मार्कण्डेयपुराणम्/अध्यायाः १३१-१३४

← अध्यायाः १२६-१३० मार्कण्डेयपुराणम्
अध्यायाः १३१-१३४
वेदव्यासः

131
अथैकत्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
स तां लब्ध्वा तथा पत्नीं सुमनां सुमहामुने ।
प्रणम्य स पितुः पादौ मातुश्च क्षितिपात्मजः । । १
सा च तौ श्वशुरौ सूभ्रूर्ननाम सुमना तदा ।
ताभ्यां तौ च तदा विप्र आशीर्भिरभिनन्दितौ । । २
महोत्सवश्च सञ्जज्ञे नरिष्यन्तस्य वै पुरे ।
कृतदारे च सम्प्राप्ते दशार्णाधिपतेः पुरात् । । ३
सम्बन्धिनं दशार्णेशं जितांश्च पृथिवीश्वरान् ।
श्रुत्या पुत्रेण मुमुदे नरिष्यन्तो महीपतिः । । ४
सोऽपि रेमे सुमनया महाराजसुतो दमः ।
वरोद्यानवनोद्देशे प्रसादगिरिसानुषु । । ५
अथ कालेन महता रममाणा दमेन सा ।
अवाप गर्भे सुमना दशार्णाधिपतेः सुता । । ६
सोऽपि राजा नरिष्यन्तो भुक्तभोगो महीपतिः ।
वयः परिणतिं प्राप्य दमं राज्येऽभिषिच्य च । । ७
वनं जगामेन्द्रसेना पत्नी चास्य तपस्विनी ।
वानप्रस्थविधानेन स तत्र समतिष्ठत । । ८
दाक्षिणात्यः सुदुर्वृत्तः संक्रन्दनसुतो वने ।
वपुष्मान्स मृगान्हन्तुं ययावल्पपदानुगः । । ९
स तं दृष्ट्वा नरिष्यन्तं तापसं मलपङ्किनम् ।
इन्द्रसेनां च तत्पत्नीं तपसातिसुदुर्बलाम् । । 131.१०
पप्रच्छ कस्त्वं भो विप्रः क्षत्रियो वा वनेचरः ।
वानप्रस्थमनुप्राप्तो वैश्यो वा मम कथ्यताम् । । ११
ततो मौनव्रती भूपो नहि तस्योत्तरं ददौ ।
इन्द्रसेना च तत्सर्वमाचष्टास्मै यथातथम् । । १२
मार्कण्डेय उवाच
ज्ञात्वा तं च नरिष्यन्तं वपुष्मान्पितरं रिपोः ।
प्राप्तोऽसीति वदन्कोपाज्जटासु परिगृह्य च । । १३
हाहेति चन्द्रसेनायां रुदन्त्यां बाष्पगद्गदम् ।
चकर्ष कोपात्सङ्गं च वाक्यं चेदमुवाच ह । । १४
निर्जितः समरे येन येन मे सुमना हृता ।
दमस्य तस्य पितरं हनिष्येऽवतु तं दमः । । १५
येनाखिलमहीपालपुत्राः कन्यार्थमागताः ।
अवधूता हनिष्येऽहं पितरं तस्य दुर्मतेः । । १६
यौवनास्त्रस्वरूपेषु मदे यस्य दुरात्मनः ।
स दमो वारयत्वेष हन्मि तस्या रिपोर्गुरुम् । । १७
मार्कण्डेय उवाच
इत्युक्त्वा स दुराचारो वपुष्मानवनीपतिः ।
क्रंदन्त्यामिन्द्रसेनायां शिरश्चिच्छेद तस्य च । । १८
ततो धिग्धिङ्मुनिजना अन्ये च वनवासिनः ।
तमूचुः स च तं हत्वा जगाम स्वपुरं वनात् । । १९
गते तस्मिन्विनिश्वस्य सेन्द्रसेना वपुष्मति ।
प्रेषयामास पुत्रस्य समीपं शूद्रतापसम् । । 131.२०
गच्छेथा आशु मे पुत्रं दमं ब्रूहि वचो मम ।
अभिज्ञो ह्यसि मद्भर्तृवृत्तान्तं प्रोच्यतेऽत्र किम् । । २१
तथापि वाच्यः पुत्रो मे यद्ब्रवीम्यतिदुःखिता ।
लंघनामीदृशीं प्राप्तां विलोक्यतां महीपतेः । । २२
मद्भर्त्राऽधिकृतो राजा चतुर्णां परिपालकः ।
