मार्कण्डेयपुराणम्/अध्यायाः १२६-१३०

← अध्यायाः १२१-१२५ मार्कण्डेयपुराणम्
अध्यायाः १२६-१३०
वेदव्यासः
अध्यायाः १३१-१३४ →

126
अथ षड्विंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
क्रौष्टुकिरुवाच
भगवन्विस्तरात्सर्वं ममैतत्कथितं त्वया ।
करन्धमस्य चरितमविक्षिच्चरितं च यत् । । १
अविक्षितस्य नृपतेर्मरुत्तस्य महात्मनः ।
श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः । । २
चक्रवर्त्ती महाभागः शूरः कान्तो महामतिः ।
धर्मविद्धर्मकृच्चैव सम्यक्पालयिता भुवः । । ३
मार्कण्डेय उवाच
स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।
धर्मतः पालयामास पिता पुत्रानिवौरसान् । । ४
इयाज सुबहून्यज्ञान्यथावत्स्वाप्तदक्षिणान् ।
ऋत्विक्पुरोहितादेशादनिर्विण्णो महीपतिः । । ५
तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु ।
गतिश्चाप्यनवच्छिन्ना स्वःपातालजलादिषु । । ६
ततः प्राप्य धनं विप्र यथावत्स्वक्रियापरः ।
अयजत्स महायज्ञैर्देवानिन्द्रपुरोगमान् । । ७
इतरे च यथावर्णाः स्वे स्वे कर्मण्यतन्द्रिताः ।
तदुपात्तधनाश्चक्रुरिष्टापूर्त्तादिकाः क्रियाः । । ८
पाल्यमाना मही तेन मरुत्तेन महात्मना ।
योऽस्पर्द्धात्त्रिदशावासवासिभिर्द्विजसत्तम । । ९
तेनातिशयिताः सर्वे केवलं न महीक्षितः ।
यज्विना देवराजोऽपि शतयज्ञाभिसन्धिना । । 126.१०
ऋत्विक्तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः ।
भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः । । ११
सौवर्णो मुञ्जवान्नाम पर्वतः सुरसेवितः ।
पातितं तेन तच्छृङ्गं कृते तस्य महीपतेः । । १२
तेन यस्याखिलं यज्ञे भूमिभागादिकं द्विज ।
प्रासादाश्च कृताः शुभ्रास्तपसा सर्वकाञ्चनाः । । १३
गाथाश्चाप्यत्र गायन्ति मरुत्तचरिताश्रयाः ।
सातत्येनर्षयः सर्वे कुर्वन्तोऽध्ययनं यथा । । १४
मरुत्तेन समो नाभूद्यजमानो महीतले ।
सदः समस्तं यद्यज्ञे प्रासादाश्चैव काञ्चनाः । । १५
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।
विप्राणां परिवेष्टारः शक्राद्यास्त्रिदशोत्तमाः । । १६
यथा यज्ञे मरुत्तस्य तृप्ताः सर्वे महीपतेः ।
सुवर्णमखिलं त्यक्तं रत्नपूर्णगृहे द्विजैः । । १७
प्रासादादिसमस्तं च सौवर्णं तस्य यत्क्रतौ ।
त्रयो वर्णाह्यलभ्यन्त तस्मात्केचित्तथा ददुः । । १८
( तेन त्यक्तेन शिष्टा ये जनाः पूर्णमनोरथाः ।
तेऽपि यज्ञान्यजन्ते स्म देशे देशे पृथक्पृथक् । ।)
तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।
तपस्वी कश्चिदभ्येत्य तमाह मुनिसत्तम । । १९
पितुर्माता तवाहेदं दृष्ट्वा तापसमण्डलम् ।
विषाभिभूतमुरगैर्मदोन्मत्तैर्नरेश्वर । । 126.२०
पितामहस्ते स्वर्यातः सम्यक्संपाल्य मेदिनीम् ।
पिता तव तथा शक्तो हित्वा ग्रामं वनं गतः । ।
( तपश्चरणशक्ताऽहमिह चौर्वाश्रमे स्थिता) । । २१
साऽहं पश्यामि वैकल्यं तव राज्यं प्रशासतः ।
पितामहस्य तेनाभूद्यत्पूर्वेषां च ते नृप । । २२
नूनं प्रमत्तो भोगेषु सक्तो वाऽविजितेन्द्रियः ।
चारान्धता यतोऽस्तीयं दुष्टादुष्टं न वेत्सि यत् । । २३
पातालादभ्युपेतैस्तु भुजगैर्दशशालिभिः ।
दष्टा मुनिसुताः सप्त दूषिताश्च जलाशयः । । २४
