← नवमोऽङ्कः मृच्छकटिकम्
दशमोऽङ्कः
शूद्रकः

दशमोऽङ्क

( ततः प्रविशति चाण्डाल1द्वयेनानुगम्यमानश्चारुदत्तः )

 उभौ-

तक्किं ण कलअ कालण णववहबंधणअणे णिउणा ।
अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥ १॥

ओशलध अज्जा ! ओशलध । एशे अज्जचालूदते

दिण्णकलचीलदामे गहिवे अम्हेहिं वज्झपुलिसेहिं ।
दीवे व्व मंदणे हे थोअं थोअं खअँ जादि ॥ २ ॥

[तत्किं न कलय कारणं नववधबन्धनयने निपुणौ ।
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥

अपसरतार्याः अपसरत । एष आर्य चारुदत्तः।

दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् ।
दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥]

 चारूदत्तः--( सविषादम् )

नयन सलिलसिक्तं पांशुरुक्षीकृताङ्गं
पितृवनसुमनोभिर्चेष्टितं मे शरीरम् ।
विरसमिह रटन्तो रक्तगन्धानुलिप्तं
बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥


तक्किमिति ॥ १ ॥ दिएणकलवीलेत्यादि । गाथा । दत्तकरवीरमालो गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ २ ॥ नयनेति । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं टिप्प-~-1 'गोदा-आहीन्ता' नामानाविमौ वधक्षिानुष्ठातारौ राजनियुक्तौचाण्डालौ ।  चाण्डालौ--ओशलध अज्जा ! ओशलध ।

किं पेक्खध छिज्जंतं शप्पुलिशं कालपलशुधालाहिं १ ।
शुअणशणाधिवाशं शज्जणपुलिशमं पदं ॥ ४ ॥

आअच्छ ले चालुदत्ता ! आअच्छ । [ अपसरतार्याः ! अपसरत ।

किं पश्यत छिद्यमानं सत्पुरुषं कालपरशुधाराभिः ।
| सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥

आगच्छ रे चारुदत्त ! आगच्छ ।]

 चारुदत्तः--पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः, यदहमीदृशीं दशामनुप्राप्तः ।।

स1र्वगात्रेषु विन्यस्तै रक्तचन्दनहस्तकैः ।।
पिएचूर्णावकीर्णश्च पुरुषोऽहं पशुकृतः ॥ ५॥

( अग्रतो निरूप्य) अहो, तारतम्यं नराणाम् । ( सकरुणम् )

अमी हि दृष्ट्वा मदुपेतमेतन्मर्त्यं धिगस्त्वित्युपजातबाष्पाः ।
अशक्नुवन्तः परिरक्षितुं मां स्वर्गं लभस्वेति वदन्ति पौराः ॥ ६ ॥

 चाण्डालौ-ओशलध अज्जा ! ओशलध । किं पैक्खध ।।।

इंदे पवाहिअंते गोप्पेशवे शंकमं च तालाणं ।।
शुपुलिशपाणविपत्ती चत्तालि इमे ण दट्टव्वा ॥ ७ ॥


पेक्खधेति । गाथा । किं प्रेक्ष्यथ छेद्यमानं सत्पुरुषं कालपरशुधाराभिः । सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ ४ ॥ सर्वैति । पिष्टचूर्णं श्यामतण्डुलचूर्णम् । पशुर्देवतार्थ छागादिः ॥ ५ ।। अमी इति । मदुपेतं मदर्पितं यथा स्यादेवम् । उद्गतबाष्पाः । मदिति पञ्चम्येकवचनान्तम् । मदुपगतमीदृशमवस्थान्तरं दृष्ट्वेति वार्थः ॥ ६ ॥ इन्द्रेत्यादि । गाथा । इन्द्र प्रवास्यमानो यद्वा प्रवाह्यमानो टिप्प०---1 हस्ता इव हस्तका रक्तचन्दनलिप्तहस्तचिह्नानि, स्वार्थे कन् । पिष्टंतण्डुलपिष्टं, चूर्णं तिलचूर्णं, तैरवकीर्णो व्याप्तोऽहं, अपशुरपि पशुवत् देवीवलिदानाय छागादिर्यथोपाहियते तद्वत् संपद्यमानीकृतः पशूकृतोऽस्मि । •••••••••• [ अपसरतार्याः अपसरत । किं पश्यत १ ।

इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।
सुपुरुषप्राणविपत्तिश्वत्वार्येतानि न द्रष्टव्यानि ॥ ]

 एकः-हंडे आहींता ! पेक्ख पेक्ख

णअलींपधाणभूदे यजमीअंते कदंतअण्णाए।
किं लुअदि अंतलिक्खे आदु अणब्भे पडदि वज्जे ॥ ८ ॥

[अरे आहीन्त ! पश्य पश्य

नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया ।
किं रोदित्यन्तरिक्षमथवाऽनभ्रे पतति वज्रम् ।। ]

 द्वितीयः---अले गोहा !

ण अ लुअदि अंतर्लिक्खे णेअ अणब्मे पडदि वज्जे ।
महिलाशमूहमेहे निवडदि णअणंबु धाराहिं ॥ ९ ॥

अवि अ,---

वज्झम्मि णीअमाणे जणश्श शव्वश्श लोदमाणश्श ।
णमणशलिलेहिं शित्ते लच्छादो ण उण्णमइ लेणू ॥ १० ॥

[अरे गोह!

न च रोदित्यन्तरिक्षं नैवानभ्रे पतति वज्रम् ।
महिलासमूहमेघान्निपतति नयनाम्बु धाराभिः ॥


विवर्धमानः गोप्रसवो निपतनं च ताराणाम् । सत्पुरुषस्य प्राणविपत्तिर्नाशः । चत्वार इमे न द्रष्टव्याः ॥ ७ ॥ हण्डे इति नीचसंबोधने । णअलुअ इत्यादि । गाथा। नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमुतानभ्रे पतति वञ्जम् ॥ नगरीप्रधानवधो वज्र इवेत्युत्प्रेक्षा ॥ ८ ॥ ॥ण अ लुअदीत्यादि । गाथा । न च रोदित्यन्तरिक्षं नैवानभ्रे च पतति वज्रम् । स्त्रीसमूहमेवान्निपितति । नयनाम्बु कर्तृ । धाराभिः ॥ ९ ॥ वज्झम्मीत्यादि । आर्या । बध्ये वध्ये नीयमाने जनस्य सर्वस्य रूदतः । नयनसलिलैः सिक्तो रथ्यातो नोन्नमति रेणुः ॥]

 चारुदत्तः--{ निरूप्य, सकरुणम् )

एताः पुनर्हम्र्यगताः स्त्रियो मां वातायनार्धेन विनिःसृतास्याः ।
हा चारुदत्तेत्यभिभाषमाणा बाष्पं प्रणालीभिरिवोत्सृजन्ति ॥ ११ ॥

 चाण्डालौ---आअच्छ ले चालुदत्ता ! आअच्छ । इमं घोषणट्ठाणं । आहणेध डिंडिमं, घोशेध घोशणं । [आगच्छ रे चारुदत्त ! आगच्छ । इदं घोषणस्थानम् । आहत डिण्डिमम् , घोषयत घोषणाम् ।

 उभौ-शुणाध अज्जा ! शुणाध । एशे शत्थवाहविणअदत्तश्श णत्थिके शाअलदत्तश्श पुत्तके अज्जचालुदत्ते णाम । एदिणा किल अकज्जकालिणा गणिआ वशंतशेणा अत्थकल्लवत्तश्श कालणादो शुण्णं पुष्फकलंडअजिण्णुज्जाणं पवेशिअ बाहुपाशबलक्कालेण मालिदे ति, एशे शलोत्ते गहिदे, शअं अ पडिवण्णे । तदो लण्णा पालएण अम्हे आण्णता एदं मालेदुं । जदि अवले ईदिशं उभअलोअविलुद्धं अकज्जं कलेदि तं पि लाआ पालए एव्वं ज्जेव शाशदि । [ शृणुतार्याः शृणुत । एष सार्थवाहविनयवृत्तस्य नप्ता सागर- दत्तस्य पुत्रक आर्यचारुदत्तो नाम । एतेन किलाकार्यकारिणा गणिका वसन्तसेनार्थकल्यवर्तस्य कारणाच्छूव्यं पुष्पकरकजीर्णोद्यानं प्रवेश्य बाहुपाशवलात्कारेण मारितेति एष सलोप्त्रो गृहीतः, स्वयं च प्रतिपन्न- । ततो राज्ञा पालकेन वयमाज्ञप्तौ एतं मारयितुम् । यद्यपर ईद्दशमुभय- लोकविरूद्धमकार्यं करोति तमपि राजा पालक एवमेव शास्ति]


नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्ते सति रथ्यातो नोन्नमति रेणुः ॥ गोमिन् ग्राहे स्वामिनः (?) ॥ १० ॥ एता इति ॥ ११ ॥  चारुदत्तः---( सनिर्वेदं स्वगतम् )

मखशतपरिपूतं गोत्रमुद्भासितं मे
सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम मरणद1शायां वर्तमानस्य पापैः
स्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ॥ १२ ॥

(उद्वीक्ष्य, कर्णौ पिघाय) हा प्रिये वसन्तसेने!

शशिविमलमयूखशुभ्रदन्ति । सुरुचिरविद्रुमसन्निभाधरौष्टि ! ।।
तव वदनभवामृतं निपीय कथमवशो ह्यशोविषं पिबामि १॥१३॥

 उभौ---ओशलध अज्जा ! ओशलध ।

एशे गुणलअणणिही शज्जणदुक्खाण उत्तलणशेदू ।
अशुवण्णं मंडणअं अवणी अदि अञ्ज णअलीदो ॥ १४ ॥

अण्णं च,-.

शब्वे खु होइ लोए लोए शुहशठिदाण तत्तिल्लः ।।
विणिवडिदाणं णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥

[ अपसरतर्याः ! अपसरत ।

एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः ।
असुवर्ण मण्डनकमपनीयतेऽद्य नगरीतः ॥

अन्यञ्च,-

सर्वः खलु भवति लोके लोकः सुखसंस्थितानों चिन्तायुक्तः ।
विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥]


शलोत्ते सलोप्त्रः ॥ मखेति ॥ १२ ॥ उद्वीज्य उद्वेगं कृत्वा । शशीति ॥ १३ ॥ एश इत्यादि । गाथाद्वयम् । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्णं मण्डनमपनीयतेऽद्य नगरीतः ॥ १४ ॥ सर्वः खलु भवति टिप्पः--1 यज्ञस्य सदसि महति मण्डपे निविड़ानि धनानि चैत्यान्यायतनानि यत्र ब्रह्मणां वेदधोषघ्नैर्गोत्रं कुलमुद्भासितमासीदेव, कुलमद्य पापैरसद्दशैरननुगुणैरयोग्यैश्चाण्डलादिमनुष्यैरनुपदं राजमार्गे घुष्यत इत्ययं महाननर्थ इति भावः ।  चारुदत्तः– सर्वतोऽवलोक्य )

अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
परोऽपि बन्धुः सुखसंस्थितस्य मित्रं, न कश्चिद्विषमस्थितस्य ॥१६॥

 चाण्डालौ--ओशालणं किदं । विवित्तं लोअमग्गं । ता आणेध पदं दिण्णवज्झचिण्हं । [अपसारणं कृतम्, विविक्तो राजमार्गः। तदानयतैनं दत्तवध्यचिह्नम् ।। (चारुदत्तो निःश्वस्य, 'मैत्रेय ! भोः किमिदमद्य' [ ९।२९ ] इत्यादि पठति ।)

( नेपथ्ये )

ही ताद ! हा पिअवअस्स ! [ हा तात ! हा प्रियवयस्य !]

