मृच्छकटिकम्
प्रथमोऽङ्कः
शूद्रकः
द्वितीयोऽङ्कः →

श्रीः

मृ च्छ क टि क म्

प्रथमोऽङ्कः

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतजानो-
रन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्वदृष्ट्या
शंभोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥


मृच्छकटिकविवृतिः

शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके ।
पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥

तथा,---

बालानां सुखबोधाय गुरूणां वचनं शुभम् ।।
लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥

 प्रकरणं चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्ध्या वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः, पञ्च संधयः, अष्टरसादयः । प्रकरणतो नाटकं विहाय नृपनायकम् (१)' ‘आदि'शब्दात् षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावाच्छाबरी नास्ति । प्राकृते---‘मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥' महाराष्ट्र्यादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-‘शकारामीरचाण्डालशबरद्राविडोड्रजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥ विविधा भाषा विभाषाः । हीनपात्रप्रयोज्यवाद्धीनाः । वनेचराणां चेति ठक्कभाषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदत्तब्राह्मणी शोधनकः अपि च,-

पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ २॥

( नान्द्यन्ते )

सूत्रधारः-अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण ।


श्रेष्ठी-- एते एकादश शौरसेनीभाषापाठकाः । सूत्रधारोऽप्यत्र प्राकृती, ‘कार्यवशात्’ इति वक्ष्यते । अवन्तिभाषापाठकौ वीरकचन्दनकौ । प्राच्यभाषापाठको विदूषकः । संवाहकः शकारवसन्तसेनाचारुदत्तानां चेटकत्रितयं भिक्षुश्चारुदत्तदारकः---एते षण्मागधीपाठकाः। अपभ्रंशपाठकेषु शकारी भाषापाको राष्ट्रियः । चाण्डालीभाषा- पाठक चाण्डाली। ढक्कभाषापाठौ माथुरद्यूतकरौ । तथा--शौरसेन्यन्तिजा प्राच्या–एतासु दन्त्यसकारता । तत्रावन्तिजा रेफवती लोकोक्तिबहुला । प्राच्या खार्थिककारप्राया । मागधी तालव्यशकारवती । शारीचाण्डाल्योस्वालव्य- शारता । रेफस्य च लकारता । वैकारप्राया ढकविभाषा । संस्कृतप्रायत्वे दन्त्य- तालव्यसशकारद्वययुक्ता च । 'अपार्थनक्रमं व्यर्थं पुनरुक्तं हतोपमम् । लोकन्याय- विरुद्धं च शकारवचनं विदुः॥' अपार्थं निरर्थम् । व्यर्थं विरुद्धार्थम् । यद्वा, निश्चितानन्वयं पदजातं वाक्यज्ञातं चार्थकम् । व्यर्थं निरर्थकमेव । हतोपमं व्याहतोपमम् । ‘शकारप्रायभाषित्वाच्छकारो राष्ट्रियः स्मृतः । एकविद्यो विटाश्चान्यो हास्यकृच्च विदूषकः ॥' खार्थिकः ककारः सर्वत्र । द्विवचनं चतुर्थी- विभक्तिश्च नास्त्येव । द्वित्वे तु बहुवचनम् । चतुर्थ्यर्थे षष्ठी । परस्मैपदा- त्मनेपदविपर्ययः । पूर्वनिपातानियमश्च । बहुलं छन्दसो निदर्शनमप्रसिद्ध च्छन्दोज्ञानार्थम्, पाठविप्लवनिरासार्थं च ॥ पर्यङ्केत्यादि । पर्यङ्कः पर्यस्तिका, तस्य बन्धनेन द्विगुणितो यो भुजङ्गस्तस्य संबन्धेन स्थगितं जानु यस्य । आत्मनि शरीर एवोपरतं करणमिन्द्रियं यथा स्यादेवं तत्त्वदृष्ट्यानारोपि- तज्ञानेन शून्येक्षणे निराकारालोचने घटितोऽत्यन्तसंबद्धो यो लयस्तत्प्रवणताविशेष- स्तेन ब्रह्मणि परमे रूपे लग्न आसक्तः समाधिर्ध्यानमीशस्य वो युष्मान् रक्षतु ॥१॥ [ पात्विति ॥ २ ॥] आर्यान्मान्यान् , मिश्रानभ्यस्तबहुशास्त्रान् । चारुदतपुत्र- रोहसेनक्रीडनार्थं षष्ठेऽङ्के उक्तं मृच्छकटमत्रास्ति । अत इनिठनौ’ (पा० ५।२।११५) एवममार्यमिश्रान्प्रणिपत्य विज्ञापयामि–- यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः । एतत्कविः किल,-

द्विरदेन्द्रगतिश्चकोरनेत्रः परिपूर्णेन्दुमुखः सुविग्रहश्च ।
द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३॥

अपि च,-

ऋग्वेदं सामवेदं गणितमथ कलां वैशिकिं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥

अपि च,---

समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च ।
परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥

अस्यां च तत्कृतौ--

अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः ।
गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥


इति ठन् । मृदः शकटिकाऽस्मिन्निति वा बहुव्रीहिः । [ द्विरदेन्द्रेति ।] द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः । ‘त्रयो वर्णा द्विजातयः' इति स्मृते: क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ ऋग्वेदमिति ।] वेशोऽत्र कार्स्नेयेन वेश्यापरः। तत्र भवा विद्यमाना । अध्यात्मादिवात्ट्ठक् । यद्वा,-वेशोऽग्निनिवे- शाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगतिद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया ‘अग्निं प्रविष्टः' इत्यादिभूतकाले प्रत्यया न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनामके यज्ञविशेषे, यथा शरभङ्गेण कृतस्तथा बौद्धव्यः ॥ ४ ॥ समरेति । ककुदं चिह्नभूतं प्रवीणो वा । तथा चामरः--‘प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति ।वारणो हस्ती ॥५॥ अवन्तीति । अवन्तिपुरी उज्जयिनी । 'अस्यां च तत्कृत, अवन्ति–'इत्या-

तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् ।
खलस्वभावं भवितव्यतां तथा चकार सर्वं किल शूद्रको नृपः ॥ ७ ॥

( परिक्रम्यावलोक्य च ) अये, शून्येयमस्मत्संगीतशाला, क्व नु गताः कुशीलवा भविष्यन्ति । ( विचिन्त्य ) , ज्ञातम्;

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ८ ॥

कृतं च संगीतकं मया । अनेन चिरसंगीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्करबीजमिव प्रचलिततारके क्षुधा ममाक्षिणी खटखटायेते । तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किंचित्प्रातराशो न वेति । एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भोः ! चिरसंगीदोवासणेण सुक्खपोक्खरणालाईं विअ मे बुभुक्खाए मिलाणाइं अंगाइं । ता जाव गेहं गदुअ जाणामि, अस्थि किं पि कुडुंबिणीए उववादिदं ण वेत्ति । (परिक्रम्यावलोक्य च ) एदं तं अम्हाणं गेहं, ता पविसामि । ( प्रविश्यावलोक्य च ) हीमाणहे,


दावस्तिद्वयानुषङ्गः ॥ ६ ॥ [तयोरिति ।] नयो नीतिस्तस्य प्रचारो व्यवहारस्तं नयप्रचारम् । स्वहितं व्यवहारः ॥ ७ ॥ [ शून्यमिति ।] चिरशून्यमिति कर्म- धारयः । चिरं दीर्घः कालो निरवधिः समयः । शून्यमभिमतकार्यरहितम् । सन्मि- त्रस्य हि ससहायत्वेन कार्यनिष्पत्तेः; सदा पूर्ण इव समयोऽवभासते ॥ ८ ॥ खडित्यव्यक्तानुकरणम् । संगीतकेन चक्षुषी खटखटायेते इत्यसंबद्धप्रलापेन भाविनः शकारासंबद्धभाषणस्य सूचनम् । प्रातराशः कल्यभोजनम् । कार्यवशात् प्रयोग- वशाच्चेति। कार्यं बोध्यायाः स्त्रियो झटिति ज्ञानम् । यदुच्यते--स्त्रीषु नाप्रा- कृतं वदेत्' इति सुकुमारलेन सुप्रयोगत्वं प्राकृतस्य । यदुक्तम्-पुरिसा सक्वअजप्पा पाउअगुंफो वि होई सुउमारो । तथा षष्ठेऽङ्के प्रवणविपर्यासे वीर- कचन्दनकृयोः कलहे संभ्रमागतवचनसंवरणार्थं भाषाव्यत्यासाच्चन्दनकस्य पाठः


टिप्प०-1 'पुरुषाः सकृज्जल्पाः प्राकृतगुम्फोऽपि भवति सुकुमारः' इति च्छाया किं णु खु अम्हाणं गेहे अवरं विअ संविहाण वट्टदि । आआमितंडुलोदअप्पवाहा रच्छा, लोहकडाहपरिअत्तणकसणसारा किदविसेस विअ जुअदी अहिअदरै सोहदि भूमी । सिणिद्धगंधेण उद्दीविअंती विअअघिगं बाधेदि में बुभुक्खा । ता किं पुव्वविढत्तं णिहाणं उपरणं भवे । आदु अहं जेव्व बुभुक्खादो ओदाणमअं जीअलोअं पेक्खामि । णस्थि किल पादरासो अम्हाणं गेहे । पाणञ्चअं बाधेदि मे बुभुक्खा । इध सव्वं णवं विअ संविदाणं वट्टदि। एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि। ( विचिन्त्य ) किं ण्णेदं । भोदु । कुडुंबिणि सद्दाविअ परमत्थं जाणिस्सं । ( नेपथ्याभिमुखमवलोक्य । ) अज्जे । इदो दाव । अविद, अविद भो; ! चिरसंगीतोपासनेन शुष्कपुष्करनालानीव में बुभुक्षया म्लानान्यङ्गानि । तद्यावद्गृहं गत्वा जानामि, अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति । इदं तदस्माकं गृहम् , तत्प्रविशामि । आश्चर्यम् । किं नु खल्वस्माकं गृहेऽपरमिव संविधानकं वर्तते । आयामितण्डुलोदकप्रवाहा रथ्या लोहकटाहपरिवर्तनकृष्णसारा कृतविशेषकेव युवत्यधिकतरं शोभते भूमिः । स्निग्धगन्धेनोद्दीप्यमानेवाधिकं बाधते मां बुभुक्षा । तत्किं पूर्वार्जितं निधानमुत्पनं भवेत् । अथ--


संस्कृतेन । तथा पञ्चमाङ्के दुर्दिने कार्यवशाद्वसन्तसेनायाः श्लोकपाठः संस्कृतेन । चारुदत्तस्य दारिद्र्यात् वर्णनासूचनयोग्यप्राकृतपरिग्रहः (?) । दाहुः---‘कार्यतश्चोत्तमा दीनां कार्यों भाषाव्यतिक्रमः' इति । एतत्सर्वमनेन सुचितमिति । अविद अविदेति निवेदे;कष्टं कष्टमित्यर्थः । 'अदृष्टाश्रुतसंप्राप्तावविदाविदभोः पदम्' इति च प्राञ्चः। मिलणाइ म्लानानि । हीमाणहे विस्मये । किं नु खल्चस्माकं गृहेऽन्यदिव संवि- धानकं वर्तते । आयामो दीर्घस्तण्डुलप्रक्षालनजलप्रवाहो यत्र तादृशी रथ्या । लोहस्य कटाहो भाजनविशेषः, तत्परिवर्तनेन मार्जनेन कृष्णसारी कृततिलका युवतिवद्भूमिरदिकं शोभते । कृष्णसारा भूमिरित्यनेन चतुर्थाङ्के भवनकोष्ठकस्य विशेषसूचनम् । सिणिद्धगंधेण स्निग्धगन्धेन । उद्दीविअंती विअ उद्दीप्यमानेव । तत्किं पूर्वार्जितं निधानं बहुसंख्यं धनमुत्पन्नं भवेत् । आदु अथवेत्यर्थः । अह- मेव बुभुक्षातोऽन्नमयम् । पाठान्तरे आदनमयम् । जीवलोकं संसारं पश्यामि । नास्ति किल रातराशोऽस्माकं गृहे । प्राणाधिकं प्राणेष्वधिकं यथा स्यादेवम् । वाहमेव बुभुक्षात ओदनमयं जीवलोकं पश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं बाधते मां बुभुक्षा । इह सर्वं नवमिव संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो ग्रथ्नाति । किंन्विदम् । भवतु, कुटुम्बिनीं शब्दाप्य परमार्थं ज्ञास्यामि । अर्थे! इतस्तावत् ।]