स्वेदमूत्रपुरीषेण दूषितं सुशृतं हविः ।
अपराधं समुद्दिश्य दत्तो नागबलिश्चिरात् । । २५
एते समर्था मुनयो भस्मीकर्तुं भुजङ्गमान् ।
किन्त्वेषां नाधिकारोऽत्र त्वमेवाधिकारवान् । । २६
तावत्सुखं भूपतिजैर्भोगजं प्राप्यते नृप ।
अभिषेकजलं यावन्न मूर्ध्नि विनिपात्यते । । २७
कानि मित्राणि कः शत्रुर्मम शत्रोर्बलं कियत् ।
कोऽहं के मन्त्रिणः पक्षे के वा भूपतयो मम । । २८
( कियान्कोशो बलं किंवा कोऽनुरक्तो जनो मम) ।
विरक्तो वा परैर्भिन्नः परेषामपि कीदृशः । ।
कः सम्यगत्र नगरे विषये वा जनो मम । । २९
धर्मकर्माश्रयो मूढः कः सम्यगपि वर्त्तते ।
को दण्ड्यः परिपाल्यः कः के चोपेक्ष्या नरा मया । । 126.३०
सामभेदतया दम्या देशकालमवेक्षता ।
चारांश्च चारयेदन्यैरज्ञातान्भूपतिश्चरैः । । ३१
सचिवादिषु सर्वेषु चरान्दद्यान्महीपतिः ।
इत्यादौ भूपतिर्नित्यं कर्मण्यासक्तमानसः । । ३२
नयेद्दिनं तथा रात्रिं न तु भोगपरायणः ।
राज्ञां शरीरग्रहणं न भोगाय महीपते । । ३३
क्लेशाय महते पृथ्वी स्वधर्मपरिपालने ।
सम्यक्पालयतः पृथ्वीं स्वधर्मं च महीपते । । ३४
इह क्तेशो महान्स्वर्गे परमं सुखमक्षयम् ।
तदेतदवबुध्यस्व हित्वा भोगान्नरेश्वर । । ३५
पालनाय क्षितेः क्लेशमङ्गीकर्तुमिहार्हसि ।
इति वृत्तमृषीणां यद्व्यसनं त्वयि शासति । । ३६
भुजङ्गहेतुकं भूप चारान्धो नापि वेत्सि तत् ।
बहुनात्र किमुक्तेन दुष्टे दण्डो निपात्यताम् । । ३७
शिष्टान्पालय राजंस्त्वं धर्मषड्भागमाप्स्यसि ।
अरक्षन्पापमखिलं दुष्टैरविनयात्कृतम् । । ३८
समवाप्स्यस्यसन्दिग्धं यदिच्छसि कुरुष्व तत् ।
एतन्मयोक्तं सकलं यत्तवाहं पितामहः । ।
कुरुष्वैवं स्थिते यत्ते रोचते वसुधाधिप । । ३९
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम षड्विंशत्यधिकशततमोऽध्यायः । १२६ ।
127
अथ सप्तविंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
मार्कण्डेय उवाच
इति तापसवाक्यं स श्रुत्वा लज्जापरो नृपः ।
धिङ्मां चारान्धमित्युक्त्वा निःश्वस्य जगृहे धनुः । । १
ततः स त्वरितं गत्वा तमौर्वस्याश्रमं प्रति ।
ववन्दे शिरसा वीरां मातरं पितुरात्मनः । । २
तापसांश्च यथान्यायं तैश्चाशीर्भिरभिष्टुतः ।
दृष्ट्वा च तापसान्सप्त नागैर्दष्टान्मृतान्भुवि । । ३
निनिन्दात्मानमसकृत्पुरस्तेषां महीपतिः ।
उवाच चैतदद्याहं मद्वीर्यमवमन्यताम् । । ४
यत्करोमि भुजङ्गानां दुष्टानां ब्राह्मणद्विषाम् ।
तत्पश्यतु जगत्सर्वं सदेवासुरमानुषम् । । ५
मार्कण्डेय उवाच
इत्युक्त्वा जगृहे कोपादस्त्रं संवर्तकं नृपः ।
नाशायाशेषनागानां पातालोर्वीविचारिणाम् । । ६
ततो जज्वाल सहसा नागलोकः समन्ततः ।
महास्त्रतेजसा विप्र दह्यमानो निवारितः । । ७
हा हा तातेति हा मातर्हा हा वत्सेति संभ्रमे ।
तस्मिन्नस्त्रकृते वाचः पन्नगानामथाभवन् । । ८
केचिज्ज्वलद्भिः पुच्छाग्रैः फणैरन्ये भुजङ्गमाः ।
गृहीतपुत्रदाराश्च त्यक्ताभरणवाससः । । ९
पातालमुत्सृज्य ययुः शरणं भामिनीं तदा ।
मरुत्तमातरं पूर्वं यया दत्तं तदाभयम् । । 127.१०
तामुपेत्योरगाः सर्वे सप्रणामं भयातुराः ।
सगद्गदमिदं प्रोचुः स्मर्यतां नः पुरोदितम् । । ११
प्रणम्याभ्यर्थितं पूर्वं यदस्माभिः रसातले ।
