मालविकाग्निमित्रम्/पञ्चमोऽङ्कः
← चतुर्थोऽङ्कः | मालविकाग्निमित्रम् पञ्चमोऽङ्कः कालिदासः |
। ततः प्रविशत्युद्यानपालिका ।
- उद्यानपालिका । उवख्खित्तो मए किदसक्कारविहिणो तवणीआसोअस्स भित्तिबन्धो । जाव अणुठ्ठिअणिओअं
- अप्पाणं देवीए णिवेदेमि । परिक्रम्य । अहो देव्वस्स अणुकम्पणिज्जा मालविआ । तस्सिं . तह चण्डिआ देवी ३
- इमिणा असोअकुसुमउत्तन्तेण पसादाहिमुही भविस्सदि।
- कहिं णु ख्खु भवे देवी । विलोक्य । एसो देवीपरिअणभ्भन्तरो किवि जदुमुद्दालच्छिअं चीरमञ्जूसं करे गेण्हिअ
- कुज्जो. सारसओ चउस्सालादो णिक्कमेदि । पुछ्छिस्सं
- दाव णं ।
। ततः प्रविशति यथानिर्दिष्टः कुब्जः ।
- उद्यान° । उपसृत्य । २सारसअ कई पथ्थिदोसि ।
- १. उपक्षिप्तो मया कृतसंस्कारविधेस्तपनीयाशोकस्य भित्तिबन्धः । यावदनुष्ठितंनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डिका देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादाभिमुखी भविष्यति । क्व नु खलु भवेद्देवी ।
- एष देवीपरिजनाभ्यन्तरः कामपि जतुमुद्रालाञ्छितां चीरमञ्जूषां करे गृहीत्वा कुब्जः
- सारसकश्चतुःशालाया निष्क्रमति । प्रक्ष्यामि तावदेनम् ।
- २. सारसक कुत्र प्रस्थितोसि ।
|
|
- सारसकः। १मधुअरिए विज्जापारआणं अणुचिठ्ठन्ताणं बम्हणाणं इमा णिच्चदख्खिणा मासिआ दादव्वा।तं अज्जपुरोहिदस्स हथ्थं पाविदुं।
- मधुकरिका। २किंणिमित्तं।
- सारसकः। ३जदप्पहुदि सुदं सेणावइणा जण्णतुरअरख्खणे
- णिउत्तो भट्टिदारओ वसुमित्तओत्ति तदप्पहुदि तस्स
- आउसो णिमित्तं अठ्ठादससुवण्णपरिमाणं दख्खिणं
- देवी दख्खिण्णेहिं पडिग्गाहेइ।
- मधुकरिका। ४जुज्जइ । अह कहिं देवी ।
- सारसकः। ५मङ्गलघरए आसण्णथा विदभ्भविसआदो भादुणा
- वीरसेणेण पेसिदं लिविकरेहिं वाचिअमाणं लेहपत्तं
- सुणादि।
- १. मधुकरिके विद्यापारगणामनुतिष्ठतां ब्राह्मणानामियं नित्यदक्षिणा मासिका दातव्या।
- तामार्यपुरोहितस्य हस्तं प्रापयितुम्।
- २. किंनिमित्तम्।
- ३. यत्तःप्रभृति श्रुतं सेनापतिना यज्ञतुरगरक्षणे नियुक्त्तो भर्तृदारको वसुमित्र इति ततः-
- प्रभृति तस्यायुषो निमित्तमष्टादशसुवर्णपरिमाणां दक्षिणां देवी दक्षिण्यैः परिग्राहयति।
- ४. युज्यते।अथ क्व देवी।
- ५. मङ्गलगृह आसनस्था विदर्भविषयाद्द्रात्रा वीरसेनेन प्रेषितं लिपिकारैर्वाच्यमानं लेखप-
- -त्रं शृणोति।
|
|
- मधुकरिका । १को उण बिदम्भराअवुत्तन्तो।
- सारसकः। २वसीकिदो किल वीरसेणप्पमुहोहिं भट्ठिणो विअअदण्डेहिं विदम्भणाहो । मोइदो से दाआदो माहवसेणो । तेण हि महासाराणि रअणवाहणाणि सिप्पिदारिआभूइट्ठ परिअणं अ उवाअणीकरिअ दूदो भट्टिणो
- सआसं पोसिदो। सुवो किल भट्टारं देख्खिस्सदित्ति ।
- मधुकरिका । ३गछ्छ अणुचिट्ठ अत्तणो णिओअं । अहंवि देवीं
- पेख्खिस्सं ।
- [निष्कान्तौ ।
- पेख्खिस्सं ।
॥ प्रवेशकः ।
। ततः प्रविंशति प्रतीहारी ।
- प्रतीहारी । ४आणत्तम्हि देवीए । विण्णवेहि अज्जउत्तं ।
- इछ्छामि अज्जउत्तेण सह असोअरुख्खपसूणलछीं पञ्चख्खीकरेदुंति । जाव धम्मासणगदं देवं पडिवालेमि ।
- ।इति परिक्रामति ।
- १. कः पुनर्विदर्भराजवृत्तान्त:।