 नटी--( प्रविश्य ।) अज्ज! इअं म्हि [आर्य ! इयमस्मि । ]

 सूत्रधारः--अज्जे! साअदं दे । [ आर्ये ! स्वागतं ते ।]

 नटी-आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति । [ आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयतामिति । ]

 सुत्रधारः--अज्जे ! ( ‘चिरसंगीदोवासणेण’' इत्यादि पठित्वा ।) अत्थि किं पि अम्हाणं गेहे असिदश्वं ण वेत्ति । [ आर्ये  ! अस्ति किमप्य- स्माकं गेहेऽशितव्यं न वेति ।]

 नटी-- अज्जे! सव्वं अत्थि । [ आर्य ! सर्वमस्ति । ]

 सुत्रधारः- किं किं अत्थि ? [ किं किमस्ति ? ।]

 नटी- तं जधा--- गुडोदणं धिअं दहीं तंडुलाइं, अज्जेण अत्तब्वं रसाअणं सव्वं अत्थि त्ति । एवं ते देवा आसासेंतु [तद्यथा---गुडौदनं धृतं दधि तण्डुलाः, आर्येणात्तव्यं रसायनं सर्वमस्तीति । एवं तव देवा आशासन्ताम् ।]

 सूत्रधारः-- किं अम्हाणं गेहे सव्वं अस्थि? आदु परिहससि ?। [किमस्माकं गेहे सर्वमस्ति ? अथवा परिहससि ? ।]


में माम् । बुभुक्षा बाधते । इह सर्वं नवं संविधानकं वर्तते । एका वर्णकं कस्तूर्यादिकं समालम्भनं पिनष्टि । अपरा सुमनसः पुष्पाणि ग्रथ्नाति । इत्यनेनापि कोष्ठकस्यैव सूचनम् ॥ असिदव्वं अन्नरूपं द्रव्यम् । घिअं घृतम् । अत्तव्यं रसाअणमिति प्राये- पात्तव्यं रसायनमस्तीत्येवं तव देवा आशासन्तामिति संदिग्धवाक्योपन्यासः॥  नटी--( स्वगतम् ) परिहसिस्सं दाव । ( प्रकाशम् ) अज्ज अस्थि आवणे । [ परिहसिष्यामि तावत् । आर्य ! अस्त्यापणे ।]

 सुत्रधारः---( सक्रोधम् ) आः, अणज्जे! एवं ते आसा छिज्जिस्सदि । अभावं अ गमिस्ससि । जं दाणिं अहं वरंडलंबुओ विअ दूरं उक्खिविअ पाडिदो । [ आः अनार्ये ! एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि । यदिदानीमहं वरण्डलम्बुक इव दूरमुत्क्षिप्य पातितः । ]

नटी-- मरिसेदु मरिसेदु अज्जो, परिहासो खु[१] एसो । [ मर्षतु मर्षत्वार्यः, परिहासः खल्वेषः । ]

 सुत्रधारः---ता किं उण इमं णवं विअ संविहाणअं वट्टदि ? । एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुंफेदि, इअं अपंचवणकुसुमोवहारसेहिदा भूमी ।[ तत्किं पुनरिदं नवमिव संविधानकं वर्तते ? । एका वर्णकं पिनष्टि, अपरा सुमनसो गुम्फति, इयं च पञ्चवर्णकुसुमोपहारशोभिता भूमिः ।]

 नटी-- अज्ज उववासो गहिदो । [ आद्योपवासो गृहीतः ।]

 सूत्रधारः-किंणामधेओ अअं उववासो ? । [ किंनामधेयोऽयमुपवासः ? ]


आर्य । अस्त्यापणे वणिग्वीथ्याम् ॥ एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि इत्यनेन अ वसन्तसेनायाः प्रवहणविपर्यासमोट्टनयोः सूचनम् ॥ वरण्डो दीर्घकाष्ठं तस्य लम्बुकस्तत्प्रान्तनिबद्धो मृत्तिकास्थूणः, स हि द्रोण्यां पानीयोद्धारे दूरमुत्थाप्याधः पात्यते । केचिदाहुः----वरण्ड इष्टकागृह उन्नती भूतो दीर्घो भित्तिप्रदेशस्तत्र लम्बुकोऽवयवभूत इष्टकासंघः । सोऽपि हि संयोजनार्थं दूरमुत्थाप्यते । अनन्तरं निपतत्यपीति ।। मर्षतु मर्षत्वार्यः। परिहासः खल्वेषः । उपवासः, उपवासरूपं

व्रतमित्यर्थः । अधिकरणघञन्तोऽयम् । अहिवदी णाम अभिरूपपतिर्नाम् ॥ नटी— अहिरूअवदी णाम। [अभिरूपपतिर्नाम।]

सूत्रधारः— अज्जे! इहलोइओ आदु पारलोइओ? [आर्ये! इहलौकिकोऽथवा पारलौकिकः?]

नटी—अज्ज! पारलोइओ। [आर्य! पारलौकिकः।]

सूत्रधारः(सरोषम्।) पेक्खंतु पेक्खंतु अज्जमिस्सा! ममकेरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसीअदि। [प्रेक्षन्तां प्रेक्षन्तामार्यमिश्राः! मदीयेन भक्तपरिव्ययेन पारलौकिको भर्तान्विष्यते।]

नटी— अज्ज! पसीद पसीद। तुमं ज्जेव्व जम्मंतरे वि भविस्ससि त्ति उववसिदम्हि। [आर्य! प्रसीद प्रसीद। त्वमेव जन्मान्तरेऽपि भविष्यसीत्युपोषिताऽस्मि।]

सूत्रधारः—अध अअं उववासो केण दे उवदिट्ठो? [अथायमुपवासः केन तवोपदिष्टः?]

नटी—अज्जस्स ज्जेव्व पिअवअस्सेण जुण्णवुड्ढेण। [आर्यस्यैक प्रियवयस्येन जूर्णवृद्धेन।]

सूत्रधारः(सकोपम्।) आः दासीए उत्ता जुण्णवुड्ढा, कदा णु हु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ ससुअंधं कप्पिज्जंतं पेक्खिस्सं। [आः दास्याःपुत्र जूर्णवृद्ध! कदा नु खलु त्वां कुपितेन राज्ञा पालकेन नववधूकेशहस्तमिव ससुगन्धं छेद्यमानं प्रेक्षिष्ये।]


'पारलौकिक" इत्यनेन पालकव्युदासेन नायकान्तरलोभसूचनम् ॥ ममकेरकेण मदीयेन । भत्तपरिब्बएण भक्तपरिव्ययेन, ओदनव्ययेनेत्यर्थः । यद्वा,-भर्तृपरि- त्यागेन । पारलौकिको भर्ताऽन्विष्यते ॥ त्वमेव जन्मान्तरे भविष्यसीति ॥ अयमुपवासः केन तवोपदिष्ट: ? ॥ आर्यस्येव प्रियवयसेन जुर्ण वृद्धेन । आक्षेपे । छयं आदुत्या आकारान्तादेशे कृते जूर्णवृद्धा इति । एवं च 'दूआ तीआ' इत्यादौ च बोद्धव्यम् । कुपितेन राज्ञा पालकेन । कापज्जंतं कल्प्यमानं  नटी-- पसीददु अज्जो । अज्जस्स जेव्व पारलोइओ अअं उववासो अणुचिट्ठीअदि । ( इति पादयोः पतति ।) [ प्रसीदत्वार्यः । आर्य- स्यैव पारलौकिकोऽयमुपवासः अनुष्ठीयते । ]

 सूत्रधारः---- अज्जे ! उट्ठेहि । कधेहि एत्थ उववासे केण कज्जं ?। [आर्य ! उत्तिष्ठ । कथयात्रोपवासे केन कार्यम् ? । ]

 नटी--अम्हारिसजणजोग्गेण बम्हणेण उवणिमंतिदेण । [ अस्मादृशजनयोग्येन ब्राह्मणेनोपनिमन्त्रितेन । ]

 सूत्रधारः--- अदो गच्छदु अज्जा । अहं पि अम्हारिसणजोगं बम्हण उवणिमंतेमि । [ अतो गच्छत्वार्या । अहमप्यस्मादृशजनयोग्यब्राह्मणमुपनिमन्त्रयामि । ]  नटी-जं अज्जो आणवेदि । ( इति निष्क्रान्ता ।) [यदार्य आज्ञापयति ।]

 सूत्रधारः---( परिक्रम्य ।) हीमाणहे, ता कधं मए एव्वं सुसमिद्धाए उज्जइणीए अम्हारिसजणजोग्गो बम्हण अण्णेसिदव्यो ? । ( विलोक्य ।) एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि । भोदु, पुछिस्सं दाव । अज्ज मित्तेअ । अम्हाणं गेहे असिदुं अग्गणी


छेद्यमानम् । वधूपक्षे–कल्प्यमानं संसज्यमानम् ।कदा नु खलु त्वां प्रेक्षिष्ये । नववधूकेशहस्शतमिव न वासितं सुगन्धम् । 'वज्जंतं' इति पाठे वध्यमानम् । अनेन संहाराङ्के चारुदत्तनिप्रहसूचनम् ॥ प्रसीदत्येःवार्यः; आर्यस्यैव पारलौकि- कोऽयमुपवासः । उट्ठेहि उत्तिष्ठ । क =धेहि कथय । एत्थ अवेवासे अत्रोपवासे । केन कार्यम् ॥ अम्हारिसजणजोगेण अस्मत्सदृशब्राह्मणेन । उवणिमंतिदेण आ(उपनि)मन्त्रितेन ॥ अतो गच्छत्वार्या । अहमप्युपनिमन्त्रयामि ॥ अण- वेदि आज्ञापयति ॥ ता तस्मात् । कधं कथम् । मए मया । ईदृश्मुयामुज्जजयिन्यियां समृद्धायामस्मत्सदृशो ब्राह्मणांन्वेषितव्यः ? । कोऽर्थः । यद्वा,-दुःस्थिता भवन्ति ब्राह्मणास्तदा चारणादीनामपि गृहे कुर्वन्ति भोजनम् । एष चारुदस्य मित्रं भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः? एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु, प्रक्ष्यामि तावत्। अद्य मैत्रेय! अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः।]

(नेपथ्ये)

भो! अण्णं बम्हणं उवणिमंतेदु भवं; वावुडो दाणिं अहं। [भोः! अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्; व्यापृत इदानीमहम्।]

सूत्रधारः— अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]

भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? [भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]


मैत्रेयः । इदो जेव्य इत एव । आगच्छदि । भवतु, इममुपनिमन्त्रयिष्ये ।अद्य मैत्रेय ! अस्माकं गृहे भोक्म्तुम् । अग्गणी अग्रणीः। प्रष्ठोऽग्रगामीति यावत् । अधिदी भोदु' इत्यपि पाठः । तत्रातिथिर्भवलियर्थः । भो ! अप्ण अन्यम् । बम्हणं ब्राह्मणम् । उवणिमंतेदु उपनिमन्त्रयतु भवान् वावुडो व्यापृतः । अहमिदानींं कार्यान्तरव्न्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णीसवत्तं च । पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः । ‘णीसवत्तं नि:सपत्न। विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणापि ते भविष्यति । एकः अपि:' संभावनायाम् , अपरः समुच्चये। भो । दाणिं पचादि- ट्ठोसि इदानीं प्रत्यादिष्टोऽसि । को दाणिं क इदानीम् । दे णिब्बंधो ते निर्बन्धः ।। मं माम् । पदे पदे अणुबंधेदु अनुरोद्धुम् ॥ पञ्चादिट्टो म्हि प्रत्यादिष्टोऽस्मि । एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्णहं ब्राह्मणम् । उवणिमंते मि उपनिमन्त्रयिष्ये ॥ प्रस्तावनेत्यामुखसंधिपर्यायः ।यदुक्तम्-सूत्रधारेण सहिताः  सुत्रधारः—पच्चादिट्टो म्हि एदिणा। भोदु, अण्णं बम्हणं उवणिमंतेमि। (इति निष्क्रान्तः) [प्रत्यादिष्टोऽस्म्येतेन। भवतु, अन्यं ब्राह्मणमुपनिमन्त्रयामि।]

इत्यामुखम् ।


(प्रविश्य प्रावारहस्तः)