तस्य कालोऽयमायातस्त्राहि वीरप्रजायिनि । । १२
पुत्रो निवार्यतां राज्ञि प्राणैः संयोज्यमस्तु नः ।
दह्यते सकलो लोको नागानामस्त्रवह्निना । । १३
एवं संदह्यमानानामस्माकं तनयेन ते ।
त्वामृते शरणं नान्यत्कृपां कुरु यशस्विनि । । १४
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तेषां संस्मृत्यादौ च भाषितम् ।
भर्त्तारमाह सा साध्वी ससम्भ्रममिदं वचः । । १५
पूर्वमेव तवाख्यातं पाताले यद्भुजङ्गमैः ।
प्रोक्तमभ्यर्थनापूर्वं ममासीत्तनयं प्रति । । १६
त इमेऽभ्यागता भीता दह्यन्ते तस्य तेजसा ।
मामेते शरणं पूर्वं दत्तमेभ्यो मयाऽभयम् । । १७
ये मां शरणमापन्नास्ते त्वां शरणमागताः ।
अपृथग्धर्मचरणा याताहं शरणं तव । । १८
तन्निवारय पुत्रं त्वं मरुत्तं वचनात्तव ।
मया चाभ्यर्थितोऽवश्यं शममभ्युपयास्यति । । १९
राजोवाच
महापराधे नियतं मरुत्तः क्रोधमागतः ।
दुर्निर्वर्त्यमहं मन्ये तस्य क्रोधं सुतस्य ते । । 127.२०
नागा ऊचुः
शरणागतास्तव वयं प्रसादः क्रियतां नृप ।
क्षत्रस्यार्तपरित्राणनिमित्तं शस्त्रधारणम् । । २१
मार्कण्डेय उवाच
नागानां तद्वचः श्रुत्वा भूतानां शरणैषिणाम् ।
तया चाभ्यर्थितः पत्न्या प्राहावीक्षिन्महायशाः । । २२
गत्वा ब्रवीमि तं भद्रे तनयं त्वरया तव ।
परित्राणाय नागानां न त्याज्याः शरणागताः । । २३
नोपसंहरते सोऽस्त्रं यदि मद्वचनान्नृपः ।
तदास्त्रैर्वारयिष्यामि तस्यास्त्रं तनयस्य ते । । २४
मार्कण्डेय उवाच
ततो गृहीत्वा स धनुरविक्षित्क्षत्रियोत्तमः ।
भार्यया सहितः प्रायात्त्वरावान्भार्गवाश्रमम् । । २५
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितवर्णनं नाम सप्तविंशत्यधिकशततमोऽध्यायः । १२७ ।
128
अथाष्टाविंशत्यधिकशततमोऽध्यायः
मरुत्तचरितवर्णनम्
मार्कण्डेय उवाच
स तु तत्र सुतं दृष्ट्वा गृहीतवरकार्मुकम् ।
धनुः शस्त्रं च तस्योग्रं ज्वालाव्याप्तदिगन्तरम् । । १
उद्गिरन्तं महावह्निं दीपिताखिलभूतलम् ।
पातालान्तर्गतं प्राप्तमसह्यं घोरभीषणम् । । २
स तं दृष्ट्वा महीपालं भृकुटीकुटिलाननम् ।
मा क्रुधस्त्वं मरुत्तास्त्रमुपसंह्रियतामिति । । ३
प्राहासकृच्चानुलुप्तवर्णक्रममुदारधीः ।
स निशम्य गुरोर्वाक्यं दृष्ट्वा तं च पुनः पुनः । । ४
गृहीतकार्मुकः पित्रोः प्रणिपत्य सगौरवम् ।
प्रत्युवाचापराद्धा मे सुभृशं पन्नगाः पितः । । ५
शासतीमां मयि महीं परिभूय बलं मम ।
सप्ताश्रममुपागम्य दष्टा मुनिकुमारकाः । । ६
ऋषीणामाश्रमस्थानाममीषामवनीपते ।
मयि शासति दुर्वृत्तैर्दूषितानि हवींषि च । । ७
जलाशयास्तथाप्येतैः सर्व एव हि दूषिताः ।
तदेत्कारणं किञ्चिन्न वक्तव्यं त्वया पितः । ।
न निवारयितव्योऽहं ब्रह्मघ्नान्प्रतिपन्नगान् । । ८
अविक्षिदुवाच
यद्येभिर्निहता विप्रा यास्यन्ति नरकं मृताः ।
ममैतत्कियतां वाक्यं विरमास्त्रप्रयोगतः । । ९
मरुत्त उवाच
नाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।
अहमेव गमिष्यामि नरकं यदि पापिनाम् । ।
न निग्रहे यताम्येषां मां निवारय मा पितः । । 128.१०
अविक्षिदुवाच
मामेते शरणं प्राप्ताः पन्नगा मम गौरवात् ।
उपसंह्रियतामस्त्रमलं कोपेन ते नृप । । ११
मरुत्त उवाच
नाहमेषां क्षमिष्यामि दुष्टानामपराधिनाम् ।
