प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमोऽङ्कः मृच्छकटिकम्
द्वितीयोऽङ्कः
शूद्रकः
तृतीयोऽङ्कः →

द्वितीयोऽङ्कः

( प्रविश्य )

 चैटी–अत्ताए अजआसअसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च ) एसा अज्जआ हिअएण किंपि ओलिहंती चिट्ठदि । ता जाव उषसम्पामि । [मात्रार्यसकाशं संदेशेन प्रेषितास्मि । तद्यावप्रविश्यार्यासंकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्यावदुपसर्पामि।]

( ततः प्रविशत्यासुनस्था सोत्कण्ठा वसन्तसेना मुदनिका च )

 वसन्तसेना-हञ्जे! तदो तदो १ । [ चेटि ! ततस्ततः ? ।।

 चेटी----अज्जए ण किंपि मंतेसि । किं तदो तदो ? । [ आर्ये । न किमपि मन्त्रयसि । किं ततस्ततः ? ।]

 वसन्तसेना—किं मए भणिदं ?। [ किं मया भणितम् ? ।]

 चेदी—तदो तदो त्ति । [ ततस्तत इति ।]

 वसन्तसेना---( सभ्रू क्षेपम् ) आं, एव्वं । [ , एवम् ।]

( उपसृत्य )

 प्रथमा चेटी--अज्जए ! अत्ता आदिसदि--ण्हादा भविअ देव- दाणं पूअं णिव्वत्तेहि त्ति । [आर्यें ! माताऽऽदिशति-स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति ।]

 वसन्तसेना–हञ्जे ! विष्णवेहि अत्तं---‘अज्ज ण ण्हाइस्सं । ता म्हणो जेव्व पूअं णिव्वत्तेदु त्ति । [चेटि ! विज्ञापय मातरम् अथ न स्नास्यामि । तद्ब्राह्मण एव पूजां निर्वर्तयतु' इति ।]

 चेदी---जं अज्जाआ आणवेदि । [यदार्याज्ञापयति ।]

( इति निष्क्रान्ता)


अत्ताए वसन्तसेनामात्रा। अज्जआसआं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हञ्जे नीचे । “हओ, ’तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥


पाठा०---१ अजुआ.  मदनिका—अज्जए ! सिणेहो पुच्छदि ण पुरोभाइदा, ता किं णेदं ? । [ आयें ! स्नेहः पृच्छति, न पुरोभागिता, तल्किं न्विदम् ।।]

 वसन्तसेना--मदणिए ! केरिसिं मं पेक्खसि ?।[ मदनिके! कीदृशीं मां प्रेक्षसे ?।।

 मदनिका—अजाआए सुण्णहिअअत्तणेण जाणामि हिअअगदं कंंपि अज्जआ अहिलसदि ति। [ आर्यायाः शून्यहृदयत्वेन जानामि हृदय- गतं कमप्यार्याभिलवतीति ।।

 वसन्तसेना–सुट्ठु तुए जाणिदं । परहिअअग्गहणपंडिआ मदणिआ खु तुमं । [ सुष्टु त्वया ज्ञातम् । परहृदयग्रहणपण्डिता मदनिका खलु त्वम् ।]

 | मदनिका----पिअं मे पिअं । कामो खु णाम एसो भअवं । अणुगहिदो महूसवो तरुणजणस्स । ता कधेदु अज्जआ, किं राआ॥ राअवल्लहो वा सेवीअदि ? । [ प्रियं में प्रियम् । कामः खलु नामैष भगवान् । अनुगृहीतो महोत्सवस्तरुणजनस्य । तत्कथयत्वार्या , किं राजा राजवल्लभो वा सेव्यते ? । ]

 वसन्तसेना‌--ह्ञ्जे! रमिदुमिच्छामि, ण सेविदुं। [ चेटि ! रन्तुमि- छामि, न सेवितुम् ।।

 मदनिका----विज्जाविसेसालंकिदो किं को वि बम्हणजुआ कामीअदि? । [विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते ?।]

 वसन्तसेना--पूअणीओ मे बम्हणजणो । [ पूजनीयो मे ब्राह्मण- जनः ।]


अज्ज वसन्तसेनैव । ण्हादा स्नाता । पूअं पूजाम् ॥ पुरोभाइदा पुरोभागिता दोषैकदर्शिता । ‘दोषैकदृक् पुरोभागी' इत्यमरः । दोषशून्यत्वेनेति भावः ॥ भअवं भगवान् । “मअवदा' इत्यपि पाठः । भगवता हरेण । स्वीकृतोऽनुगृहीतो  मदनिका--किं अणेअणअराभिगमणजणिदविहववित्थारो वाणि- अजु आ वा कामीअदि ? । [ किमनेकनगराभिगमनजनितविभवविस्सारो वाणिजयुवा वा काम्यते ? ।]

 वसन्तसेना-हञ्जे ! उवारूढसिणेहं पि पणइजणं परिञ्चइअ देसंतरगमणेण वाणिअजणो महंतं विओअजं दुक्खं उप्पादेदि । [ चेटि ! उपारूढस्नेह्मपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति ।]

 मदनिका-अज्जए ! ण राआ, ण राअवल्लहो, ण बम्हणो, ण वाणिअजणो; ता को दाणिं सो भट्टिदारिआए कामीअदि ? । । [आयें ! न राजा, न राजवल्लभः, न ब्राह्मणः, न बाणिजजनः; तत्क इदानीं स भर्तृदारिकया काम्यते ?।1।

 वसन्तसेना–हञ्जे ! तुमं मए सह कामदेवाअणुज्जाणं गदा आसि । [ चेटि ! त्वं मया सह कामदेवायतनोद्यानं गतासीः ।]

 मदनिका-अज्जए ! गदम्हि । [ आर्थे ! गातासि । ]