 मैत्रेयः—('अण्णं बम्हणं' इति पूर्वोक्तं पठित्वा) अधवा, मए वि मित्तेएण परस्स आमंतणआइं पक्खिदव्वाइं। हा अवत्थे! तुलीअसि। जो णाम अहं तत्थभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअत्तसिद्धेहिं उग्गारसुरहिगंधेहिं मोदएहिं ज्जेव्व आसिदो अब्भंतरचदुस्सालअदुए उबविट्टो मल्लक्कसदपरिवुदो चित्तअरो विअ अंगुलीहिं छिविअ छिविअ अवणेमि। णअरचत्तस्वुसहो विअ रोमंथाअमाणो चिट्ठामि, सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि। एसो अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकजस्स अज्जचारुदत्तस्स उवणेदव्वो त्ति। ता जाव अज्जचारुदत्तं


संलाप यत्र कुर्वते। नटी विदूषको वापि पारिपार्श्वक एव वा॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता॥' प्रावारः प्रच्छदपटः। अथवा मयापि मैत्रेयेण परस्य। आमंतणाई आमन्त्रणकानि । पच्छिदवाइं समीहितव्यानि। यो नामाहं तत्रभवतश्चारुदत्तस्य समृद्ध्याहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितस्तृप्तः। मल्लकशतपरिवृतः। मल्लकः पात्रविशेषः पत्रपुटो वा। 'दोना' इति प्रसिद्ध विदूषकपक्षे। चित्रकरपक्षे वर्णिकापात्रं मल्लकः। अभ्यन्तरचतुःशालकद्वारे उपविष्टः, चित्रकर इव छिविअ छिवि स्पृष्ट्वा स्पृष्ट्वाङ्गुल्यग्रैरपनयामि न भक्षयामि, अत्यन्तं तृप्तत्वादित्यर्थः। चित्रकरोऽप्यङ्गुलीसंस्थितलेखनिकया पेक्खामि। (परिक्रम्यावलोक्य च) एसो अज्जचारुदत्तो सिद्धीकिददेयकज्जो गिहदेवदाणं बलिं हरेतो इदो ज्जेव्व आअच्छदि। [अथवा मयापि मैत्रेयेण परस्यामन्त्रणकानि समीहितव्यानि। हा अवस्थे! तुलयसि। यो नामाहं तत्रभवतश्चारुदत्तस्य ऋद्ध्याऽहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वा स्पृष्ट्वापनयामि। नगरचत्वरवृषभ इव रोमन्थायमानस्तिष्ठामि, स इदानीमहं तस्य दरिद्रतया यत्र तत्र चरित्वा गृहपारावत इवावासनिमित्तमत्रागच्छामि। एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्योपनेतव्य इति। तद्यावदार्यचारुदत्तं पश्यामि। एष आर्यचारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन्नित एवागच्छति।]

(ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च)

चारुदत्तः(ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य च)

यासां बलिः सपदि मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
तास्वेव सम्प्रति विरूढतृणाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः॥९॥

(इति मन्दं मन्दं परिक्रम्योपविशति)


वर्णिकाभाण्डं स्पृष्ट्वा स्पृष्ट्वाऽपनयति विक्षिपति । अन्यथा वर्णिकाबिन्दुपातः स्यादिति । नवबद्धवृषभ इव रोमन्थायमानस्तिष्ठामि । 'आपणे नगरचत्वरवृषभ इव' इति पाठान्तरेऽपि व्याख्या । दाणिं इदानीम् । दलिद्ददाए दरिद्रतया । यत्र कुत्रापि चरित्वा गृहपारावत इवावासनिमित्तं शयनार्थमत्रागच्छामि । एसो एषः । जूर्णवृद्धेन जाती कुसुमवासितोऽनुप्रेषितः प्रावारकः । सिद्धीकिददेवकजस्स निष्पा- दितदेवकार्यस्य । पाठान्तरे तु-षष्ठीव्रतकृतदेवकार्यस्येत्यर्थः । आर्यचारुदत्तस्योपनेतव्यः तद्यावत्पश्यामि । गृहदेवतानां बलिं हरन्नित एवाभिगच्छति । बलिं पूजाम् ॥ यासामिति । कीटमुखास्वादितो बीजाञ्जलिः पतति । विरूढा उप विदूषकः—एसो अज्जचारुदत्तो। ता जाव संपदं उवसप्पामि। (उपसृत्य) सोत्थि भवदे। वडुदु भवं। [एष आर्यचारुदत्तः। तद्यावत्सांप्रतमुपसर्पामि। स्वस्ति भवते। वर्धतां भवान्।]

 चारुदत्तः—अये! सर्वकालमित्रं मैत्रेयः प्राप्तः। सखे! स्वागतम्। आस्यताम्।

 विदुषकः—जं भवं आणवेदि। (उपविश्य) भो वअस्स! एसो दे पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स तुए उवणेदव्वो त्ति। (समर्पयति) [यद्भवानाज्ञापयति। भो वयस्य! एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति।]

(चारुदत्तो गृहीत्वा सचिन्तः स्थितः)

 विदूषकः—भो! किं इदं चिंतीअदि?। [भोः, किमिदं चिन्त्यते?।]

 चारुदत्तः—वयस्य!

सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥१०॥

 विदूषकः—भो वअस्स! मरणादो दालिद्दादो वा कदरं दे रोअदि । [भो वयस्य! मरणाद्दारिद्र्याद्वा कतरत्ते रोचते?।]


चितास्तृणाङ्करा यासु॥९॥ स्वस्ति भवते। वर्धतां भवान्॥ किमिदं चिन्त्यते?॥ सुखमित्यादि। दुःखान्यनुभूय सुखं शोभते, न तु सुखमनुभूय दुःखमिति तात्पर्यम्। स मृत एव जीवति। शरीरेण धृतः शरीरेण वेष्टितः, चर्मभस्त्रावदित्यर्थः॥१०॥ मरणादो मरणात्। दालिद्दादो दारिद्र्यात्। कदरं चारुदत्तः—वयस्य!

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥ 11

विदूपकः—भो वअस्स! अलं संतप्पिदेण। पणइजणसंकामिदविहवस्स सुरजणपीदसेसस्स पडिवच्चंदस्स विअ परिक्खओ वि दे अहिअदरं रमणीओ। [भो वयस्य! अलं संतप्तेन। प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपितेऽधिकतरं रमणीयः।]

चारुदत्तः—वयस्य! न ममार्थान्प्रति दैन्यम्। पश्य,—

एतत्तु मां दहति यद्गृहमस्मदीयं
क्षीणार्थमित्यतिथयः परिवर्जयन्ति।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः
कालात्यये मधुकराः करिणः कपोलम्॥ 12

विदूषकः—भो वअस्स! एदे क्खु दासीए पुत्ता अत्थकल्लवत्ता वरडाभीदा विअ गोवालदारआ अरण्ये जहिं जहिं ण खज्जंति तहिं तहिं गच्छंति। [भो वयस्य! एते खलु दास्याःपुत्रा अर्थकल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति।]

चारुदत्तः—वयस्य!


कतरत् । रोचते प्रीतम् ॥ दारिद्र्यादिति । अल्पसमयदुःखदत्वान्मरणमल्प- क्लेशम् । बहुसमयव्यापित्वादाकाङ्क्षितापगमाद्दारिद्र्यामनन्तकदुःखम् ॥ ११ ॥ संतप्पिदेण संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपचन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । यद्यसद्व्ययेनार्थाः स्वदोषेण नाश्यन्ते तदा संतापः क्रियते, तव तु न तथेति भावः । प्रणयी जनः स्निग्धबान्धवोऽर्थी च ॥ एतदिति । क्षीणार्थमिति कृत्वाऽस्मद्गृहमतिथयः संत्यजन्ति । एतन्मां दहति । कालात्यये मदसमयापगमे धनलाभसमयापगमे च ॥ १२ ॥ एदे खु एते खलु । दासीपुत्रा अर्थरूपप्रातराशाः । वरटा 'वीरणी' इति ख्याता । तत- स्रस्ताः। अरण्ये गोपालपुत्रका इव यत्र यत्र न खाद्यान्त उपभुज्यन्ते तत्र तत्र

सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥13

अपि च,—

दारिद्याद्ह्रिययमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥14

 विदूषकः—भो वअस्स! तं ज्जेव अत्थकल्लवत्तअं सुमरिअ अलं संतप्पिदेण। [भो वयस्य तमेवार्थकल्यवर्त स्मृत्वालं संतापितेन।]

 चारुदत्तः—वयस्य! दारिद्र्यं हि पुरुषस्य,—

निवासश्चिन्तायाः परपरिभवो वैरमपरं।
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्।


यान्ति। सत्यमिति। विभवनाशकृता मम चिन्ता नास्ति । कथमित्यत आह--- भाग्यक्रमेण लब्धव्यक्रमेण धनानि भवन्ति। तर्हि चिन्ता कुत इत्यत आह-एतत्तु मां दहति यष्टधनाश्रयस्य मम सौहृदादपि मैत्रीतोऽपि जनाः शिथिलीभवन्ति । अर्थशून्येन समं प्रयोजनाभावामैत्रीमपि न केऽपि कुर्वते ॥ १३ ॥ दारिद्यादिति । लजां गच्छति, अकाङ्क्षिनासामर्थ्यात् यदा लज्जा गता तदा तेजसः प्रभ्रष्टो भवति, यावत्तावत्कारणात् । तेजःशून्यः परिभूयते, भयाभावात् । परिभवान्निर्वेदं गच्छति, मानम्लानेः । ततः शुचमेति, वृथा जीवनमिति । ततस्त्यज्यते बुद्भ्या । निर्बुद्धिः क्षयं गच्छति । तदुक्तम् ( ० २।६३ )–'बुद्धिनाशाप्रणश्यति इति । अत एव सर्वासमापदां स्थानमित्युपसंहरति ॥ १४ ॥ कल्लवत्तअं प्रातराशः । एतद्रूपत्वे चार्थस्य तावद्रूपद्रव्यत्वाज्जनान्तरानवाहितत्वाच्च तद्वि- स्मृय धर्मचित्ताः साधवो भवन्तीत्याशयः ॥ निवास इति । चिन्ताया


पाठा०---१ तत्परिगतः, २ शोकविहतो.
१६
मृच्छकटिके

वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो
हृदिस्थः शोकाग्निर्न च दहति संतापयति च ॥ १५ ॥

तद्वयस्य! कृतो मया गृहदेवताभ्यो बलिः। गच्छ, त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर।

विदूषकः—ण गमिस्सं। [न गमिष्यामि।]

चारुदत्तः—किमर्थम्?।

विदूषकः—जदो एव्वं पूइज्जंता वि देवणा ण दे पसीदंति, ता को गुणो देवेसु अच्चिदेसु?। [यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति, तत्को गुणो देवेष्वर्चितेषु?।]

चारुदत्तः—वयस्य! मा मैवम्, गृहस्थस्य नित्योऽयं विधिः;

तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः? ॥ १६ ॥

तद्गच्छ, मातृभ्यो बलिमुपहर।

विदूषकः—भो! ण गमिस्सं; अण्णो को वि पउंजीअदु। मम उण बम्हणस्स सव्वं ज्जेव्व विपरीदं परिणमदि। आदंसगदा विअ छाआ वामादो दक्खिणा दक्खिणादो वामा। अण्णं च एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा संचरंति । ता


निवासः ' कथं मम निर्वाहः स्यात्?' इत्येवंरूपायाः। परस्य परिभव इति षष्टीसमासः, कर्माधारयो वा। एत्ज्चावश्वनीयतया निर्धनानां ज्ञेयम् । जुगुप्सा मित्राणामिति; प्रत्युपकारासमर्थत्वात्। स्वजनानां बन्धूनाम्, जनानामन्येषामुदासीनानाम् । करणं कृतिः। कर्तरि करणे वा ल्युद्। भवति चेति चकारो हेतौ । वनगमने कलत्रपरिभवो हेतुः। ॥१५॥ न गमिष्यामि ॥ एवं पूज्यमाना अपि देवाः न फलं दर्शयन्ति, तत्को गुणोऽर्चितेषु देवेषु?॥ नित्योऽयं विधिः ; अकरणे प्रत्यवायात् । तपसेति । तुष्यन्ति परलोकमुत्कृष्टं प्रयच्छन्ति । यतः श्राद्धकृततिथिप्रियो गृहस्थोऽपि मुच्यत इति भावः ॥ १६ ॥ मंडूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावत्थिदो वज्झो दार्णि भविस्सं । तुम इध उवविठ्ठो किं करिस्ससि ? । [ भोः ! न गमिष्यामि; अन्यः कोऽपि प्रयुज्यताम् । मम पुनर्ब्राह्मणस्य सर्वमेव विपरीतं परिणमति । आदर्शगतेव छाया वामतो दक्षिणो दक्षिणतो वामा । अन्यञ्चैतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटावेश्चेेटा राजवल्लभाश्च पुरुषाः संचरन्ति । तस्मान्मण्डूकलुब्धस्य कालसर्पस्य मूषिक इवाभिमुखापतितो वध्य इदानीं भविष्यामि । त्वमिह उपविष्टः किं करिष्यसि ?।]

