ षण्णवतितमोऽध्यायः
अग्निस्तोत्रनामवर्णनम्
मार्कण्डेय उवाच
ततः परं तु भौत्यस्य समुत्पत्तिं निशामय ।
देवानृषींस्तथा पुत्रांस्तथैव वसुधाधिपान् । । १
बभूवाङ्गिरसः शिष्यो भूतिर्नाम्नातिकोपनः ।
चण्डशापप्रदोऽल्पेऽर्थे मुनिरागस्यसौम्यवाक् । । २
तस्याश्रमे मातरिश्वा न ववावतिनिष्ठुरम् ।
नातितापं रविश्चक्रे पर्जन्यो नातिकर्दमम् । । ३
नातिशीतं च शीतांशुः परिपूर्णोऽपि रश्मिभिः ।
चकार भीत्या वै तस्य कोपनस्यातितेजसः । । ४
ऋतवश्च क्रमं त्यक्त्वा वृक्षेष्वाश्रमजन्मसु ।
तस्य पुष्पफलं चक्रुराज्ञया सार्वकालिकम् । । ५
ऊहुरापश्च छन्देन तस्याश्रमसमीपगाः ।
कमण्डलुगताश्चैव तस्य भीता महात्मनः । । ६
नातिक्तेशसहो विप्रः सोऽभवत्कोपनो भृशम् ।
अपुत्रश्च महाभागः स तपस्यकरोन्मनः । । ७
पुत्रकामो यताहारः शीतवातानलाहतः ।
तपस्यामि विचिन्त्येति तपस्येव मनो दधे । । ८
तस्येन्दुर्नातिशीताय नातितापाय भास्करः ।
अभवन्मातरिश्वा च ववौ नाति महामुने । । ९
आपीड्यमानो द्वन्द्वैश्च स भूतिर्मुनिसत्तमः ।
अनवाप्याभिलाषं तं तपसः सन्यवर्त्तत । । 96.१०
तस्य भ्राता सुवर्च्चाऽभूद्यज्ञे तेनाभिमन्त्रितः ।
यियासुः शान्तिनामानं शिष्यमाह महामतिम् । । ११
प्रशान्तमक्षप्रतिमं विनीतं गुरुकर्मणि ।
सदोद्युक्तं शुभाचारमुदारं मुनिसत्तमम् । । १२
भूतिरुवाच
अहं यज्ञं गमिष्यामि भ्रातुः शान्ते सुवर्चसः ।
तेनाहूतस्त्वया चेह यत्कर्त्तव्यं शृणुष्व तत् । । १३
अतिजागरणं वह्नेस्त्वया कार्यं ममाश्रमे ।
तथा त्वया प्रयत्नेन यथाग्निर्न शमं व्रजेत् । । १४
मार्कण्डेय उवाच
इत्याज्ञाप्य तथेत्युक्तो गुरुः शिष्येण शान्तिना ।
जगाम यज्ञं तं भ्रातुराहूतः स यवीयसः । । १५
स च शान्तिर्वनाद्यावत्समित्पुष्पफलादिकम् ।
उपानयति भूत्यर्थं गुरोस्तस्य महात्मनः । । १६
अन्यच्च कुरुते कर्म गुरुभक्तिवशानुगः ।
प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः । । १७
तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः ।
भीतश्च भूतेर्बहुधा चिन्तामाप महामतिः । । १८
किं करोमि कथं वात्र भविता गमनं गुरोः ।
मयाद्य प्रतिपत्तव्यं किं कृते सुकृतं भवेत् । । १९
प्रशान्ताग्निमिमं धिष्ण्यं यदि पश्यति मे गुरुः ।
ततो मां विषमे ह्यद्य व्यसने सन्नियोक्ष्यति । । 96.२०
यद्यन्यमग्निमत्राहमग्निस्थाने करोमि तत् ।
सर्वप्रत्यक्षदृग्भस्म सोऽवश्यं मां करिष्यति । । २१
सोऽहं पापो गुरोस्तस्य निमित्तं कोपशापयोः ।
तथात्मानं न शोचामि यथा पापं कृतं गुरोः । । २२
दृष्ट्वा प्रशान्तमनलं नूनं शप्स्यति मां गुरुः ।
यथा वा पावकः क्रुद्धस्तथा वीर्यो हि स द्विजः । । २३
यस्य प्रभावाद्बिभ्यन्ते देवास्तिष्ठन्ति शासने ।
कृतागसं स मां युक्त्या कया नो धर्षयिष्यति । । २४
मार्कण्डेय उवाच
बहुधैवं विचिन्त्यासौ भीतस्तस्य सदा गुरोः ।
ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम् । । २५
स चकार तदा स्तोत्रं सप्तर्च्चेर्यतमानसः ।
स चैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः । । २६
शान्तिरुवाच
ओं नमः सर्वभूतानां साधनाय महात्मने ।
एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने । २७
नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।
शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः । । २८
त्वं मुखं सर्वदेवानां त्वयात्तं भगवन्हविः ।
प्रीणयस्यखिलान्देवांस्त्वत्प्राणाः सर्वदेवताः । । २९
हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति ।
ततश्च जलरूपेण परिणाममुपैति यत् । । 96.३०
तेनाखिलौषधीजन्म भवत्यनिलसारथे ।
औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः । । ३१
वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च ।
यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक । । ३२
आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा । । ३३
देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।
मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः । । ३४
आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।
त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् । । ३५
अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः ।
पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् । । ३६
देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।
विषरूपेण नागेषु वायुरूपः पतत्त्रिषु । । ३७
मनुजेषु भवान्क्रोधो मोहः पक्षिमृगादिषु ।
अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति । । ३८
जले द्रवस्त्वं भगवाञ्जवरूपी तथाऽनिले ।
व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः । । ३९
त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः । । 96.४०
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । । ४१
त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् । । ४२
प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।
परिणामात्मवीर्याणि प्राणिनाममरार्चित । । ४३
दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते । । ४४
तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।
नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन । । ४५
पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।
त्वमेव सर्वभूतानां पावनाद्विश्वपावनः । ।
त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः । । ४६
सस्यानां पाककर्त्ता त्वं पोष्टा त्वं जगतस्तथा ।
त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् । । ४७
पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ।
त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः । । ४८
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ।
हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् । । ४९
हिरण्यगर्भश्च भवान्हिरण्यसदृशप्रभः ।
त्वं मुहूर्त्तं क्षणश्च त्वं त्वं त्रुटिस्त्वं तथा लवः । । 96.५०
कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो ।
त्वमेतदखिलं कालः परिणामात्मको भवान् । । ५१
या जिह्वा भवतः काली कालनिष्ठाकरी प्रभो ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५२
कराली नाम या जिह्वा महाप्रलयकारणम् ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५३