त्वमाश्रमाणां किं युक्तं तापसान्यन्न रक्षसि । । २३
भर्ता मम नरिष्यन्तस्तापसस्तपसि स्थितः ।
विलपन्त्यास्तथा नाथो यथा नासि तथा त्वयि । । २४
आकृष्य केशेषु बलादपराधं विना ततः ।
हतो वपुष्मता ख्यातिमिति ते भूपतिर्गता । । २५
एवं स्थिते तत्क्रियतां यथा धर्मो न लुप्यते ।
तथा च नैव वस्तव्यं माताहं तापसी यतः । । २६
पिता वृद्धस्तपस्वी च नापराधेन दूषितः ।
निहतो येन यत्तस्य कर्तव्यं तद्विचिन्त्यताम् । । २७
सन्ति ते मन्त्रिणो वीराः सर्वशास्त्रार्थवेदिनः ।
तैः सहालोच्य यत्कार्यमेवंभूते कुरुष्व तत् । । २८
नास्माकमधिकारोऽत्र तापसानां नराधिप ।
कुरुष्वैतदितीत्थं त्वमेवं भूपतिभाषितम् । । २९
विदूरथस्य जनको यवनेन यथा हतः ।
तथायं तव पुत्रस्य कुलं तेन विनाशितम् । । 131.३०
जम्भस्यासुरराजस्य पिता दष्टो भुजङ्गमैः ।
तेनाप्यखिलपातालवासिनः पन्नगाः हताः । । ३१
पराशरेण पितरं शक्तिं तं रक्षसाऽऽहतम् ।
श्रुत्वाऽग्नौ पातितं कृत्स्नं रक्षसामभवत्कुलम् । । ३२
अन्यस्यापि स्ववंशस्य लंघना क्रियते हि या ।
तां नालं क्षत्रियः सोढुं कि पुनः पितृमारणम् । । ३३
नायं पिता ते निहतो नास्मिञ्छस्त्रं निपातितम् ।
त्वामत्र निहतं मन्ये त्वयि शस्त्रं निपातितम् । । ३४
बिभेत्यस्य हि कः शस्त्रं न्यस्तं येन वनौकसाम् ।
तव नृपस्य पुत्रस्य मा बिभेतु बिभेतु वा । । ३५
तवेयं लङ्घनायुक्ता यदस्मिंस्तत्समाचर ।
वपुष्मति महाराज सभृत्यज्ञातिबान्धवे । । ३६
मार्कण्डेय उवाच
इति संक्रान्तसन्देशमिन्द्रसेना विसृज्य तम् ।
पतिदेहमुपाश्लिष्य विवेशाग्निं मनस्विनी । । ३७
इति श्रीमार्कण्डेयपुराणे दमचरितवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः । १३१ ।
132
अथ द्वात्रिंशदधिकशततमोऽध्यायः
दमचरितवर्णनम्
मार्कण्डेय उवाच
इन्द्रसेनासमाज्ञप्तः स गत्वा शूद्रतापसः ।
समाचष्ट यथापूर्वं दमाय निधनं पितुः । । १
तापसेन समाख्याते दमस्तेन पितुर्वधे ।
क्रोधेनातीव जज्वाल हविषेवाग्निरुद्धतः । । २
स तु क्रोधाग्निना धीरे दह्यमानो महामुने ।
करं करेण निष्पिष्य वाक्यमेतदुवाच ह । । ३
अनाथ इव मे तातो मयि पुत्रे तु जीवति ।
घातितः सुनृशंसेन परिभूय कुलं मम । । ४
तापं करोम्यहं किंवाप्येष क्लैब्यात्क्षमाम्यहम् ।
दुर्वृत्तशान्तौ शिष्टानां पालनेऽधिकृता वयम् । । ५
पितरं चापि निहतं दृष्ट्वा जीवन्ति शत्रवः ।
तत्किमेतेन बहुना हा तातेति च किं पुनः । । ६
विलापेनात्र यत्कृत्यं तदेषोऽत्र करोम्यहम् ।
यद्यहं तस्य रक्तेन देहोत्थेन वपुष्मतः । ।
न करोमि गुरोस्तृप्तिं तत्प्रवेक्ष्ये हुताशनम् । । ७
तच्छोणितेनोदककर्म तस्य मांसेन सम्यग्द्विजभोजनं च ।
कुर्यां पितुस्तस्य च पिण्डदानं न चेत्प्रवेक्ष्यामि हुताशनं तत् । । ८