 चारुदत्तः--भवतु, तिष्ठ तावत् ; अहं समाधिं निर्वर्तयामि ।

(नेपध्ये )

तिष्ठ वसन्तसेनें ! तिष्ठ ।

(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना )

विटः–वसन्तसेने ! तिष्ठ तिष्ठ,

किं त्वं भयेन परिवर्तितसौकुमार्या
नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टि-
र्व्याधानुसारचकिता हरिणीव यासि ॥ १७ ॥


अन्यः कोऽपि प्रयुज्यताम् । मम सर्वमेव विपरीतमुपनमति । आदर्शगता छायेव । आदर्शस्थप्रतिविम्बे वामो भागो दक्षिणे दृश्यते, दक्षिणश्च वाम इति वस्तुगतिः । अन्यञ्चैतस्यां प्रदोषवेलायामत्र राजमार्गे गणिको विटाश्चेटा राजवल्लभाः संवसन्ति । एतेन विटादीनां प्रवेशं सूचयति । नासूचितस्य प्रवेशः' इति । मण्डूकलुब्धस्येव कालसर्पस्य मुखापत्तितो मूषिक इव वध्यो भविष्यामि। किं त्वमिति । विशदौ संचरणलाघवगुणान्वितौ, पटू इति यावत् । उद्विघ्नचञ्चलकटाक्षरूपेण विसृष्टा दृष्टिर्यया सा तथा। अनुसारोऽनुगमनम्। व्याधेन यदनुगमनं तेन त्रस्ता मृगीव ॥ १७ ॥

मृ० १
१८
मृच्छकटिका

शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

किं याशि धाविशि पलाअशि पक्खलंती
वाशू! पशीद ण मलिस्सशि च्यिश्ट दाव।
कामेण दज्झदि हु मे हडके तवश्शी
अंगाललाशिपडिदे विअ मंशखंडे॥ १८ ॥

[तिष्ठ वसन्तसेनिके! तिष्ठ,

किं यासि धावसि पलायसे प्रस्खलन्ती
वासु! प्रसीद न मरिष्यसि तिष्ठ तावत्।
कामेन दह्यते खलु मे हदयं तपस्वि
अङ्गारराशिपतितमिव मांसखण्डम्॥]

चेटः—अज्जुके! चिट्ठ, चिट्ठ,

उत्ताशिता गच्छशि अंतिका मे शंपुण्णपच्छा विअ गिम्हमोरी।
ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कडशावके व्व॥ १९ ॥

[आर्ये! तिष्ठ, तिष्ठ,

उत्त्रासिता गच्छस्यन्तिकान्मम सम्पूर्णपक्षेव ग्रीष्ममयूरी।
अववल्गति स्वामिभट्टारको मम वने गतः कुक्कुटशावक इव॥]


शकारभाषायां चवर्गशिरस्थितोऽन्तस्थो यकारो लेख्यः ।”पूस्पृष्टा तालव्य’ इति वचनात्। स च संयोगः प्रयत्नलाघवात्पूर्वस्य गुरुत्वं न करोति। च्यिश्टतिष्ट। किं याशीत्यादि । वसन्ततिलकाच्छन्दसा श्लोकः । प्रस्खलन्ती। प्रस्खलनं निम्नोन्नतादौ गतिविघटनम् ।”बाला स्याद्वासूः इति अमरः’। न म्रियसे। तिष्ठ तावत् । हडके ह्रदयम्। तवश्शी वराकः। अङ्गारराशिपतितंमांसखण्डमिव कामेन दह्यते॥ १८॥ अज्जुके गणिके । उत्ताशितेत्यादि। उपजातिच्छन्दसा श्लोकः । उन्त्रासिता गच्छस्यन्तिकान्मम । यद्वा,-अत्तिका ज्येष्ठा मे भगिनी ।"”अत्तिका भगिनी ज्येष्ठा’ इत्यमरः । संपूर्णापक्षेव ग्रीष्ममयूरी। ओवग्गदी अववल्गति, ससंभ्रममागच्छतीत्यर्थः। शामिअमश्टके स्वामिभट्टारकः। वने गतः कुक्कुटशावक इव । गडे इति प्रथमान्तस्यैकारान्तत्वम्।  विटः—वसन्तसेने! तिष्ठ तिष्ठ,

किं यासि बालकदलीव विकम्पमाना
रक्तांशुकं पवनलोलदशं वहन्ती।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती
टङ्कैर्मनःशिलगुहेव विदार्यमाणा॥ २०

 शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

मम मअणमणंगं मम्मथं वड्ढअंती
णिशि अ शअणके मे णिद्दअं आक्खिवंती।
पशलशि भअभीदा पक्खलंती खलंती
मम वशमणुजादा लावणश्शेव कुंती॥ 21

[तिष्ठ वसन्तसेने! तिष्ठ,—

मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती।
प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती
मम वशमनुयाता रावणस्येव कुन्ती॥]


{{‘गतमृतकृतानां डः' इति डः॥१९॥ किं यासीति। ‘टङ्कः पाषाणदारणः इत्यमरः। विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति। कुड्मलं कलिका। मनःशिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः। 'मनःशिला तु कुनदी' इत्यमरः॥२०॥ मम मअणेत्यादि। मालिनीच्छन्दसा श्लोकः। मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि प्रगच्छसि। “प्रखरसि दात्यूहवद्विरौषि' इति केचित्। भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती। भयभीतेति। 'भय'शब्दोऽयमपार्थकः। ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम्। 'रावणस्येव कुन्ती” इति हृतोपमम्। तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम्।}} विटः—वसन्तसेने!

किं त्वं पदैर्मम पदानि विशेषयन्ती
व्यालीव यासि पतगेन्द्रभयाभिभूता।
वेगादहं प्रविसृतः पवनं न रुन्ध्यां
त्वन्निग्रहे तु वरगात्रि! न मे प्रयत्नः॥ २२

शकारः—भावे भावे!

एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका
णिण्णाशा कुलणाशिका अवशिका कामस्स मंजूशिका।
एशा वेशवहू शुवेशणिलआ वेशंगणा वेशिआ
एशे शे दशणामके मयि कले अज्जावि मं णेच्छदि॥ २३

[भाव भाव!

एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका
निर्नासा कुलनाशिका अवशिका कामस्य मञ्जूषिका।
एषा वेशवधूः सुवेशनिलया वेशाङ्गना वेशिका
एतान्यस्या दश नामकानि मया कृतान्यद्यापि मां नेच्छति॥


व्यर्थेकामपार्थं भवति हि वचनं शकारस्य ॥ इति ॥ ३१ ॥ विशेषयन्ती अतिशयाना । व्याली सर्पी । प्रविसृतः प्रचलितः । वातं न निरुणध्मि, अपि तु रुणध्म्येव। नकारः काकौ ॥ २२ ॥ 'भावो विद्वान्' इत्यमरः ॥ एशा णाणक्रेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाङ्कं टङ्ककादिवित्तं तस्य मोषणशीलः कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किंचित्तया चोपकरणं भवति । तदत्र कशोक्ता । कशा चाश्वताड़नी । चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । “मच्छं शुष्कमांसम्' इत्येके । लाशिका नर्तकी। णिण्णाशा निम्ननासा । कुलणाशिका कुलं कुलं वंशस्तन्नाशयति पातियजननात् । ‘णीशाशा' इति पाठे नि:स्वानामाशा (?) । कुलनाशिकेत्यर्थः । अवशिकाऽनायत्ता दानेनापि कस्याप्यायत्ता न भवति । कामस्य मञ्जूषिका पात्रविशेषः। कन्दर्पभाजनमिव, वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः ।


पाडा०-१ निरुन्ध्यां  विटः

प्रसरसि भयविक्लवा किमर्थं
प्रचलितकुण्डलघृष्टगण्डपार्श्वा।
विटजननखघट्टितेव वीणा
जलधरगर्जितभीतसारसीव॥२५

 शकारः

झाणज्झणंतबहुभूशणशद्दमिश्शं
किं दोव्वदी विअ पलाअशि लामभीदा ? ।
एशे हलामि शहश त्ति जधा हणूमे
बिश्शावशुश्श बहिर्णिं विअ तं शुभहं॥ २५

[झणज्झणमिति बहुभूषणशब्दमिश्रं किं द्रौपदीव पलायसे रामभीता।
एष हरामि सहसेति यथा हनूमान्विश्वावसोर्भगिनीमिव तां सुभद्राम्॥]

 चेटः

लामेहि अ लाअवल्लहं तो क्खाहिशि मच्छमंशकं।
एदेहिं मच्छमंशकेहिं शुणआ मडअं ण शेवंदि॥ २६

[रमय च राजवल्लभं ततः खादिष्यसि मत्स्यमांसकम्।
एताभ्यां मत्स्यमांसाभ्यां श्वानो मृतकं न सेवन्ते॥]


‘वेशो वेश्यानाश्रयः' इत्यमरः । सुवेशनिलया शोभनानां वेशानामलंकाराणां निलय आश्चयो यस्यां सा । वेशाङ्गना वेशोऽयास्तीति वेशिका । एतान्यस्या दश नामकानि मया कृतानि । अद्यापि मां नेच्छति । यदि देवताया अष्टौ दश द्वादश वा नामानि पठ्यन्ते तदा सो प्रसन्ना भवति; इयं वेतावतापि न प्रसन्नेति भावः । अत्र पूर्वार्धात्तरार्धयोः एषैषेति पुनरुक्तम्, न्यूनमधिकं वां कृतम् । दशेति व्यर्थम् ॥ २३ ॥ प्रसरसीत्यादि । प्रचलिताभ्यां कुण्डलीभ्यां गण्डयोघृष्टं पार्श्वं यस्याः सा । अत एव विटनखपरिभृष्टवीणातुल्या । मनोहर त्वाच्छन्दवत्त्वाद्वा वीणातुल्यत्वम् । विटसदृशौ कुण्डलौ ॥ २४ ॥ झाणज्झणंतेति । वसन्ततिलकं छन्दः । झाणज्झणंतेत्यव्यक्तानुकरणम्। । अव्यक्तशब्दविशेषयुक्तबहुभूषणशब्देन मिश्रं यथा स्यादेवम् । किं द्रौपदीव पलायसे रामभीता । एष हरामि झटिति यथा हनुमान् विश्वावसोभगिनीमिव त सुभद्राम् । विश्वावसोः सिद्धराजविशेषस्य भगिनी सुभद्रा न, किं तर्हि ? कृष्णस्य । यथा इवेति पुनरुक्तम् ॥ ३५ ॥ लाभहीत्यादि । प्रतिपादं चतुर्दशमात्रत्वान्मात्रा विटः–भवति वसन्तसेने ।

किं त्वं कटीतटनिवेशितमुद्रहन्ती ।
ताराविचित्ररुचिरं रशनाकलापम् ।
वक्त्रेण निर्मथितचूर्णमनःशिलेन
त्रस्ताद्भुतं नगरदैवतवत्प्रयासि ॥ २७ ॥

 शकारः-

अम्हेहिं चंडं अहिशालिअंती वणे शिआली विअ कुक्कुलेहिं ।
पलाशि शिग्धं तुलिदं शवेग्गं शवेग्गं शवेंटणं में हलअं हलं ती ॥ २८ ॥

[अस्माभिश्चण्डमभिसार्यमाणा शृगालीव कुकुरैः ।।
पलायसे शीघ्रं त्वरितं सवेगं सवृन्तं मम हृदयं हरन्ती ।]

 वसन्तसेना–पल्लवआ पल्लवआ ! परहुदिए परहुदिये ! ।।[ पल्लवक पल्लवक ! परभृतिके परभृतिके !]

 शकारः----( सभयम् ) भावे भावे ! मणुश्शे मणुश्शे ! । [ भाव भाव ! मनुष्या मनुष्याः !]