 चारुदत्तः–( आकर्ण्य, सकरुणम्) भोः स्वजातिमहत्तर ! इच्छा- म्यहं भवतः सकाशात्प्रतिग्रहं कर्तुम् ।।

 चाण्डालौ---किं अम्हाणं हत्थादो पडिग्गहं कलेशि ? । [किमस्माकं हस्तान्प्रतिग्रहं करोषि ? ।]

 चारुदत्तः-शान्तं पापम् ; नापरीक्ष्यकारी दुराचारः पालक इव

 चाण्डालः । तत्परलोकार्थं पुत्रमुखं द्रष्टुमभ्यर्थये ।।

 चाण्डालौ-एव्वं कलीअदु । [ एवं क्रियताम् ।]

(नेपथ्ये )

हा ताद ! ही आवुक [हा तात ! हा पितः ।। ( चारुदत्तः श्रुत्वा, सकरुणम्, 'भोः ! स्वजातिमहत्तर' [ पृष्ठे] इत्यादि पठति )

 चाण्डालौ---अले पउला ! खणं अंतलं देध । एशे अज्जचालुदत्ते पुत्तमुहं पेक्खदु । ( नेपथ्याभिमुखम् ) अज्ज ! इदो इदो । आअच्छ


लोकः लोकस्य सुखसंस्थितस्य कार्ये । तत्तिल्लः चिन्तापरः । उपयुक्त इत्यर्थः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ अमी इति ॥ १६ ॥ • टिप्प---1 अत्र करूणो रसः, सुखसंस्थितस्य परोऽपरिचितोऽपि बन्धुर्भवति, न पुनर्विपद्गस्तस्येति भावः ।


ले दालआ ! आअच्छ। [ हे पौराः ! क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं पश्यतु । आर्य ! इत इतः । आगच्छ रे दारक ! आगच्छ ।]

( ततः प्रविशति दारकमादाय विदूषकः )

 विदुषकः-–तुवरदु तुवरदु भद्दमुहो । पिदा दे मारिदुं णीअदि । [त्वरतां त्वरतां भद्रमुखः । पिता ते मारयितुं नीयते । ]

 दारकः---हा ताद ! हा आवुक ! । [हा तात ! हा पितः ।।]

 विदूषकः—हा पिअवअस्स ! कहिं मए तुमं पेक्खिदव्वो । हा प्रियवयस्य । कुत्र मया त्वं द्रष्टव्यः ? ।]

 चारुदत्तः--(पुत्रं मित्रं च वीक्ष्य ) हा पुत्र ! हा मैत्रेय । । (सकरुणम् ) भोः, कष्टम् ।।

चिरं खलु भविष्यामि परलोके पिपासितः ।।
अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७ ॥

किं पुत्राय प्रयच्छामि । (आत्मानमवलोक्य यज्ञोपवीतं दृष्ट्वा ) आं, इदं ताविदस्ति मम च।

अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।।
देवतानां पितॄणां च भागो येन प्रदीयते ॥ १८ ॥

( इति यज्ञोपवीतं ददाति )

 चाण्डालः -- आअच्छ ले चालुदत्ता ! आअच्छ । [ आगच्छ रे चारुदत्त ! आगच्छ ।]

 द्वितीयः-अले ! अज्जचालुदत्तं णिलुववदेण णामेण आलवेशि। अले । पेक्ख


हत्थादो हस्तात् ॥ आवुक पितः ॥चिरमिति ॥१७॥ अमौक्तिकमिति १८

अब्भुदए अवशाणे तहे अ लत्तिंदिवं अहदमग्गा ।
उद्दामे व्व किशोली णिअदी खु पडिच्छिदुं जादि ॥ १९ ॥

अण्णं च,----

शुक्खा वि वदेशा शे किं विणमिअमत्थएण काअव्वं ।
लाहुगहिदे वि चंदे ण वंदणीए जणपदश्श ॥ २० ॥

[ अरे, आर्यचारुदत्तं निरुपपदेन नाम्नालपसि ? । अरे, पश्य

अभ्युदयेऽवसाने तथैव रात्रिंंदिवमहत्तमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ।।

अन्यच्च,-- शुष्का अपि प्रदेशा अस्य किं विनमितमस्तकेन कर्तव्यम् । राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य ॥]</poem>}}}}

 दारकः–अरे रे चांडाला ! कहिं मे आवुकं णेध [अरे रे चाण्डालाः ! कुत्र मम पितरं नयत ? । ]

 चारुदत्तः---वत्स ! ।

अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् ।
आघातभद्यामनुप्रयामि शामित्रमालब्धुमिवाध्वरेडज़ः ॥ २१ ॥


निरूपपदेन आर्य इत्यादिविशेषणशून्येन । अब्भुदए इत्यादि । गाथा । अभ्युदये चावसाने च तथैव रात्रिंंदिवमहतमाग । अव्याहतप्रसिद्धा इत्यर्थः । उद्दामेव किशोरीनियतिर्दे (दै) वं खलु प्रत्येषितुं याति ॥ १९॥ शुष्केत्यादि । गाथा । अत्र द्वितीये खण्डचतुर्थपञ्चमभाग पञ्चममात्रो( ?) शुष्का अपि प्रदेशा अङ्गानि । शे अस्य । किं विनमतमस्तकेन अवनतशिरसा किं कर्तव्यम् । अस्य स्त्री [ ह ] णस्य लज्जया- नतशिरसोऽपि न कुत्सेत्यर्थः । कुत एवमित्यत आह–राहुगृहीत इव चन्द्रो वन्दनीयो जनपदस्य । *किं' शब्द आवजर्त्योभयोर्धयोर्योज्य इत्याहुः ॥२०॥ अंसेनेति । आघातं अधिकरणवधस्थानम् । वालकम् (१) 'स(श) मिता यज्ञे' इति पाणिनेः सूत्रम् । शमितरि भवं शामित्रं यज्ञे पशुघातस्थानम् । आलब्धोऽभि चाण्डालः–दालआ ।

ण हु अम्हे चांडाला चांडालकुलम्मि जादपुव्या वि।
जे अहिभवंति शाहूं ते पावा ते अ चांडाला ॥ २२ ॥

[दारक!

न खलु वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि ।
येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥]

 दारकः--ता कीस मारेध आवुकं ? । [तत्किमर्थं मारयत पितरम् ? ।]

 चाण्डालः–दीहाओ, अत्त लाअणिओओ खु अवलज्झदि, ण हुअम्हे । [ दीर्घायुः ! अत्र राजनियोगः खल्वपराध्यति, न खलु वयम् ।।

 दारकः–वावादेध मं, मुंचध आवुकं । [ व्यापादयत माम्, मुञ्चत पितरम् ।

 चाण्डालः–दीहाओ ! एवं भणंते चिलं मे जीव । [ दीर्घायुः ! एवं भणश्चिरं मे श्रीव १]

 चारुदत्तः–( सास्रं पुत्रं कण्ठे गृहीत्वा )

इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ २३ ॥

(अंसेन बिभ्रत्-'[१०-२१] इत्यादि पुनः पठति, अवलोक्य स्वगतम् , अमी हि वस्त्रान्तनिरुद्धवक्राः' [ १०।१६] इत्यादि पुनः पठति )

 विदूषकः--भो भद्दमुहा मुंचध पिअवअस्सं चालुदत्तं मं वावादेध । [भो भद्रमुखाः ! मुञ्चत प्रियवयस्यं चारुदत्तम् : मां व्यापादयत।]


मन्त्रितः । मारित इत्येके ।। २१ ॥ ण हु अम्हे इत्यादि । गाथा। ‘न [खलु] अयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥ २२ ॥ अमी हि त्वा देवा दावामर्धमद्यावगच्छामीत्यादि सर्वः स्वाधीन इत्यर्थः (१) । इदमिति ॥ २३ ॥ किं पेक्खधेति । गाथा । किं  चारुदत्तः---शान्तं पापम् ( दृष्ट्वा स्वगतम्) अद्यावगच्छामि । (‘समसंस्थित-' [ १०।१६ ] इत्यादि पठति, प्रकाशम् ‘एताः पुनर्हर्म्य-गताः स्त्रियो माम् [१०।११] इत्यादि पुनः पठति )

 चाण्डालः--ओशलध अज्जा ! ओशलध ।।

किं पेक्खध शप्पुलिशं अजशवशेण प्पणजीवाशं ।
कूवे खंडिदपाशं कंचणकलशं व्व डुब्बंतं ॥ २४ ॥

[ अपसरतार्याः ! अपसरत ।।

किं पश्यत सत्पुरुषमयशोवशेन प्रनष्टजीवाशम् ।।
कूपे खण्डितपाशं काञ्चनकलशमिव मज्जन्तम् ॥]

(चारुदत्तः सकरुणम् , 'शशिविमलमयूख-( १०-१३ ) इत्यादि पठति )

 अपरः–अले, पुणो वि घोशेहि । [ अरे, पुनरपि घोषय ।] ( चाण्डालस्तथा करोति )

 चारुदत्तः--

प्राप्तोऽहं व्यसनकृशां दशामनार्या
यत्रेद फलमपि जीवितवसानम् ।
एषा च व्यथयति घोषणा मनो मे
श्रोतव्यं यदिदमसौ मया हतेति ॥ २५ ॥

( ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः )

 स्था1वरकः--( घोषणामाकर्त्य, सवैक्लव्यम् ) कथं अपावे चालुदतेवावादीअदि १ । हग्गे णिअलेण शामिणा बंधिदे । भोदु आक्कंदामि । शृणाध अज्जा ! शुणाध । अत्थि दाणिं मए पावेण पाहणपडिवत्तेण पुप्फकलंडअजिण्णुज्जाणं वशंतशेणा णीदा । तदो मम शामिणा मं


प्रेक्षध्वे सत्पुरुषमयशोवशेन नष्टजीवनम् । कूपे खण्डितपाशं काश्चनकलशमिव मज्जन्तम् ॥२४॥ कुष्यन्तं क्षिप्यमान(ण)म् । 'जीवाशं’ ‘जीवप्रत्याशं' इत्यपि पाठा-

, टिप्प०—-1 चारुदत्तस्यायं प्रवहणवाहकः । ण कामेशित्ति कदुअ बाहुपाशबलक्कालेण मालिदा, ण उण एदिणा अज्जेण । कधं विदूलदाए ण को वि शुणादि । ता किं कलेमि । अत्ताणअं पाडेभि। ( विचिन्त्य ) जइ एव्वं कलेमि, तदा अजचारूदत्ते ण वावादीअदि । भोदु, इमादो पाशादबालग्गपदोलिकादो एदिया जिण्णगवक्त्रेण अत्ताणअं णिक्खिवामि । वलं हग्गे उवलदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालुदत्ते । एवं जह विवज्जामि लद्धे मए पललोए । ( इत्यात्मानं पातयित्वा) ही ही, ण उवलदम्हि । भग्गे मे दंडणिअले । ता चांडालघोशं शमण्णेशामि। ( दृष्ट्वोपसृत्य } हंहो चांडाला । अंतलं अंतलं । [कथमपापश्चारुदत्तो व्यापाद्यते ? । अहं निगडेन स्वामिना बद्धः । भवतु, आक्रन्दामि । शृणुतार्याः ! शृणुत । अस्तीदानीं मया पापेन प्रवहणपरिवर्तेन पुष्पकरण्कजीर्णोद्यान वसन्तसेना नीता । ततो मम स्वामिना मां न कामयस इति कृत्था बाहुपाशबलात्कारेण मारिता, न पुनरेतेनार्येण । कथं विदूरतया न कोऽपि शृणोति ? तकि करोमि ? । आरमाने पातयामि ? । यद्येवं करोमि, तदार्यचारुदतो न व्यापाद्यते । भवतु, अस्याः प्रासादबालाग्रप्रतोलिकात् एतेन जीर्णगवाक्षेणात्मानं निक्षिपामि । वरमहमुपरतः, न पुनरेष कुलपुत्रविहगानां वासपादप आर्यचारुदत्तः । एवं यदि विपद्ये लब्धो मया परलोकः । आश्चर्यम् , नोपरतोऽस्मि । भग्नो मे दण्डनिगडः । तच्चाण्डालघोषं समन्विष्यामि । हं हो चाण्डालाः ! अन्तरमन्तरम् ।]

 चाण्डालौ-अले ! के अंतलं मग्गेदि ? । [अरे ! कोऽन्तरं याचते १।।

( चेटः शुणाध' इति पूर्वोक्तं पठति )

 चारुदत्तः-अये !