 वसन्तसेना---तह वि में उदासीणा विअ पुच्छसि १ । [ तथापि मामुदासीनेव पृच्छसि ? ।।

 मदनिका---जाणिदं, किं सो ज्जेवे जेण अज्जआ सरणाअदा अब्भुववण्णा ? । [ज्ञातम्, किं स एव येनार्या शरणागताभ्युपपञ्जा ? ।]

 बसन्तसेना--किंणामहेओ खु सो ? । [ किनामधेयः खलु सः ? ]

{{gap} मदनिका-सो खु सेट्टिचत्तरे पडिवसदि । [ स खलु श्रेष्टिचत्वरे प्रतिवसति । ] ।

 वसन्तसेना–अइ ! णामं से पुच्छिदासि । [ अयि! नामास्य पृष्टासि ।।


वा ॥ ण सेविदुं । कामोपभोगरसिकास्मि, न द्व्याथिनीत्यर्थः ॥ पूजनीयश्चि ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः । उवारूढसिणेहं विवृद्धस्नेहम् ॥


टिप्प-1 वणिजोऽयं वाणिजः, 'तस्येदम्' इत्यम्, वावासराक्षसादिवज्झ् स्वार्थेऽण् । 2 अनुगृहीतेत्यर्थः, अभ्युपपत्तिरनुग्रहः ।  मदनिका--सो खु अज्जए ! सुगहीदणामहेओ अज्जचारुदत्तो णाम । [ स खलु आयें ! सुगृहीतनामधेय आर्यचारुदत्तो नाम ।]

 वसन्तसेना—(सहर्षम् ) साहु मदणिए । साहु । मुट्टु तुए जाणिदं । [ साधु मदनिके! साधु । सुष्टु त्वया ज्ञातम् ।]

 मदनिका---(स्वगतम् ) एव्वं दाव । (प्रकाशम् ) अज्जए ! दलिद्दो खु सो सुणीअदि। [एवं तावत् । आयें ! दरिद्रः खलु स श्रूयते ।]

 वसन्तसेना----अदो ज्जेव कामीअदि । दलिद्दपुरिससंकंतमणा खु गणिआ लोए अवअणीआ भोदि । [ अत एव काम्यते । दरिद्रपुरुष- संक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति ।]

 मदनिको---अज्जए ! किं हीणकुसुमं सहआरपीदवं महुअरीओ उण सेवंति ? । [आयें ! किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते ? ।]

 वसन्तसेना---अदो ज्जेव ताओ महुअरीओ बुच्चति । [अत एव ता मधुकर्य उच्यन्ते ।]

 मदनिका---अज्जए ! जई सो मणीसिदो ता कीस दाणि सहसा ण अहिसारीअदि ? । [ आयें, यदि स मनीषितस्तत्किमर्थमिदानीं सहसा नाभिसर्यते ?।]

 वसन्तसेना–हञ्जे ! सहसा अहिसारिअंतो पंचुअआरदुब्बल- दाए, मा दाव, जणो दुल्लहदंसणो पुणो भविस्सदि । [ चेटि ! सहसा-


भट्टिदारिआए ईश्वरसुतया ॥ सुहिदा सुखयुक्ता (?) ॥ अभ्युपपन्ना स्वीकृता ॥ सुगृहीतनामधेयो दातृत्वेन ॥ दरिद्रपुरुषदत्तमना अवचनीया भवति अर्थानभि- लषित्वात् । अतिख (?) श्चारुदत्तो ब्राह्मणः, अनध्यापकत्वेन विलासी, अन्यश्च श्रोत्रियः, तर्कतञ्त्रप्रवीणः पूजनीयः न काम्यो विलासवैमुख्यादित्याशयः ॥ महुअरीओ इति । मधु कुर्वन्ति सेवन्ते । मत्ता इत्यर्थः ॥ भट्टेति द्यूतकरस्य


टिप्प०-1 प्रवचनीयार्थानभिलाषेण गुणमात्रानुरागेण च वाक् अगोचरमाहाम्यशालिनीत्यर्थः । भिसार्यमाणः प्रत्युपकारदुर्बलतया, मी तावत्, जनो दुर्लभदर्शनः पुनर्भविष्यति ।]

 मदनिका किं अदो ज्जेव सो अलंकारओ तत्प्त हत्थे णिकिखत्तो । [ किमत एव सोऽलंकारस्तस्य हस्ते निक्षिप्तः ।]

 वसन्तसेना–हञ्जे ! सुट्टु दे जाणिदं । [ चेटि ! सुष्टुत्वया ज्ञातम् ।]

(नेपथ्ये )

 अले भट्टा ! दशसुवण्णाह लुद्धु जूदकरु पपलीणु पपलीशु } ता गेण्ह गेण्ह । चिट्ठ चिट्ठ, दूलत्पदिट्टो सि । १ अरे भट्टारक ! दशसुवर्णस्य रुद्ध द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूराष्प्रदृष्टोऽसि ॥ ]

( प्रविब्यापटीक्षेपेण संभ्रान्तः )

 संवाहकः--हीमाणहे, कट्टे एशे जुदिअलभावे ।

णवबंधणमुकाए विअ
गद्दहीए हो तोडिदो म्हि गद्दहीए।
अंगलाअमुक्काए बिअ शत्तीए
घडुक्को विअ घादिदो म्हि शत्ती ॥ १ ॥