समकं छन्दः । लामेहि अ रमय च । चकारो भिन्न क्रमः । राजवल्लभं चेत्यर्थः । तो षा(क्खा) हिशि ततः खादिष्यसि मत्स्यमांसकम् । ‘तो इत्योकारो लधुश्छन्दोनुरोधात्' इत्याहुः । “एओकारो हलन्तस्थौ शुद्धौ वाध्यपदान्वितौ । दीर्घात्परौ लधू स्यातां छन्दोविचितिभाषया । इत्युक्तम् । एदेहिं मच्छमंशकेहिं एताभ्यां मत्स्यमांसाभ्यां हेतुभ्याम्। मच्छकलेहिं' इति पाठे मत्स्यशुष्कमांसाभ्यामित्यर्थः । ककारः स्वार्थे । शुणआ श्वानः । मृतकं न सेवन्ते । नकारः शिरश्चालने । न सेवन्ते इति न, अपि तु सेवन्त एवेत्यर्थः ॥ २६ ॥

किं त्वमिति । वकेणा लक्षिता नगरदेवतावत्प्रयासि । कीदृशेन वक्रेण । निर्मथितचूर्णमनःशिलातुल्येन ।। २७ ॥ अम्हेहि चण्डमितिउपेन्द्रवज्रा छन्दः। अस्माभिश्चण्डं शीघ्रमभिसार्यमाणा वने शृगालीव कुक्कुरैः । पलायसे शीघ्रं त्वरितं सवेगं शर्वेटणं सवृन्तं समूलबन्धम् । मे हेलअं मम हृदयम् । [[rule}} पाठा०-१ शवेढणं,  विटः—न भेतव्यं न भेतव्यम्।

 वसन्तसेना—माहविए माहविए!। [माधविके माधविके!।]

 विटः—(सहासम्) मूर्ख! परिजनोऽन्विष्यते।

 शकार—भावे भावे। इत्थिअं अण्णेशदि। [भाव भाव! स्त्रियमन्वेषयति।]

 विटः—अथ किम्।

 शकारः—इश्यिआणं शदं मालेमि। शूले हगे। [स्त्रीणां शतं मारयामि। शूरोऽहम्।।

 वसन्तुसेना—(शून्यमवलोक्य) हद्धी हद्धी, कधं परिअणो वि परिब्भट्टो। एत्थ मए अप्पा शअं ज्जेव्व रक्खिदव्वो। [हा धिक् हा धिक्, कथं परिजनोऽपि परिभ्रष्टः। अत्र मयात्मा स्वयमेव रक्षितव्यः।]

 विटः—अन्विष्यतामन्विष्यताम्।

 शकारः—वशंतशेणिए। विलव विलव पलहुदिअं वा पल्लवअं वा शव्वं वा वशंतमाशं। मए अहिशालिअंतीं तुमं के पलित्ताइश्शदि?।

किं भीमशेणे जमदग्गिपुत्ते कुंतीशुदे वा दशकंधले वा।
एशे हगे गेण्हिय केशहश्ते दुश्शाशणश्शाणुकिदिं कलेमि॥२९॥


हरन्ती। 'सवेंटणं सवेष्टनमित्यर्थः' इत्येकै॥२८॥ पल्लवकः परभृतिका च वसन्तसेनायाः परिचारकः परिचारिका च। माधविका अपरा परिचारिका॥ भावे भावे इति संबोधनम्। मणुश्शे मनुष्यः॥ स्त्रीनामश्रवणेन सगर्वमाह—भाव। स्त्रियमन्वेषयति॥ स्त्रीणां शतं मारयामि। शूले शूरः। हगे अहम्॥ हद्धी हद्धी हा धिकू हा धिक्। विलप। किमेकदेशविलापेन सकलं वसन्तमासं वा। अत्र पक्षे एक 'वा'शब्दः शकारवचनतया व्यर्थं एवं प्रयुक्तः। अनेकार्थत्वान्निपातानामवधारणे वा। सर्वमेद वसन्तमासमित्यर्थः। को तुमं त्वां परित्रायते॥ किं भीमशेणे इत्यादि। इन्द्रवज्राश्लोकः। किं भीमसेनो णं पेक्ख णं पेक्ख,—

अशी शुतिक्स्त्रे वलिदे अ मश्तके
कप्पेम शीशं उद मालएम वा।
अलं तवेदेण पलाइदेण
मुमुक्खु जे होदि ण शे खु जीअदि॥३०॥

[वसन्तसेनिके! विलप विलप परभृतिकां वा पल्लवकं वा सर्व वा वसन्तमासम्। मयाभिसार्यमाणां त्वां कः परित्रास्यते?।

किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा।
एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि।।

ननु प्रेक्षस्व ननु प्रेक्षस्व,

असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा।
अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति॥]

 वसन्तसेना—अज्ज! अबला खु अहं। [आर्य! अबला खल्यहम्।]

 विटः—अत एव ध्रियसे।

 शकारः—अदो ज्जेव्व ण मालीहशि। [अत एव न मार्यसे।]

 वसन्तसेना(स्वगतम्) कधं अणुणओ वि से भअं उप्पादेदि?। भोदु एव्वं दाव। (प्रकाशम्) अज्ज! इमादो किंपि अलंकरणं तक्कीअदि। [कथमनुनयोऽप्यस्य भयमुत्पादयति। भवतु एवं तावत्। आर्य! अस्मात्किमप्यलंकरणं तर्क्य॑ते।


जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा?। एते चत्वारः। एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि॥३१॥ णं ननु। पेक्ख प्रेक्षस्व। अशी शुतिक्खे इति। वंशस्थेन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवर्णैर्विजात्युपजातिः। असिः सुतीक्ष्णो वलितो लालितः। मस्तकम्। कल्पये छिनद्मि। तव शीघ्रं मारयामि वा॥ अलं तवैतेन पलायितेन। मुमूर्षुर्यो भवति न स खलु जीवति॥३०॥


टिप्प०—1 ईदृशभाषणात्  विटः—शान्तं पापं शान्तं पापम्। भवति वसन्तसेने! पुष्पमोषमर्हत्युद्यानलता। तत्कृतमलंकरणैः।

 वसन्तसेना— ता किं खु दाणिं। [तत्किं खल्विदानीम्।]

 शकारः— हग्गे वरपुलिशमणुश्शे वाशुदेवके कामइदव्वे। [अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः।]

 वसन्तसेना—(सक्रोधम्) संतं पावं। अवेहि, अणज्जं मंतेशि। [शान्तं पापम्। अपेहि, अनर्ह मन्त्रयसि।]

 शकारः—(सतालिकं विहस्य) भावे भावे। पेक्ख दाव। मं अंतलेण शुशिणिद्धा एशा गणिआदालिआ णं। जेण मं भणादि — 'एहि। शंते शि। किलिंते शि' त्ति। हग्गे ण गामंतलं ण णगलंतलं वा गडे। अज्जुके! शवामि भावश्श शीशं अत्तणकेहिं पादेहिं। तब ज्जेव्व पश्चाणुपश्चिआए आहिंडंते शंते किलिंते म्हि शंवुत्ते। [भाव भाव! प्रेक्षस्व तावत्। मामन्तरेण सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—'एहि। श्रान्तोऽसि। क्लान्तोऽसि' इति। अहं न ग्रामान्तरं न नगरान्तरं वा गतः। भट्टालिके! शपे भवस्य शीर्षमात्मीयाभ्यां पादाभ्याम्। तवैव पृष्ठानुष्टिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृतः।]


अबला खल्वहम्॥ अल एव ध्रियसे जीवसि। बलवान्धारयितुं न शक्यत एवेति तात्पर्यम्॥ अत एव न मार्यसे॥ तक्कोअदि अन्विष्यते॥ कृतं निःफलमलंकरणैः। यत उद्यानलता पुष्पमोषं नार्हति। अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्य इति तर्क्यत इत्याशयः॥ संतं शान्तम्। अनार्यमनर्हम्॥ सतालिकम्। विटस्य हस्ते तालदानं कृत्वेत्यर्थः। भाव! प्रेक्षस्व तावत्। मं अन्तरेण। 'मयीत्यर्थः' इत्येके। अन्तरेण चित्तेन अन्योन्यं सुस्निग्धैषा गणिकादारिका ननु। येन मां भणति—‘एहि। श्रान्तोऽसि। क्लान्तोऽसि।' हग्गे अहं न ग्रामान्तरगतो न नगरान्तरागतः। ग्रामान्तरागतो नगरान्तरगतश्च श्रान्तः क्लान्तश्च भवति, न त्वहमीदृश इत्याशयः। अज्जुके भट्टालिके। भावस्य विटस्य।  विटः—(स्वगतम्) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यगच्छति मूर्खः॥ (प्रकाशम्) वसन्तसेने! वेशवासविरुद्धमभिहितं भवत्या। पश्य,—

तरुणजनसहायश्चिन्त्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव।
वहसि हि धनहार्यं पण्यभूतं शरीरं
सममुपचर भद्रे! सुप्रियं वाप्रियं वा॥३१॥

अपि च,—

वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः
फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा।
ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे
त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज॥३२॥

 वसन्तसेना— गुणो खु अणुराअस्स कारणं, ण उण बलक्कारो । [ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः ।]

 शकारः— भावे भावे ! एशा गब्भदाशी कामदेवाअदणुज्जाणादॊ पहुदि ताह दलिद्दचालुहत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श धलं । जधा तव मम अ हश्तादो ण एशा पलिब्भंशदि तध। कलेदु भावे । [ भाव भाव ! एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति


शीर्षॆणात्मीयाभ्यां पादाभ्यां शपे । यदग्रे वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानु- पृष्ठिकया। अहिंडन्ते उद्भ्राम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥ तरुणेत्यादि । वेशो वेश्याजनवासस्थानम् ॥ ३१॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति॑ इत्यर्थे यक्यकारलोपेच रूपम् । यथा मगधशब्दे मगध्यतीति भवति । नामं करोतीत्यर्थे णिचि संज्ञा पूर्वको विधिरनित्यः' इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम् इत्येके । “ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥ तस्य दरिद्रचारुदत्तस्यानुरक्ता न मां कामयते । वामतस्तस्य गृहम् । यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः ।]

 विटः — ( स्वगतम्) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः । कथं वसन्तसेनार्यचारुदत्तमनुरक्ता ?। सुष्ठु खल्विदमुच्यते — रत्नं रत्नेन संगच्छते' इति । तद्गच्छतु, किमनेन मूर्खेण । (प्रकाशम् ) काणेलीमातः ! वामतस्तस्य सार्थवाहस्य गृहम् ।

 शकारः— अध इं । वामदो तश्श घलं । [ अथ किम् । वामतस्तस्य गृहम् ।]

 वसन्तसेना— (स्वगतम् ) अम्महे, वामदो तस्स गेहं त्ति जं सच्चं, अवरज्झंतेण वि दुज्जणेण उवकिदं, जेण पिअ- संगमं पाविदं । [आश्चर्यम्, वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्य- तापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः । ]

 शकारः— भावे भावे ! बलिए खु अंधआले माशलाशिपविश्टा विअ मशिगुडिआ दीशंती ज्जेव्व पणश्टा वशंतशेणिआ । [ भाव भाव ! बलीयसि खल्वन्धकारे माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । ]

 विटः— अहो, बलवानन्धकारः । तथा हि,—

आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।


गुणः खल्वनुरागस्य कारणम् , न पुनर्बलात्कारः ।। गर्भदासी जन्मप्रभृतिचेटी । तहा तस्य । वामतः पार्श्वॆ तस्य चारुदत्तस्य गृहम् । ततो यथा तव मम च हस्तान्नैषा प्रभ्रश्यति तथा करोतु भावः ॥ परिहर्तव्यम् । चारुदत्तवासॊऽतिनिकट इति वसन्तसेनायाः कथयितुं नार्हतीति तदेव च तेनोक्तम् । तद्वचनं परिहारविषयः । काणेलीमातः । ‘काणेली कन्यकामाता' इति देशीप्रकाशः। 'असती कणली' इत्येके ।। भाव ! बलीयानन्धकारः । माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ॥ आलोकेति । आलोके दर्शने । विशाला


टिप्प — 1 चारुदत्तस्य

उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण॥३३॥

अपि च,—

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता॥३४॥

 शकारः—भावे भावे! अण्णेशामि वशंतशेणिअं। [भाव भाव! अन्विष्यामि वसन्तसेनिकाम्।]

 विटः—काणेलीमातः। अस्ति किंचिच्चिह्नं यदुपलक्षयसि।

 शकारः—भावे भावे! किं विअ? [भाव भाव! किमिव?।]

 विटः—भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा।

 शकारः—शुणामि मल्लगंधं, अंधआलपुलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दं। [शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्।]

 विटः—(जनान्तिकम्) वसन्तसेने।

कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामिनीव जलदोदरसंधिलीना।
त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं
गन्धश्च भीरु! मुखराणि च नूपुराणि॥३५॥

श्रुतं वसन्तसेने!।।

 वसन्तसेना—(स्वगतम्) सुदं गहिदं च। (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य) अम्मो, भित्ति-