कोऽयमेवंविधे काले कालपाशस्थिते मयि ।
अनावृष्टिहते सस्ये द्रोणमे1घ इवोदितः १ ॥ २६ ॥


न्तरे । इदमपि यत्र फलमयशः ।। प्राप्त इति ॥ २५ ।। आक्कंदामि विरौमि । बालग्गपदोलिआए बालग्रप्रतोलीतः । प्रासादभागादित्यर्थः ॥ कोऽयमिति टिप्प०---1 द्रोणमेघो नाम प्रचुरधारासंपातविशिष्टो मेधो योऽतिशयेन वर्षति । अनैन चारुदत्तस्यानन्दातिशयो द्योत्यते । .- -..-.५ ६

  • भोः ! श्रुतं भवद्भिः,

न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥ २७ ॥

अन्यच्च,-

तेनास्म्यकृतवैरेण क्षुद्रेणात्यल्पबुद्धिना ।
शरणेव विषाक्तेन दूषितेनापि दूषितः ॥ २८ ॥

 चाण्डालौ---थावलअ । अवि शच्चं भणाशि १ । [ स्थावरक ! अपि सत्यं भणसि ?।]

 चेटः----शचं; इग्गे वि मा कश वि कधइश्शशि त्ति पाशादबालगपदोलिकाए दंडणिअलेण बंधिअ णिक्खित्ते । [ सत्यम् ; अहमपि मा कस्यापि कथयिष्यसीति प्रासादवालाग्रप्रतोलिकायां दण्डनिगडेन बद्धानिक्षिप्तः ।]

(प्रविश्य )

 शकारः----( सहर्षम् )

मंशेण तिक्खामिलकेण भते शाकेन शुपेण शमच्छकेण ।।
भुत्तं मए अत्तणअश्श गेहे शालिश्श कूलेण गुलोदणेण ॥ २९ ॥

( कर्ण दत्त्वा ) भिण्णकंशखंखणाए चांडालवाआए शलशंजोए जधी अ एशे उक्खालिदे वझडिडिमशहे पडहाणं अ शुणीअदि, तथा तकेमि, दलिद्दचालुताके वज्झट्ठाणं णीआदि त्ति । ता पेखिशं । शत्तुवि- णाशे णाम मम महंते हलक्कश पलिदोशे होदि । शुदं अ मए, जे वि किल शत्तुं वावादअंतं पेक्खदि, तश्श अण्णरिंश जग्मंतले अक्खि-


॥२६॥ नभीत इति ॥२७॥ तेनेति ॥ २८ ॥ मंशेणेत्यादि । उपजातिच्छन्दः मांसेन तिक्खामिलकेण तिक्ताम्लेन तप्तशाकेन सूपेन समरत्स्यकेन । भुक्तं मयात्मनो गृहे शालार्भक्तेन गुडौदनेन ॥ २१ ॥ भिन्नाकांस्यवत्खंखणाए कटुस्वरायाविकृतवन्याचाण्डालवाचः । स्वरसंयोगः । यथा चैव उत्खालित उद्रतो वच्यडि -लोगे ण होदि । मए खु विशगंठिगब्भपविट्ठेण विअ कीडएण किं पि अंतलं मग्गमाणेण उप्पाडिदे तोह दलिद्दचारुदत्ताह विणाशे । शंपदं अत्तण केलिकाए पाशादबालग्गपदोलिकाए अहिलुहिअ अत्तणो पल- क्कमं पेक्खामि । ( तथा कृत्वा, दृष्ट्वा च ) ही ही, एदाह दलिद्दचालूदत्ताह वज्झं णीअमाणाह एवट्ठे जणशंमद्दे, जं वेलं अम्हालिशे पबले वलमणुश्शे वज्झं णीअदि तं वेलं केदिशं भवे । (निरीक्ष्य ) कधं ? एशे शे णवबलद्दके विअ मंडिदे दक्खिणं दिशं णीअदि १ । अध किंणिमित्तं मम केलिकाए पाशादबलग्गपदोलिकाए शमीवे घोशणा णिवडिदा, णिवालिदा अ ? । ( विलोक्य ) कधं थावलके चेडे वि णत्थि इध । मा णाम तेण इदो गदुअ मंतमेदे कड़े भविश्शदि । ता जाव णं अण्णेशामि।

[मांसेन तिक्ताम्लेन भक्तं शाकेन सूपेन समत्स्यकेन ।
| भुक्तं मयात्मनो गेहे शालीयकूरेण गुडौदनेन ।।।

भिक्षकांस्यवत्खणायाश्चाण्डालवाचायाः स्वरसंयोगः । यथो चैष उद्गीतो वध्यडिण्डिमशब्दः पटहानां च श्रूयते, तथा तर्कयामि, दरिद्वचारुदत्तको वध्यस्थानं नीयत इति । तत्प्रेक्षिष्ये । शत्रुविनाशो नाम मम महान्हृदयस्य परिशोधो भवति । श्रुतं च मया, योऽपि किल शत्रुं व्यापाद्यमानं पश्यति, तस्यान्यस्मिञ्जन्मान्तरेऽक्षिरोगो न भवति । मया खलु विषग्रन्थिगर्भप्रविष्टेनेव कीटकेन किमप्यन्तरं मृगयमाणेनोत्पादिततस्य दरिद्रचारुदत्तस्य विनाशः । सांप्रतमात्मीयायां प्रसादबालाग्रप्रतोलिकायामधिरीह्यात्मनः पराक्रमं पश्यामि । ही ही, एतस्य दरिद्वचारुदत्तस्य वध्यं नीयमानयैतावाञ्जनसंमर्दः, यथा वेलायामस्मादृशः प्रवरो वरमानुषो वध्यं नीयते तस्यां


ण्डिशब्दः श्रूयते पटहानां च शब्दस्तथा तर्कये । यः शत्रुं व्यापाद्यमानं प्रेक्षते तस्याक्षिणी शीतलायेते । विषण्डिकामध्यप्रविष्टेन च कीटकेन । ही विस्मये । कथमित्यर्थः । एव एतावान् महान् । यस्यो वेलायां अस्मादृशो महान्वरमनुष्यो वध्यं वधस्थानं नीयते तस्य वेलायां कीदृग्भवेत् ।। णवबलद्दके विअ नववेलायां कीदृशो भवेत् । कथं एष स नवबलीवर्द इव मण्डितो दक्षिणां दिशं नीयते ।। अथ किंनिमित्तं मदीयायाः प्रासादबालाग्रप्रतालिकायाः समीपे घोषणा निपतिता, निवारिता च ।। कथं स्थावरकश्चेटोऽपि नास्तीह ? । मा नाम तेनेतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद्यावदेनमन्विष्यामि ।

( इत्यवतीर्योपसर्पति )

 चेटः-( दृष्ट्वा ) भश्टालका ! एशे शे आगदे । [भट्टारकाः ! एष स आगतः ।]

 चाण्डालौ----

ओशलध देध मग्गं दालं ढक्केध होध तुण्हीआ ।
अविणअतिक्ख विशाणे दुट्ठबइल्ले इदो एदि ॥ ३० ॥

[ अपसरत दत्त मार्ग द्वारे पिधत्त भवत तूष्णीकाः ।।
अविनयतीक्ष्णविषाणो दुष्टबलीवर्द इत एति ॥]

 शकारः-अले अले । अंतलं अंतलं देध । (उपसृत्य ) पुश्तका थावलका चेडा ! एहि गच्छम्ह । [ अरे अरे, अन्तरमन्तरं दत्त । पुत्रक स्थावरक चेटक ! एहि गच्छावः ।]

 चेटः–ही ही, अणज्ज ! वशंतशेणियं मालिअ ण पलितुश्टेशि । शंपदं पणइजणकम्पपादवं अज्जचालुदत्तं मालइदुं ववशिदेशि ? । [ ही ही, अनार्य ! वसन्तसेनां मारयित्वा न परितुष्टोऽसि ? सांप्रत प्रणयिजन- कल्पपादपमार्यचारुदत्तं मारयितुं व्यवसितोऽसि ।।]

 शकारः---ण हि लअणकुंभशलिशे हग्गे इश्थिअं वावादेमि । [न हि रत्नकुम्भसदृशोऽहं स्त्रियं व्यापादयामि ।।  सर्वे---अहो, तुए मारिदा। ण अज्जचारुदत्तेण । [ अहो, त्वया भारता, न आर्यचारुदत्तेन ।]


वृषभ इव मण्डितः । वृषभशब्दः संभवन्नपि शकारभाषात्वात्त्यक्तः । कडे भवी- अदि कुतो भविष्यति । भोशलधेति । गाथा । उत्सर्पत ददत मार्गं द्वारं 4  शकारः--के एव्वं भणादि ? । [क एवं भणति ? 1]

 सर्वे--( चेटमुद्दिश्य ) णं एसो साहू । । नन्वेष साधुः ।]

 शकारः-( अपवार्य, सभयम् ) अविद मादिके, अविद , मादिके, कधं थावलके चेडे शुट्ठु ण मए शंजदे ? । एशे खु मम अकजज्जश्श शक्खी । ( विचिन्त्य ) एव्वं दाव कलइश्शं । (प्रकाशम् ) अलीअं भश्टालका ! हंहो, एशे चेडे शुवण्णचोलिआए मए गहिदे पिश्टिदे मालिदे बद्धे अ । ता किदवेले एशे जं भणादि किं शच्चं ।। ( अपवा- रितकेन चेटस्य कटकं प्रयच्छति, खैरकम् ) पुश्तका थावलका चेडा ! एदं गैण्हिअं अण्णधा भणीहि । [हन्त, कथं स्थावरकश्चेटः सुष्ठु न मया संयतः ? । एष खलु ममाकार्यस्य साक्षी । एवं तविरकरिष्यामि । अलीकं भट्टारकाः ! अहो, एष चेटः सुवर्णचोरिकया मया गृहीतस्ताडितो मारितो बद्धश्च । तस्कृतवैर एव यद्भणति किं सत्यम् ? । पुत्रक स्थावरक चेट ! एतद्गृहीत्वाऽन्यथा भण।]

 चेटः----( गृहीत्वा ) पेक्खध पेक्खध भट्टालका ! हंहो, शुवण्णेण मं पलोभेदि । [पश्यत पश्यत भट्टारकाः ! अहो, सुवर्णेन मां प्रलो भयति ।

 शकारः---( कटकमाच्छिद्य ) एशे शे शुवण्णके, जश्श कालणादो मए बद्धे । ( सक्रोधम् ) हंहो चांडाला ! मए खु एशे शुवण्णभंडाले णिउत्ते शुवण्णं चोलअंते मालिदे पिश्टिदे; ता जदि ण पत्तिआअधता पिश्टिं दाव पेक्खध । [ एतत्तस्सुवर्णकम् , यस्य कारणान्मया बद्धः । हंहो चाण्डालाः ! मया खल्वेष सुवर्णभण्डारे नियुक्तः सुवर्ण चोरयन्मारित- स्ताडितः। तद्यदि न प्रत्ययध्वं सदा पृष्ठं तावत्पश्यत ।]


पिदधत भवत । तूष्णीकाः मौनिनः । अबिनयतीक्ष्णविषाणो दुष्टधृषभ इत एति ६) ३० ॥ पुश्तका पुत्रक ॥ न हि रत्नकुम्भसदृशोऽहं स्त्रियं मारयामि ॥ एष खलु •••••• - -. ... . .१० .-.-.. --..