साहाय्यमस्यासुरदेवयक्षगन्धर्वविद्याधरसिद्धसंघाः ।
कुर्वन्ति चेत्तानपि चास्त्रपूगैर्भस्मीकरोम्येष रुषा समेतः । । ९
निःशूरमाधार्मिकमप्रशस्तं तं दाक्षिणात्यं समरे निहत्य ।
भोक्ष्ये ततोऽहं पृथिवीं च कृत्स्नां वह्निं प्रवेक्ष्याम्यनिहत्य तं वा । । 132.१०
सुदुर्मतिं तापसवृद्धघातिनं वनस्थगं साधुविधिं विदग्धगम् ।
हन्ताहमद्याखिलबन्धुमित्रपदातिहस्त्यश्वबलैः समेतम् । । ११
एषोऽहमादाय धनुःसखड्गो रथी तथैवारिबलं समेत्य ।
करोमि वै यत्कदनं समस्ताः पश्यन्तु मे देवगणा समेताः । । १२
यो यः सहायो भविताद्य तस्य मया समेतस्य रणाय भूयः ।
तस्यैव निःशेषकुलक्षयाय समुद्यतोऽहं निजबाहुसैन्यः । । १३
यदि कुलिशकरोऽस्मिन्सयुगे देवराजः पितृपतिरथ चोग्रं दण्डमुद्यस्य कोपात् ।
धनपतिवरुणार्का रक्षितुं तं यतन्ते निशितशरवरौघैर्घातियिष्ये तथापि । । १४
नियतमतिरदोषः काननाखण्डलोका निपतितफलभक्षः सर्वभूतेषु मैत्रः ।
प्रभवति मयि पुत्रे हिंसितो येन तातः पिशितरुधिरतृप्तास्तस्य सन्त्वद्य गृध्राः । । १५
इति श्रीमार्कण्डेयपुराणे दमचरिते द्वात्रिंशदधिकशततमोऽध्यायः । १३२ ।
133
अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः
वपुष्मद्वधवर्णनम्
मार्कण्डेय उवाच
इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः ।
कोपामर्षविवृत्ताक्षः श्भश्रुमावृत्य पाणिना । । १
हा हतोऽस्मीति पितरं ध्यात्वा देवं विनिंद्य च ।
प्रोवाच मंत्रिणः सर्वानानिनाय पुरोहितम् । । २
दम उवाच
यदत्र कृत्यं तद्ब्रूत ताते प्राप्ते सुरालयम् ।
श्रुतं भवद्भिर्यत्प्रोक्तं तेन शूद्रतपस्विना । । ३
वृद्धस्तपस्वी स नृपो वानप्रस्थव्रते स्थितः ।
मौनव्रतधरोऽशस्त्रो मन्मात्रा चेन्द्रसेनया । । ४
प्रोक्तं संसृष्टया स्वात्म्याद्याथातथ्यं वपुष्मते ।
तेनापि खड्गमाकृष्य जटां सव्येन पाणिना । । ५
धृत्वा जघान दुष्टात्मा लोकनाथमनाथवत् ।
माता च संदिश्य हि मां धिक्छब्दं ब्रुवती सती । । ६
मन्दभाग्यं च निःश्रीकं प्रविष्टा हव्यवाहनम् ।
तमालिंग्य नरिष्यन्तं प्रयाता त्रिदशालयम् । । ७
सोऽहमद्य करिष्यामि यन्मे मातुरुदीरितम् ।
हस्त्यश्वरथपादातं सैन्यं च परिकल्प्यताम् । । ८
अनिर्याप्य पितुर्वैरमहत्वा पितृघातकम् ।
अकृत्वा च वचो मातुर्जीवितुं किमिहोत्सहे । । ९
मार्कण्डेय उवाच
मन्त्रिणस्तद्वचः श्रुत्वा हाहेत्युक्त्वा तथा च तत् ।
कृतवन्तो विमनसः सभृत्यबलवाहनाः । । 133.१०
निर्ययुः सपरीवाराः पुरस्कृत्य दमं नृपम् ।
गृहीत्वा चाशिषो विप्रात्त्रिकालज्ञात्पुरोधसः । । ११
अहिराडिव निःश्वस्य दमः प्रायाद्वपुष्मतम् ।
सीमापालादिसामन्तान्निघ्नन्याम्यां दिश त्वरा । । १२