स्वधर्ममुल्लंघ्य कथं करिष्यामि वचस्तव । । १२
दण्ड्ये निपातयन्दण्डं भूपः शिष्टांश्च पालयन् ।
पुण्यलोकानवाप्नोति नरकांश्चाप्युपेक्षणात् । । १३
मार्कण्डेय उवाच
एवं स बहुशः पित्रा वार्यमाणोऽम्बया सह ।
नोपसंहरते सोऽस्त्रं ततोऽसौ पुनरब्रवीत् । । १४
हिंससे पन्नगान्भीतान्ममैताञ्छरणं गतान् ।
वार्यमाणोऽपि तस्मात्ते करिष्यामि प्रतिक्रियाम् । । १५
मयाप्यस्त्राण्यवाप्तानि न त्वमेकोऽस्त्रविद्भुवि ।
ममाग्रतः सुदुर्वृत्तपौरुषं च कियत्तव । । १६
ततः कार्मुकमारोप्य कोपताम्रविलोचनः ।
अविक्षिदस्त्रं जग्राह कालस्य मुनिपुङ्गव । । १७
ततो ज्वालापरीवारमरिसंघघ्नमुत्तमम् ।
कालास्त्रं तु महावीर्यं योजयामास कार्मुके । । १८
ततश्चुक्षोभ जगती संवर्त्तास्त्रप्रतापिता ।
साब्धिशैलाऽखिला विप्र कालस्यास्त्रे समुद्यते । । १९
मार्कण्डेय उवाच
कालास्त्रमुद्यतं पित्रा मरुत्तः सोऽपि वीक्ष्य तत् ।
प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् । । 128.२०
न त्वद्वधाय कालास्त्रं मयि मुञ्चति किं भवान् ।
स्वधर्मचारिणि सुते सदैवाज्ञाकरे तव । । २१
मया कार्यं महाभाग प्रजानां परिपालनम् ।
त्वयैवं क्रियते कस्मान्मद्वधायास्त्रमुद्यतम् । । २२
अविक्षिदुवाच
शरणागतसंत्राणं कर्तुं व्यवसिता वयम् ।
तस्य व्याघातकर्त्ता त्वं न मे जीवन्विमोक्ष्यसे । । २३
मां वा हत्वास्त्रवीर्येण जहि दुष्टानिहोरगान् ।
त्वां वा हत्वाऽहमस्त्रेण रक्षिष्यामि महोरगान् । । २४
धिक्तस्य जीवितं पुंसः शरणार्थिनमागतम् ।
योनार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् । । २५
क्षत्रियोऽहमिमे भीताः शरणं मामुपागताः ।
अपकर्त्ता त्वमेवैषां कथं वध्यो न मे भवान् । । २६
मरुत्त उवाच
मित्रं वा बान्धवो वाऽपि पिता वा यदि वा गुरुः ।
प्रजापालनविघ्नाय यो हन्तव्यः स भूभृता । । २७
सोऽहं ते प्रहरिष्यामि न क्रोद्धव्यं त्वया पितः ।
स्वधर्मः परिपाल्यो मे न मे क्रोधस्तवोपरि । । २८
मार्कण्डेय उवाच
ततस्तौ निश्चितौ दृष्ट्वा परस्परवधं प्रति ।
समुत्पत्यान्तरे तस्थुर्मुनयो भार्गवादयः । । २९
ऊचुश्चैनं न मोक्तव्यं त्वयास्त्रं पितरं प्रति ।
त्वया च नायं हन्तव्यः पुत्रः प्रख्यातचेष्टितः । । 128.३०
मरुत्त उवाच
मया दुष्टा निहन्तव्याः सन्तो रक्ष्या महीक्षिता ।
इमे च दुष्टा भुजगाः कोऽपराधोऽत्र मे द्विजाः । । ३१
अविक्षिदुवाच
शरणागतसन्त्राणं मया कार्यमयं च मे ।
अपराध्यः सुतो विप्रा यो हन्ति शरणागतान् । । ३२
ऋषयः ऊचुः
इमे वदन्ति भुजगास्त्रासलोलविलोचनाः ।
संजीवयामस्तान्विप्रान्ये दष्टा दुष्टपन्नगैः । । ३३
तदलं विग्रहेणोभौ राजवर्यौ प्रसीदताम् ।
उभावपि विनिर्व्यूढप्रतिज्ञे धर्मकोविदौ । । ३४
मार्कण्डेय उवाच
सा तु वीरा समभ्येत्य पुत्रमेतदभाषत ।
मद्वाक्यादेष ते पुत्रो हन्तुं नागान्कृतोद्यमः । । ३५
तन्निष्पन्नं यदा विप्रास्ते जीवन्ति तथा मृताः ।
सञ्जीवन्तश्च मुच्यन्ते यद्युष्मच्छरणं गताः । । ३६
भामिन्युवाच
अहमभ्यर्थिता पूर्वमेभिः पातालसंश्रयैः ।
तन्निमित्तमयं भर्त्ता मयात्र विनियोजितः । । ३७
तदेतदार्ये निर्वृत्तमुभयोरपि शोभनम् ।
मम भर्तुश्च पुत्रस्य त्वत्पौत्रस्यात्मजस्य च । । ३८