मृ० १8  चाण्डालौ---( दृष्ट्वा ) शोहणं भणादि । वितत्ते चेडे किं ण प्पडवदि ? । [शोभनं भणति । वितप्तश्वेटः किं न प्रलपति ?।]

 चेटः--हीमादिके, ईदिशे दाशभावे, जं शच्चं कंपि ण पत्तिाआअदि । ( सकरुणम्) अज्जचालुदत्त ! एतिके मे विहवे । [ हन्त, ईदृशो दासभावः, यत्सत्यं कमपि न प्रत्यापयति । आर्य चारुदत्त ! एतावान्मे विभवः ।] ( इति पादयोः पतति)

 चारुदत्तः–(सकरुणम् )

{{block center|{{bold|<poem>उत्तिष्ठ भोः ! पतितसाधुजनानुकम्पि-

न्निष्कारणोपगतबान्धव धर्मशील ! ।

यत्नः कृतोऽपि सुमहान्मम मोक्षणाय

दैवं न संवदति, किं न कृतं त्वयाद्य ॥ ३१ ॥

 चाण्डालौ--भट्टके ! पिट्ठिअ एदं चेडे णिक्खालेहि । [ भट्टक ! ताडयित्वैतं चेट निष्कासय ।

 शकारः–णिक्कम ले । ( इति निष्क्रामयति ) अले चांडाला ! किं विलंबेध ? मालेध एदं । [ निष्काम रे । अरे अरे चाण्डालाः ! किं विल. म्बध्वम् ? मारयतैनम् ।

 चाण्डालौ---जदि तुवलशि ता शअं ज्जेव मालेहि । [यदि त्वरयसे तदा स्वयमेव मारय ।

 रोहसेनः--अले चांडाला ! मे मारेध; मुंचध आवुकं । [अरे चाण्डालाः ! मां मारयत; मुञ्चत पितरम् ।]

 शकारः-शपुत्त ज्जेव एवं मालेध । [ सपुत्रमेवैतं मारयत ।]

 चारुदत्तः---सर्वमस्य मूर्खस्य संभाव्यते । तद्गच्छ पुत्र ! मातुः समीपम् ।


ममाकार्यसाक्षी । किदवेले कृतवैरः । विहवे सामर्थ्यम् ॥ उत्तिष्ठेति ॥ ३१॥  रोहसेनः--किं मर गदेण कादव्वं ।। { किं मया गतेन कर्त- व्यम् ? ।]

 चारुदत्तः--

आश्रमं वत्स ! गन्तव्यं गृहीत्वाद्यैव मातरम् ।
मा पुत्र ! पितृ1दोषेण त्वमप्येवं गमिष्यसि ॥ ३२ ॥

तद्वयस्य ! गृहीत्वैनं व्रज ।

 विदूषकः---भो वअस्स ! एवं तुए जाणिदं, तुए विणा अहं पाणाइं धारेमि त्ति ? । [ भो वयस्य ! एवं त्वया ज्ञातम् , त्वया विनाह प्राणान्धारयामीति ? ।]

 चारुदत्तः–वयस्य ! स्वाधीनजीवितस्य न युज्यते तव प्राणपरि- त्यागः ।।

 विदूषकः—( स्वगतम्) जुत्तं ण्णेदं, तधा वि ण सक्कुणोमि पिअवअस्सविरहिदो पाणाइं धारेदुं त्ति । ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सं । ( प्रकाशम् ) भो वअस्स ! पराणेमि एदं लहुं। [युक्तं न्विदम् । तथापि न शक्नोमि प्रियवयस्यविरहितः प्राणान्धर्तुमिति । तद्ब्राह्मण्यै दारकं समर्प्य प्राणपरित्यागेनात्मनः प्रियवयस्यमनुगमिष्यामि । भो वयस्य ! परानयाम्येतं लधु । ] ( इति सकण्ठग्रहं पादयोः पतति )

( दारकोऽपि रुदन्पतति )

 शकारः-अले! णं भणामि शपुत्ताकं चालदत्ताकं वावादेध त्ति । [ अरे ! ननु भणामि सपुत्रकं चारुदत्तं व्यापादयतेति ।]

( चारुदत्तो भयं नाटयति )


तुयलशि त्वरसे ॥ आश्रममिति ॥ ३२ ॥ किं ओहशशीत्यादि । गाथा । टिप्प..1 तव पित्रा वसन्तसेना मारितेत्यपवादरूपपित्रपराधेन त्वमपि मैवंविधां दशां गमिष्यसीति भावः ।  चाण्डालौ---णहि अम्हाणं ईदिशी लाआण्णत्ती, जधी शपुतं चालुदत्तं वावादेध त्ति । ता णिक्कम ले दालआ ! णिक्कम । ( इति निष्कामयतः ) इमं तइअं घोशणट्ठाणं । ताडेध डिंडिमं । [न ह्यस्माकमीद्दशी राजाज्ञप्तिः, यथा सपुत्रं चारुदत्तं व्यापादयतेति । तन्निष्क्राम रे दारक! निष्क्राम । इदं तृतीयं घोषणास्थानम्। ताडयत डिण्डिमम् । ] ( पुनर्घोषअतः )

 शकारः----{ स्वगतम् ) कधं एशे ण पत्तिआअंति पौला । (प्रकाशम् ) हंहो चालुदत्ता बडुका ! ण पत्तिआअदि एशे पौलजणे । ता अत्तणकेलिकाए जीहाए भणाहि मए वशंतशेणा मालिदेति । [कथमेते न प्रत्ययन्ते पौराः ? । अरे चारुदत्त बटुक ! न प्रत्ययत एष पौरजनः । तदात्मीयया जिह्वया भण---‘मया वसन्तसेना मारिता' इति ।]

( चारुदत्तस्तूष्णीमास्ते )

 शकारः-अले चंडालगोहे ! ण भणादि चालुदत्तबडुके । ता भणावेध इमिणा ज्जजलवंशखंडेण शंखलेण तालिअ तालिअ । [ अरे चाण्डालमनुष्य ! न भणति चारुदत्तबटुकः । तद्भणयतानेन जर्जरवंशखण्डेन शङ्खलेन ताडयित्वा ताडयित्वा ।]

 चाण्डालः–(प्रहारमुद्यम्य ) भो चालुदत्त ! भणाहि । [ भोश्चारु- दस्त ! भण।]

 चारुदत्तः-( सकरुणम् )

प्राप्यैतद्व्सनमहार्णवप्रपातं
न त्रासो न च मनसोऽस्ति मे विषादः ।
एको मां दहति जनापवादवह्निः ।
र्वक्तव्यं यदि मया हता प्रियेति ॥ ३३ ॥

( शकारः पुनस्तथैव )


किमवहससि हे ज्ञक (?) पुरुषं दृष्ट्वा दैवपर्यस्तम् । विदितं न त्वमपी (त्यी?) वत हे दुर्जन कृतान्तदंष्ट्रापुमारोहपि ॥ (१) पराणेमि परानयामि व्यावर्तयामि ।। एत्ताए टिप्प-1 शङ्खलो नाम वध्यपटहडिण्डिमवादनदण्ङ: ।  चारुदत्तः---भो भोः पौराः । ('मया खलु नृशंसेन- [९।३०, ३८ ] इत्यादि पुनः पठति )

 शकारः-वावादिदा । [ व्यापादिता ।

 चारुदत्तः-एवमस्तु ।

 प्रथमचाण्डालः–अले, तव अत्त वज्झपालिआ । [ अरे, तवात्र वध्यपालिका ।]

 द्वितीयचाण्डालः–अले, तव । [ अरे, तव ।।

 प्रथमः---अले, वझपालिआए लेक्खों कलेम्ह । ( इति बहुविध लेखकं कृत्वा )। अले, जदि मम केलिका वज्झपालिआ, तो चिट्ठदु दाव मुहुतअं । [ अरे, वध्यपालिकाया लेखं कुर्मः । अरे, यदि मदीया वध्यपालिका, तदा तिष्ठतु तावन्मुहूर्तकम् ]

 द्वितीयः—किंणिमित्तं ?। [किंनिमित्तम् ? ।}

 प्रथमः---अले, भणिदो म्हि पिदुणा शग्गं गच्छंतेण, जधा-- पुत्त वीरअ । जइ तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झं । [ अरे, भणितोऽस्मि पित्रा स्वगं गच्छता, यथा-पुत्र वीरक ! यदि तव वध्यपालिका भवति, मा सहसा व्यापादयसि वध्यम् ।

 द्वितीयः-अले, किंणिमित्तं ? । [ अरे, किंनिमित्तम् ? ।]

 प्रथमः----कदा वि कोवि शाहू अत्थं दइअ वज्झं मोआवेदि । कदावि लण्णो पुत्ते भोदि, तेण बद्धावेण शव्ववज्झाणं मोक्खे होदि ।


एतावता । एवमेवेत्यर्थः । इदानीमित्येके ॥ शङ्खलेन वध्यपटहवादनदण्डेन । तालिअ ताडयित्वा ॥ प्रापेति ॥ ३३ ॥ वज्झपालिआ वधपर्यायः ॥ अरे, तव ॥ वीरक इति चाण्डालनाम ।। बंधं खंडेदि बन्धमाच्छिद्य प्रसरति ॥ चालुदत्ताकं कदाधि हत्थी बंधं खंडेदि, तेण शंभमेण वज्झे मुक्के होदि । कदावि लोअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि । | कदापि कोऽपि साधुरर्थ दत्त्वा वध्यं मोचयति । कदापि राज्ञः पुत्रो भवति, तेन वृद्धिमहोत्सवेन सर्ववध्यानां मोक्षो भवति । कदापि इस्ती बन्धं खण्ड- यति, तेन संभ्रमेण वध्यो मुक्तो भवति । कदापि राजपरिवर्तो भवति, तेन सर्ववध्यानां मोक्षो भवति ।।

 शकारः–किं किं लोअपलिवत्ते होदि है। [किं किं राजपरिवर्तो भवति १।]

 चाण्डालः–अले, वज्झपालिआए लेक्खों कलेम्ह । [अरे, वध्य- पालिकाया लेखं कुर्मः ।।

 शकारः-अले, शिग्धं मालेध चालुदत्तकं । [ अरे, शीघ्रं मार- यत चारुदत्तम् ।]( इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः )

 चाण्डालः---अज्जचालुदत्त ! लाअणिओओ खु अवलज्झदि, ण खु अम्हे चाण्डाला; ता शुमलेहि जं शुमलिव्वं । [ आर्यचारुदत्त ! राजनियोगः खल्वपराध्यति, न खलु वयं चाण्डालाः; तत्स्मर्तव्यम् ।]