निरीक्ष्य तं समायान्तं वपुष्मान्मर्षपूरितः ।
संक्रन्दनसुतेनापि दमो ज्ञातो वपुष्मता । ।
आयातः सपरीवारः सामात्यः सपरिच्छदः । । १३
अकंपितेन मनसा ससैन्यानि दिदेश ह ।
दूतं च प्रेषयामास निर्गम्य नगराद्बहिः । । १४
त्वं शीघ्रतरमागच्छ नरिष्यन्तः प्रतीक्षते ।
सभार्यक्षत्रबन्धो त्वं समायाहि ममान्तिकम् । । १५
इमे मद्बाहुनिर्मुक्ताः शिता बाणाः पिपासिताः ।
भित्त्वा शरीरं सङ्ग्रामे पास्यन्ति रुधिरं तव । । १६
श्रुत्वा दमस्तु तत्सर्वं दूतप्रोक्तं ययौ त्वरन् ।
स्मृत्वा प्रतिज्ञां पूर्वोक्तां निःश्वसमुरगो यथा । । १७
आहूतसमरे चैव पुमान्सेनाविकत्थनः ।
ततो युद्धमतीवासीद्दमस्य च वपुष्मतः । । १८
रथी च रथिना नागी नागिना हयिना हयी ।
अयुध्यन्त च विप्रर्षे तद्युद्धं तुमुलं ह्यभूत् । । १९
पश्यतां सर्वदेवानां सिद्धगन्धर्वरक्षसाम् ।
चकम्पे वसुधा ब्रह्मन्युध्यमाने दमे युधि । । 133.२०
न गजो न रथी नाश्वस्तस्य बाणसहस्तु यः ।
ततो दमेन युयुधे सेनाध्यक्षो वपुष्मतः । । २१
हृदि विव्याध च दम इषुणागाद्यमान्तिकम् ।
तस्मिन्निपतिते सैन्यं पलायनपरं ह्यभूत् । । २२
स स्वामिनं ततः प्राह दमः शत्रुं दमस्तथा ।
क्व यासि दुष्ट पितरं घातयित्वा तपस्विनम् । । २३
अशस्त्रं च तपस्यन्तं क्षत्रियोऽसि निवर्तताम् ।
ततो निवृत्य स दमं योधयामास सानुजः ।।२४
स पुत्रः सह सम्बन्धिबान्धवैर्युयुधे रथी ।
ततः शरासनान्मुक्तबाणैर्व्याप्तास्ततो दिशः ।।२५
दमं च सरथं चाशु शरजालैरपूरयत् ।
ततः पितृवधोत्थेन कोपेन स दमस्तथा ।।२६
चिच्छेद ताञ्छरान्स्तेषां विव्याधान्यैश्च तानपि ।
एकेनैकेन बाणेन सप्त पुत्रान्स्तथा द्विज ।।२७
सम्बन्धिबान्धवान्मित्रान्निनाय यमसादनम् ।
वपुष्मान्स रथी क्रोधान्निहतात्मजबान्धवः ।।२८
युयुधे च स तेनाजौ शरैराशीविषोपमैः ।
चिच्छेद तस्य तान्बाणान्स दमश्च महामुने ।।२९
युयुधाते च संरब्धौ परस्परजयैषिणौ ।
परस्परशराघातविच्छिन्नधनुषौ त्वरा ।। 133.३०
गृहीतखड्गावुत्तीर्य चिक्रीडाते महाबलौ ।
दमः क्षणं नृपं ध्यात्वा पितरं निहतं वने ।। ३१
केशेष्वाकृष्य चाक्रम्य निपात्य धरणीतले ।
शिरोधरायां पादेन भुजमुद्यम्य चाब्रवीत् ।।३२
पश्यन्तु देवताः सर्वा मानुषाः पन्नगाः खगाः ।
पाट्यमानं च हृदयं क्षत्रबन्धोर्वपुष्मतः ।। ३३
एवमुक्त्वा च स दमो हदयं च व्यदारयत् ।
पातुकामश्च स सुरैः क्षतजेन निवारितः ।। ३४
ततश्चकार तातस्य रक्तेनैवोदकक्रियाम् ।
आनृण्यं प्राप्य स पितुः पुनः प्रायात्स्वमन्दिरम् ।। ३५
वपुष्मतश्च मांसेन पिण्डदानं चकार ह ।
ब्राह्मणान्भोजयामास रक्षः कुलसमुद्भवान् ।।३६
एवंविधा हि राजानो बभूवुः सूर्यवंशजाः ।
अन्येऽपि सुधियः शूरा यज्विनो धर्मकोविदाः । । ३७
वेदान्तपारगास्ताञ्च न संख्यातुमिहोत्सहे ।