- २. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भमाथ: । मोचितोस्य दायादो माधवसेनः । तेन हि महासाराणि रत्नवाहनानि शित्रिपदारिकाभूयिष्ठं परिजनं चोपायनीकृत्य दूतो भर्तुः सकाशं प्रेषितः । श्व: किल भर्तारं द्रक्ष्यतीति ।
- ३. गच्छानुतिष्ठात्मनो नियोगम् । अहमपि देवीं प्रेक्षिष्ये ।
- ४. आज्ञत्पास्मि देव्या । विज्ञापयार्यपुत्रम् । इच्छाम्यार्यपुत्रेण सहाशोकवृक्षप्रसूनलक्ष्मीं
- प्रत्यक्षीकर्तुमिति । यावद्धर्मासनगतं देवं प्रतिपालयामि ।
|
|
। नेपथ्ये वैतालिकौ ।
- दिष्ट्या दण्डेनैवारिशिरःसु वर्तते देवः ।
- प्रथमः ।
- परभृतकलव्याहारेषु वमात्तरतिर्मधुं
- नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
- विजयकरिणामालानाङ्कैरुपोडढबलस्य ते
- वरद वरदारोधोवृक्षै: सहावनतो रिपुः ॥ १ ॥
- द्वितीयः ।
- विरचितपदं वीरप्रीत्या सुरोपमसूरिभिश्
- चरितमुभयोर्मध्येकृत्य स्थितं कथकैशिकान् ।
- तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
- परिघगुरुभिर्दोर्भि: शौरेः प्रसह्य च रुक्मिणीम् ।। 2 ।।
- प्रती° । १एसो जअसद्दसूहअपथ्धाणो इदो एव्व आअ-
- छ्ुछदि देवो । अहंवि दाव इमस्स पमुहादो किंवि ओसरिअ एदं मुहालिन्दतोरणं समस्सिदा होमि । एकान्ते
- स्थिता ।
। ततः प्रविशति सवयस्यो राजा ।
- राजा ।
- कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
- श्रुत्वा विदर्भपतिमानमितं बलैश्व ।
- धाराभिरातप इवाभिहतं सरोजं
- दुःखायते च हृदयं सुखमश्नुते च ॥ ३ ॥
१. एष जयशब्दसूचितप्रस्थान इत एवागच्छति देव: । अहमपि तावदस्य प्रमुखतः किं-
- चिदपसृत्यैतन्मुखालिन्दतोरणं समाश्रिता भवामि ।
13. B जयसद°- F आअछ्छइ.
- विदूषकः । [१]जह देख्खामि तह सव्वहा एक्कन्तसुहिदो भवं
- भविस्सदि ।
- राजा । सखे कथमिव ।
- विदूषकः । [२]अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
- मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
- सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
- मणोरहं पूरेइ ।
- राजा। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः
- संभाव्यत एतत् ।
- प्रती° । उपगम्य । [३]जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स
- कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।
|
|
- राजा । ननु तत्रैव देवी ।
- प्रतीहारी । १अह इं । जहारुहसंमाणसुहिदं अन्तेउरजणं विसज्जिअ मालविअपुरोगेण अत्तणो परिअणेण सह देवं
- पडिवालेदि ।
- राजा। सहर्षम् । विदूषकं विलोक्य । जयसेने गच्छाग्रत: ।
- प्रतीहारी । २इदो इदो देवो ।
। सर्वे परिकामन्ति ।
- विदूषक:। विलोक्य । ३भो वअस्स किंवि परिवुत्तजोव्वणो विअ
- वसन्दो पमदवणे लख्स्वीअदि।
- राजा । यथावृत्तं भवानाह।
- अग्रे विकीर्णकुरबकफलजालविभुज्यमानसहकारम् ।
- परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेत: ॥४॥
- विदूषक: । ४भो अअं सो दिण्णणेवथ्थो विअ कुसुमथ्थबएहिं तवणीआसोओ । ओलोअदु भवं।
- १. अथ किम् । यथार्हसंमानसुखितमन्त:पुरजनं विसख्य्र मालविकापुरोगेणात्मन: परिजनेन सह देवं प्रतिपालयति ।
- २. इत इतो देव: ।
- ३. भो वयस्य किमपि परिवृत्तयौवन इव वसन्त: प्रमदवने लक्ष्यते ।