मार्कण्डेय उवाच
ततः सञ्जीवयामासुस्तान्विप्रांस्ते भुजङ्गमाः ।
दिव्यैरोषधिजातैश्च विषसंहरणेन च । । ३९
पित्रोर्ननाम चरणौ स ततो जगतीपतिः ।
मरुत्तश्च स तं प्रीत्या परिष्वज्येदमब्रवीत् । । 128.४०
मानहा भव शत्रूणां चिरं पालय मेदिनीम् ।
पुत्रपौत्रैश्च मोदस्व मा च ते सन्तु विद्विषः । । ४१
ततो द्विजैरनुज्ञातौ वीरया च नरेश्वरौ ।
समारूढौ रथं सा च भामिनी स्वपुरं गता । । ४२
वीराऽपि कृत्वा सुमहत्तपो धर्मभृतां वरा ।
भर्तुः सलोकतां प्राप्ता महाभागा पतिव्रता । । ४३
मरुत्तोऽपि चकारोर्व्यां धर्मतः परिपालनम् ।
विनिर्जितारिषड्वर्गो भोगांश्च बुभुजे नृपः । । ४४
तस्य पत्नी महाभागा विदर्भतनया तथा ।
प्रभावती सुवीरस्य सौवीरी चाभवत्सुता । । ४५
सुकेशी केतुवीर्यस्य मागधस्यात्मजाऽभवत् ।
सुता च सिन्धुवीर्यस्य मद्रराजस्य केकयी । । ४६
केकयस्य च सैरन्ध्री सिन्धुभर्तुर्वपुष्मती ।
चेदिराजसुता चाभूद्भार्या तस्य सुशोभना । । ४७
तासां पुत्रास्तस्य चासन्भूभृतोऽष्टादश द्विज ।
तेषां प्रधानो ज्येष्ठश्च नरिष्यन्तः सुतोऽभवत् । । ४८
एवं वीर्यो मरुत्तोभून्महाराजो महाबलः ।
तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु । । ४९
यस्य तुल्योऽपरो राजा न भूतो न भविष्यति ।
सत्त्वविक्रमयुक्तस्य राजर्षेरमितौजसः । । 128.५०
तस्यैतच्चरितं श्रुत्वा मरुत्तस्य महात्मनः ।
जन्म चाग्र्यं द्विजश्रेठ मुच्यते सर्वकिल्बिषैः । । ५१
इति श्रीमार्कण्डेयपुराणे मरुत्तचरितेऽष्टाविंशत्यधिकशततमोऽध्यायः । १२८ ।
129
अथैकोनत्रिंशदधिकशततमोऽध्यायः
नरिष्यंतचरितवर्णनम्
क्रौष्टुकिरुवाच
मरुत्तचरितं कृत्स्नं भगवन्कथितं त्वया ।
तत्सन्ततिमशेषेण श्रोतुमिच्छा प्रवर्तते । । १
तत्सन्ततौ क्षितीशा ये राज्यार्हा वीर्यशालिनः ।
तानहं श्रोतुमिच्छामि त्वया ख्यातान्महामुने । । २
मार्कण्डेय उवाच
नरिष्यन्त इति ख्यातो मरुत्तस्याभवत्सुतः ।
अष्टादशानां पुत्राणां स ज्येष्ठः श्रेष्ठ एव च । । ३
वर्षाणां च सहस्राणि सप्ततिं दश पञ्च च ।
बुभुजै पृथिवीं कृत्स्नां मरुत्तः क्षत्रियर्षभः । । ४
कृत्वा राज्यं स्वधर्मेण इष्ट्वा यज्ञाननुत्तमान् ।
नरिष्यन्तसुतं ज्येष्ठमभिषिच्य ययौ वनम् । । ५
एकाग्रचित्तः स नृपस्तप्त्वा तत्र तपो महत् ।
आरुरोह दिवं विप्र यशसावृत्य रोदसी । । ६
नरिष्यन्तः सुतः सोऽस्य चिन्तयामास बुद्धिमान् ।
पितुर्वृत्तं समालोक्य तथान्येषां च भूभृताम् । । ७
अत्र वंशे महात्मानो राजानो मम पूर्वजाः ।
यज्विनो धर्मतः पृथ्वीं पालयामासुरूर्जिताः । । ८
दातारश्चापि वित्तानां संग्रामेष्वनिवर्तिनः ।
तेषां कश्चरितं शक्तस्त्वनुयातुं महात्मनाम् । । ९
किन्तु तैर्यत्कृतं कर्म धर्म्यमाहवनादिभिः ।
तदहं कर्तुमिच्छामि तच्च नास्ति करोमि किम् । । 129.१०
धर्मात्पालयतः पृथ्वीं को गणोऽत्र महीपतेः ।
असम्यक्पालनात्पापी नरेन्द्रो नरकं व्रजेत् । । ११
सति वित्ते महायज्ञाः कर्तव्या एव भूभृता ।
दातव्यं चात्र किं चित्रं सीदतामीश्वरो गतिः । । १२
आभिजात्यं तथा लज्जा कोपश्चारि जनाश्रयः ।
कारयन्ति स्वधर्मश्च सङ्ग्रामादपलायनम् । । १३
एतत्सर्वं यथा सम्यङ्मत्पूर्वैः पुरुषैः कृतम् ।