एतेषां चरितं श्रुत्वा नरः पापैः प्रमुच्यते । । ३८
इति श्रीमार्कण्डेयपुराणे दमचरिते वपुष्मद्वधो नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः । १३३ ।
134
अथ चतुस्त्रिंशदधिकशततमोऽध्यायः
श्रवणपठनवर्णनम्
पक्षिण ऊचुः
एवमुक्त्वा जैमिनेयं मार्कण्डेयो महामुनिः ।
विसृज्य क्रौष्टुकिमुनिं चक्रे माध्याह्निकीं क्रियाम् । । १
अस्माभिश्च श्रुतं तस्माद्यत्ते प्रोक्तं महामुने ।
अनादिसिद्धमेतद्धि पुरा प्रोक्तं स्वयंभुवा । । २
मार्कण्डेयाय मुनये यत्तेऽस्माभिरुदाहृतम् ।
पुण्यं पवित्रमायुष्यं धर्मकामार्थसिद्धिदम् । । ३
पठतां शृण्वतां सद्यः सर्वपापप्रमोचनम् ।
आदावेव कृता ये च प्रश्नाश्चत्वार एव हि । । ४
पितुः पुत्रस्य संवादस्तथा सृष्टिः स्वयंभुवः ।
तथा मनूनां स्थितयो राज्ञां च चरितं मुने । ।५
अस्माभिरेतत्ते प्रोक्तं किमद्य श्रोतुमिच्छसि ।
एतान्सर्वान्नरः श्रुत्वा पठते वा सभासु च । । ६
विधूय सर्वपापानि ब्रह्मणोऽन्ते लयं व्रजेत् ।
अष्टादशपुराणानि यानि प्राह पितामहः । । ७
तेषां तु सप्तमं ज्ञेयं मार्कर्ण्डेयं सुविश्रुतम् ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ८
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा । । ९
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कन्दमत्र त्रयोदशम् । । 134.१०
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ११
अष्टादशपुराणानां नामधेयानि यः पठेत् ।
त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफलं लभेत् । । १२
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । १३
चतुःप्रश्नसमोपेतं पुराणं ह्येतदुत्तमम् ।
श्रुत्वा पुनश्च ते पापं कल्पकोटिशतैः कृतम् । । १४
ब्रह्महत्यादिपापानि यान्यन्यान्यशुभानि च ।
तानि सर्वाणि नश्यन्ति तृणं वातहतं यथा । । १५
पुष्करे दानजं पुण्यं श्रवणादस्य जायते ।
सर्ववेदाधिकफलं समाप्त्या चाधिगच्छति । । १६
यः श्रावयेत्पूजयेत्तं यथा देवं पितामहम् ।
गन्धपुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः । । १७
यथाशक्त्या च दातव्यं नृपैर्ग्रामादिवाहनम् ।
एतत्पुराणमखिलं वेदार्थैरुपबृंहितम् । ।
धर्मशास्त्रैकनिलयं श्रुत्वा सर्वार्थमाप्नुयात् । । १८
श्रुत्वा पुराणमखिलं व्यासं सम्पूजयेद्बुधः ।
धर्मार्थकाममोक्षाणां यथोक्तफलहेतवे । । १९
दद्याद्गां गुरवे स्वर्णवस्त्रालङ्कारसंयुताम् ।
श्रवणस्य फलावाप्त्यै दानैः संतोषयेद्गुरुम् । । 134.२०
अपूज्य पाठकर्तारं श्लोकमेकं शृणोति यः ।
नासौ पुण्यमवाप्नोति शास्त्रचोरः स्मृतो हि सः । । २१
न तस्य देवाः प्रीणन्ति पितरो नैव पुत्रकान् ।