संबोधनम् । दशसुवर्णकृते लुद्धु रुद्धः । पपलीणु प्रपलायितः । दश सुवर्णा लभ्या यस्थ पार्श्वे स द्यूतकरः प्रपलायितः । अतो गृहाण धारय । तिष्ठ तिछ । दूरादेव दृष्टोऽसि । सभ्यानुद्दिश्य ब्रूते । 'लब्धः' इति पाढे दशसुवर्णानां द्यूतको लब्धः। प्रपलायित इत्यर्थः ॥ ‘हीमाणहे' इति विस्मये । कष्ट एष द्यूतकरभावः । णवबंधणेत्यादि । चित्रजातिः । गद्दहीए गर्दभीनामधेया। हा कष्टम् , ताडितोऽस्मि । गद्दहीति वाराटिकानाम। गर्दभीशक्तिके आर्थी इति प्रसिद्धद्यूतके कपर्दकनामधेये । नवबन्धनान्मुक्तयेव गर्दभ्या पशुविशेषेण ताडितोऽस्मि गर्दभ्या। ताद्दनस्वभावा सा यतः । अङ्गराजेन कणेंन मुक्तयेव शक्त्या अस्त्रविशेषेण


टिप्प०-1 अयं मागधीभाषापाठकः, माथुरद्यूतकरौ ढक्कभाषापाठको

लेखअवावडहिअअं शहिअं दट्ठूण झत्ति पब्भट्ठे।
एण्हि मग्गणिवडिदे कं णु खु शलणं पपज्जे ॥ २ ॥

ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशंति, ताव हक्के विप्पडीवेहिं पादेहिं एदं शुण्णदेउलं घविशिअ देवीभविश्शं । [आश्चर्यम् कष्ट एष द्यृतकरभावः ]

नवबन्धनमुक्तयेच मर्दभ्या हा ताडितोऽस्मि गर्दभ्या ।
अङ्गराजमुक्तयेव हा शत्या घटोत्कच इव घातितोऽस्मि शक्या ॥

लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः ।
इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये ॥

तद्याबदेतौ सभिकद्युतकराबन्यतो मामन्विष्यतः, तावदहं विपरीताभ्यां पादा- भ्यामेतच्छून्यदेवकुलं प्रविश्य देवीभविष्यामि ।

( बहुविधं नाट्य कृत्वा तथा स्थितः )

(ततः प्रविशति माधुरों द्यूतकरश्च )

 माथुरः--अले भट्टा ! दशसुवण्णाह लुद्धु जूदकर पपलीणु पपलीणु । ती गेह गेण्ह । चिट्ठ चिट्ठ । दूरात्पदिट्टोसि । [अरे भट्टारक! दशसुवर्णस्य रुद्रो द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूरात्मदृष्टोऽसि ।

 चूतकरः--

जइ वज्जसि पदालं इंदं शलणं च संपदं जासि ।
सभिकं वर्जवित्वैकं रुद्रोऽवि न रक्खिदुं तरै ॥ ३ ॥

यदि व्रजसि पातालमेन्द्रं शरणं च सांप्रतं यासि ।
सभिकं घर्जयित्वैकं रुद्रोऽपि न रक्षितु तरति ॥


घटोत्कचो भीमसेनसुत इव ताडितोऽस्मि शक्त्या ॥ १ ॥ लेख इत्यादि। गाथा । लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झठिति प्रभ्रष्ट: । इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये । कं नु खल्विति विमरशे ।। २ ॥ तयावदेतौ सभिक- द्यूतकरौ मान्यतोऽन्विष्यतस्तावत् । हक्के अहम् । विपरीतपादाभ्यामेतच्छून्यं देवकुलं प्रविश्य देवी भविष्यामि । देवीति च्यन्तम् । जइ धज्जसीत्यादि । आर्या। यदि गच्छसि पातालमिन्दं शरणं च सांप्रतं यासि । संभिक चर्जयित्वैकं  माथुरः--

कहिं कहिं सुसहिअविप्पलंभआ
पलासि ले भअपलिवेविदंगआ ।
पदे पदे समविसमें खलंताआ
कुलं जसं अईकसणम् कलेंतआ ॥ ४ ॥

[ कुत्र कुत्र सुसभिकविप्रलम्भक ! पलायसे रे भयपरिवेपिताङ्गक ।
पदे पदे समविषमं स्खलन्कुलं यशोऽतिकृष्णं कुर्वन् ॥ ]

 घृतकरः---(पदं वीक्ष्य ) एसों वज्जदि । इअं पणट्टा पदवी । [ एष मेजति । इयं प्रनष्टा पदवी । ]

 माथुरः---( आलोक्य, सवितर्कम् ) अले, विप्पदीवू पादु । पङि- माशुण्णु देउछु । ( विचिन्त्य ) धुत्तु जूदकरु विप्पदीवहिं पादेहि देउलं पविठ्ठो । [ अरे, विप्रतीप पादौ । प्रतिमाशून्यं देवकुलम् । धूर्तो धूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः ।]

 द्यूतकरः–ता अणुसरेम्ह । [ ततोऽनुसरावः।]

 माथुरः--एवं भोदु । [ एवं भवतु ।]

(उभौ देवकुलप्रवेशं निरूपयतः, दृष्ट्वान्योन्यं संज्ञाप्य )

 द्यूतकरः-कधं कट्ठमयी पडिमा ? । [ कथं काष्ठमयी प्रतिमा ? ।]

 माथुरः-अले, ण हु ण हु, शैलपडिमा । ( इति बहुविधं चालयति संज्ञाप्य च ) एव्वं भोदु । एहि, जूदं किलेम्ह । [अरे, न खलु न


रुद्रोऽपि न रक्षितुं शक्नोति ॥ ३ ॥ कहिं कहिमित्यादि। रुचिरावृत्तम् । कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपमानाङ्गक । पदे पदे सम- विषमं यथा स्यादेवं स्खलन्कुलं यशश्चातिकृष्णं कुर्वन् ॥ ४ ॥ भट्टा भट्टेत्यन्योन्य- संबोधनम् (?)। अरे, वि प्रतीपपादशून्यं देवकुलम् । प्रयोजनाभावेन नात्र मानुष इति भावः । धूर्तो द्यूतको विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्ट इत्येके । धूर्तो द्यूतकरो विप्रतीपपादाभ्यां देवकुलं प्रविष्टः ॥ ततोऽनुसरावः ॥ संज्ञापनं प्रतिमाखलु, शैलप्रतिमा । एवं भवतु । एहि, छूतेन क्रीडावः। ( इति बहुविधं द्यूतं क्रीडति )