मनोजवा च या जिह्वा लघिमागुणलक्षणा ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५४
करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५५
सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५६
स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५७
या ते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी ।
तया नः पाहि पापेभ्य ऐहिकाच्च महाभयात् । । ५८
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन ।
त्राहि मां सर्वदोषेभ्यः संसारादुद्धरेह माम् । । ५९
प्रसीद वह्ने सप्तार्चिः कृशानो हव्यवाहन ।
अग्निपावकशुक्रादिनामाष्टाभिरुदीरितः । । 96.६०
अग्नेऽग्रे सर्वभूतानां समुत्पत्तिर्विभावसो ।
प्रसीद हव्यवाहाख्य अभिष्टुत मयाव्यय । । ६१
त्वमक्षयो वह्निरचिन्त्यरूपः समृद्धिमन्दुष्प्रसहोऽतितीव्रः ।
तवाव्ययं भीममशेषलोकसंवर्धकं हन्त्यथवातिवीर्यम् । । ६२
त्वमुत्तमं तत्त्वमशेषसत्त्वहृत्पुंडरीकस्थमनन्तमीड्यम् ।
त्वया ततं विश्वमिदं चराचरं हुताशनैको बहुधा त्वमत्र । । ६३
त्वमक्षयः सगिरिवना वसुन्धरा नभः ससोमार्कमहर्दिवाखिलम् ।
महोदधेर्जठरगतश्च वाडवो भवान्विभुः पिबति पयांसि पावक । । ६४
हुताशनस्त्वमिति सदाभिपूज्यसे महाक्रतौ नियमपरैर्महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये । । ६५
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वथ सकलेषु गीयसे त्वम् ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्वकाले । । ६६
त्वं ब्रह्मा यजनपरस्तथैव विष्णुर्भूतेशः सुरपतिरर्यमा जलेशः ।
सूर्येन्दू सकलसुरासुराश्च हव्यैः सन्तोष्याभिमतफलान्यथाप्नुवन्ति । । ६७
अर्चिभिः परममहोपघातदुष्टं संस्पृष्टं तव शुचि जायते समस्तम् ।
स्नानानां परममतीव भस्मना सत्सन्ध्यायां मुनिभिरतीव सेव्यसे तत् । । ६८
तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः ।
सद्भक्त्या सुखनियताः समूहगतिम् । । ६९
प्रसीद वह्ने शुचिनामधेय प्रसीद वायो विमलातिदीक्ते ।
प्रसीद मे पावक वैद्युताभ प्रसीद हव्याशन पाहि मां त्वम् । 96.७०
यत्ते वह्ने शिवं रूपं ये च ते सप्त हेतयः ।
तैः पाहि न स्तुतो देव पिता पुत्रमिवात्मजम् । । ७१
इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरेऽग्निस्तोत्रं नाम षण्णवतितमोऽध्यायः । ९६ ।
97
अथ सप्तनवतितमोऽध्यायः
सम्पातिवर्णनम्
मार्कण्डेय उवाच
एवं स्तुतस्ततस्तेन भगवान्हव्यवाहनः ।
ज्वालामालावृततनुस्तस्यासीदग्रतो मुने । । १
देवो विभावसुः प्रीतस्तोत्रेणानेन वै द्विज ।
तं शान्तिमाह प्रणतं मेघगम्भीरवागथ । । २
अग्निरुवाच
परितुष्टोऽस्मि ते विप्र भक्त्या या ते स्तुतिः कृता ।
वरं ददामि भवते प्रार्थ्यतां यत्तवेप्सितम् । । ३
शान्तिरुवाच
भगवन्कृतकृत्योऽस्मि यत्त्वा पश्यामि रूपिणम् ।
तथापि भक्तिनम्रस्य भवता श्रूयतां मम । । ४
भ्रातृयज्ञं गतो देव ममाचार्यो निजाश्रमान् ।
आगतश्चाश्रमं धिष्ण्यं त्वत्सनाथं स पश्यतु । । ५
ममापराधात्सन्त्यक्तं धिष्ण्यं यत्ते विभावसो ।
तत्त्वयाधिष्ठितं सोऽद्य पूर्ववत्पश्यतु द्विजः । । ६
तथान्यदपि मे देव प्रसादं कुरुषे यदि ।