पित्रा च मे मरुत्तेन तथा तत्केन शक्यते । । १४
तदहं किं करिष्यामि यत्तु तैः पूर्वजैः कृतम् ।
ये यज्विनो वरा दान्ताः सङ्ग्रामाच्चानिवर्तिनः । । १५
महत्सङ्ग्रामसंमर्देष्वविसंवादिपौरुषाः ।
क्रमेणाहं यतिष्यामि कस्मै तानभिसन्धितुम् । । १६
अथवा तैः स्वयं यज्ञाः कृताः पूर्वजनेश्वरैः ।
अविश्रमद्भिर्नान्यैस्तु कारितास्तत्करोम्यहम् । । १७
मार्कण्डेय उवाच
इति सञ्चिंत्य यज्ञं स चकारैकं नरेश्वरः ।
यादृशं न चकारान्यो वित्तोत्सर्गोपशोभितम् । । १८
द्विजानां जीवनायालं दत्त्वा तु सुमहाधनम् ।
ततः शतगुणं तेषां यज्ञार्थमददान्नृपः । । १९
गावो वस्त्राण्यलङ्कारं धान्यागारादिकं तथा ।
प्रत्येकमददात्तेषां सर्वपृथ्वीनिवासिनाम् । । 129.२०
ततस्तेन यदा यज्ञः प्रारब्धो भूभुजा पुनः ।
प्रारब्धे स मखे यष्टुं ततो नालभत द्विजान् । । २१
यान्यान्वृणोति स नृपो विप्रानार्त्विज्यकर्मणि ।
ते ते तमूचुर्यज्ञाय वयमप्यत्र दीक्षिताः । । २२
अन्यं वरय यद्वित्तं त्वयास्माकं विसर्जितम् ।
तस्यान्तो नास्ति यज्ञेषु दद्यास्त्वं नृपते कथम् । । २३
मार्कण्डेय उवाच
न चाप ऋत्विजो विप्रांस्तदाशेषक्षितीश्वरः ।
बहिर्वेद्यां तदा दानं स दातुमुपचक्रमे । । २४
तथापि जगृहुर्नैव धनसम्पूर्णमन्दिराः ।
द्विजाय दातुं भूयोऽसौ निर्विण्ण इदमब्रवीत् । । २५
अहोऽतिशोभनं पृथ्व्यां यद्विप्रो नाधनः क्वचित् ।
अशोभनं च यत्कोशो विफलोयमयज्विनः । । २६
नार्त्विज्यं कुरुते कश्चिद्यजमानोऽखिलो जनः ।
द्विजानां न च नो दानं ददतां सम्प्रतीच्छते । । २७
मार्कण्डेय उवाच
ततः कांश्चिद्द्विजान्भक्त्या प्रणिपत्य पुनः पुनः ।
स्वयज्ञे ऋत्विजश्चक्रे ते प्रचक्रुर्महामखम् । । २८
अत्यद्भुतमिदं चासीद्यदा तस्य महीपतेः ।
स यज्ञोऽभूत्तदा पृथ्व्यां यजमानोऽखिलो जनः । । २९
द्विजन्मनामभून्नासीत्सदस्यस्तत्र कश्चन ।
यजमाना द्विजाः केचित्केचित्तेषां तु याजकाः । । 129.३०
नरिष्यन्तो नरपतिरियाज स यदा तदा ।
तत्प्रदातुर्धनैर्यागं कुर्युः पृथ्व्यामशेषतः । । ३१
प्राच्यां कोट्यस्तु यज्ञानामासन्नष्टादशाधिकाः ।
प्रतीच्यां सप्त वै कोट्यो दक्षिणस्यां चतुर्दश । । ३२
उत्तरस्यां च पञ्चाशदेककालं तदाभवन् ।
मुने ब्राह्मणयज्ञानां नरिष्यन्तो यदाऽयजत् । । ३३
एवं स राजा धर्मात्मा नरिष्यन्तोऽभवत्पुरा ।
मरुत्ततनयो विप्र विख्यातबलपौरुषः । । ३४
इति श्रीमार्कण्डेयपुराणे नरिष्यन्तचरितं नामैकोनत्रिंशदधिकशततमोऽध्यायः । १२९ ।
130
अथ त्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
नरिष्यन्तस्य तनयो दुष्टारिदमनो दमः ।
शक्रस्येव बलं तस्य दयाशीलं मुनेरिव । । १
बाभ्रव्यामिन्द्रसेनायां जज्ञे तस्य भूभृतः।
नववर्षाणि जठरे स्थित्वा मार्तुर्महायशाः ।। २
यद्ग्राहयामास दम मातरं जठरे स्थितः ।
दमशीलश्च भविता यतश्चायं नृपात्मजः । । ३
ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः ।
दम इत्यकरोन्नाम नरिष्यन्तसुतस्य तु । । ४
स दत्तो राजपुत्रस्तु धनुर्वेदमशेषतः ।
जगृहे सुरराजस्य सकाशाद्वृषपर्वणः । । ५
दुन्दुभेर्दैत्यवर्यस्य तपोवननिवासिनः ।
सकाशाज्जगृहे कृत्स्नमस्त्रग्रामं च तत्त्वतः । । ६
शक्तेः सकाशाद्वेदाश्च वेदाङ्गान्यखिलानि च ।