- ४. भो भयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोक: । आलोकयतु भवान् ।
|
|
- राजा । स्थाने खल्वयं प्रसवमन्थरोभूत् । यदयमिदानीमनन्यसाधारणां शोभामुद्वहति । पश्य ।
- सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
- निर्वृत्तदोहदेस्मिन्संक्रान्तानीव कुसुमानि ॥ ८ ॥
- विदूषकः । १भो विस्सध्धो होहि । अम्हेसु उवगदेसु धारिणी 3
- पस्सपरिवट्टिणीं मालविअं अणुणेइ ।
- राजा । सहर्षम्। पश्य सखे ।
- मामियमभ्युत्तिष्ठति देवी विनयादुपस्थिता प्रियया ।
- विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥६॥
। ततः प्रविश्यति परिव्राजिका देवी
मालविका विभवतश्च परिवारः।
- मालविका । आत्मगतम्। २जाणामि णिमित्तं कोदुआलंकारस्स ।
- तहवि मम हिअअं विसिणीपत्तगअं सालिलं विअ वेवदि । दख्खिणेदरंवि णअणं पफ्फुरइ ।
- विदूषकः ।२भो असंदेहं वेवाहिअणेवथ्थेण सविसेसं सोहइ अत्तहोदी मालविआ ।
- १. भो विश्रब्धो भव । आवयोरुपगतयोर्धारिणीं पार्श्वपरिवर्तिनीं मालविकामनुनयति ।
- २. जानामि निमित्तं कौतुकालंकारस्य । तथापि मम हृदयं बिसिनीपन्तगतं सलिलमिव वेपते । दक्षिणेतरमपि नयनं प्रस्फुरति ।
- ३. भो असंदेहं वैवाहिकनेपथ्येन सविशेषं शोभतेत्रभवती । मालविका ।
|
|
- राजा । पश्याम्याभरणलंकृतामेनाम् ।
- अनतिलम्बिदुकूलनिवासिनी
- लघुभिराभरणैः प्रतिभाति मे।
- उडुगणैरुदयोन्मुखचन्द्रिका
- गतहिमैरिव चैत्रविभावरी ॥ ७ ॥
- दैवी । उपेत्य । १जेदु अज्जउत्तो ।
- विदूषकः । २वढ्ढदु होदी ।
- परिव्राजिका । विजयतां देवः ।
- राजा । भगवत्यभिवादये ।
- परिव्राजिका । अभिप्रेतसिद्धिरस्तु ।
- देवी । सस्मितम् । ३अज्जउत्त एस दे तरुणीजणसहाअस्स असंकेदघरओ अम्हेहिं विसज्जिदो ।
- विदूषकः। ४भो तुमं आराहिदोसि ।
- राजा । सव्रीडमशोकमभित: परिक्रामन् ।
- नायं देव्या भाजनत्वं न नये:
- सत्काराणामीदृशानामशोकः ।
- यः सावज्ञो माधवश्रीनियोगे
- पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥
|
|
|
|
- विदूषक:| १भो विस्सध्धो भविअ इमं जोव्वणवदिं पेरव्ख |
- देवी | २कं |
- विदूषक: | ३तवणीआसोअकुसुमसोहं |
- सर्वे | उपविशन्ति |
- राजा | मालविका विलोक्यात्मगतम् | कष्टं खलु संनिधिवियोगो म- 5
- माद्य |
- अहं रथाङ्गंनामेव प्रिया सहचरीव मे |
- अननुज्ञातसंपर्का धारिणी रजनीव नौ ||९||
। तत: प्रविशति कञ्चुकी ।
- कञ्चुकी | जयतु जयतु देव: | अमात्यो विज्ञापयति | तस्मिन्विदर्भविषयोपायने द्वे शिल्पिदारिके मार्गरपरिश्रमादलसशरीरे इति कृत्वा न प्रवेशिते | संप्रति देवोपस्थानयोग्येतदाज्ञां देवो दातुमर्हतीति|
- राजा | प्रवेशय ते |
- कञ्जुकी | यदाज्ञापयति देव: | इति निष्कभ्य ताभ्याम् सह पुन: प्रविश्य | 15
- इत इतो भवत्यौ |
- १. भो विक्षब्धो भूत्वोमा यौवनवतो प्रेक्षस्व |
- २. काम् ।
- ३. तपनीयाशोककसमशोभाम् ।
|
|
- प्रथमा । जनान्तिकम् । १हला रअणिए अपुव्वं इमं राअउलं पविसन्तीए पसीदइ मे अभ्भन्दरगदो अप्पा ।
- द्वितीया । २हञ्जे जोसणीए महवि एव्वं एव्व । अथ्थि ख्खु
- एसो लोअवादो आआमि सुहं वा दुख्खं वा हिअअसमवथ्था कहेदित्ति ।