पुत्रो विशिष्टो भवतु तदपुत्रस्य मे गुरोः । । ७
तथा च मैत्रीं तनये स करिष्यति मे गुरुः ।
तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु । । ८
यश्च त्वां स्तोष्यतेऽनेन प्रीतिं यातोऽसि मेऽव्यय ।
स्तोत्रेण तस्य वरदो भवेथा मत्प्रसादितः । । ९
मार्कण्डेय उवाच
एतच्छ्रुत्वा वचस्तस्य तमाह द्विजसत्तमम् ।
स्तोत्रेणाराधितस्तेन गुरुभक्त्या च पावकः । । 97.१०
अग्निरुवाच
गुरोरर्थे यतो ब्रह्मन्याचितं ते वरद्वयम् ।
नात्मार्थं तेन मे प्रीतिस्त्वय्यतीव महामुने । । ११
भविष्यत्येतदखिलं गुरोर्यत्प्रार्थितं त्वया ।
मैत्री समस्तभूतेषु पुत्रश्चास्य भविष्यति । । १२
मन्वन्तराधिपः पुत्रो भौत्यो नाम भविष्यति ।
महाबलो महावीर्यो महाप्राज्ञो गुरुस्तव । । १३
अनेन यश्च स्तोत्रेण स्तोष्यते मां समाहितः ।
तस्याभिलषितं सर्वं पुण्यं चास्य भविष्यति । । १४
यज्ञेषु पर्वकालेषु तीर्थेज्याहोमकर्मसु ।
धर्माय पठतामेतन्मम पुष्टिकरं परम् । । १५
अहोरात्रकृतं पापं श्रुतमेतत्सकृद्द्विज ।
नाशयिष्यत्यसन्दिग्धं मम तुष्टिकरं परम् । । १६
अहोमकालदोषादीनयोग्यैरपि तत्कृतः ।
ये दोषास्तानिदं सद्यः शमयिष्यति संश्रुतम् । । १७
पौर्णमास्याममावास्यां पर्वस्वन्येषु च स्तवः ।
ममैष संश्रुतो मर्त्यैर्भविता पापनाशनः । । १८
मार्कण्डेय उवाच
इत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ।
बभूवादर्शनः सद्यो दीपस्थो निर्वृतो यथा । । १९
स च शान्तिर्गते वह्नौ परितुष्टेन चेतसा ।
हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः । । 97.२०
जाज्वल्यमानं तत्रासौ गुरुधिष्ण्ये हुताशनम् ।
ददर्श पूर्ववत्प्राप ततः स परमां मुदम् । । २१
एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः ।
भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम् । । २२
तस्याग्रतश्च शिष्योऽसौ चक्रे पादाभिवन्दनम् ।
गृहीतासनपूजश्च तमाह स तदा गुरुः । । २३
वत्सातिहार्दं त्वयि मे तथान्येषु च जन्तुषु ।
न वेद्मि किमिदं त्वं चेद्वेत्स्ये तत्कथयाशु मे । । २४
ततः स शान्तिस्तत्सर्वमाचार्याय महामुने ।
अग्निनाशादिकं विप्रः समाचष्टे यथातथम् । । २५
तच्छ्रुत्वा स परिष्वज्ये स्नेहार्द्रनयनो गुरुः ।
शिष्याय प्रददौ वेदान्साङ्गोपाङ्गान्महामुने । । २६
भौत्यो नाम मनुस्तस्य पुत्रो भूतेरजायत ।
तस्य मन्वन्तरे देवानृषीन्भूपांश्च मे शृणु । । २७
भविष्यस्य भविष्यास्तु गदतो मम विस्तरात् ।
देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः । । २८
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।
धारावृकाश्चेत्येते वै पञ्च देवगणाः स्मृताः । । २९
शुचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति ।
महाबलो महावीर्यः सर्वैरिन्द्रगुणैर्युतः । । 97.३०
आग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः । । ३१
गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा ।
श्रीमानी च प्रतीरश्च विष्णुः संक्रन्दनस्तथा । । ३२
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।
चतुर्दशं मयैतत्ते मन्वन्तरमुदाहृतम् । । ३३
श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ।