 संवाहकः---{ चूतेच्छाविकारसंवरणं बहुविधं कृत्वा, खगतम्) अले,

कत्ताशद्दे णिपणाणअश्श हुलइ हडकं मनुश्शश्श ।
ढक्काशद्दे व्व णडाधिवश्श पब्भट्टलज्जश्श ॥ ५ ॥
जाणामि ण कीलिश्शं शुमेलुशिहलपधणशण्णिहं जूअं ।
तह वि हु कोइलमहुले कृत्ताशहे मणं हलदि ॥ ६ ॥

[अरे, मत्ताशब्दो निर्नाणकस्य हरति हृदयं मनुष्यस्य ।
ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ।।
जानामि न फ्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्युतम् ।
तथापि खलु कोकिल मधुरः कत्ताशब्दो मनो हरति ।

 द्युतकर:----मम पाठे, मम पाठे। [मम पाठे, मम पाठे।]

 माथुरः--- ण हुः; मम पाठे मम पाटे । [न खलु; मम पाठे मम पाठे ।।

 संवाहकः--( अन्यतः सहसोपसय ) णं मम पाठे । [ ननु मम पाठे ।।

 द्यूतकरः----लद्धे गोहे। [ लब्धः पुरुषः ।]

 माथुरः----- गृहीत्वा ) अले पेदंडा ! गहीदोसि । पअच्छतं दश- सुवर्णं । [ अरे लुसदण्ड ! गृहीतोऽसि । प्रयच्छ तदृशसुवर्णम् ।]

 संवाहकः—-अज्ज दइश्शं । [ अद्य दास्यामि ।]


याम् ॥ [ कतति।] द्यूतकरणं यया स कत्ता। काड इति प्रसिद्धः । नान्दीपुर इति प्रसिद्धे । द्यूत इत्यन्ये (?) । कत्ताशब्दो निर्माणकस्य निर्धनस्य हरति पाकयति हृदयं मनुष्यस्य । ढक्काशब्द इव नराधिपत्य प्रभ्रष्ट्राज्यस्य । असात्विकता इत्यर्थः ॥ ५॥ जानामि न क्रीडिब्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् , मुखविनाशकमित्यर्थः । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ ६ ॥ मम पाठ इत्यार्थी द्यूतकरोक्ति विशेषः ॥ गोहे पुरुषः मनुष्यः ॥ पेदंडा लुप्त माथुरः–अहुणा पअच्छ। [अधुना प्रयच्छ । ]

 संवाहकः—दइश्शं । पशादं कलेहि । [दास्यामि । प्रसादं कुरु।]

 माथुरः-—अले, णं संपदं पअच्छ । [ अरे, ननु सांप्रतं प्रयच्छ ।]

 संवाहकः–शिलु पडदि । [ शिरः पतति । ] ( इति भूमौ पतति )

( उभौ बहुविधं ताडयतः )

 माथुर–एतु तुमं हु जूदिअरमंडलीए बद्धोसि । [ एप त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि ।]

 संवाहकः-( उत्थाय, सविषादम् ) कधं जूदिअलमंडलीए बद्धो म्हि । ही, एशे अम्हाणं जूदिअलाणं अलंधणीए शमए । ती कुदो दइश्शं? । [ कथं चूतकरमण्डल्या बद्धोऽस्मि । कष्टम् , एषोऽस्माकं द्यूतकराणामलङ्घनीयः समयः । तस्मात्कुतो दास्यामि ? ।।

 माथुरः---अले, गंथू कुछ कुलु । [ अरे, गण्डः क्रियतां क्रियताम्।]

 संवाहकः--एव्वं कलेमि । ( द्यूतकरमुपस्पृश्य ) अद्धं ते देमि, अद्धं मे मुंचदु । [एवं करोमि । अधं तुभ्यं ददामि, अधे में मुञ्चतु ।]

द्यूतकरः–एव्वं भोदु । [एवं भवतु ।]

 संवाहकः---{ सभिकमुपगम्य ) अद्धश्श गंथु कलेमि । अद्धं पि में अज्ज्ञो मुंचदु । [ अर्धस्य गण्डं करोमि । अर्धमपि म आर्यों मुञ्चतु ।]

 माथुर:---को दोसु ? । एवं भोदु । [ को दोषः १ एवं भवतु ।]


दण्डक। उभे अपि देशी ।। अधुना प्रयच्छ, दास्यामि ॥ शिलु पहदि शिरः पतति, भ्रमतीत्यर्थः । इति भूमौ निपय स्थितः । एष त्वं खल्ल द्यूतकरमण्डल्या बद्धः ॥ ही कष्टम् । अस्माभिः सर्वः समय उल्लङ्घयते । एषोऽस्माकं द्यूतकरणामलङ्घयः समयः ॥ ‘गण्डं गण्डो लमकः' इति पूर्वडीका ।। एवं करोमि, मुश्च ।।


पाठा०-१ गंडे,  संवाहकः--(प्रकाशम् ) अज्ज ! अद्धे तुए मुक्के । [ अर्य ! अर्धं त्व्या मुक्तम् ।।

 माथुरः-मुक्के । [मुक्तम् ।]

 संवाहकः—( द्यूतकरं प्रति ) अद्धे तुए वि मुक्के । [ अर्धं त्वयापि मुक्तम् ।]

 द्यूतकरः---मुक्के । [मुक्तम् ।]