तथार्ष्टिषेणाद्राजर्षेर्जगृहे योगमात्मवान् । । ७
तं सुरूपं महात्मानं गृहीतास्त्रं महाबलम् ।
स्वयंवरे कृता पित्रा जगृहे सुमना पतिम् । । ८
सुता दशार्णाधिपतेर्बलिनश्चारुवर्मणः ।
पश्यतां सर्वभूतानां ये तदर्थमुपागताः । । ९
तस्यां च सानुरागोऽभून्मद्रराजस्य वै सुतः ।
सुमनायां महानन्दो महाबलपराक्रमः । । 130.१०
तथा विदर्भाधिपतेः पुत्रः संक्रन्दनस्य च ।
वपुष्मान्राजपुत्रश्च महाधनुरुदारधीः । । ११
ते तदा तं वृतं दृष्ट्वा दुष्टारिदमनं दमम् ।
मन्त्रयामासुरन्योऽन्यं तत्रानङ्गविमोहिताः । । १२
एतामस्य बलात्कन्यां गृहीत्वा रूपशालिनीम् ।
गृहं प्रयामस्तस्येयमस्माकं यं ग्रहीष्यति । । १३
भर्तृबुद्ध्या वरारोहा स्वयंवरविधानतः ।
तस्येच्छया नो भवित्री भार्या धर्मोपपादिता । । १४
अथ नेच्छति सा कञ्चिदस्माकं मदिरेक्षणा ।
ततस्तस्य भवित्री सा यो दमं घातयिष्यति । । १५
मार्कण्डेय उवाच
इति ते निश्चयं कृत्वा त्रयः पार्थिवनन्दनाः ।
जगृहुस्तां सुचार्वङ्गीं दमपार्श्वानुवर्त्तिनीम् । । १६
ततः केचिन्नृपास्तेषां ये तत्पक्षा विचुक्रुशुः ।
चुक्रुशुश्चापरे भूपाः केचिन्मध्यस्थतां गताः । । १७
ततो दमस्तान्भूपालानवलोक्य समन्ततः ।
अनाकुलमना वाक्यमिदमाह महामुने । । १८
दम उवाच
भो भूपा धर्मकृत्येषु यद्वदन्ति स्वयंवरम् ।
दशार्णपतिना भूपाः कृते धर्म्ये स्वयंवरे । ।
अधर्मो वाऽथ वा धर्मो यदेभिर्गृह्यते बलात् । । १९
यद्यधर्मो न मे कार्यमन्यभार्या भविष्यति ।
धर्मो वा तदलं प्राणैर्ये रक्ष्यन्तेऽरिलङ्घने । । 130.२०
ततो दशार्णाधिपतिश्चारुवर्मा नराधिपः ।
निःशब्दं कारयित्वा तत्सदः प्राह महामुने । । २१
दमेन यदिदं प्रोक्तं धर्माधर्माश्रितं नृपाः ।
तद्वदध्वं यथा धर्मो ममास्य च न लुप्यते । । २२
मार्कण्डेय उवाच
ततः केचिन्महीपालास्तमूचुर्वसुधाधिपम् ।
परस्परानुरागेण गान्धर्वो विहितो विधिः । । २३
क्षत्रियाणां परमयं न विट्शूद्रद्विजन्मनाम् ।
दममाश्रित्य निष्पन्नः स चास्या दुहितुस्तव । । २४
इति धर्माद्दमस्यैषा दुहिता तव पार्थिव ।
योऽन्यथा वर्त्तते मोहात्कामात्मा सम्प्रवर्त्तते । । २५
तथाऽपरे तदा प्रोचुर्महात्मानो हि भूभृताम् ।
पक्षे ये भूभृतो विप्र दशार्णाधिपतिं वचः । । २६
मोहात्किमाहुर्धर्मोऽयं गान्धर्वं क्षत्रजन्मनः ।
न त्वेष शास्ता नान्यो हि राक्षसः शस्त्रजीविनाम् । । २७
बलादिमां यो हरति हत्वा तु परिपन्थिनः ।
तस्यैषा स्याद्राक्षसेन विवाहेनावनीश्वराः । । २८
प्रधानतर एषोऽत्र विवाहद्वितये मतः ।
क्षत्रियाणामतो धर्मा महानन्दादिभिः कृतः ।।२९
मार्कण्डेय उवाच
अथ प्रोचुः पुनर्भूपा यैः पूर्वमुदितो नृपः ।
परस्परानुरागेण जातिधर्माश्रितं वचः ।।130.३०
सत्यं शस्तो राक्षसोऽपि क्षत्रियाणां परो विधिः ।
किन्त्वसौ जनकस्वाम्ये कुमार्यानुमतो वरः ।।३ १
हत्वा तु पितृसम्बन्धं बलेन ह्रियते हि या ।
स राक्षसो विधिः प्रोक्तो नात्र भर्तृकरे स्थिता ।।३२
पश्यतां सर्वभूपानामनया यद्वृतो दमः ।
गान्धर्वस्येह निष्पत्तौ विवाहो राक्षसोऽत्र कः ।।३ ३
विवाहितायाः कन्यायाः कन्यात्वं नैव विद्यते ।
कन्यायाश्च विवाहेन सम्बन्धः पृथिवीश्वराः ।।३४