- प्रथमा । ३सो सच्चो दाणिं णो होदु ।
- कञ्चुकी । एष देव्या सह देवस्तिष्ठति । तावदुपसर्पेतां भवत्यौ ।
। उभे उपसर्पतः ।
10 । मालविका परिव्राजिका च चेव्यौ दृष्ठ्वा परस्परमवलोकयतः ।
- उभे । प्रणिपत्य । ४जेदु भट्टा जेदु भट्टा । जेदु भट्टिणी जेदु भट्टिणी ।
- राजा । स्वागतम् । इतो निषीदतम् ।
- उभे । उपविष्टे ।
- १. हला रर्जानके अपूर्वमिदं राजकुलं प्रविशन्त्याः प्रसीदति मेभ्यन्तरगत आत्मा ।
- २. हञ्जे ज्योत्सिनके ममाप्येवमेव । अस्ति स्वत्वेष लोकवाद आगामि सुखं वा दुःखं वा
- हृदयसमवस्था कथयतीति ।
- ३. स सत्य इदानोमावयोर्भवतु ।
- ४. जयतु भर्ता जयतु भर्ता । जयतु भट्टिनी जयतु भट्टिनी ।
|
|
- राजा । कस्यां कलायामभियोगो भवत्योः ।
- उभे। २संगीदए अभ्भन्तरम्ह ।
- राजा । देवि ग्रुह्यतामनयोरन्यतरा ।
- देवो । २मालविए इदो देख्ख कदरा संगीदसहाइणी रुच्चइ ।
- उभे । मालविकां दृष्ट्वा । ३अम्हो भट्टिदारिआ । प्रणिपत्य सह तया वाष्पं विसृजतः ।
। सर्वे सविस्मयमालोकयन्ति ।
- राजा । के भवत्यौ का चेयम् ।
- प्रथमा । देव इअं अम्हाणं भट्टिदारिआ ।
- राजा । कथमिव ।
- उभे । ५सुणादु भट्टा । जो सो भट्टिणा विअअदण्डेहिं विदभ्भणाहं वसीकरिअ बन्धणादो मोइदो कुमारो माहवसेणो णाम तस्स इअं कणीअसी भइणी मालविआणाम ।
- १. संगीतकेभ्यन्तरे स्वः ।
- २. मालविके इतः प्रेक्षस्व कतरा संगीतसखी रोचते ।
- ३. अहो भर्तृदारिका ।
- ४. देव इयमावयोर्भर्तृदारिका ।
- ५. शृणॊतु भर्ता । योसौ भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो ::माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम ।
|
|
- देवी । १अम्हो राअदारिआ इअं । चन्द्रणं ख्खु मए पादुआ-
- परिभोएण दूसिदं ।
- राजा । अथात्रभवती कथमिवेत्थंभूता ।
- मालविका। निःश्वस्यात्मगतम् । २विहिणो णिओएण ।
05 द्वितीया । ३भट्टा सुणादु । दाआदवसंगदे अम्हाणं भट्टदारए
- माहवसेणे तस्स अमच्चेण अज्जसुमइणा अम्हारिसं परिअणं उझ्झिअ गूढं अवणीदा एसा ।
- राजा । श्रुतपूर्वं मयैतत् । ततस्ततः ।
- उभे । ४एत्तिअं एव्व । अदो वरं ण आणीमो ।
10 परिव्राजिका । अतः परमहं मन्दभागिनी कथयिष्यामि ।
- उभे । ५भट्टिदारिए अज्जाए कोसिईए विअ सरओओ सुणीअदि ।
- मालविका । ६णं सा एव्व ।
- १. अहो राजदारिकेयम् । चन्दनं खलु मया पादुकापरिभोगेण दूषितम् ।
- २. विधेर्नियोगेन ।
- ३. भर्ता शृणोतु । दायादवशं गत आवयोर्भर्तृदारकै माधवसेने तस्यामात्येनार्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढमपनीतैषा ।
- ४. एतावदेव । अतः परं न जानीव: ।
- ५. भर्तृदारिके आर्यायाः कौशिक्या इव स्वरयोगः श्रूयते ।
- ६. ननु सैव ।
|
|
- उभे । १जइवेसधारिणी अज्जकोसिई दुख्खेण विभाविअदि।
- दुवेवि अम्हे भअवदिं वन्दामहे ।
- परिव्राजिका । स्वस्ति भवतीभ्याम् ।
- राजा । कथमाप्रवर्गीयं भवत्याः ।
- परिव्राजिका । एवमेतत् ।
- विदूषकः । २तेण हि कहेहि दाणिं अन्नहोदीए उन्नन्तावसेसं ।
- परिव्राजिका । सवैक्रव्यम् । श्रूयतां तावत् । माधवसेनसचिवं
- सुमतिं ममाग्रजमवगच्छ ।
- राजा । उपलब्धम् । ततस्ततः ।
- परिव्राजिका । स इमां तथागतभ्रातृकां मया सार्धमपवाह्य