 चारुदत्तः---

प्रभवति यदि धर्मो दूषितस्यापि मेऽद्य ।
प्रबलपुरुषवाक्यैर्भाग्यदोषात्कथंचित् ।
सुरपतिभवनस्था यत्र यत्र स्थिता वा ।
व्यपनयतु कलङ्कं स्वभावेन सैव ॥ ३४ ॥

भोः ! के तावन्मयो गन्तव्यम् ।।


अरे मारयितुं तव मया समर्पितः । त्वं मम कर्तव्यमित्यर्थः (१) ॥ वय चण्डालाः। नैवं कृतेऽस्माकं दोष इति भावः । विज्ञप्ये विज्ञापयामि । (४) शुमलिदव्वं स्मर्तव्यम् । प्रभवतीति । प्रबलपुरुषा नयनिर्णेतारः । तेषां वाक्यैर्भाग्यदोषादूषितस्य यदि मे धर्मः प्रभवति तदा सैव वसन्तसेनैव स्वस्वभावेनात्मरूपतया व्य चाण्डालः---( अप्रतो दर्शयित्वा ) अले, एद दीशदि दक्खिणमशाणं, जे पेक्खिअ वज्झा झत्ति पाणाइं मुंचंति । पेक्ख पेक्ख ।

अद्धं कलेवलं पडिवुत्तं कति दीहगोमाआ ।।
अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श ॥ ३५ ॥

[अरे एतदृश्यते दक्षिणश्मशानम्, यत्प्रेक्ष्य वध्या झटिति प्राणान्मुञ्चन्ति । पश्य पश्य

अर्ध कलेवरं प्रतिवृत्तं कर्षन्ति दीर्धगोमायवः ।
अर्धमपि शूललग्नं वेश इवाट्टहासस्य ॥]

 चारुदत्तः--हा, हतोऽस्मि मन्दभाग्यः । ( इति सावेगमुपविशति ) शकारः-—ण दाव गमिश्शं । चालुदत्तकं वावादअंतं दाव पेक्खामि । ( परिक्रम्य, दृष्ट्वा ) कधं उवविश्टे ? । [न तविद्गमिष्यामि। चारुदत्तकं व्यापाद्यमानं तावत्पश्यामि । कथमुपविष्टः ? 1]

 चाण्डालः–चारुदत्ता ! किं भी देशि ? । [ चारुदत्त ! किं भीतोऽ- सि ?।]

 चारुदत्तः--( सहसोत्थाय) (‘मूर्ख ! न भीतो मरणादस्मि केवलं दूषितं यशः' [१०।२७] इत्यादि पुनः पठति )

 चाण्डालः–अज्जचालुदत्त ! गअणदले पडिवशंता चंदशुज्जा वि विपतिं लहंति, किं उण जणी मलणभीलुआ माणवा वा ? । लोए कोवि उट्ठिदो पडदि, कोवि पडिदोवि उट्ठेदि। उट्ठंतपडंताह वशणपाडिया शश्श उण अत्थि । एदाइं हिअए कदुअ संधालेहि अत्ताणअं । ( द्वितीयचाण्डालं प्रति ) एदं चउट्ठं घोशणट्ठाणं; ता उग्धोशम्ह । [आर्यचारुदत्त ! गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं लभैते, किं


पनयतु ॥ ३४॥ गन्तव्यम् । तत्रैव मया मर्तव्यमित्यर्थः ॥ अर्धमितिपुनर्जना मरणभीरुका मानवा वा ? । श्लोके कोऽप्युत्थितः पतति, कोऽपि पतितोऽप्युत्तिष्ठते । उत्तिष्ठस्पततो वसनपातिका शवस्य पुनरस्ति । एतानि हृदये कृत्वा संधारयात्मानम् । एतच्चतुर्थ घोषणास्थानम् , तदुद्धोषयावः ।।

( पुनस्तथैवोद्घोषयतः )

 चारुदत्तः--हा प्रिये वसन्तसेने ! (‘शशिविमलमयूख--- [१०११३ ] इत्यादि पुनः पठति )

( ततः प्रविशति ससंभ्रमा वसन्तसेना भिक्षुश्च )

 भिक्षुः--हीमाणहे, अट्ठाणपलिश्शंतं शमश्शाशिअ वशंतशेणिअंणअंते अणुग्गहिदम्हि पव्वज्जाए । उवाशिके ! कहिं तुम णइश्शं । [ आश्चर्यम्, अस्थानपरिश्रान्तां समाश्वास्य वसन्तसेनिकां नयन्ननुगृहीतोऽस्मि प्रव्रज्यया । उपासिके ! कुत्र त्वां नेष्यामि ? ।]

 वसन्तसेना--अज्जचारुदत्तस्स ज्जेव गेहं । तस्स दंसणेण मिअलांछणस्स विअ कुमुदिणिं आणंदेहि मं । [ आर्यचारुदत्तस्यैव गेहम् । सस्य दर्शनेन मृगलान्छनस्येव कुमुदिनीमानन्दय माम् ]

 भिक्षुः—(स्वगतम् ) कदलेण मग्गेण पविशामि ? । ( विचिन्य } लाअमग्गेण ज्जेव पविशामि । उवाशिके ! एहि, इमं लाअमग्गं; ( आकर्ण्य) किं णु हु एशे लाअमग्गे महंते कलअले शुणीअदि ? । [ कतरेण मार्गेण प्रविशामि ? । राजमार्गेणैव प्रविशामि । उपासिके । एहि, अयं राजमार्गः; किं नु खल्वेष राजमार्गे महान्कलकलः श्रूयते ।।]

 वसन्तसेना--( अग्रतो निरूप्य) कधं पुरदो महाजणसमूहो ? । अज्ज ! जाणाहि दाब किं णेदं त्ति । विसमभरक्कंता विअ वसुंधरा एअवासोण्णदा उज्जइणी वट्टदि । [कथं पुरतो महाअनसमूहः ? । आर्य !


॥ ३५ ॥ अठ्ठाणं बुद्धस्थानम् । जीर्णस्थानरूपमेव (१) । उपासिके । पडिवालेहि प्रतिपालय । क्षणं तिष्ठतीति ( तिष्ठेति ) मारणव्यापारपरोक्तिरियम् । जानीहि वावकिन्विदमिति । विषमभरक्रान्तेद वसुंधरा एकवासोन्नतोञ्जयिनी वर्तते ।]

 चाण्डालः---इमं अ पच्छिम घोशणट्ठाणं, ता तालेध डिंडिमं । उग्धोशेध घोशणं । ( तथा कृत्वा ) भो चालुदत्त ! पडिवालेहि । मा भाआहि, लहुं ज्जेव मालीअशि ! [ इदं च पश्चिमं घोषणास्थानम् , तत्ताडयत डिण्डिमम् । उद्घोषयत घोषणाम् । भोश्वारुदत ! प्रतिपालय । मा भैः, शीघ्रमेव मार्यसे ।।

 चारुदत्तः–भगवत्यो देवताः ।।

 भिक्षुः---( श्रुत्वा, ससंश्रमम् ) उवाशिके ! तुम किल चारुदत्तेण मालिदाशि चि चालुदत्तो मालिदुं णीअदि । [उपासिके ! त्वं किल चारु- दत्तेन मारितासीति चारुदत्तो मारयितुं नीयते ।]

 वसन्तसेना-( ससंभ्रमम् ) हद्धी हद्धी, कधं मम मंदभाइणीए. किदे अज्जचारूदत्तो वावादीअदि ।। भो ! तुरिदं तुरिदं आदेसेहि मग्गं । [ हा धिक् हो धिक्, कथं मम मन्दभागिन्याः कृत आर्यचारुदत्तो व्यापाद्यते ? । भोः ! त्वरितं त्वरितमादिश मार्गम् ।

 भिक्षुः--तुवलदु तुवलदु बुद्धोवाशिआ अज्जचालुदत्तं जीअंतं शमश्शाशिदुं । अज्जा 1 अंतलं अंतलं देध । [त्वरतां त्वरतां बुद्धोपासिकार्यचारुदत्तं जीवन्तं समाश्वासयितुम् । आर्याः ! अन्तरमन्तरं दत्त । ]

 वसन्तसेना---अंतरं अंतरं । [ अन्तरमन्तरम् ।]

 चाण्डालः-अज्जचालुदत्त ! शमिणिओओ अवलज्झदि । ता शुमलेहि जं शुमलिदव्वं । [ आर्यचारुदत्त ! स्वामिनियोगोऽपराध्यति । तस्मर यत्स्मर्तव्यम् ।]


आअट्टिए इति । उद्गीतिः । आकर्षितः सरोषम् । मुष्टौ त्सरौ । मुष्टिना गृही चारुदत्तः-किं बहुना । (“प्रभवति--' [१०॥३४] इत्यादि श्लोकं पठति )

 चाण्डाल-( खङ्गमाकृष्य ) अज्जचारूदत्त ! उत्ताणे भविअ समं चिट्ठ । एक्कप्पहालेण मालिअ तुमं शग्गं णेम्ह । [ आर्यचारुदत्त ! उत्तानो भूत्वा समं तिष्ठ । एकप्रहारेण मारयित्वा त्वां स्वर्गं नयामः ।]

( चारुदत्तस्तथा तिष्ठति )

 चाण्डाल---( प्रहर्तुमीहते, खङ्गपतनं हस्तादभिनयन् ) ही, कधं

आअट्ठिदे शलोशं मुट्ठीए मुट्टिणा गहीदे वि ।।
धलणीऐ कीश पडिदे दालुणके अशणिशण्णिहे खग्गे ॥ ३६ ॥

जधा एदं शवुतं, तधा तक्केमि ण विवज्जदि अज्जचालुदते त्ति । भअ- वदि शझवाणि ! पशीद पशीद । अवि णाम चालुदत्तश्श मोक्खे भये, तो अणुगहीदं तु चांडालउलं भवे । [ ही, कथम्

आकृष्टः सरोषं मुष्टौ मुष्टिना गृहीतोऽपि ।।
धरण्यां किमर्थं पतितो दारुणकोऽशनिसंनिभः खङ्गः ॥

यथैतत्संवृत्तम्, तथा तर्कयामि न विपद्यत आर्य चारुदत्त इति । भगवति सह्यवासिनि प्रसीद प्रसीद । अपि नाम चारुदत्तस्य मोक्षो भवेत् , तदानुगृहीतं त्वया चाण्डालकुलं भवेत् ।]

 अपरः--जधाण्णत्तं अणुचिट्ठम्ह । [ यथाज्ञप्तमनुतिष्ठायः ।]

 प्रथमः–भोदु, एवं कलेम्ह । [ भवतु, एवं कुर्वः ।]

( इत्युभौ चारुदत्तं शूले समारोपयितुमिच्छतः )


तोऽपि । धरण्यां किमिति निपतितो दारुणकोऽशनिसंनिभः खङ्गः १ ॥ ३६ ॥ सह्यवासिनि । सह्यः पर्वतविशेषः । तत्रस्थां दुर्गां स्वकुलदेवतां संबोधयति ।।   ( चारुदतः 'प्रभवति-' [१०॥३४] इत्यादि पुनः पठति )

 भिक्षुर्वसन्तसेना च–{ दृष्ट्वा ) अज्जा ! मा दाव मा दाव । अज्जा ! एसा अहं मंदभाइणी, जाए कारणादो एसो वावादीअदि । [ आयः ! मा तावन्मा तावत् । आर्याः ! एषाहं मन्दागिनी यस्याः कार- मादेष ब्यापाद्यते ।।

 चाण्डालः-( दृष्ट्वा)