महती॥३३॥ लिम्पतीत्यादि।॥३४॥ भाव! अन्विष्यामि वसन्तसेनाम्।। चिह्नं भूषणशब्दादि। उपलक्षणं माल्यगन्धादि। ‘अस्ति किंचिच्चिह्नमुपलक्षयसि’ इति पाठान्तरार्थों व्यक्त एव॥ किं विअ। कीदृशमिवेत्यर्थः॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्। ‘शुणामि मल्लगंधं’ इत्यादिना लोकविरुद्धोक्तिः॥ काममित्यादि॥३५॥ श्रुतमवधारितम्॥ गृहीतमस्य तात्पर्यमप्याकलितम्। अये मतिः। भित्तिपरामपरामरिससूचिदं पक्खदुआरअं खु एदं। जाणामि अ संजोएण गेहस्स संवुदं पक्खदुआरअं। [श्रुतं गृहीतं च। अहो, भित्तिपरामर्शसूचितं पक्षद्वारकं खल्वेतत्। जानामि च संयोगेन गेहस्य संवृत्तं पक्षद्वारकम्।]

 चारुदत्तः–वयस्य! समाप्तजपोऽस्मि। तत्सांप्रतं गच्छ। मातृभ्यो बलिमुपहर॥

 विदूषकः–भो, ण गमिस्सं। [भोः, न गमिष्यामि।]

 चारुदत्तः–धिक्कष्टम्,—

दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते
सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः।
सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते
पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते॥३६॥

अपि च,—

सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्
संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते।
दुरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्॥३७॥

अपि च,—

दारिद्य! शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा।
विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्॥३८॥


र्शसूचितं पक्षद्वारं खल्वेतत्। जानामि संयोगेन स्पर्शनेन्द्रियानुभवेन गृहस्य संवृतं पक्षद्वारकम्॥ दरियादित्यादि। बान्धवजनो वाक्ये न संतिष्ठते। वचनं न करोतीत्यर्थः। प्रतापाभावात्। स्फारीभवन्त्येकीभवन्ति। तस्य संभाव्यते चौर्यादिकमिदमस्य मासीदिदानीं कथमित्यादि॥३३॥ सङ्गमित्यादि। अल्पच्छदो वस्त्रविहीनः॥३७॥ दारिद्येति। भवन्तमेवं शोचामि। विनष्टदेहे मयि क्व यास्यसि?। अस्मत्सदृक्सार्वदिकः सुहृत्कोऽपि नास्तीत्यर्थः। अर्थपरत्वा  विदूषकः—(सवैलक्ष्यम्) भो वअस्स! जइ मए गंतव्वं, ता एसा वि में सहाइणी रदणिआ भोदु। [भो वयस्य! यदि मया गन्तव्यम्, तदेषापि मम सहायिनी रदनिका भवतु।]

 चारुदत्तः—रदनिके! मैत्रेयमनुगच्छ।

 चेटी—जं अज्जो आणवेदि। [यदार्य आज्ञापयति।]

 विदूषकः—भोदि रदणिए! गेण्ह बलिं पदीवं च। अहं अवावुदं पक्खदुआरअं करेमि। (तथा करोति) [भवति रदनिके! गृहाण बलिं प्रदीपं च। अहमपावृतं पक्षद्वारकं करोमि।]

 वसन्तसेना—मम अब्भुत्रवत्तिणिमित्तं विअ अवावुदं पक्खदुआरअं। ता जाव पविसामि। (दृष्ट्वा) हद्धी इद्धी, कधं पदीवो। (पटान्तेन निर्वाप्य प्रविष्टा) [ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम्। तद्यावत्प्रविशामि। हा धिक् हा धिक्, कथं प्रदीपः।]

 चारुदत्तः—मैत्रेय! किमेतत्?।

 विदूषकः—अवावुदपक्खदुआरएण पिंडीभूदेण वादेण णिव्वाविदो पदीवो। भोदि रदणिए! णिक्कम तुमं पक्खदुआरएण। अहंपि अब्भंतरचदुस्सालादो पदीवं पज्जालिअ आअच्छामि। (इति निष्क्रान्तः) [अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः भवति रदनिके! निष्काम त्वं पक्षद्वारकेण। अहमप्यभ्यन्तरचतुःशालाः प्रदीपं प्रज्वाल्यागछामि।]


पुंलिङ्गत्वम्। यद्वा,—‘तमेवं भवमुत्पत्तिं स्मरामि' इति कुव्याख्या। सुहृन्मित्रम्। अतो हेतोः मयि विनष्टदेहे क्व यास्यसि त्वमिति मे चारुदत्तस्य चिन्ता॥३८॥ सहाइणी द्वितीया॥ अवावुदं अपा_तम्॥ अभ्युपपत्तिरनुग्रहः। स्थगितद्वारेणापसरणाभावत्पिण्डीभूतेनैकीभूतेन प्रतिबन्धकत्वात्। अपाते पक्षद्वारे सति  शकार—भावे भावे! अण्णेशामि वशंतशेणिशं। [भाव भाव! अन्वेषयामि वसन्तसेनिकाम्।]

 चिटः—अन्विष्यतामन्विष्यताम्।

 शकारः—(तथा कृत्वा) भावे भावे। गहिदा गहिदा। [भाव भाव! गृहीता गृहीता।]

 विट—मूर्ख। नन्वहम्।

 शकारः—इदो दाव भविअ एअंते भावे च्यिश्टदु। (पुनरन्विष्य चेटं गृहीत्वा) भावे भावे! गहिदा गहिदा। [इतस्तावहूत्या एकान्ते भावस्तिष्ठतु। भाव भाव! गृहीता गृहीता।]

 चेटः—भश्टके, चेडे हग्गे। [भट्टारक! चेटोऽहम्।]

 शकारः—इदो भावे, इदो चेडे। भावे चेडे, चेडे भावे। तुम्हे दाव एअंते च्यिश्ट। (पुनरन्विष्य रदनिका केशेषु गृहीत्वा।) भावे भावे। शपदं गहिदी गहिदा वशंतशेणिआ।

अंधआले पलाअंती मल्लगंधेण शूइदा।
केशविदे पलामिश्टा चाणक्केणेव्व दोव्वदी॥३९॥

 [इतो भावः, इतश्वेटः। भावश्चेटः, चेटो भावः। युवां तावदेकान्ते तिष्ठतम्। भाव भाव! सांप्रतं गृहीता गृहीता वसन्तसेनिका।

अन्धकारे पलायमाना माल्यगन्धेन सूचिता।
केशवृन्दे परामृष्ट चाणक्येनेव द्रौपदी॥]


निर्वापितो दीपः।। भाव! गृहीता प्राप्ता॥ तत इत एकप्रदेशे भूत्वैकान्ते हे भाव! तिष्ठ॥ भट्टारक! चेटोऽहम्॥ इदो भाव इत्यादि भ्रमव्युदासाय सुनिश्चयं करोति। युवा द्वावपि तावदेकान्ते तिष्ठतम्। संपदं सांप्रतम्। अंधआले इत्यादि। अनुष्टुप्। अन्धकारे पलायमाना माल्यगन्धेन सूचिता। केशवृन्दे परामृष्टा चाण-


पाठा०-१ केशहश्ते.  विटः

एषासि वयसो दर्पात्कुलपुत्रानुसारिणी।
केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता॥४०॥

 शकार

एशाशि वाशू शिलशि ग्गहीदा केशेशु बालेशु शिलोलुहेशु।
अक्कोश विक्कोश लवाहिचंडं शंभुं शिवं शंकलमीशलं वा॥४१॥

[एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु।
आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा॥]

 रदनिका—(सभयम्) किं अज्जमिस्सेहिं ववसिदं?। [किमार्यैमिश्रैव्र्यवसितम्?।]

 विटः—काणेलीमातः। अन्य एवैष स्वरसंयोगः।

 शकारः—भावे भावे! जधा दहिभत्तलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे। [भाव भाव! यथा दधिभक्तलुब्धाया मार्जारिकायाः स्वरपरिवृत्तिर्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता।]

 विटः—कथं स्वरपरिवर्तः कृतः?। अहो चित्रम्, अथवा किमत्र चित्रम्?।

इयं रङ्गप्रवेशेन कलानां चोपशिक्षया।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता॥४२॥


क्येनेव द्रौपदी॥३९॥ एषेति। कुलपुत्रानुसारिणी चारुदत्तानुरक्ता। सेवितव्येष्वलंकार्येषु॥४०॥ एशाशि वाशु इति। इन्द्रवज्रायाः श्लोकः। एषासि बाला शिरसि केशेषु बालेषु शिरोरुहेषु गृहीता। आक्रोश विकोश लप। अधिचण्डमत्युच्चैः। हिशब्द एव वा। चंडं महादेवं च शंभुं शिवं शंकरमीश्वरं वा॥४१॥ आयमिश्रैर्मान्यैः। व्यवसितमारब्धम्। भाव। यथा दधिभक्तलुब्धायां मार्जारिकायां स्वरपरिवृत्तिर्भवति तथैया स्वरपरिवृत्तिः कृता। 'दहिशर' इति पाठे

(प्रविश्य )

 विदूषकः— ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स विअ छागलस्स हिअअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी- तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]

 शकारः— भावे भावे ! मणुश्शे मणुश्शे । [भाव भाव ! मनुष्यो मनुष्यः । ]

 विदूषकः— जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द- दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]

 रदनिका — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय ! प्रेक्षस्व मे परिभवम् ।]

 विदुषक— किं तव परिहवो आदु अम्हाणं ।। { किं तव परिभवः अथवाऽस्माकम् ?।]

 रदनिका— णं तुम्हाणं ज्जेव्व । [ ननु युष्माकमेव ।]

 विदूषकः— किं एसो बलक्कारो ? । [ किमेष बलात्कारः १ ।

 रदनिका— अध इं । [ अथ किम् ।]

 विदूषकः— सच्चं । [ सत्यम् ।]

 रदनिका— सच्चं । [ सत्यम् ।

 विदूषकः— ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे कुक्कुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा


‘छल्लि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’ इति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति। ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येव; कृतद्वेषस्य वैरिणॊ


मृ ३ अम्हारिसजणभाअधेअकुडिलेण दंडकट्ठेण दुट्ठस्य विअ सुक्खाणवेणुअस्स मत्थअं दे पहारेहिं कुट्टइस्सं । [मा तावत् । भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं पुनरहं ब्राह्मणः । तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठॆन दुष्टस्येव शुष्कवेणुकस्य मस्तकं ते प्रहारैः कुट्टयिष्यामि। }

 विटः— महाब्राह्मण ! मर्षय मर्षय ।।

 विदूषकः— ( विटं दृष्ट्वा ) ण एत्थ एसो अवरज्झदि । ( शकारं दृष्ट्वा ) एसो खु एत्थ अवरज्झदि । अरे रे राअसालअ संठाणअ दुज्जण दुम्मणुस्स ! जुत्तं ण्णेदं । जई वि णाम तत्तभवं अज्ज चारु- दत्तो दलिद्दो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उज्जइणी ?। जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि ।

मा दुग्गदो त्ति परिहवो णत्थि कदंतस्स दुग्गदो णाम ।
चारित्तेण विहीणो अङ्को वि अ दुग्गदो होइ ॥ ४३ ॥

[नात्र एषोऽपराध्यति । एष खल्वत्रापराध्यति । अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्य ! युक्तमं नेदम् । यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः । तत्किं तस्य गुणैर्नालंकृतोज्जयिनी ? । येन तस्य गृहं प्रविश्य परिजनस्येदृश उपमर्दः क्रियते ।

मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम ।
चारित्र्येण विहीन आढ्यॊऽपि च दुर्गतो भवति ॥]


महादुष्टस्यानिग्रहॆऽपि ममापराधो भवत्येवेत्यर्थः । पाठान्तरे चोडे कर्णनासिकाशून्यः । दुट्ठस्स विअ दुष्टस्येव । आचरितद्वेषस्य वैरिणः । यद्वा,-दुष्टश्चानपराधोऽपि निग्रहं प्राप्नोत्येवेत्यर्थः । शुष्कवंशप्रहारेण । शुष्कॊऽतिदीर्घत्वप्रतिपादनाय । एवंभूतस्य शिरः कुट्यते। तथा तव शिरः कुट्टिष्यामि ।। राजश्यालकेत्यादि । संस्थानक इति तस्य नाम । उपमर्दो निग्रहः । मा दुग्गदो इति। गाथा । मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दैवस्य दुर्गतो नाम । 'नाम' संभावनायाम् । चारित्र्येण  विटः– ( सवैलक्ष्यम् ) महाब्राह्मण ! मर्षय मर्षय । अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् । पश्य,—