- भवत्संबन्धापेक्षया पथिकसार्थं वैदिशगामिनमनुप्रविष्टः।
- राजा । ततस्ततः ।
- परिव्राजिका । स चाटव्यन्ते निविष्टो गताध्वा
- वाणिग्जनध्वश्रमार्तो विश्रामितुम् ।
- १.यतिवेषधारिष्यार्यकीशिकी दुःखेन विभाव्यते । द्वे अप्यावां भगवतीं वन्दावहे।
- २. तेन हि कथयेदानीमत्रभवत्या वृत्तान्तावशेषम् ।
|
|
- राजा । ततस्ततः ।
- परिव्राजिका । ततश्च
- तूणीरबन्धपरिणध्दभुजान्तरालम्
- आकर्णलम्बिशिखिपिच्छकलापधारि ।
कोदण्डपाणि निनदप्रतिरोधकानाम्
- आपातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥
- मालविका । भयं निरूपयति ।
- विदूषकः । १मा भआहि । अदिक्कन्तं ख्खु भअवदी कहेदि ।
- राजा । ततस्ततः ।
परिव्राजिका । ततो मुहूर्तं बध्दयुध्दास्ते पराङ्मुखोकृतास्तस्करैः
- सार्थवाहयोद्धारः।
- राजा । भगवति अतः परमिदानीं कष्टं श्रोतव्यम ।
- परिव्राजिका । ततः स मत्सोदर्यः
- इमां परीप्सुर्दुर्जातेः पराभिभवकातराम् ।
भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥
- प्रथमा । २हंहो गर्दो तादो मरणं ।
- १. मा भीः । अतिक्रान्तं खलु भगवती कथयति ।
- २. हंहो गतस्तातो मरणम् ।
|
|
- द्वितीया । १अदो ख्खु भट्टिदारिआए इअं समवथ्था संवुत्ता ।
- परिव्राजिका । बाष्पं विकिरति ।
- राजा । तनुभृतामीदृशी लोकयात्रा । न
- शोचितव्यस्तत्रभवान्सफलीकृतभर्तृपिण्डः ।
- परिव्राजिका । ततोहं मोहमुपागता यावत्संज्ञामुपलभे तावदियं
- दुर्लभदर्शना संवृत्ता ।
- राजा । महत्खलु कष्टमनुभूतं भगवत्या ।
- परिव्राजिका । ततो भ्रातृशरीरमग्निसात्कृत्वा
- पुनर्नवीकृतवैधव्यदुःखया मया त्वदीयं देशमवतीर्येमे काषाये गृहीते ।
- राजा । युक्तः सज्जनस्यैष पन्थाः । ततस्ततः ।
- परिव्राजिका । तत इयमप्याटविकेभ्यो वीरसेनं वीरसेनाद्देवीं
- गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टा ।
- इत्येतदवसानं कथायाः ।
- मालविका । आत्मगतम् । २किं णु ख्खु संपदं भट्टा भणादि ।
- राजा । अहो परिभवोपहारिणो विनिपाताः । कुतः ।
- १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
- २. किं नु खलु सांप्रतं भर्ती भणति ।
|
|
- प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती ।
- स्नानीयवस्त्रक्रियया पलोर्णं वोपयुज्यते ॥ १2 ॥ ।
- धारिणी । १भअवदि तुए अभिजणवादिं मालविअं
- अणाचख्खन्तीए असंपदं किदं ।
- परिव्राजिका । शान्तं पापं शान्तं पापम् । कारणेन खलु
- मया नैभृत्यमवलम्बितम् ।
- धारिणी । २किं विअ अत्त कारणं।
- राजा । यदि वक्तव्यं कथ्यताम् ।
- परिव्राजिका । इयं पितरि जीवति केनापि लोकयात्रगतेन
- सिध्दादेशेन साधुना मत्समक्षमादिष्टा संवत्सरमात्रं
- प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति ।
- तमवश्यं भाविनमादेशमस्यास्त्वत्पादशुश्रूषया
- परिणमन्तमवेक्ष्य कालप्रतीक्षया मया तत्साधु कृतमिति पश्यामि ।
- राजा । युक्तोपेक्षा ।
। प्रविश्य कञ्चुकी ।
- कञ्चुकी । देव कथान्तरेणान्तरितमिदममात्यो विज्ञापयति ।
- १. भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।
- २. किमिवात्र कारणम् ।
|
|
- विदर्भगतमनुष्ठेयमवधारितमस्माभिः। देवस्य