उण तुलिदं पशा अंशपडंतेण चिउलभालेण ।
मा मेत्ति वाहलंती उटठिदह्रत्था इदो एदि ॥ ३७॥

[का पुनस्त्वरितमेषांसपतता चिकुरभारेण ।
मा मेति ब्याहरन्त्युत्थितहस्तेत एति ॥]

 वसन्तसेना–अज्जचारुदत्त ! किं णेदं ? । [ आर्यचारुदत्त ! किं, न्विदम् १ ।]( इत्युरसि पतति )

 भिक्षुः--अज्जचालुदत्त 1 किं खेदं ?। [ आर्यचारुदत्त ! किं न्विवम् ? । ] ( इति पादयोः पतति )

 चाण्डाल— सभयमुपसृत्य ) कधं वशंतशेणा ।। णं खु अम्हेहिं शाहु ण बावादिदे । [ कथं वसन्तसेना ? । ननु खल्वस्माभिः साधुर्न व्यापादितः ।।

 भिक्षु---( उत्थाय ) अले, जीवदि चालूदते । [अरे, जीवति चारुदत्तः ।]

 चाण्डाल--जीवदि वश्शशदं । [ जीवति वर्षशतम् ।

 वसन्तसेना--( सहर्षम् ) पञ्चुज्जीविदम्हि । [ प्रत्युजीवितास्मि ।]


का उणेति । गाथा । का पुनस्त्वरितमंसे पतता चिकुरभारेण । मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥ ‘उच्छिअअ ( ह ) त्था' इति पाठे उच्छूितह- पाठा०-- तुलिदं का उण एशा अंश. --- --


 चाण्डालः–ता जाव एदं वुत्तं लाइणो जणवाडगदश्श णिवेदेम्ह । [ तद्यावदेतद्वृतं राज्ञो यशवाटगतस्य निवेदयावः ।]

( इति निष्क्रामतः)

 शकारः-( वसन्तसेनां दृष्ट्वा, सत्रासम् ) हीमादिके, केण गब्भदाशी जीवाविदा ? । उक्कंताइं मे पाणाइं । भोदु, पलाइश्शं । [ आश्च- र्यम्, केन गर्भदासी जीवनं प्रापिता ? । उत्क्रान्ता मे प्राणाः । भवतु, पलायिष्ये । ] ( इति पलायते )

 चाण्डालः–( उपसृत्य ) अले, णं अम्हाणं ईदिशी लाआणती-जेण शा वावादिदा, तं मालेध त्ति । ता लट्टिअशालअं ज्जेव अण्णेशम्ह । [ अरे, नन्वस्माकमीदृशी राजाज्ञप्तिः–येन सा व्यापादिता, तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यवः ।]

( इति निष्क्रान्तौ )

 चारुदत्तः-( सविस्मयम् )

केयमभ्युद्यते शस्त्र मृत्युवक्त्रगते मयि ।
अनावृष्टिहते सस्ये द्रोण1वृष्टिरिवागतः ॥ ३८ ॥

( अवलोक्य च )

वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् ।
भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना ने मृताथ सैव ॥३९॥

अथवा,-

किं नु स्वर्गात्पुनः प्राप्ता मम जीवातु2काम्यया ।
तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥


स्तेत्यर्थः ॥ ३७॥ केयमिति ॥ ३८ ॥ चसन्तसेनेति ॥ ३९ ॥ किं न्विति टिप्प०-1 धारासंपातप्रचुरा वृष्टिः। 2 ‘जीवातुजीवनौषधम्' इत्यमरः । तस्या बसन्तसेनाया रूपानुरूपेण सादृश्येन विशिष्टा काव्यन्येयं वेति संभ्रमाद्वितर्कः ।  वसन्तसेना--( सास्नमुत्थाय, पादयोर्निपत्य) अज्जचालुदत्त ! सा ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । [ आर्यचारुदत्त ! सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता।]

( नेपथ्ये )

 अच्चरिअं अच्चरिअं, जीवदि वसंतसेना । [ आश्चर्यमाश्चर्य, जीवति वसन्तसेना । ] ( इति सर्वे पठन्ति )

 चारुदत्तः---( आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षगद्गदाक्षरम् ) प्रिये ! वसन्तसेना त्वम् ? ।।</poem>}}}}

 वसन्तसेना--सा ज्जेवाहं मंदभाआ । [ सैवाहं मन्दभाग्या ।।

 चारुदत्तः--( निरूप्य, सहर्षम् ) कथं वसन्तसेनैव ? । ( सानन्दम् )

कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ ।
मयि मृत्युवशं प्राप्ते विद्येवं समुपागता ।। ४१ ॥

प्रिये वसन्तसेने !

त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे।
अहो प्रभावः प्रियसंगमस्य मृतोऽपि को नाम पुनर्ध्रियेत १ ॥४२॥

अपि च प्रिये ! पश्य,

रतं तदेव वरवस्त्रमियं च माला
कान्तागमेन हि वरस्य यथा विभाति ।
एते च वध्यपदहध्वन्यस्तथैव ।
जाता विवाहपटहध्वनिभिः समानाः ॥ ४३ ॥

 वसन्तसेना-अदिदक्खिणदाए किं ण्णेदं ववसिदं अज्जेण ? । [ अतिदक्षिणतया किं न्विदं व्यवसितमार्येण ? ।]


॥ ४० ॥ कुत इति । विद्या इतरविविक्तात्मज्ञानम् ॥ ४१ ॥ त्वदर्थमिति टिप्पं०-1 'मृतसंजीविनी विद्या यथा मृत्युवशं प्राप्तं प्राणिनं जीवनदानहेतु- त्वादानन्ददात्री भवति तथैव ममापि मरणसमये जीवनदात्रीत्वेन कुतस्त्वं समभ्यागतेत्यानन्दप्रचुरं चारुदतस्येदं भाषणम् ।  चारुदत्तः—प्रिये ! त्वं किल मया हतेति-

पूर्वानुबद्धवैरेण शत्रुणा प्रभ1विष्णुना ।
नरके पतता तेन मनागस्मि निपातितः ॥ ४४ ॥

 वसन्तसेना---(कर्णौ पिधाय ) संत पावं; तेण म्हि असालेण वावादिदा । [ शान्तं पापम् तेनास्मि राजश्यालेन ब्यापादिता । ]

 चारुदत्तः----( भिक्षंु दृष्ट्वा ) अयमपि कः १ ।।

 वसन्तसेना--तेण अणज्जेण वावादिदा; एदिणा अज्जेण जीवाविदम्हि । [ तेनानार्येण व्यापादिता; एतेनार्येण जीवं प्रापितासि ।]

 चारुदत्तः---कस्त्वमकारणबन्धुः ।।

 भिक्षुः–ण पञ्चभिजाणादि में अज्जो ? । अहं शे अज्जश्श चलणशंवाहर्चितए शंवाहके णाम | जूदिअलेहिं गहिदे एदाए उवाशिकाए अज्जश्शं केलके त्ति अलंकालपणणिक्कीदे म्हि । तेण अ जूदणिव्वेदेण शक्कशमणके शंवुत्ते म्हि । एशा वि अज्जा पवहणविपज्जाशेण पुप्फक- लंडकजिण्णुज्जाणं गदा । तेण अ अणज्जेण ण मं बहु मण्णेशि त्ति बाहुपाशबलक्कालेण मालिदा मए दिट्टा । [न प्रत्यभिजानाति मामार्यः ? । अहं स आर्यस्य चरणसंवाहचिन्तया संवाहको नाम द्यूतकरैर्गृहीत एतयोपासिकयार्यस्यात्मीय इत्यलंकारपणनिष्क्रीतोऽस्मि । तेन च धूतनिर्वेदेन शा2क्यश्रमणकः संवृत्तोऽस्मि । एषाप्यार्या प्रवहणविपर्यासेन पुष्पकरण्डकजीर्णोद्यानं गता । तेन चानार्येण न मां बहु मन्यस इति बाहुपाशबलात्कारेण मारिता मया दृष्टा ।]

(नेपथ्ये कलकलः

}

॥ ४२ ॥ रक्तमिति । वरस्य जामातुरिव ॥ ४३ ॥ पूर्वेति ॥ ४४ ॥ टिप्प०-- राजश्यात्वेनात्र शकारस्य सर्वसामर्थ्यवत्त्वे हेतुगर्भमिदं विशेषणम् । 2 बौद्धभिक्षुरिति भावः ।

जयति वृष1भकेतुर्दक्षयज्ञस्य हन्ता
तदनु जयति मेत्ता षण्मुखः क्रौञ्चशत्रुः ।
तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं
विनिहतवरवैरी चार्यको गां विशालाम् ॥ ४५ ॥

( प्रविश्य, सहसा )

 शर्विलकः---

हत्वा ते कुनृपमहे हि पालकं भो-
स्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम् ।
तस्याक्ज्ञां शिरसि निधाय शेषभूतां ।
मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥ ४६ ॥

हत्वा रिपुं तं बलमन्त्रहीने पौरान्समाश्वास्य पुनः प्रकर्षात् ।
प्राप्तं समग्रं वसुधाधिराज्यं राज्यं बलारेरिव शत्रु2राज्यम् ॥ ४७ ॥

( अग्रतो निरूप्य ) भवतु; अत्र तेन भवितव्यम् , यत्रायं जनपदसमवायः । अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात् ।। ( त्वरिततरमुपसृत्य) अपयात जाल्माः । । ( दृष्ट्वा, सहर्षम् ) अपि ध्रियते चारुदत्तः सह वसन्तसेनया । संपूर्णाः खल्वस्मत्स्वामिनो मनोरथाः ।।


केणापि । न एतद्व्यतिरिक्तेनान्येत्यर्थः । न प्रत्यभिजानाति । निर्वेदः शान्तिः वैषयिकेच्छानिवृत्तिः ॥ किमेतत्किमेतदिति शत्रूणां क्रूरः कलकलः ॥ जयतीति । जयतिं सर्वोत्कर्षेण वर्धताम् ( वर्तते )। तदनु जयति आत्मसात्करोति ॥ ४५ ॥ हत्वेति । शेषभूतां पुष्पदामायमानाम् । गुणभूतामिति केचित् ॥ ४६ ॥ टिप्प-1 वृषभकेतुः शिवः, क्रौञ्जशत्रुरिति विशेषणं अभूतपराक्रमाभिप्रायम् । विनिहतः वरो वैरी पालकराज येन सः । सिद्धादिष्टराज्यलाभवान् यः स आर्यकः । 2 वसुधाया अधिराज्यं स्वाम्यं यस्मिन्नीदृशं संपूर्णं शत्रोः पालकराज्ञो राज्यं,

  • अखण्यडाज्ञाविण्यो हि राज्यम्' इति लक्षणलक्षितं राज्यं बलारेरिव इन्द्रस्य राज्यमिव,

पेन्द्रं पदमित्याशयः ।

दिष्टया भो व्यस1नमहार्णवादपारा-
दुत्तीर्णं गुणधृतया सुशीलवत्या ।
नावेव प्रियतमया चिरान्निरीक्ष्ये।
ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥ १८ ॥

तत्कृतमहापातकः कथमिवैनमुपसर्पामि ? । ( अथवा) सर्वत्रार्जवं शोभते । (प्रकाशमुपसृत्य बद्धाञ्जलि.) आर्यचारुदत्त ।।

 चारुदत्तः-ननु को भवान् ।

 शर्विलकः---

येन ते भवनं भित्त्वा न्यासापहरणं कृतम् ।
सोऽहं कृतम2हापापस्त्वामेव शरणं गतः ॥ ४९ ।।

 चारुदत्तः-सखे ! मैवम् ; त्वयासौ प्रणयः कृतः । ( इति कण्ठे गृह्णाति )