 संवाहकः—संपदं गमिश्शं । [ सांप्रतं गमिष्यामि ।]

 माथुरः–पअच्छ तं दशसुवण्णं, कहिं गच्छसि ? । [प्रयच्छ वं दशसुवर्णम् । कुत्र गच्छसि ? ]।

 संवाहकः-–पेक्खध पेक्खध भट्टालआ ! हो, संपदं ज्जेव्व एक्काह अद्वे गंथु कडे, अवलाह अद्धे मुक्के । तहवि मं अबलं शंपदं ज्जेव्व मग्गदि । [ प्रेक्षध्वं प्रेक्षध्वं भट्टारकाः ! हा, सांप्रतमेव एकस्यार्धे गण्डः कृतः, अपरस्यार्धं मुक्तम् । तथापि मामबलं सांप्रतमेव याचते ।]

 माथुरः—( गृहीत्वा ) धुत्तु ! माथुरु अहं णिउणु । एत्थ तुऐ ण अहं धुत्तिज्जामि । ता पअच्छतं पेदंडआ ! सव्वं सुवण्ंण संपदं । [ धूर्त ! माथुरोऽहं निपुणः । अन्न नाहं धूर्तयामि । तत्प्रयच्छ तं लुप्तदण्डक, सर्व सुवर्ण सांप्रतम् ।]

 संवाहकः--कुदो दइश्शं ?। [ कुतो दास्यामि ? ।]

 माथुरः--पिदरु विक्किणि पअच्छ । [ पितरं विक्रीय प्रयच्छ ।]


अर्धं सभिकेन मुक्तम् । अर्धं द्यूतकरेण । उभाभ्यां राशिरेव मुक्तः । इति मुक्तदेयत्वाद्यामीति ब्रूते ॥ भट्टारका इति मध्यस्थान्संबोधयति सांप्रतमेव एक्काह एकस्य । अद्धे अर्धेन । गंथु कडे । एकस्य सभिकस्यार्ध गण्डः कृतः ।द्यूतकरापेक्षितार्धेन द्यूतकरे व ( च ?) लप्नकः । अवलाह अद्वेण मुक्के इत्यपरस्य द्यूतकरस्यार्धन मुक्तोऽस्मि । तच्च सभिकेनैवोपेक्षितम् । अत्र माथुरोऽहं निपुणः ।  संवाहकः--कुदो मे पिदा है। [ कुतो मे पिता ? ।]

 माथुरः-मादरु विक्किणिअ पअच्छ। [ मातरं विक्रीय प्रयच्छ] ।]

 संवाहकः–कुदो में मादा ? । [ कुतो में माता ?।]

 माथुरः--अप्पाणं विक्किणि पअच्छ । [ आत्मानं विक्रीय प्रयच्छ ।]

 संवाहकः----कुलेध पशादं । णेध मं लाजमग्गं । [ कुरुत प्रसादम् । नयत मां राजमार्गम् ।।

 माथुरः---पसरु । [प्रसर ।]

 संवाहकः----एव्वं भोदु । ( परिक्रामति ) अज्ज़ा ! क्किणिध में इमश्श शहिअश्श हत्थादो दशेहिं शुवण्णकेहिं । ( दृष्ट्वा आकाशे' ) किं भणाध-‘किं कलईश्शशि' त्ति ? । गेहे दे कग्मकले हुविश्शं । कधं ? अदइअ पडिवअणं गदे ? । भोदु एव्वं । इमं अण्णं भणइश्शं । ( पुनस्तदेव पठति ) कधं एशे वि में अवधीलिअ गदे । हा, अज्जचालुदत्तस्स विहवे विहडिदे एशे वड्ढामि मंदभाए । [एवं भवतु । आर्याः!! क्रीणीध्वं मामस्य सभिकस्य हस्ताद्दशभिः सुवर्णकैः । किं भणत-‘किं करिष्यसि' इति ? । गैहे ते कर्मकरो भविष्यामि । कथं अदत्त्वा प्रतिवचनं गतः ?। भवत्वेवम् , इममन्यं भणिष्यामि । कथं एषोऽपि मामवधीर्य गतः ? । हा, आर्यचारुदत्तख विभवे विघटिते एष वर्ते मन्दभाग्यः ।]

 माथुरः—णं देहि । [ननु देहि ।]


एत्थे तुए अत्र त्वया । धुत्तिज्जामि धूते ( र्ये ) प्रतार्ये । पेदंडा लुप्तदण्डक ॥ कुत इति लाभोपायप्रश्ने। पिदक विकिणिअ प्रयच्छ पितरं विक्रीय प्रयन्छ । मादरु विक्किणिअ मातरं विक्रीय ॥ कलेध कुरुते । णेध नयत मं माम् । राजमार्गम् ॥ पसरु प्रसर्प । क्क्रिणिध क्रीणीध्वम् । सहिअस्स हत्थादो सभिकस्य पार्श्वादित्यर्थः । असौ तव कर्मकरो भविष्यामि । हा, आर्यचारुदत्तस्य विभवे विघटिते तस्मिन्निर्धने  संवाहकः–कुदो दश । [कुतो दास्यामि ? ।] ( इति पतति )

( माधुरः कर्षति )

 संवाहकः--अज्जा ! पलित्ताअध पलित्ताअध । [ आर्याः ! परित्रा- यध्वं परियायध्वम्।]

(ततः प्रविशति दर्दुरकः )

 दर्दरकः--भोः ! द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । न गणयति पराभवं कुतश्चिद्धरति ददाति च नित्यमर्थजातम् । नृपतिरिव निकाममार्थदर्शी विभववता समुपास्यते जनेन ॥७ ॥</poem>}}}} अपि च,

द्रव्यं लब्धं धृतेनैव दारा मित्रं द्यूतेनैव ।
दत्तं भुक्तं द्यूतेनैव सर्वे नष्टुं द्यूतेनैव ॥ ८ ॥