- तावदभिमतं श्रोतुमिच्छामीति ।
- राजा । मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमवस्थापयितुकामोस्मि ।
-
- तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
- नक्तं दिवं विभज्योभौ. शीतोष्णकिरणाविव ॥ १३॥
-
- कञ्चुकी । एवममात्यपरिषदे निवेदयामि ।
- राजा । अङ्गुल्यानुमन्यते ।
[ निष्कान्तः कञ्चुकी ।
- प्रथमा । जनान्तिकम् । १भाट्टिदारिए दिठ्ठिआ भट्टिदारओ
- अध्धरज्जे पइठ्ठं गमिस्सदि ।
- मालविका । २एदं दाव बहु मन्तव्वं जं जीविदसंसआदो मुत्तो।
। प्रविश्य कञ्चुकी ।
- कंचुकी । विजयतां देवः । अमात्यो विज्ञापयति । कल्याणी
- देवस्य बुद्धिः । मन्त्रिपरिषदोप्येतदेव दर्शनम् ।
- द्विधा विभक्तां श्रियमुद्वहन्तौ
- धुरं रथाश्वाविव संग्रहीतुः ।
- तौ स्थास्यतस्ते नृपतो निदेशे
- परस्परावग्रपओनिर्विकारौ ॥ १४ ॥
- देवस्य बुद्धिः । मन्त्रिपरिषदोप्येतदेव दर्शनम् ।
- १. भर्तृदारिके दिष्ट्या भर्तृदारकोर्धराज्ये प्रतिष्ठां गमिष्यति ।
- २. एतत्तावद्वहु मन्तव्यं यज्जोवितसंशयान्मुक्तः।
14 |
|
- राजा । तेन हि मन्त्रिपरिषदं ब्रूहि सेनापतये वीरसेनाय
- लिख्यतामेवं क्रियतामिति ।
- कञ्चुकी । तथा । इति निष्क्राम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविश्य ।
- अनुष्ठिता प्रभोराज्ञा । अयं पुनरिदानीं देवस्य सेनापतेः
- पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः ।
- प्रत्यक्षीकरोत्वेनं देवः ।
- राजा । सहसोपसृत्य प्राभृतकं सोपचारकं शिरसि कृत्वा परिजनायार्पयति । लेखं
- न नाट्येनोद्वेष्टयतेि ।
- देवी। १अम्हहे । तदोमुहं एव्व णो हिअअं । सुणिस्सं दाव
- गुरुअणकुसलाणन्तरं वसमित्तस्स वृत्तन्तं । अहिआरे
- ख्खु मे पुतओ सेणावइणा णिउत्तो ।
- राजा । उपविश्य वाचयति । स्वस्ति । यज्ञशरणात्सेनापतिः
- पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं
- स्नेहात्परिष्वज्यानुदर्शयति । विदितमस्तु । योसौ राजसूययज्ञे दीक्षितेन
- १. अम्महे ततोमुखमेव नो इदम् । श्रोष्यामि तावद्रुरूजनकुशलानन्तरं वसुमित्रस्य
- वृत्तान्तम् । अधिकरे खलु मे पुत्रकः सेनापतिना नियुक्तः।
|
|
- मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य
- संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणरोधसि
- चरन्नश्वानीकेन यवनानां प्रार्थितः । तत उभयोः
- सेनयोर्महानासीत्संमर्दः।
- देवो । विषादं निरूपयति ।
- राजा । कथमीदृशं संवृत्तम् । शेषं पुनर्वाचयति ।
- ततः परान्पराजित्य वसुमित्रेण धन्विना ।
- प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १८ ॥
- देवी । १दाणिं अस्ससइ मे हिअअं ।
- राजा । लेखशेषं वाचयति । सोहमिदानीमंशुमतेव । सगरः पौत्रेण
- प्रत्याहृताश्वो यक्ष्ये । तदिदानीं कालहीनं
- विगतरोषचेतसा भवता वधूजनेन सह यज्ञसंदर्शनायागन्तव्यमिति ।
- राजा । अनुगृहीतोस्मि ।
- परिव्राजिका । दिष्ट्या पुत्रविजयेन दंपती वर्धेते । देवीं विलोक्य ।
- भर्त्रासि वीरपत्नीनां श्लाघ्यायां स्थापिता धुरि ।
- वीरसूरिति शब्दोयं तनयात्त्वामुपस्थितः ॥ १६ ॥
१. इदानीमाश्वसिति मे हृदयम् ।
|