त इमे ये बलादेनां दमादादातुमुद्यताः ।
बलिनस्ते यदि ततः कुर्वन्तु न तु साधु तत् ।।३५
मार्कण्डेय उवाच
तच्छ्रुत्वाऽसौ दमः कोपकषायीकृतलोचनः ।
आरोपयामास धनुर्वचनं चेदमब्रवीत् ।।३६
ममापि भार्या बलिभिः पश्यतो ह्रियते यदि ।
तत्कुलेन भुजाभ्यां वा को गुणः क्लीबजन्मनः ।।३७
धिङ्ममास्त्राणि धिक्छौर्यं धिक्छरान्धिक्छरासनम् ।
धिग्व्यर्थं मे कुले जन्म मरुत्तस्य महात्मनः ।।३८
यदि भार्यामिमे मूढाः समादाय बलान्विताः ।
प्रयान्ति जीवतो धिक्तां मम व्यर्थमनुष्यताम् ।।३९
इत्युक्त्वा तान्महीपालान्महानन्दमुखान्बली ।
अथाब्रवीत्तदा सर्वान्महारिदमनो दमः ।।130.४०
एषातिशोभना बाला चार्वङ्गी मदिरेक्षणा ।
किं तस्य जन्मना भार्या न यस्येयं कुलोद्भवा । । ४१
इति सञ्चिन्त्य भूपालास्तथा यतत संयुगे ।
यथा निर्जित्य मामेतां पत्नीं कुरुत मानिनः । । ४२
इत्याभाष्य ततस्तत्र शरवर्षममुञ्चत ।
छादयन्पृथिवीपालांस्तमसेव महीरुहान् । । ४३
तेऽपि वीरा महीपालाः शरशक्त्यृष्टिमुद्गरान् ।
मुमुचुस्तत्प्रयुक्तांश्च दमश्चिच्छेद लीलया । । ४४
तेऽपि तत्प्रहितान्बाणांस्तेषां चासौ शरोत्करान् ।
चिच्छेद पृथिवीशानां नरिष्यन्तात्मजो मुने । । ४५
वर्त्तमाने तदा युद्धे दमस्य क्षितिपात्मजैः ।
प्रविवेश महानन्दः खड्गपाणिर्यतो दमः । । ४६
तमायान्तं दमो दृष्ट्वा खड्गपाणिं महामृधे ।
मुमोच शरवर्षाणि वर्षाणीव पुरन्दरः । । ४७
तदस्त्राणि ततस्तानि शरजालानि तत्क्षणात् ।
महानन्दः प्रचिच्छेद खड्गेनान्यानवञ्चयत् । । ४८
ततो रोषात्समारुह्य तं दमस्य तदा रथम् ।
महानन्दो महावीर्यो दमेन युयुधे सह । । ४९
बहुधा युध्यमानस्य महानन्दस्य लाघवात् ।
दमो मुमोच हदये शरं कालानलप्रभम् । । 130.५०
तं लग्नमात्मनोत्कृष्य विभिन्नेन ततो हृदा ।
दमं प्रति विचिक्षेप महानन्दोऽसिमुज्ज्वलम् । । ५१
पतन्तं चैनमुल्काभं शक्त्या चिक्षेप तं दमः ।
शिरो वेतसपत्रेण महानन्दस्य चाच्छिनत् । । ५२
तस्मिन्हते महानन्दे प्राचुर्येण पराङ्मुखाः ।
बभूवुः पार्थिवास्तस्थौ वपुष्मान्कुण्डिनाधिपः । । ५३
दमेन युयुधे चासौ बलगर्वमदान्वितः ।
दाक्षिणात्यमहीपालतनयो रणगोचरः । । ५४
युध्यमानस्य तस्योग्रं करवालं स वै लघु ।
चिच्छेद सारथेश्चैव शिरः संख्ये तथा ध्वजम् । । ५५
छिन्नखड्गो गदां सोऽथ जग्राह बहुकण्टकाम् ।
तामप्यस्य स चिच्छेद करस्थामेव सत्वरः । । ५६
यावदन्यत्समादत्त्ते स वपुष्मान्वरायुधम् ।
तावच्छरेण तं विद्ध्वा दमो भूमावपातयत् । । ५७
स पातितस्ततो भूमौ विह्वलाङ्गः सवेपथुः ।
विनिवृत्तमतिर्युद्धाद्बभूव क्षितिपात्मजः । । ५८
तमालोक्य तथा भूतमयुद्धमतिमात्मवान् ।
उत्सृज्यादाय सुमनां सुमनाः प्रययौ दमः । । ५९
ततो दशार्णाधिपतिः प्रीतिमानकरोत्तयोः ।
दमस्य सुमनायाश्च विवाहं विधिपूर्वकम् । । 130.६०
कृतदारो दमस्तत्र दशार्णाधिपतेः पुरे ।
स्थित्वाऽल्पकालं प्रययौ सभार्यो निजमन्दिरम् । । ६१
दशार्णाधिपतिश्चासौ दत्त्वा नागांस्तुरङ्गमान् ।
रथगोऽश्वखरोष्ट्रांश्च दासीदासांस्तथा बहून् । । ६२
वस्त्रालङ्कारचापादि वरोपस्करमासनम् ।
अन्यैस्तैश्च तथा भाण्डैः परिपूर्णं व्यसर्जयत् । । ६३
इति श्रीमार्कण्डेयपुराणे दमचरिते त्रिंशदधिकशततमोऽध्यायः । १३० ।