अपि च,----

त्रेताहृतसर्वस्वः पावरपतनाञ्च शोषितशरीरः ।
नर्दितदर्शितमार्गः कटेन विनिपातितो यामि ॥ ९ ॥

( अग्रतोऽवलोक्य ) अयमस्माकं पूर्वसभिको माथुर इत एवाभिवर्तते । भवतु, अपक्रमितुं न शक्यते । तदवगुण्ठयाम्यात्मानम् । ( बहुविधं नाट्यं कृत्वा स्थितः, उत्तरीयं निरीक्ष्य )


एष एतादृशाचस्थो वर्ते मन्दभाग्यः ।। नेति । अतिशयमायस्य दर्शको राजेवेश्वरेणापि पुरुषेण सेव्यते ॥ ७ ॥ द्रव्यं लब्धमित्यादि । विद्युन्माला ॥ ८ ॥ त्रेतेति । त्रेता ‘तीया' इति प्रसिद्धः । पावरो ‘दूआ' इति ख्यातः । नर्दितो ‘नान्दी” इति प्रसिद्धः । कटेन 'पूरा' इति प्रसिद्धेन । 'पावरः पूरा, कटो दुआ'


| टिप्प०--1 जनपदमन्तरा विना च सेनादिकं तावदाकस्मिकोद्दामद्रव्यलाभसंभ- वात असिंहासनं राज्यं द्यूतमित्यर्थः । 2 दार'शब्दे बहुत्वं पुंस्त्वं च शब्दशकि- स्वाभाव्यायचं साधुत्वमात्रोपयोगीति बोध्यम् । लोकेऽस्मिन् दर्दरकः स्वीयं पराजय बर्णयति । ३ नर्दितपतनेन दर्शितो मार्गो यस्य सः। 4 एतेन दर्दूरकेणापि माथुरस्य देयमस्तीति ध्वन्यते ।

अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥ १० ॥

अथवा किमयं तपस्वी करिष्यति ? । यो हि ।

पादेनैकैन गगने द्वितीयेन च भूतले ।
तिष्ठाम्युल्लम्बितस्तावद्यावत्तिष्ठति भास्करः ॥ ११ ॥

 माथुरः–दापय दापय । [ दापय दापय ।]

 संवाहकः-कुदो दइश्शं ? । [ कुतो दास्यामि ?।]

( माधुरः कर्षति ) ।

 दर्दुरकः--अये, किमेतदग्रतः ।। ( आकाशे) किं भवानाह- अयं द्यूतकरः सभिकेन खलीक्रियते, न कश्चिन्मोचयति' इति ।। नन्वयं दर्दुरो मोचयति । ( उपसृत्य ) अन्तरमन्तरम् । ( दृष्ट्वा ) अये, कथं माथुरो धूर्तः । अयमपि तपस्वी संवाहकः,---

यः स्तब्धं दिवसान्तमानतशिरा नास्ते समुल्लम्बितो
यस्योद्धर्षणलोष्टकैरपि सदा पृष्ठे न जातः किणः ।
यस्यैतश्च न कुकुरैरहरहर्जङ्घान्तरं चर्व्यते ते
तस्यात्यायतकोमलस्य सततं धूतप्रसङ्गेन किम् ? ॥ १२॥

भवतु, माथुरं तावत्सान्त्वयामि । (उपगम्य ) माथुर ! अभिवादये ॥

( माथुरः प्रत्यभिवादयते )

 दर्दुरकः किमेतत् ?।।

 माथुरः-अॐ दशसुवण्णं धालेदि । [ अयं दशसुवर्ण धारयति ।]


इति केचित् ॥ ९॥ अयमिति ।। १० ॥ तपस्वी वराकः ॥ पादेनेति ॥ ११ ॥ खलीक्रियते भर्त्स्य॑ते । अन्तरमन्तरमिति जन समंर्दै प्रवेशायांव- काशप्रार्थना। य इति । उद्धर्षण: संघर्षणः । किणः ‘घाटिः' इति प्रसिद्धः । यच्छरैलेगुणैण्यत्ते (?)। ‘कुकुरैश्चव्र्यते' इति पाठो व्यक्त एव । न ध्यायतो न निःशेषयतः (१)। अत्यायतो विपुलशरीरः। तथा कोमलस्य । “व्यायतोऽकृतश्रमः' इति पूर्वटीका ॥ १२ ॥ कल्लवत्तं प्रातर्भोजनम् । तत्साधनमेसइब्यमिद दर्दुरक–ननु कल्यवर्तमेतत् ।

 माथुरः--( दरस्य कक्षातललु[१]कृतं पटमाकृष्य ) भट्टा ! पश्शत पश्शत । जज्जरपडप्पाबुदो अअं पुलिसो दशसुवण्णं कल्लवत्तं भणादि । [भर्तारः ! पश्यत पश्यत । जर्जरपटप्रावृतोऽयं पुरुषो दशसुवर्ण कल्यवर्त भणति ।]

 दर्दुरकः-अरे मूर्ख ! नन्वहं दशसुवर्णान्कट[२]रणेन प्रयच्छामि । तत्किं यस्यास्ति वनं स किं क्रो[३]डे कृत्या दर्शयति ।। अरे,

दुर्वर्णोऽसि विनष्टोऽसि दशस्वर्णस्य कारणात् ।
पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥ १३ ॥

 माथुरः---भट्टा ! तुए दशसुवण्णु कल्लत्तु । मए एसु विहवु । [ भर्तः ! तव दशसुवर्णः कल्यवर्तः । ममैष विभवः ।]

 दर्दुरकः–यद्येवम्, श्रूयतां तर्हि । अन्यांस्तावद्दशसुवर्णानस्यैव प्रयच्छ । अयमपि वृतं शीलयतु ।