सकामान्विष्यतेऽस्माभिः ।

 विदूषकः— किं इअं ? । [ किमियम् ? ।]

 विटः– शान्तं पापम् ।।

काचित्स्वाधीनयौवना ।।
सा नेष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना ॥ ४४ ॥

सर्वथेदमनुनयसर्वस्वं गृह्यताम् । ( इति खङ्गमुत्सृज्य कृताञ्जलिः पादयोः पतति ) ।

 विदूषकः— सप्पुरिस ? उट्ठॆहि उट्ठॆहि । अआणंतेण मए तुमं उवालद्धे । संपदं उण जाणंतो अणुणेमि । [ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः । सांप्रतं पुनर्जानन्ननुनयामि । ]

 विटः— ननु भवानेवात्रानुनेयः । तदुत्तिष्ठामि समयतः ।

 विदूषकः— भणादु भवं । [ भणतु भवान् ।]

 विटः— यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि ।

 विदूषकः — ण कधइस्सं । [ न कथयिष्यामि ।]

 विट:—

एष ते प्रणयो विप्र ! शिरसा धार्यते मया ।
गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः ॥ ४५ ॥


विहीन आढ्यॊऽपि दुर्गतो दरिद्रो भवति ।। ४३ ॥ महाब्राह्मणश्चााण्डालः । सकामॆति ।‘सकामा', 'स्वाधीनयौवना ॑ इति पदाभ्यामस्या धारणं नापराधाय। सा वेश्या तिष्ठति न त्वियमित्याशयः । शीलवञ्चना दुश्चरितसंभावना ॥ ४४ ॥ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः; सांप्रतं पुनर्जानन्ननुनयामि । आदरविषयताऽनुनयः ॥ समयः क्रियाबन्धः ॥ समयमेवाह – यदीममिति ॥ एष इति गुणशस्त्रैः गुण एव शस्त्राणि तैः ॥ ४५ ॥ किंनिमित्तं पुनर्भाव ।


पाठा० — १ भ्रष्टा  शकारः—(सासूयम्) किंणिमित्तं उण भावे! एदश्श दुश्टवडुअश्श किविणं अंजलिं कदुअ पाएशु णिवडिदे?। [किंनिमित्तं पुनर्भाव! एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः?।]

 विटः—भीतोऽस्मि।

 शकारः—कश्श तुम भीदे ?। [कस्मात्त्वं भीतः?।]

 विटः—तस्य चारुदत्तस्य गुणेभ्यः।

 शकारः—के विअ तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पिणत्थि। [के इव तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति।]

 विटः—मा मैवम्,—

सोऽस्मद्विधानां प्रणयैः कृशीकृतो
न तेन कश्चिद्विभवैर्विमानितः।
निदाघकालेष्विव सोदको ह्रदो
नृणां स तृष्णामपनीय शुष्कवान्॥४६॥

 शकारः—(सामर्षम्) के शे गब्भदाशीअ पुत्ते?।

शूले विक्कंते पंडवे शेदकेदू
पुत्ते लाधाए लावणे इंददत्ते।
आहो कुंतीए तेण लामेण जादे
अश्शत्थामे धम्मपुत्ते जडाऊ॥४७॥

[कः स गर्भदास्याः पुत्रः?

शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः।
आहो कुन्त्यास्तेन रामेण जातः अश्वत्थामा धर्मपुत्रो जटायुः॥]


एतस्य दुष्टबटुकस्य पादयोर्निपतितः?। किविणं कृपणम्॥ के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति। यद्वा,—अण्हिअदव्वं पि आहिकद्रव्यमद्य भोक्तव्यमपीत्यर्थः।। स इति। प्रणयैः प्रार्थनाभिः। ‘स्नेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥ केशे गब्भदासीए पुत्ते शूले इत्यादि॥ श्लोको वैश्वदेव्या वृत्तेन। कः स गर्भदास्था जन्मदास्याः पुत्रः? शूरो बिकान्तः  विटः— मूर्ख ! आर्यचारुदत्तः खल्वसौ,

दीनानां कल्पवृक्षः स्वगुणफलनतः सञ्जनानां कुटुम्बी
आदर्शः शिक्षितानां सुचरितनिकषः शील वेलासमुद्रः ।
सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्वो
ह्यॆकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छुसन्तीव चान्ये ४८

तदितो गच्छामः ।।

 शकारः— अगेण्हिअ वशंतशेणिअं ?। [ अगृहीत्वा वसन्तसेनाम् ?]

 विटः— नष्टा वसन्तसेना ।

 शकारः— कधं विअ ? । [ कथमिव ? । ]

 विटः

अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य
मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य ।
स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या
त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥

 शकारः— अगेण्हिअ वशंतशेणिअं ण गमिश्शं । [ अगृहीत्वा वसन्तसेनां न गमिष्यामि ।।

 विटः— एतदपि न श्रुतं त्वया !

आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ५० ॥

 शकारः— यदि गच्छशि, गच्छ तुमं । इग्गे ण गमिश्शं । [ यदि गच्छसि, गच्छ त्वम् । अहं न गमिष्यामि ।]


पाण्डवः श्वेतकेतुः पुत्रॊ राधाया रावण इन्द्रदत्तः । आहो कुन्त्यास्तेन रामेण जातोऽश्वत्थामा धर्मपुत्रो जटायुः ॥ इदं व्यर्थं विरुद्धार्थम्। श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके त्रिंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्त- सेनाम् ॥ नष्टाऽदर्शनं गता । अन्धस्येति ॥ ४९ ॥ आलान इति

पाठा०—१ उषायास्तेन,  विटः— एवम् ; गच्छामि । ( इति निष्क्रान्तः )

 शकारः— गडे खु भावे अभावं । ( विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुश्टवडुअका | उवविश उवविश । [ गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक ! उपविशोपविश ।।

 विदूषकः— उववेसिदा जेव्त्र अम्हे । [ उपवेशिता एव वयम् ।]

 शकारः— केण ? । [ केन ? ।]

 विदूषकः— कअंतेण । [ कृतान्तेन ।]

 शकारः— उठ्ठॆहि उठ्ठॆहि । [उत्तिष्ठॊत्तिष्ठ ।]

 विदूषकः— उठ्ठिस्सामो। [ उत्थास्यामः ।]

 शकारः— कदा ? । [कदा ?।]

 विदूषकः– जदा पुणो वि देव्वं अणुऊलं भविस्सदि । [यदा पुनरपि दैवमनुकूलं भविष्यति ।।

 शकारः— अले, लोद लोद । [ अरे, रुदिहि रुदिहि ।]

 विदूषकः— रोदाविदा जेव्व अम्हे । [ रोदिता एव वयम् ।

 शकारः— केण ? । [ केन ? ।।

 विदूषकः– दुग्गदीए । [दुर्गत्या।]

 शकारः— अले, हश हश । [अरे, हस हस ।]


यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ ततः खलु भावोऽभावमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्रायः प्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः। केचित्तु-काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेस्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्त्वम् न दोषः। दुष्टचटो। अरे रुदिहि ॥ अरे दुष्टबटुक ! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् -‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्त विदूषकः—हसिस्सामो। [हसिष्यामः।]

 शकारः—कदा?। [कदा?।]

 विदूषकः—पुणो वि रिद्धीए अज्जचारुदत्तस्स । [पुनरपि ऋद्ध्यार्यचारुदत्तस्य।]

 शकारः—अले दुश्टवडुअका| भणेशि मम वअणेण तं दलिद्दचालुदत्तक—’एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तधालिव्व वशंतशेणिआ णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविश्टा। ता जइ मम हस्ते शअं ज्जेव्व पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविश्शदि। आदु अणिज्जादमाणाह आमलणंतिके वेले हुविश्शदि। अवि अ पेक्ख पेक्ख,

कश्चालुका गोछडलित्तवेंटा
शाके अ शुक्खे तलिदै हु मंशे।
भत्ते अ हेमंतिअलत्तिशिद्धे।
लीणे अ वेले ण हु होदि पूदी॥५१॥

शोश्तकं भणेशि, लश्तकं भणेशि। तधा भणेशि जधा हग्गे अत्तणके-


सेनानाम्नि गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ताऽस्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहारनाम्नो नवमाङ्कस्य सूचनम्। लघु शीघ्रम्। णिज्जादमाणाह निर्यातयतः। तव मयानुबद्धा प्रीतिर्भविष्यति। अणिज्जादमाणाह अनिर्यातयतः। आमरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व। कश्चालुका इत्यादि। उपजातिच्छन्दसा। कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं पलिरं प्रचुरप्रलेहं मांसम्। 'तलिदं स्नेहपक्के देशी' इत्येके। 'भडिदे' इति पाठे भटित्रमित्यर्थः। ‘शूलाकृतं भटित्रं स्यात्' इत्यमरः। भक्तं च हैमन्तिकरात्रिसिद्धं लीणे अ ऋणं च वैरं च न भवति। लिकाए पाशादबालग्गकवोदवालिआए उवविश्टे शुणामि तधा जदि ण भणेशि, त कवालतलप्प विश्टं कवित्थं विअ मश्तअं दे मडमडाइश्शं। [अरे दुष्टबटुक! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम्—

‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोस्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति स्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविशष्यति। अथवाऽनिर्यातयतो मरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व,

कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् ।
भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूति ॥

शोभनं भणिष्यसि, सकपटं भणिष्यसि। तथा भणियसि यथाहमात्मकीयायां प्रासादबालाग्रप्रकपोतपालिकायामुपविष्टः शृणोमि। अन्यथा यदि भणसि, तदा कपाटतलप्रविष्टं कपित्थगुलिकमिव मस्तकं ते मडमडायिष्यामि।’]

 विदूषकः—भणिस्सं। [भणिष्यामि।]

 शकारः—(अपवार्य) चेडे! गडे शच्चकं जेव्व भावे। [चेटः गतः सत्यमेव भावः।]

 चेटः—अध इं। [अथ किम्।]

 शकारः—ता शिग्धं अवक्कमम्ह। [तच्छीघ्रमपक्रमावः।]


पूदी पूतिः॥ धिरेतनत्वेन प्रशिथिलं स्वकार्यम्॥५१॥ शोश्तकं शोभनम्। लश्तकं सकपटम्। भणिष्यसि। तथा भणिष्यसि। भणेशी इति भविष्यद्वर्तमानयोस्तुल्यं रूपम्। यथाहमात्मकीयायां प्रासादस्य बालग्रलक्षितायां कपोतपालिकायां विटङ्के। ‘बालाग्रं मत्तवारणम्। कपोतपालिका उपरिगृहश्रेणीति दक्षिणापथे लोकोक्तिरियम्’ इति प्राचीनटीका। तस्यामुपविष्टः शृणोमि। अन्यथा यदि भणसि तदा कपाटप्रविष्टं कपित्थगुलिकमिव मस्तकं तव शब्दविशेषयुक्तं तथा भक्षयिष्यामि लोकोक्त्या मडमडायिश्शं इति व्याख्यायते। कपित्थं फलविशेषः। 'लश्तकं शोश्तकं द्वयमपि शोभनार्थम्' इति प्राचीनटीका॥ हे चेट! मतो भावो विदः, सत्यम्॥ ततः शीघ्रमपक्रमावः।।  चेटः—ता गेण्हदु भश्टके अशिं। [तद्गृह्णातु भट्टारकोऽसिम्।]

 शकारः—तव ज्जेव्व हत्थे च्यिश्टदु। [तवैव हस्ते तिष्ठतु।]

 चेटः—एशे भश्टालके। गेण्हदु णं भश्टके अशिं। [एष भट्टारकः। गृह्णात्वेनं भट्टारकोऽसिम्।]

 शकारः—(विपरीतं गृहीत्वा)

णिव्वक्कलं मूलकपेशिवण्णं खंधेण घेत्तण अ कोशशुत्तं।
कुक्केहिं कुक्कीहिं अ बुक्कअंते जधा शिआले शलणं पलामि॥५२॥

[निर्वल्कलं मूलकपेशिवर्णं स्कन्धेन गृहीत्वा च कोशसुप्तम्।
कुक्कुरैः कुक्कुरीभिश्च बुक्क्यमानो यथा शृगालः शरणं प्रयामि॥]

(परिक्रम्य निष्क्रान्तौ)

 विदूषकः—भोदि रदणिए! ण हु दे अअं अवमाणो तत्थभवदो चारुदत्तस्स णिवेदइदव्वो। दोग्गच्चपीडिअस्स मण्णे दिउणदरा पीडा हुविस्सदि। [भवति रदनिके! न खलु तेऽयमपमानस्तत्रभवतश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति।]