पुण्यमाप्नोति मनुजस्तथाऽक्षीणां च सन्ततिम् । । ३४
श्रुत्वा मन्वन्तरं पूर्वं धर्ममाप्नोति मानवः ।
स्वारोचिषस्य श्रवणात्सर्वकामानवाप्नुते । । ३५
औत्तमे धनमाप्नोति ज्ञानमाप्नोति तामसे ।
रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् । । ३६
आरोग्यं चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।
गुणवत्पुत्रपौत्रांस्तु सूर्यसावर्णिके श्रुते । । ३७
माहात्म्यं ब्रह्मसावर्णेर्धर्मसावर्णिके शुभाम् ।
मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् । । ३८
 ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।
निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम । । ३९
देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।
तथाग्निहोत्रं पुत्रांश्च गुणयुक्तानवाप्नुते । । 97.४०
सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ।
मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् । । ४१
तत्र देवानृषीनिन्द्रान्मनूंस्तत्तनयान्नृपान् ।
श्रुत्वा वंशांश्च सर्वेभ्यः पापेभ्यो विप्रमुच्यते । ४२
देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।
ते प्रीयन्ते तथा प्रीता प्रयच्छन्ति शुभां मतिम् । । ४३
ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् ।
शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश । । ४४
सर्वे स्युर्ऋतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः ।
भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् । । ४५
इति श्रीमार्कण्डेयपुराणे चतुर्दशमन्वन्तरवर्णनसमाप्तिर्नाम सप्तनवतितमोऽध्यायः । ९७ ।
98
अथाष्टनवतितमोऽध्यायः
वंशानुकीर्तनवर्णनम्
क्रौष्टकिरुवाच
भगवन्कथिता सम्यक्त्वया मन्वन्तरस्थितिः ।
क्रमाद्विस्तरतस्त्वत्तो मया चैवावधारिता । । १
ब्रह्माद्यमखिलं वंशं भूभुजां द्विजसत्तम ।
श्रोतुं ममेच्छतः सम्यग्भगवन्प्रब्रवीहि मे । । २
मार्कण्डेय उवाच
शृणु वत्स नृपाणां त्वमशेषाणां समुद्भवम् ।
चरितं च जगन्मूलमादौ कृत्वा प्रजापतितम् । । ३
अयं हि वंशो भूपालैरनेकक्रतुकर्तृभिः ।
संग्रामजिद्भिर्धर्मज्ञैः शतसंख्यैरलंकृतः । । ४
श्रुत्वा चैषां नरेन्द्राणां चरितानि महात्मनाम् ।
उत्पत्तयश्च पुरुषः सर्वपापैः प्रमुच्यते । । ५
मनुर्यत्र तथेक्ष्वाकुरनरण्यो भगीरथः ।
अन्ये च शतशो भूपाः सम्यक्पालितभूमयः । । ६
धर्मज्ञा यज्विनः शूराः परमार्थार्थवेदिनः ।
श्रुते तस्मिन्पुमान्वंशे पापौघाद्विप्रमुच्यते। । ७
तदयं श्रूयतां वंशो यतो वंशाः सहस्रशः ।
भिद्यन्ते मनुजेन्द्राणामवरोहा यथा वटात् । । ८
ब्रह्मा प्रजापतिः पूर्वं सिसृक्षुर्विविधाः प्रजाः ।
अङ्गुष्ठाद्दक्षिणाद्दक्षमसृजद्द्विजसत्तम । । ९
वामाङ्गुष्ठाच्च तत्पत्नीं जगत्सूतिकरो विभुः ।
ससर्ज भगवान्ब्रह्मा जगतां कारणं परम् । । 98.१०
अदितिस्तस्य दक्षस्य कन्याजायत शोभना ।
तस्यां च कश्यपो देवं मार्तण्डं समजीजनत् । । ११
ब्रह्मा स्वरूपं जगतामशेषाणां वरप्रदम् ।
आदिमध्यान्तभूतं च सर्गस्थित्यन्तकर्मसु । । १२
यतोऽखिलमिदं यस्मिन्नशेषं च स्थितां द्विज ।
यत्स्वरूपं जगच्चेदं सदेवासुरमानुषम् । । १३