 माथुरः—तत्किं भोदु ? । [ तत्किं भवतु ? ।

 दर्दुरकः--यदि जेष्यति तदा दास्यति ।

 माथुरः---अह ण जिणादि ? । [ अथ न जयति ? ।।

 दुर्दुरक-तदा न दास्यति ।


मित्यर्थः । जीर्णपटसंवृतः (?) । कटकरणेन प्रयच्छामि तत्रार्थः-कल्यवत्तं कल्यं प्रातः वत' बर्तय (?) । कटत्वेन देहीत्यर्थः । अत एव चाधुना देहि । तत्किमिति गृहादानयनादिनापि विनयः संभाव्यत इत्याशयः । दुर्वणेति ॥ १३ ॥ भट्टा इति संबोधनोक्तिः, ममैव विभवः । तदेवं सति किम् ? ॥ अथ न जयति । अथायं न दृढे भद्रं जयतु । पाठान्तरे तु---हह अथ । भद्रकं जन्यम् (१) ॥ एवमहं पत्तुआ धुत्तिजामि प्रतायें । अहमपि नाम मथुराभवो


 माथुर-अह ण जुत्तं जप्पिदुं । एवं अक्खंतो तुम पअच्छ

धुत्तआ ! । अहं पि माम माथुरु धुत्तु जूदं मित्था आदंसआमि । अण्णस्स वि अहं ण बिभेमि । धुत्ता ! खंडिअवुत्तोसि तुमं । [अथ न युकं जल्पितम् । एवमाचक्षणस्त्वं प्रयच्छ धूर्तक ।। अहमपि नाम माथुरो धूर्तो द्यूतं मिथ्या दर्शयामि । अन्यस्मादप्यहं न बिभेमि । धूर्त ! खण्डि[४]तवृत्तोऽसि त्वम् ।]

 दर्दुरकः-अरे, कः खण्डितवृत्तः ? ।।

 माथुरः--तुम हुँ खंडिअवुत्तो । [ त्वं खलु खण्डितवृत्तः ।]

 दुर्दरकः---पिता ते खण्डितवृत्तः । ( संवाहकस्यापक्रमितुं संज्ञां ददाति )

 माथुरः---गोसाविआपुत्ता ! णं एवं जैव जुदं तुए सेविदं ?। [ वेश्योपुत्र ! नन्वेवमेव चूतं त्वया सेचितम् ?।]

 दर्दरक-मयैवं धृतमासेवितम् ।

 माथुरः-~-अले संवाहआ ! पअच्छतं दशसुवण्णं। [ अरे संवा- हक ! प्रयच्छ तद्दशसुवर्णम् ।  संवाहकः----अर्ज दइश्शं, दाव दइश्शं । [ अद्य दास्यामि, तावहास्यामि ।।

( माधुरः कषेति )

 दुर्दरकः-मूर्ख ! प[५]रोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली- कर्तुम् ॥


धूतको द्यूतं मिथ्या दर्शयामि । अन्यस्सै च नाहं विमेमि । अहमेवान्यं निर्भयः प्रतारयामि, न तु मामन्य इत्यर्थः । तेन त्वमपि धूर्तेऽसीति भावः ॥ गोसाविआ


 ( माथुरः संवाहकमाकृष्य धोणा[६]यां मुष्टिप्रहारं ददाति, संवाहकः सशोणितं

मूर्च्र्छां नाट्न्भूमौ पतति, दर्दुरक उपसृयान्त[७]रयति; माथुरो दर्दुरकं ताडयति; दर्दुरको विप्रतीपं ताडयति )

 माथुर-—अले अले दुट्ट छिण्णालिआपुत्तअ ! फलं पि पाविहसि । [ अरे अरे दुष्ट पुंश्चलीपुत्रक ! फलमपि प्राप्स्यसि ।]

 दर्रदुरकः-- अरे मूर्ख ! अहं त्वया मार्गगत एव ताडितः । श्वो यदि राजकुले ताडयिष्यसि, तदा द्रक्ष्यसि ।

 माथुरः--एसु पेक्खिस्सं । एष प्रेक्षिष्ये ।]

 दर्दुरकः----कथं द्रक्ष्यसि ? ।

 माथुरः—प्रसार्य चक्षु एवं पेक्खिस्सं । [ एवं प्रेक्षिप्ये ।]

 ( दर्दुरको माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति, माथुरोऽक्षिणी निगृह्य भूमौ पतति, संवाहकोऽपक्रामति )

 दर्दरकः----{ खगतम् ) प्रधानसभिक माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवत्येन शर्विलकेन, यथा किल-आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । ( इति निष्क्रान्तः )

 संवाहकः---( सत्रासं परिक्रम्य, दृष्ट्वा ) एशे कश्श वि अणपातुदपक्खदुयालके गुहे । ती एत्थ पविशिश्शं । ( प्रवेशं रूपयित्वा, वसन्तसेनामालोक्य ) अज्जे । शलणागदे म्हि । [ एतत्कस्याप्यनपावृतपक्षद्वारकं गेहम् । तदत्र प्रविशामि। आर्ये ! शरणागतोऽस्मि ।]


वेश्या ॥ एतत्कस्याप्यपावृतपक्षद्वारं गेहम् । ढकेहि पिधेहि ॥ तुलिदमाकलितम् ॥  वसन्तसेना--अभअं सरणागदस्स हञ्जे ! ढक्केहि पक्ख- दुआरअं । [अभयं शरणागतस्य । चेटि ! पिधेहि पक्षद्वारकम् ।]

( चेटी तथा करोति )

 वसन्तसेना-कुदो दे भअं ? । [ कुतस्ते भयम् ? ।]

 संवाहकः---अज्जे ! धणिकादो । [ आयें ! धनिकात् । ]