|
- विदूषकः । १होदि परितुठ्ठोम्हि जं पिदरं अणुगदो वछ्छो ।
- राजा । मौट्गल्य कलभेन खलु यूथपतिरनुकृतः ।
- कञ्चुकी ।
- नैतावता वीरविजृम्भितेन
- चित्तस्य नो विस्मयमादधाति ।
- यस्याप्रधृष्यः प्रभवस्वमुच्चैर्
- वह्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥
- राजा । मौट्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे
- बन्धनस्थाः ।
- कञ्चुकी । तथा ।
[ इति निष्कान्तः ।
- देवः। २जअसेणे गछ्छ । इरावदीप्पमुहाणं अन्तेउराणं पुत्तस्स
- विअअवुत्तन्तं णिवेदेहि ।
- प्रतीहारी । ३तह । इति प्रस्थिता ।
- देवी । ४एहि दाव ।
- प्रतीहारी । प्रतिनिवृत्य । ५इआंम्हि ।
- १. भवति परितुष्टोस्मि यत्पितरमनुगतो वत्सः।
- २. जयसेने गच्छ । इरावतीप्रमुखाणामन्तःपुराणां पुत्रविजयवृत्तान्तं निवेदय ।
- ३. तथा ।
- ४. एहि तावत् ।
- ५. इयमस्मि ।
|
|
- देवी । जनान्तिकम् । १जं मए असोअदोहलणिओए पडिण्णादं
- मालविआए तं च से अभिअणं च णिवोदिअ मह
- वअणेण इरावदिं अणुणोहि । तुएहं सच्चादो ण
- परिभ्भंसइदव्वेत्ति ।
- प्रतीहारी । २तह । इति निष्क्रम्य पुनः प्रविश्य । भट्टिणी पुत्तविअएण
- दिण्णपारितोसिआणं अन्तेउराणं आभलणाणं
- रअणमञ्जूसिआ संवुत्तम्हि ।
- देवी । ३किं अथ्थ अच्चरिअं । णं साहारणो ताणं मम अ अअं
- अभ्भूदओ ।
- प्रतीहारी । जनान्तिकम् । ४इरावदी उण विण्णवेदि। सरिसं ख्खु
- देवी णिवेदेदि। पुढमं संकप्पिदं अण्णहा कादुं ण
- जुज्जइत्ति ।
- १. यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तच्चास्या अभिजनं च निवेद्य मम
- वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न परिभ्रंशयितव्येति ।
- २. तथा । भट्टिनि पुत्रविजयेन दत्तपारितोषिकाणामन्तःपुराणामाभरणानां
- रत्नमञ्जूषिका संवृत्तास्मि ।
- ३. किमत्राश्चर्यम् । ननु साधारणस्तासां मम चायमभ्युदयः ।
- ४. इरावती पुनर्विज्ञापयति । सदृशं खलु देवी निवेदयति । प्रथमं संकल्पितमन्यथा कर्तुं
- न युज्यत इति ।
|
|
- देवी । १भअवदि तुए अणुमदं इछ्छामि अज्जसुमदिणा
- पुढमदो संकप्पिदं अज्जउत्तस्स मालविअं पडिवादेदुं ।
- परिव्राजिका । इदानीमपि त्वमेवास्याः प्रभवसि ।
- देवी । मालविकां हस्ते गृहीत्वा । २अज्जउत्तो इमं {
- पिअणिवेदणाणुरुवं पारितोसिअं मालविअं पडिछ्छदु ।
- राजा। सव्रीडं जोषमास्ते ।
- देवी । सस्मितम् । ३तं किं अवधीरोदि मं अज्जउत्तो ।
- विदूषकः । ४होदि एवं लोअप्पवादो सव्वोवि णववरो
- लज्जालुओ होदि ।
- राजा । विदूषकमवेक्षते ।
- विदूषकः ।५अह वा इमं देवीए दिण्णदेवीसहृं मालविअं
- अत्तभवं पडिग्गहीदुं इछ्छदि ।
- १. भगवति । तवानुमतमिच्छाम्यार्यसुमतिना प्रथमतः संकत्न्पितामार्य पुत्रस्य मालविकं
- प्रतिपादयितुम् ।
- २. आर्यपुत्र इमां प्रियनिवेदनानुरूपं पारितोषिकं मालविकां प्रतीच्छतु ।
- ३. तत्किमवधीरयति मामार्य पुत्रः ।
- ४. भवति एवं लोकप्रवादः सर्वोपि नववरो लज्जालुर्भवति ।
- ५. अथ वेमां देव्या दत्तदेवीशब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ।
|
|
- देवी । १जदा राअदारिआ इअं अभिअणेण एव्व तदा दिण्णो
- एव्व से देवीसद्दो । ता किं पुणरुत्तेण ।