 शर्विलकः---अन्यच्च,---

आर्यकेणार्यवृत्तेन कुलं मानं च रक्षता ।।
पशुवद्यक्ज्ञवाटस्थो दुरात्मा पालको हृतः ।। ५० ॥

 चारुदत्तः–किम् ।।

 शर्विलकः----

त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरा।।
पशुवद्धितते यज्ञे हतस्तेनाद्य पालकः ॥ ५१ ॥


हत्वेति ॥ ४७ ॥ दिष्ट्येति ॥ ४८ ॥ येनेति ॥ ४९ ॥ आर्यकेणेति । यज्ञवाटो यज्ञस्थानम् । एतच्चापरिच्छिन्नजनसंमर्देन प्रमादस्थानम् । तेन सर्वो टिप्प०-- अत्र व्यसनमेवापारो महार्णवः, तस्मात् गुणः रज्जुः; पक्षे,- वसन्तसेनानुरागः, नावेव प्रियतमया वसन्तसेनयोद्धतः । उपरागात् ग्रहणान्मुक्तं तेजस्विनं शशिनमिवेत्युपमानम् । 2 सुवर्णचौर्ये महापातकमिति स्मृतिवचनात् ‘कृतमहापाप' इत्युक्तम् । --



-


 चारुदत्तः-शर्विलक ! योऽसौ पालकेन धोषा1दानीय निष्कारणं

कूटागारे बद्ध आर्यकनामा त्वया मोचितः १ ।।

 शर्विलकः---यथाह तत्रभवान् ।

 चारुदत्तः–प्रियं नः प्रियम् ।।

 शर्विलकः--प्रतिष्ठितमात्रेण तव सुहृदार्यक्रेणोज्जयिन्यां वेणातटे कुशावल्यां राज्यमति2सृष्टम् । तत्प्रतिमान्यतां प्रथमः सुहृत्प्रणयः । (परिवृत्य ) अरे रे, आनीयतामयं पापो राष्ट्रियशठः ।

( नेपथ्ये )

यथाज्ञापयति शर्विलकः ।

 शर्विलकः--आर्य नन्वयमार्यको राजा विज्ञापयति---इदं मया युष्मद्गुणोपार्जितं राज्यम्; तदुपयुज्यताम् ।।

 चारुदत्तः-अस्मद्णोपार्जितं राज्यम् ? ।।

(नेपथ्ये )

अरे रे राष्ट्रियश्यालक ! एह्येहि । स्वस्याविनयस्य फलमनुभव ।

( ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्वाहुबद्धः शकारः )

 शकारः–हीमादिके,

एवं दूलमदिक्कंते उद्दामे विअ गद्दहे।
आणीदे खु दृगे बद्धे हुडे अण्णे व्व दुक्कले ॥ ५५ ॥


त्कटवध इति सूचयितुम् ॥ ५० ।। त्वद्यानमिति ॥ ५१ ॥ एव्वमिति ॥५२॥ टिप्प-1 घोषादाभीरपल्ले:, निष्कारणं निरपराधम् , अन्यथाऽयमार्यको राजा भविष्यतीतिरूपस्य सिद्धादेशस्य कारागारबन्धन कारणस्य सत्त्वादित्याशयः । 2 ब्राह्मणेभ्यो यथाविधि सङ्कल्पादिकं विधाय दत्तम् । ३ युष्माकं पूज्यानां शिष्टतया सिद्धानामिव चारुदत्तशर्विलकादीनां गुणैः प्रवहणावतरण-रक्षण-बन्धनभेदनसिद्धादेशाधूपकारैरुपार्जित राज्यमत एव चारुदत्त-चन्दनक-शर्वलकादिभिरुपकारिभिः सर्वैरुपार्जितं राज्यं तस्य सार्थकता यथा भवति तथाऽनुष्ठीयतामित्याशयः । मृ० १९ ( दिशोऽवलोक्य } शमंतदो उवट्टिदे एशे लश्टिअबंघे । ता कं दाणि अशलणे शलणं वजामि !! ( विचिन्त्य ) भोदु, तं ज्जेव अब्भुववण्णशलणवच्छलं गच्छामि । ( इत्युपसृत्य ) अज्जचालुदत्त ! पलित्ताआहि पलित्ताआहि । [ आश्चर्यम्,

एवं दूरमतिक्रान्त उद्दाम इव गर्दभः ।।
आनीतः खल्वहं बद्धः कुक्करोऽन्य इव दुष्करः ॥

समन्तत उपस्थित एष राष्ट्रियबन्धः । तत्कमिदानीमशरणः शरणं व्रजामि ? । भवतु, तमेवाभ्युपपन्नशरणवत्सलं गच्छामि । आर्यचारुदत्त ! परित्रायस्व परित्रायस्व ।]

( इति पादयोः पतति )

( नेपथ्ये )

अज्जचालुदत्त । मुंच मुच, वावदेम्ह एवं ।। आर्यचारुदत्त ! मुञ्च मुञ्च, व्यापादयामैतम् ।।

 शकारः- चारुदत्तं प्रति ) भो अशलणशलणे ! पलित्ताआहि । { भो अशरणशरण ! परित्रायस्व ।]

 चारुदत्तः--( सानुकम्पम् ) अहह, अभयमभयं शरणागतस्य ।

 शर्विलकः--( सावेगम् ) आः, अपनीयतामयं चारुदत्तपार्श्वात् । ( चारुदत्तं प्रति ) ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति ।।

आकर्षन्तु सुबद्धैनं श्वभिः संवाद्यतामथ ।
शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥ ५३॥

 चारुदत्तः-किमहं यद्रवीमि तक्रियते ? ।।

 शर्विलक-कोऽत्र संदेहः १ ।।

 शकारः----भश्टालआ चालुदत्त ! शलणागदे म्हि । ता पलिताआहि पलित्ताआहि । जं तुए शलिशं तं कलेहि; पुणो ण ईदिशं कलिश्शं । [भट्टारक चारुदत्त ! शरणागतोऽस्मि । तत्परित्रायस्व परित्रा-

यस्व । यत्तव सदृशं तत्कुरुः पुनर्नेदृशं करिष्यामि ।

( नेपथ्ये )

 पौराः । वावादेध, किंणिमित्तं पादकी जीवावीअदि ? । [ पौराः ! व्यापादयत, किंनिमित्तं पातकी जीव्यते ? । ]

 ( वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति )

 शकारः--गब्भदाशीधीए ! पशीद पशीद । ण उण मालइश्शं । ता पलित्ताआहि } { गर्भदासीपुत्रि ! प्रसीद प्रसीद । न पुनरयिष्यामि । तत्परित्रायस्व ।]

 शर्विलकः---अरे रे, अपनयत । आर्यचारुदत्त ! आज्ञाप्यताम्- किमस्य पापस्यानुष्ठीयताम् ।।

 चारुदत्तः----किमहं यह्रवीमि तक्रियते ?।

 शर्विलकः कोऽत्र संदेहः ।

 चारुदत्तः---सत्यम् ।।

 शर्विलकः----सत्यम् ।

 चारुदत्तः----यद्येवं शीघ्रमयम्---

 शर्विलक-किं हन्यताम् ।।

 चारुदत्तः–नहि नहि, मुच्यताम् ।

 शर्विलकः-किमर्थम् ।।

 चारुदत्तः--

शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्यः,

 शर्विलकः--एवम् , तर्हि श्वभिः खाद्यताम् ।

 चारुदत्तः–नहि,

उपकारहतस्तु कर्तव्यः ॥ ५४॥

 शर्विलकः–अहो, आश्चर्यम्, किं करोमि । वदत्वार्यः ।

 चारुदत्तः तन्मुच्यताम् ।

 शर्विलकः-मुक्तो भवतु ।  शकारः–हीमादिके, पचुज्जीविदे म्हि । [ आश्चर्यम्, प्रयुज्जीवि- तोऽस्मि । ] ( इति पुरुषैः सह निष्क्रान्तः )

(नेपथ्ये कलकलः)

(पुनर्नेपथ्ये )

 एसा अज्जचालुदत्तस्स वहुआ अज्जा धूदा पदे वसणंचले विलग्गंतं दारलं आक्खिवंती बाप्फभरिदणअणेहिं जणेहिं णिवारिजमाणा पज्जलिदे पावए पविसदि। [एषार्यचारुदत्तस्य वधूरार्या धूता पदे वसनाञ्चले विलगन्तं दारकमाक्षिपन्ती बाष्पभरितनयनैर्जनैर्निवार्यमाणा प्रज्वलिते पावके प्रविशति ।]

 शर्विलकः-{ आकर्ण्य, नेपथ्याभिमुखमवलोक्य ) कथं चन्दनकः । चन्दनक ! किमेतत् १ ।।

 चन्दनकः—( प्रविश्य ) किं ण पेक्खदि अज्जो । महाराअप्पासादं दक्खिणेण महंतो जणसंमद्दो वट्टदि । ('एसा' (पृष्ठे ) इत्यादि पुनः पठति ) कधिदं अ मए तीए, जधा--अज्जे ! मा साहसं करेहि । जीवदि अज्जूचारुदत्तो' त्ति । परंतु दुक्खवावुडदाए को सुणेदि, को पत्तिआएदि । [ किं न पश्यत्यार्यः। महाराजप्रासादं दक्षिणेन महाञ्जनसंमर्दो वर्तते । कथितं च मया तस्यै, यथा-'आर्ये! मी साहसं कुरुष्व । जीवत्यार्यचारुदत्तः' इति । परंतु दुःखव्यापृततया कः शृणोति, कः प्रत्ययते ?।]

 चारुदत्तः—-( सोद्वेगम् ) हा प्रिये ! जीवत्यपि मयि किमेतव्द्यवसि- तम् । ( ऊर्ध्वमवलोक्य दीर्घ निःश्वस्य च )

न2 महीतलस्थितिसहानि भवञ्चरितानि चारुचरिते यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते ! तच विहाय पतिम् ॥५५॥

( इति मोहमुपगतः ।।


आकर्षन्त्विति ॥ ५३ ॥ शत्रुरिति ॥ ५४॥ न महति ॥ ५५ ॥ | टिप्प,---1 प्राचीनजीर्णटीकापुस्तके ‘यत्सूर्योदयभयतः कचिनोचितपात्रमेलनं न कृतम् । सुन्दरयुक्तिभिरर न्यदाचन्दनकोक्तिनीलकण्ठस्तत् ॥' इत्यार्या पठ्यते, तेनायमग्रिमो ग्रन्थो नीलकण्ठीय इति विभाब्यते । 2 यद्यपि भवत्याश्चारितानि पातिव्रत्यसुशीलतादिलक्षणानि महीतलसहानि न सन्ति, भूतले स्थातुं भूरसमर्था तथापि त्वया स्वर्गसुखं मया विना त्वयैकाकिन्या पातिव्रत्यान्न भोक्तुं युक्तमिति निष्कर्ष: ।।  शर्विलकः---अहो प्रमादः।

त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।।
हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥ ५६ ॥

 वसन्तसेना–समस्ससिदु अज्जो । तत्त गदुअ जीवावेदु अज्जां; अण्णधा अधीरत्तणेण अणत्थो संभावीअदि । [ समाश्वसित्वार्यः । तत्र गवा जीवयत्वार्याम्; अन्यथा घीरत्वेनानर्थः संभाव्यते । ]

 चारूदत्तः---( समाश्वस्य, सहसोत्थाय च ) हा प्रिये ! क्वासि ? । देहि मे प्रतिवचनम् ।

 चन्दनकः--इदो इदो अज्जो 1 [इत इत आर्यः ।]

( इति सर्वे परिक्रामन्ति )

 (ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च )