दत्तं श्राद्धं तथेच्छन्ति तीर्थस्नानफलं न च । । २२
लभेत शास्त्रचोरश्च निन्दां सज्जनसंसदि ।
अवज्ञया न श्रोतव्यं शास्त्रमेतद्विचक्षणैः । । २३
पठ्यमाने त्ववज्ञाते साधुभिः शास्त्र उत्तमे ।
मूको भवति जन्मानि सप्त मूर्खः प्रजायते । । २४
श्रुत्वा तत्पूजयेद्यस्तु पुराणं सप्तमं पुनः ।
सर्वपापविनिर्मुक्तः पुनात्येव निजं कुलम् । । २५
पूतो याति न सन्देहो विष्णुलोकं सनातनम् ।
च्युतस्ततः पुनर्नैव स भविष्यति मानवः । । २६
पुराणश्रवणादेव परमयोगमवाप्नुयात् ।
नास्तिकाय न दातव्यं वृषले वेदनिन्दके । । २७
गुरुद्विजातिनिन्दाय तथा भग्नव्रताय च ।
मातापित्रोर्निन्दकाय वेदशास्त्रादिनिन्दिने । । २८
भिन्नमर्यादिने चैव तथा वै ज्ञातिकोपिने ।
एतेषां नैव दातव्यं प्राणैः कण्ठगतैरपि । । २९
लोभाद्वा यदि वा मोहाद्भयाद्वापि विशेषतः ।
पठेद्वा पाठयेद्वापि स गच्छेन्नरकं ध्रुवम् । । 134.३०
मार्कण्डेय उवाच
एतत्सर्वमुपाख्यानं धर्म्यं स्वर्गापवर्गदम्।
यः शृणोति पठेद्वापि सिद्धं तस्य समीहितम् । । ३१
आधिव्याधिजदुःखेन कदाचिन्नाभियुज्यते ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । । ३२
सन्तः स्वजनमित्राणि भवन्ति हितबुद्धयः ।
नारयः सम्भविष्यन्ति दस्यवो वा कदाचन । । ३३
सदर्थो मिष्टभोगी च दुर्भिक्षैर्नावसीदति ।
परदारपरद्रव्यपरहिंसादिकिल्बिषैः । । ३४
मुच्यतेऽनेकदुःखेभ्यो नित्यं चैव द्विजोत्तम ।
ऋद्धिर्वृद्धिः स्मृतिः शान्तिः श्रीः पुष्टिस्तुष्टिरेव च । ।
नित्यं तस्य भवेद्विप्र यः शृणोति कथामिमाम् । । ३५
मार्कण्डेयपुराणमेतदखिलं शृण्वन्नशोच्यः
पुमान्यो वा सम्यगुदीयरयेद्रसमयं शोच्यो न सोऽपि द्विज ।
योगज्ञानविशुद्धसिद्धिसहितः स्वर्गादिलोकेऽप्यसौ
शक्राद्यैश्च सुरादिभिः परिवृतः स्वर्गे सदा पूज्यते । । ३६
पुराणमेतच्छ्रुत्वा च ज्ञानविज्ञानसंयुतम् ।
विमानवरमारुह्य स्वर्गलोके महीयते । । ३७
पुराणाक्षरसंख्या च प्रख्याता तत्त्वबुद्धिना ।
श्लोकानां षट्सहस्राणि तथा चाष्टशतानि च । । ३८
श्लोकास्तत्र नवाशीतिरेकादशसमाहिताः ।
कथिता मुनिना पूर्वं मार्कण्डेयेन धीमता । । ३९
जैमिनिरुवाच
भारतेनाभवद्यन्मे संशयस्फोटनं द्विजाः ।
तद्भवद्भिः कृतं यन्न कश्चिदद्य करिष्यति । ।134.४ ०
यूयं दीर्घायुषः स्यात प्रज्ञाबुद्धिविशारदाः ।
सांख्ययोगे तथा चास्तु बुद्धिरव्यभिचारिणी । ।४ १
पितृशापकृताद्दुःखाद्दौर्मनस्यं व्यपेतु वः ।
एतावदुक्त्वा वचनं जगाम स्वाश्रमं मुनिः । ।
चितयन्परमोदारं पक्षिणां वाक्यमीरितम् । ।४२
इति श्रीमार्कण्डेयमहापुराणे एतत्पुराणमाहात्म्यश्रवणपठनफलं
नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।

सम्पूर्णमिदं मार्कण्डेयमहापुराणम् । ।
श्रीशः पायात्। ।