यः सर्वभूतः सर्वात्मा परमात्मा सनातनः ।
अदित्यामभवद्भास्वान्पूर्वमाराधितस्तया । । १४
क्रौष्टकिरुवाच
भगवञ्छ्रोतुमिच्छामि यत्स्वरूपं विवस्वतः ।
यत्कारणं चादिदेवः सोऽभवत्कश्यपात्मजः । । १५
यथा चाराधितो देव्या सोऽदित्या कश्यपेन च ।
आराधितेन चोक्तं यत्तेन देवेन भास्वता । । १६
प्रभावं चावतीर्णस्य यथावन्मुनिसत्तम ।
भवता कथितं सम्यक्छ्रोतुमिच्छाम्यशेषतः । । १७
मार्कण्डेय उवाच
विस्पष्टा परमा विद्या ज्योतिर्भा शाश्वती स्फुटा ।
कैवल्यं ज्ञानमाविर्भूः प्राकाम्यं संविदेव च । । १८
बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च ।
इत्येतानीह रूपाणि तस्यारूपस्य भास्वतः । । १९
श्रूयतां च महाभाग विस्तराद्वदतो मम ।
यत्सृष्टवानसि रवेराविर्भावो यथाभवत् । । 98.२०
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
बृहदण्डमभूदेकमक्षरं कारणं परम् । । २१
तद्बिभेद तदन्तःस्थो भगवान्प्रपितामहः ।
पद्मयोनिः स्वयं ब्रह्मा यः स्रष्टा जगतां प्रभुः । । २२
तन्मुखादोमिति महानभूच्छब्दो महामुने ।
ततो भूस्तु भुवस्तस्मात्ततश्च स्वरनन्तरम् । । २३
एता व्याहृतयस्तिस्रः स्वरूपं तद्विवस्वतः ।
ओमित्यस्मात्स्वरूपात्तु सूक्ष्मरूपं रवेः परम् । । २४
ततो महरिति स्थूलं जनं स्थूलतरं ततः ।
ततस्तपस्ततः सत्यमिति मूर्त्तानि सप्तधा । । २५
स्थितानि तस्य रूपाणि भवन्ति न भवन्ति च ।
स्वभावभावयोर्भावं यतो गच्छन्ति संशयम् । । २६
आद्यन्तं यत्परं सूक्ष्ममरूपं परमं स्थितम् ।
ओमित्युक्तं मया विप्र तत्परब्रह्म तद्वपुः । । २७
इति श्रीमार्कण्डेयपुराणे वंशानुकीर्त्तनं नामाष्टनवतितमोऽध्यायः । ९८ ।
99
अथ नवनवतितमोऽध्यायः
मार्तण्डमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
तस्मादण्डाद्विभिन्नात्तु ब्रह्मणोऽव्यक्तजन्मनः ।
ऋचो बभूवुः प्रथमं प्रथमाद्वदनान्मुने । । १
जपापुष्पनिभाः सद्यस्तेजोरूपा ह्यसंहताः ।
पृथक्पृथग्विभिन्नाश्च रजोरूपवहास्ततः । । २
यजूंषि दक्षिणाद्वक्त्रादनिरुद्धानि कानिचित् ।
यादृग्वर्णं तथा वर्णान्यसंहतिधराणि च । । ३
पश्चिमं यद्विभोर्वक्त्रं ब्रह्मणः परमेष्ठिनः ।
आविर्भूतानि सामानि तत्तच्छन्दांसि तान्यथ । । ४
अथर्वणामशेषं च भृङ्गाञ्जनचयप्रभम् ।
यावद्धोरस्वरूपं तदाभिचारिकशान्तिकम् । । ५
उत्तरात्प्रकटीभूतं वदनात्तस्य वेधसः ।
सुखसत्त्वतमःप्रायं सौम्यासौम्यस्वरूपवत् । । ६
ऋचो रजोगुणाः सत्त्वं यजुषां च गुणा मुने ।
तमोगुणानि सामानि तमःसत्त्वमथर्वसु । । ७
एतानि ज्वलमानानि तेजसाऽप्रतिमेन वै ।
पृथक्पृथगवस्थानभाञ्जि पूर्वमिवाभवन् । । ८
ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिशब्द्यते ।
तस्य स्वभावाद्यत्तेजस्तत्समावृत्य संस्थितम् । । ९
यथा यजुर्मयं तेजस्तद्वत्साम्नां महामुने ।
एकत्वमुपयातानि परे तेजस संश्रये । । 99.१०
शान्तिकं पौष्टिकं चैव तथा चैवाभिचारिकम् ।
ऋगादिषु लयं ब्रहमंस्त्रितयं त्रिष्वथागमत् । । ११
ततो विश्वमिदं सद्यस्तमोनाशात्सुनिर्मलम् ।
विभावनीयं विप्रर्षे तिर्यगूर्ध्वमधस्तथा । । १२
ततस्तन्मण्डलीभूतं छान्दसं तेज उत्तमम् ।
परेण तेजसा ब्रह्मन्नेकत्वमुपगम्य तत् । । १३