 धृता---( सास्रम् ) जाद! मुंचेहि मं । मा विग्धं करेहि । मीआमि अज्जउत्तस्स अमंगलाकण्णणदो । [जात ! मुञ्च माम् । मा विघ्नं कुरुष्व । बिभेम्यार्यपुत्रस्यामङ्गलाकर्णनात् ।] ( इत्युत्थायाञ्चलमाकृष्य, पावकाभिमुखं परिक्रामति )

 रोहसेनः--माद अज्जए ! पडिवालेहि मं । तुए विणा ण सक्कुणोमि जीविदं धारेदुं । [ मातरार्ये ! प्रतिपालय माम् । त्वया विना न शक्नोमि जीवितं धर्तुम् । ] ( इति त्वरितमुपसृत्य, पुनरञ्चलं गृह्णाति )

 विदूषकः--भोदीए दाव बग्ह1णीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरंति रिसीओ । [ भवत्यास्तावद्ब्राह्मण्या भिन्नत्वेन चिताधिरोहणं पापमुदाहरन्ति ऋषयः ।] टिप्प०---1 क्षत्रियादीनां भिन्नत्वेनापि चितारोहणाधिकारस्मरणाद्ब्राह्मण्या इति भिन्नत्वेनेत्युक्तिः ।  धृता-वरं पावाचरणे । ण उण अजउत्तस्स अमंगलाकण्णणं । (वरं पापाचरणम् । न पुनरार्यपुत्रस्यामङ्गलाकर्णनम् ।]

 शर्विलकः---( पुरोऽवलोक्य ) आसन्नहुतवहार्या । तत्त्वर्यतां त्वर्यताम् ।

( चारुदत्तस्त्वरितं परिकामति )

 धृतारअणिए । अवलंब दारअं, जाव अहं समीहिदं करेमि । [रदनिके ! अवलम्बस्व दारकम् । यावदहं समीहितं करोमि । ]

 चेटी--( सकरुणम्) अहं पि पधोवदेसिणि म्हि भट्टिणीए । [ अहमपि पथोपदेशिन्यस्मि भट्टिन्याः ।]

 धूता--( विदूषकमवलोक्य ) अज्जो दाव अक्लंबेदु । [ आर्यस्तावद- वलम्बताम् ।]

 विदूषकः-( सावेगम् ) समीहिदसिद्धिए पउत्तेण बम्हणो अग्गदो कादव्यो । अदो भोदीए अहं अग्गणी होमि । [ समीहितसिध्यै प्रवृत्तेन ब्राह्मणोऽग्रे कर्तव्यः । अतो भवत्या अहमग्रणीर्भवामि ।]

 धूता-कधं पञ्चादिट्ठम्हि दुवेहिं ? । ( बालकमालिङ्गय ) जाद । तुमं ज्जेव पज्जवट्टावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ ।

अदिक्कते किं मणोरहेहिं ।। ( सनिःश्वासम् ) ण खु अज्जउत्तो तुम पज्जवट्ठाविस्सदि । [ कथं प्रत्यादिष्टास्मि द्वाभ्याम् ? जात ! त्वमेव पर्यवस्थापयामानमस्माकं तिलोदकदानाय । अतिक्रान्ते किं मनोरथैः ? । न खल्वार्यपुत्रस्त्वां पर्यवस्थापयिष्यति ।।

 चारुदत्तः--( आकर्ण्य, सहसोपसृत्य ) अहमेव पर्यवस्थापयामि बालिशम् । ( इति बालकं बाहुभ्यामुत्थाप्य, वक्षसालिङ्गति )


त्वरयेति ॥ ५६ ॥ पुस्तकान्तरपाठदर्शनव्याख्या—अहमेवेति । पर्यवस्था धूता--( विलोक्य ) अम्महे, अज्जउत्तस्स ज्जेव्व सरसंजोओ। ( पुनर्निपुणं निरूप्य, सहर्षम् ) दिट्टिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअं । [ आश्चर्यम्, आर्यपुत्रस्यैव स्वरसंयोगः । दिष्ट्यार्यपुत्र एवैषः । प्रियं मे प्रियम् ।]

 बालकः-( विलोक्य सहर्षम् ) अम्मो, आवुको मं परित्सजदि । { धूतां प्रति ) अज्जए ! वड्ढवीअसि । आवुको ज्जेव मं पज्जवट्ठावेदि । आश्चर्यम्, पिता मां परिष्वजति । आर्ये ! वर्धसे । तात एव मां पर्यवस्था पयति ।] ( इति प्रत्यालिङ्गति )

 चारुदत्तः-(धूतां प्रति )

हा प्रेयसि ! प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् ।
अम्भोजिनीलोचनमुद्रणं किं भानावनस्तंगमिते' करोति ? ॥ ५७ ॥

 धूता--अज्जउत्त ! अदो ज्जेव सा अचेतणेत्ति चुंबीअदि । [ आर्यपुत्र ! अत एव साऽचेतनेति चुम्ब्यते।]

 विदूषकः--- दृष्ट्वा, सहर्षम् ) ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि । अहो सदीए पहावो, जदो जलणप्पवेशव्यवसापण ज्जेव पिअसमागमं पाविदो (चारुदत्तं प्रति ) जेदु जेदु पिअवअस्सो । [आश्चर्य, भोः ! एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो सत्याः प्रभावः, यतो ज्वलनप्रवेशव्यवसायेनैव प्रियसमागमं प्रापिता। जयतु जयतु प्रियवयस्यः ।]

 चारुदत्तः-एहि मैत्रेय ।। ( इत्यालिङ्गति )

 चेटी--अहो संविधाणअं । अज्ज ! वंदामि । [अहो संविधानकम् । आर्य ! वन्दे ।]( इति चारुदत्तस्य पादयोः पतति )।

 चारुदत्तः---(पृष्ठे करं दत्वा) रदनिके ! उत्तिष्ठ । ( इत्युत्थापयति )


पनमाचार इति कृत्वा स्वयमेव क्षमोऽहमिति भावः ॥ हा प्रेयसीति ॥ ५७ ॥ - --- ...  धूता--( वसन्तसेनां दृष्ट्वा) दिट्टिआ कुसलिणो बहिणिआ । [ दिष्ट्या कुशलिनी भगिनी ।

 वसन्तसेना-अहुणा कुसलिणी संवुत्तम्हि । [अधुना कुशलिनी संवृत्तास्मि ।]

( इत्यन्योन्यमालिङ्गतः) ।

 शर्विलकः--दिष्ट्या जीवितसुहृद्वर्ग आर्यः ।।

 चारुदत्तः--युष्मत्प्रसादेन ।

 शर्विलकः–आर्ये वसन्तसेने ! परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।।

 वसन्तसेना-अज्ज ! कदत्थम्हि । [ आर्य ! कृतार्थोस्मि ।]

 शर्विलकः-( वसन्तसेनामव1गुण्ठ्य चारुदत्तं प्रति ) आर्य ! किमस्य भिक्षोः क्रियताम् ।।

 चारुदत्तः-भिक्षो ! किं तव बहुमतम् ?

 भिक्षुः—इमं ईदिशं अणिच्चत्तणं पेक्खिअ दिउणतले मे पव्वज्जाए बहुमाणे संवुत्ते । [इदमीदृशमनित्य1त्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्यायां बहुमानः संवृत्तः ।।

 चारुदत्तः-सखे ! दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहा2रेषु कुलपतिरयं क्रियताम् ।।

 शर्विलक-यथाहार्यः ।

 भिक्षुः–पिअं णो पिअं । [ प्रियं नः प्रियम् ।]


टिप्प०-1 वसन्तसेनां प्रावारकेणाच्छाद्येत्यर्थः। 2 एतत्संविधानकं विचिन्त्य निखिलं जगदिदमनित्यमिति विचार्य सर्वपरित्यागेन त्यागी संवृत्तोऽसि । 3 निखिल सौगतदेवालयेषु धर्माध्यक्ष इत्यर्थः ।  वसन्तसेना--'1संपदं जीवाविदम्हि । [सांप्रत जीवापितास्मि ।]

 शर्विलकः----स्थावरकस्य किं क्रियताम् ।।

 चारुदत्तः–सुवृत्त अदासो भवतु । ते चाण्डालाः सर्वचाडालानामधिपतयो भवन्तु । चन्दनकः पृथिवीदण्डपालको भवतु । तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्वमासीत्, वर्तमाने तथैवास्यास्तु ।

 शर्विलकः--एवं, यथाहार्यः; परमेनं मुञ्च मुञ्च; व्यापादयामि ।

 चारुदत्तः----अभयं शरणागतस्य । (‘शत्रुः कृतापराधः (१०) ५४) इत्यादि पठति )

 शर्विलकः---तदुच्यतां किं ते भूयः प्रियं करोमि ।

 चारुदत्तः–अतः परमपि प्रियमस्ति

लब्धा चरिच्यशुद्धिश्चरण निपतितः शत्रुरप्येष मुक्तः,
प्रोत्खातारातिमूलः प्रियसुहृदचलामार्यकः शास्ति राजा ।
प्राप्ता भूयः प्रियेयं, प्रियसुहृदि भवान्संगतो मे वयस्यो,
लभ्यं किं चातिरिक्तं यदपरमधुना प्रार्थयेऽहं भवन्तम् ? ॥५८॥
काश्चित्तुच्छ्यति प्रपूरयति चा क्रांश्चिन्नयत्युन्नतिं
कश्चित्पातविधौ करोति च पुनः कश्चिन्नयत्याकुलान् ।


दिउणतले द्विगुणतरः ॥ लब्धेति । अचलां पृथ्वीम् ॥ ५८ ।। कांश्चिदिति टिप्प०--1 दशभिः सुवर्णैर्मोचितेन निष्क्रीतेनेव संवाहकेन निर्वेदाद्भिक्षुभूतेन वसन्तसेना सलिलसेचनादिना जीवदवस्यां प्रापितेति महानुपकार आसीत् । इदानीं सकलचैत्यायतनमुख्यस्वामित्वार्पणेन प्रत्युपकार प्रतीकार आसीदित्यस्याशयः ।। 2 अन्योन्यं प्रतिपक्षाणां बाध्यबाधकानां, विद्धानामित्यर्थः । धनित्व-निर्धनित्व-राजत्व-रङ्कत्वादीनां संहतिरूपा वा लोकव्यवहार उत्पत्ति-स्थिति-संहाररूपमित्याशयः । यथा घटीयन्त्रे चलति स्वल्पघटा मालायां क्रमादुञ्चनीचभावप्राप्तौ जलमानयन्ति त्यजन्ति च तथेह दैवमपि स्वीयपूर्वसंचित क्रमानुगुणमधनत्व-सघनत्वादिकमनुभावयतीत्यर्थः ।

अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय-
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ५९॥

तथापीदमस्तु भरतवाक्यम्----

क्षीरण्यः सन्तु गावो, भवतु वसुमती सर्वसंपन्नसस्या,
पर्जन्यः कालवर्षी, सकलजनमनोनन्दिनो वान्तु वाताः।
मोदन्तां जन्मभाजः, सततमभिमता ब्राह्मणाः सन्तु सन्तः
श्रीमन्ताः, पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ६०

( इति निष्क्रान्ताः सर्वे )

संहारो नाम दशमोऽङ्कः।


।। ५९ ॥ क्षीरिण्य इति ।। ६० ।।

मृच्छकटिकविवृत्तिरियं गणपतिचित्तान्तपारपर्यन्ता । पृथ्वीधरकृतिरुपनयतु संतोषं कृतिसमुद्रे ॥

इति दशमोऽङ्कः ॥

समाप्तोऽयं ग्रन्थः ।