- परिव्राजिका । मा मैवम् ।
- अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता ।
- जातरूपेण कल्याणि न हि संयोगमर्हति ॥ १८॥ ३
- देवी । २मरिसेदु भअवदी अभ्भुदअकहाए मए लङ्घिदेत्ति । जअसेणे गछ्छ तुमं दाव कोसेअपत्तोण्णं से सिध्यं उवणे
- हि ।
- प्रतीहारी । ३तह । इति निष्क्रम्य पन्नोषं गृहीत्वा प्रविश्य । देवि इदं तं ।
- देवी । मालविकामवगुण्ठनवतीं कृत्वा । ४दाणिं अज्जउत्तो पाडिछ्छदु । 10
- राजा । देवि त्वच्छासनादप्रत्युत्तरा वयम् ।
- परिव्राजिका । हन्त प्रतिगृहीता ।
- १. यदा राजदारिकेयमभिजनेनैव तदा दत्त एवास्या देवीशब्दः । तारकं पुनरुक्तेन ।
- २. मर्षयतु भगवती अभ्युदयकथया मया लङ्गिनेति । जयसेने गच्छ तं तावत्कोपपन्त्रोर्णमस्याः शीघ्रमुपनय ।
- ३. तथा । इदं तत् ।
- ४. इदानमार्य पुत्रः प्रतीच्छतु ।
|
|
- विदूषकः । १अहो देवींए अनहोंदो अणुऊलदा ।
- देवी । परिजनमवलोकयति ।
- परिजनः । मालविकामुपेत्य । जेदु भट्टिणी ।
- देवी । परिव्राजिकामवेक्षते ।
- परिव्राजिका । नैतच्चित्रं त्वयि । तथा हि ।
- प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
- अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्।।१८॥
। प्रविश्य निपुणिका ।
- निपुणिका । ३जेदु भट्टा । इरावदी विण्णवेदि । उवआरादिक्कमेण तदा अहं अवरध्धा । संपदं पुण्णमणोरहो भट्टा ।
- अहंवि भट्टिणा पसादमेत्तेण संभावइदव्वेत्ति ।
- देवी । ४णिउणिए अवस्सं ताए संदेसं अणुजाणिस्सदि
- अज्जउत्तो ।
- निपुणिका । ५जं देवी आणवेदि ।
[ इति निष्कान्ता ।
- १. अहो देव्या अत्रभवतोनुकूलता ।
- २. जयतु भट्टिनी ।
- ३. जयतु भर्ता । इरावती विज्ञापयति । उपचारातिक्रमेण तदाहमपराद्धा । सांप्रतं पूर्णमनोरथो भर्ता । अहमपि भर्त्रा प्रसादमात्रेण संभावयितव्येति ।
- ४. निपुणिके अवश्यं तव ः संदेशमनुज्ञास्ययार्यपुत्रः ।
- ५. यहेव्याज्ञापयाति ।
|
|
- परिव्राजिका। देव अहममुना भवत्संबन्धेन चारितार्थं माध
- वसेनं सभाजयितुमिच्छामि यदि मयि तव प्रसादः ।
- देवी । १अवसिदकज्जाए भअवदीए अम्हे परिच्चइदुं ण जुत्तं ।
- राजा । भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि ।
- परिव्राजिका । युवयोः स्नेहेन परवानयं जनः ।
- देवो । आणवेदु अज्जउत्तो भूओवि किं पिअं अणुचिठ्ठामि ।
- राजा । किमतः परम् । तथापि भवत्वेवं तावत् ।
- त्वं मे प्रसादसुमुखी भव चण्डि नित्यम्
- एतावदेव मृगये प्रतिपक्षहेतोः ।
- आशास्यमीतिविगमप्रभृति प्रजानां
- संपत्स्यते न खलु गोप्तरि नाग्निमित्रे ॥ १० ॥
[ इति निष्कान्ताः सर्वे ।
॥ इति पञ्चमोङ्कः ।
॥ इति कालिदासविरचितं मालविकाग्निमित्रं
नाम नाटकं समाप्तम् ॥
- १. अवसितकार्यया भगवत्या वयं परित्यक्तुं न युक्तम् ।
- २. आज्ञापयत्वार्यपुत्रो भूयोपि किं प्रियमनुतिष्ठामि ।
|
|
- ↑ यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
- ↑ अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भकं विवाहनेपथ्यमिति । तत्सविशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
- ↑ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।