 रदनिका—अज्ज मित्तेअ! रदणिआ खु अहं संजदमुही। [आर्य मैत्रेय! रदनिका खल्वहं संयतमुखी।]

 विदूषकः—एवं राणेदं। [एवमिदम्।]

 चारुदत्तः—(वसन्तसेनामुद्दिश्य) रदनिके! मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः। ततः प्रवेश्यतामभ्यन्तरमयम्। अनेन प्रावारकेण छादयैनम्। (इति प्रावारकं प्रयच्छति)


गृहातु भट्टारकोऽसिम्॥ तवैव हस्ते तिष्ठतु॥ एषोऽसिः। भट्टारकः स्वामिकः। गृह्णात्वेनं भट्टारकोऽसिम्॥ णिव्वक्कलमित्यादि। उपजातिच्छन्दसा। निर्वल्कलं मूलकपेशिवण्णं। पेशी त्वक्। मूलकत्वग्वर्णम्, आलोहितमित्यर्थः। स्कन्धेन गृहीत्वा च कोशीषु सुप्तम्। अल्पार्थे स्त्रीत्वम्। कोशावस्थित-


पाठा—१ समयः शीतार्तो.  वसन्तसेना—(स्वगतम्) कधं परिअणो त्ति मं अवगच्छदि। (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम्) अम्महे, जादीकुसुमवासिदो पावारओ। अणुदासीणं से ज्जोव्वणं पडिभासेदि। [कथं परिजन इति मामवगच्छति। आश्चर्यम्, जातीकुसुमवासितः प्रावारकः। अनुदासीनमस्य यौवनं प्रतिभासते।]

(अपवारितकेन प्रावृणोति)

 चारुदत्तः—ननु रदनिके! रोहसेनं गृहीत्वाभ्यन्तरं प्रविश।

 वसन्तसेना—(स्वगतम्) मंदभाइणी खु अहं तुह अब्भंतरस्स। [मन्दभागिनी खल्वहं तवाभ्यन्तरस्य।]

 चारुदत्तः—ननु रूदिनिके! प्रतिवचनमपि नास्ति। कष्टम्,—

यदा तु भाग्यक्षयपीड़ितां दशां
नरः कृतान्तोपहितां प्रपद्यते।
तदास्य मित्राण्यपि यान्त्यमित्रतां
चिरानुरक्तोऽपि विरज्यते जनः॥५३॥

(रदनिकामुपसृत्य )

 विदूषकः—भो, इअं सो रअणिआ। [भोः, इयं सा रदनिका।]

 चारुदत्तः—इयं सा रदनिका। इयमपरा का?।

  अविज्ञातावसक्तेन दूषिता मम वाससा।

 वसन्तसेना—(स्वगतम्) णं भूसिदा। [ननु भूषिता।]


मित्यर्थः। कुकुरैः कुकरीभिश्च शब्दायमानो यथा शृगालस्तथा स्वगृहं प्रयामि। विदूषकरदनिके कुक्कुरकुक्कुरीस्थाने॥५२॥ न खलु ते परिभवश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य द्विगुणतरा पीडा भविष्यति। एवं ण्णेदं इति एवार्थे॥ रोहसेनश्चारुदत्तसुतः॥ अम्महे विस्मये। अनुदासीनं साभिलाषम्; तदनुरूपचेष्टायोगात्॥ अभ्यन्तरगमनस्याभागिनी; वेश्यात्वात्॥ यदेति।  चारुदत्तः

  छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥५४॥

अथवा, न युक्तं परकलत्रदर्शनम्।

 विदुषकः—भो, अलं परकलत्तदंसणसंकाए। एसा वसंतसेणा कामदेवाअदणुज्जाणादो पहुदि भवंतमणुरत्ता। [भोः, अलं परकलत्रदर्शनशङ्कया। एषा वसन्तसेना कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ता।]

 चारुदत्तः—अये, इयं वसन्तसेना। (स्वगतम्)

यया मे जनितः कामः क्षीणे विभवविस्तरे।
क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥५५॥

 विदूषकः—भो वअस्स! एसो खु राअसालो भणादि। [भो वयस्य! एष खलु राजश्यालो भणति।]

 चारुदत्तः—किम्?।

 विदूषकः—एसा ससुवण्णा सहिलण्णा णवणाडअदंसणुट्ठिदा सुत्तधालि व्व बसंतसेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्काराणुणीअमाणा तुह गेहं एविट्ठा। [एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा।]

 वसन्तसेना—(स्वगतम्) बलक्कारागुणीअमाणेत्ति जं सच्चं, अलंकिदम्हि एदेहिं अक्खरेहिं। [बलात्कारानुनीयमानेति यत्सत्यम्, अलंकृतास्येतैरक्षरैः।]


भाग्यं शोभनं कर्म॥५३॥ अविज्ञातेति। दूषिता परपुरुषत्वात्॥५४॥ कामदेवायतनोद्यानात्प्रभृति॥ ययेति। सीदति कर्तव्यासामर्थ्यात्प्रब्यक्तो न  विदूषकः—ता जइ मम हत्थे सअं ज्जेव्व पट्ठाविअ एणं समप्पेसि, ता अधिअरणे ववहारं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि। अण्णधा आमरणं वैरं हुविस्सदि। [तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति। अन्यथाऽऽमरणं वैरं भविष्यति।]

 चारुदत्तः—(सावज्ञम्) अज्ञोऽसौ। (स्वगतम्) अये, कथं देवतोपस्थानयोग्या युवतिरियम्?। तेन खलु तस्यां वेलायाम्,—

प्रविश गृहमिति प्रतोद्यमाना
न चलति भाग्यकृतां दशामवेक्ष्य।
पुरुषपरिचयेन च प्रगल्भं।
न वदति यद्यपि भाषते बहूनि॥५६॥

(प्रकाशम्) भवति वसन्तसेने। अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि। शिरसा भवतीमनुनयामि।

 वसन्तसेना—एदिणा अणुचिदभूमिआरोहणेण अवरद्धा अज्जं सीसेण पणमिअ पसादेमि। [एतेनानुचितभूमिकारोहणेनापराद्धाऽऽर्यं शीर्षेण प्रणम्य प्रसादयामि।]

 विदूषकः—भो, दुवे वि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोण्णं सीसेण सीसं समाअदा। अहं पि इमिणा करहजाणुसरि-


भवति॥५५॥ एषेत्यादि पूर्वोक्तमेव भणति। अलंकृतास्मीति। ममान्यत्राभिलाषो नास्तीत्यर्थः। देवतेवोपस्थानं यस्याः सा। प्रविश अहमिति।


पाठा०-१ सुसंपण्णा विअ कलम०, २ उट्ठेध त्ति.


टिप्प०-1 प्राकृते द्विवचनं नास्ति, अत एव न भाषायाम्, प्राकृतस्य भाषात्वात्। सेण सीसेण दुवेवि तुम्हे पसादेमि। [भोः, द्वावपि युवां सुखं प्रणम्य कलमकेदारावन्योन्यं शीर्षेण शीर्षं समागतौ। अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि।]

(इत्युत्तिष्ठति)

 चारुदत्तः—भवतु, तिष्ठतु प्रणयः।

 वसन्तसेना—(स्वगतम्) चदुरो मधुरो अ अअं उवण्णासो। ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवासिदुं। भोदु, एव्वं दाव भणिस्सं। (प्रकाशम् अज्ज! जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुं। अलंकारस्स णिमित्तं एदे पावा अणुसरंति। [चतुरो मधुरयायमुपन्यासः। न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम्। भवतु, एवं तावद्भणिष्यामि। आर्य! यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्यस्य गेहे निक्षेप्तुम्। अलंकारस्य निमित्तमेते पापा अनुसरन्ति।]

 चारुदत्तः—अयोग्यमिदं न्यासस्य गृहम्।

 वसन्तसेना—अज्ज। अलिअं। पुरिसेसु णासा णिक्खिविअंति, ण उण गेहेसु। [आर्य! अलीकम्। पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु।]

 चारुदत्तः—मैत्रेय! गृह्यतामयमलंकारः।

 वसन्तसेना—अणुग्गहीद म्हि। [अनुगृहीतास्मि।]

(इत्यलंकारमर्पयति)

 विदूषकः—(गृहीत्वा) सोत्थि भोदीए। [स्वस्ति भवत्यै।]

 चारुदत्तः—धिङ् मूर्ख! न्यासः खल्वयम्।


पुष्पिताग्र बृत्तम्॥५६॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादिकम्॥ करभ उष्ट्रशिशुः॥ 'प्रणय' इत्यनेन संभोगप्रार्थना कटाक्षिता॥ ईदृशेनागृहीतसंभोगोपकरणादिना। पापा अकार्यकारिणः॥ भग्नत्वाद्रक्षकाभावाट्चायो विदूषकः – (अपवार्य ) जइ एव्वं ता चोरेहिं अवहरीअदु । [ यद्येवं तदा चॊरैरपह्र्रियताम् । ]

 चारुदत्तः – अचिरेणैव कालेन ।

 विदूषकः– एसो से अम्हाणं विण्णासो । [ एषोऽस्या अस्माकं विन्यासः ।।

 चारुदत्तः– निर्यातयिष्ये ।

 वसन्तसेना– अज्ज ! इच्छे अहं, इमिणा अज्जॆण अणुगच्छिज्जंती सकं गेहं गंतुं । [ आर्य ! इच्छाम्यहमनेनार्य़ॆणानुगम्यमाना । स्वकं गेहं गन्तुम् । ]

 चारुदत्तः– मैत्रेय ! अनुगच्छ तत्रभवतीम् ।

 विदूषकः– तुमं ज्जॆव्व एदं कलहंसगामिणीं अणुगच्छंतो राअ- हंसॊ विअ सोहसि । अहं उण बम्हणो तहिं जणेहिं चउप्पहोवणीदो उवहारो कुकुरेहिं विअ खज्जमाणो विवज्जिस्सं । [त्वमेवैतां कलहंसगामिनीमनुगच्छन् राजहंस इव शोभसे। अहं पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुकरैरिव खाद्यमानो विपत्स्ये ।]

 चारुदत्तः– एवं भवतु ।स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वाल्यन्तां प्रदीपिकाः ।

 विदूषकः – वढ्ढमाणआ  ! पज्जालेहि पदीविआओ । [वर्धमानक ! प्रज्वालय प्रदीपिकान् ।]

 चॆटी– (जनान्तिकम्) अले, तेल्लेण विणा पदीविआओ पज्जालीअंति । [ अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते ।]


ग्यता ॥ आर्य ! पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु ॥ अत्यन्तप्रश्रयवत्वादनुग्रहः ॥ चोरेहिं अवहरीअदु इति संधिच्छेदनाम्नस्तृतीयाङ्कस्य सूचनम् ॥ सकं स्वकम् ॥ चतुश्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥

टिप्प० -  १-मैत्रेयेण. २-देवताबलिः.  विदूषकः– ( जनान्तिकम् ) ही, ताओ खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । [ आश्चर्यम्, ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निःस्नेहा इदानीं संवृत्ताः ।]

 चारुदत्तः– मैत्रेय ! भवतु, कृतं प्रदीपिकाभिः । पश्य,–

उदयति हि शशाङ्कः कामिनीगण्डपाण्डु
र्ग्रहगणपरिवारो राजमार्गप्रदीपः।
तिमिरनिकरमध्ये रश्मयो यस्य गौराः
स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ॥

(सानुरागम् ) भवति वसन्तसेने ! इदं भवत्या गृहम् । प्रविशतु भवती ।

(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ) ।

 चारुदत्तः– वयस्य ! गता वसन्तसेना, तदेहि । गृहमेव गच्छावः ।

राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च ।
वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥

( परिक्रम्य ) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानके- नापि दिवा।

 विदूषकः– जधा भवं आणवेदि । [ यथा भवानाज्नापयति । ]

( इति निष्क्रान्तौ )

इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः ।


ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निःस्नेहा निस्तैलाश्च । स्नॆहो- नुरागस्तैलं । च संवुत्ताः संवृत्ताः । भवत्वित्युपसंहारोक्तिः । उदयतीति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूत जले कर्दमे दुग्धधाराः ॥ ५० ॥ राजमार्ग इति ॥ ५८ ॥

इति महोपाध्यायश्रीपृथ्वीधरकृतौ  मृच्छकटिकविवृतौ
न्यासार्पणो नाम प्रथमोऽङ्कः ।


  1. पाठाo- १ खु मए कदो.