आदित्यसंज्ञामगमदादावेव यतोऽभवत् ।
विश्वस्यास्य महाभाग कारणं चाव्ययात्मकम् । । १४
प्रातर्मध्यन्दिने चैव तथा चैवापराह्णिके ।
त्रयी तपति सा काले ऋग्यजुःसामसंज्ञिता । । १५
ऋचस्तपन्ति पूर्वाह्णे मध्याह्ने च यजूंषि वै ।
सामानि चापराह्णे वै तपन्ति मुनिसत्तम । । १६
शान्तिकमृक्षु पूर्वाह्णे यजुःष्वेव च पौष्टिकम् ।
विन्यस्तं साम्नि सायाह्ने ह्याभिचारिकमन्ततः । । १७
मध्यन्दिनेऽपराह्णे च समे चैवाभिचारिकम् ।
अपराह्णे पितॄणां तु साम्ना कार्याणि तानि वै । । १८
विसृष्टौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोऽन्ते च तस्मात्तस्याशुचिर्ध्वनिः । । १९
तदेवं भगवान्भास्वान्वेदात्मा वेदसंस्थितः ।
वेदविद्यात्मकश्चैव परः पुरुष उच्यते । । 99.२०
सर्गस्थित्यन्तहेतुश्च रजःसत्त्वादिकान्गुणान् ।
आश्रित्य ब्रह्मविष्ण्वादिसंज्ञामभ्येति शाश्वतः । । २१
देवैः सदेड्यः स तु वेदमूर्तिरमूर्तिराद्योऽखिलमर्त्यमूर्तिः ।
विश्वाश्रयं ज्योतिरवेद्यधर्मा वेदान्तगम्यः परमः परेशः । । २२
इति श्रीमार्कण्डेयपुराणे मार्त्तण्डमाहात्म्ये नवनवतितमोऽध्यायः । ९९ ।
100
अथ शततमोऽध्यायः
आदित्यस्तववर्णनम्
मार्कण्डेय उवाच
तस्य सन्ताप्यमाने तु तेजसोर्ध्वमधस्यथा ।
सिसृक्षुश्चिन्तयामास पद्मयोनिः पितामहः । । १
सृष्टिः कृतापि मे नाशं प्रयास्यत्यभितेजसा ।
भास्वतः सृष्टिसंहारस्थितिहेतोर्महात्मनः । । २
अप्राणाः प्राणिनः सर्व आपः शुष्यन्ति तेजसा ।
न चाम्भसा विना सृष्टिर्विश्वस्यास्य भविष्यति । । ३
इति सञ्चिन्त्य भगवान्स्तोत्रं भगवतो रवेः ।
चकार तन्मये भूत्वा ब्रह्मा लोकपितामहः । । ४
ब्रह्मोवाच
नमस्ये यन्मयं सर्वमेतत्सर्वमयश्च यः ।
विश्वमूर्तिः परं ज्योतिर्यत्तद्ध्यायन्ति योगिनः । । ५
य ऋङ्मयो यो यजुषां निधानं साम्नां च यो योनिरचिन्त्यशक्तिः ।
त्रयीमयः स्थूलतयार्धमात्रा परस्वरूपो गुणपारयोग्यः । । ६
त्वां सर्वहेतुं परमं च वेद्यमाद्यं परं ज्योतिरवेद्यरूपम् ।
स्थूलं च देवात्मतया नमस्ते भास्वन्तमाद्यं परमं परेभ्यः । । ७
सृष्टिं करोमि यदहं तव शक्तिराद्या तत्प्रेरितो जलमहीपवनाग्निरूपाम् ।
तद्देवतादिविषयां प्रणवाद्यशेषां नात्मेच्छया स्थितिलयावपि तद्वदेव । । ८
वह्निस्त्वमेव जलशोषणतः पृथिव्याः सृष्टिं करोषि जगतां च तथाद्य पाकम् ।
व्यापी त्वमेव भगवन्गगनस्वरूपं त्वं पञ्चधा जगदिदं परिपासि विश्वम् । । ९
यज्ञैर्यजन्ति परमात्मविदो भवन्तं विष्णुस्वरूपमखिलेष्टिमयं विवस्वन् ।
ध्यायन्ति चापि यतयो नियतात्मचित्ताः सर्वेश्वरं परममात्मविमुक्तिकामा । 100.१०
नमस्ते देवरूपाय यज्ञरूपाय ते नमः ।
परब्रह्मस्वरूपाय चिन्त्यमानाय योगिभिः । । ११
उपसंहर तेजो यत्तेजसः संहतिस्तव ।
सृष्टेर्विधाताय विभो सृष्टौ चाहं समुद्यतः । । १२
मार्कण्डेय उवाच
इत्येवं संस्तुतो भास्वान्ब्रह्मणा सर्गकर्तृणा ।
उपसंहृतवांस्तेजः परं स्वल्पमधारयत् । । १३
चकार च ततः सृष्टिं जगतः पद्मसम्भवः ।
तथा तेषु महाभागः पूर्वकल्पान्तरेषु वै । । १४
देवासुरादीन्मर्त्त्यांश्च पश्वादीन्वृक्षवीरुधः ।
ससर्ज पूर्ववद्ब्रह्मा नरकांश्च महामुने । । १५
इति श्रीमार्कण्डेयपुराणे आदित्यस्तवो नाम शततमोऽध्यायः । १०० ।