 वसन्तसेना--हञ्जे ! संपदं अवाविणु पक्खदु[८]आरअं । [ चेटि !सांप्रतमपावृणु पक्षद्वारकम् ।]

 संवाहकः-( आत्मगतम् ) कधं धणिकादो तुलिदं शे भअकालणं ? । शुट्टु खु एवं वुञ्चदि,---

जे अत्तबलं जाणिअ भालं तुलिदं वहेइ माणुश्शे ।।
ताहं खलणं ण जयदि ण अ कंता[९]लगडे विवज्दिज ॥ १४ ॥

एत्थ लक्खिदम्हि । [कथं धनिकात्तलितमस्या भयकारणम् ? सुष्टु खल्वेवमुच्यते,-

ये आत्मबलं ज्ञात्वा भारं तु[१०]लितं वहति मनुष्यः ।।
तस्य स्खलनं न जायते न च कन्तारगतो विपद्यते ॥

अन्न लक्षितोऽस्मि ।।

 माथुरः-( अक्षिणी प्रमृज्य, द्यूतकरं प्रति ) अले, देहि देहि । [अरे, देहि देहि ।]


जे अत्तबलमित्यादि । वैतालीयं छन्दः । यो (य) आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः । तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥ १४ ॥ तुलितं कलितमिति वा पदान्त-' इति बिन्दोर्लंघुत्वं। वसन्तसेनाया अशक्यविषये व्यापार युक्तः ॥ गोहे मनुष्यः । तस्य दुरात्मनो माया


टिप्प- । । ।  द्यूतकरः----भट्टा जावदेव अम्हे दद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कंतो । [ भर्तः ! यावदेव वयं दर्दुरेण कलहायितास्तावदेव स पुरुषोऽपक्रान्तः ।]

 माथुरः–तस्स जूदकलस्स मुट्टिप्पहालेण णासिका ' भग्गा आसि । ता एहि, रुहिरपहं अणुसरेम्ह । [ तस्य द्यूतकरस्य मुष्टिप्रहारेण नासिका भग्नासीत् । तदेहि, रुधिरपथमनुसरोवः]

( अनुसृत्य )


 द्यूतकरः–भट्टा | वसंतसेणागेह पविट्टो सो । [ भर्तः ! वसन्तसेनागृहं प्रविष्टः सः ।]

 माथुरः--भूदाइं सुवण्णाई । [भू[११]तानि सुवर्णानि ।]

 द्यूतकरः--लाअउलं गदुअ णिवेदेम्ह । [ राजकुलं गत्वा निवेदयावः।]

 माथुरः–एसो धुत्तो' अदो णिक्कमिअ अण्णत्त गमिस्सदि । ता उअरोधेणेव्व गेण्हेम्ह । [ एष धूर्तोऽतो निष्क्रम्यान्यत्र गमिष्यति । यदुपरोधेनैव गृह्वीवः । ]

( वसन्तसेना मदनिकायाः संज्ञां ददाति )

 मदनिका--कुदो अज्जा ? को वा अज्जो ? कस्स वा अज्जा ? । किंवा वित्तिं अज्जो उक्जीअदि ? कुदो वा भअं ।। [कुत आर्यः १ को वार्यः ? कस्य वार्यः ? कां वा वृत्तिमार्य उपजीवति ? कुतो वा भयम् ? ।]  संवाहकः-शुणादु अज्जआ। अज्जए ! पाडलिउते मे जम्मभूमी । गहवइदालके हग्गे । संवाहअश्श-वित्तिं उवजीआमि । [ श्रुणोर्त्वार्या


मुष्टि प्रहारेण नासा भूमा। तदागच्छतु। चिरमेतदनुसरावः । एहि तावत् ॥ अदो अतः । निष्क्रम्यान्यत्र गमिष्यति । तदुपरोधेनैव गृह्णीमः । गृहपतेर्दारको-


टिप्प६-- । आयें ! पा[१२]टलिपुत्रं मे जन्मभूमिः । गु[१३]हपतिदारकोऽहम् । सं[१४]वाहकस्य वृत्तिमुपजीवामि ।

 वसन्तसेना-सुउमारा खु कला सिक्खिदा अज्जेण । [सुकुमारा खलु कला शिक्षितार्येण ।]

 संवाहकः-----अज्जए । कलेत्ति शिक्खिदा, आजीविआ दाणिं संवुत्ता । [आयें ! कलेति शिक्षिता, आजीविकेदानीं संवृत्ता।]

 चेटी–अदिणिव्विण्णं अज्जेण पडिवअणं दिण्णं । तदो तद?। [ अतिनिर्विष्णमार्येणे प्रतिवचनं दत्तम् । ततस्ततः ? ।]

 संवाहकः--तदो अज्जए ! एशे णिजगेहे आहिँडकाणं मुहादो शुणिअ अपुव्वदेशदंशणकुदूहलेण इह आगदे । इह वि मए पविशिअ उज्जइणि एक्के अज्जे शुश्शूशिदे । जे तालिशे पिअदंशणे पिअवादी, दइअ ण कित्तेदि, अवकिदं विशुमलेदि । किं बहुणा पलंतेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ। [ तत आर्ये ! एष निजगृह आहिण्डकानां मुखाच्छ्रुत्वाऽपूर्वदेश दर्शनकुतूहलेनेहागतः । इहापि मया प्रवियोज्जयिनीमेक आर्यः शुश्रूषितः । यस्तादृशः प्रियदर्शनः प्रियवादी, दत्वा न कीर्तयति, अपकृतं विस्मरति । किं बहुना प्रलपितेन । दक्षिणतया परकीयमिवात्मानमवगच्छति, शरणागतवत्सलश्च।]

 चेटी–को दाणिं अज्जआए मणोरहाहुत्तस्य गुणाइं चोरिअ उज्जइणिं अलंकरोदि ? [क इदानीमार्याया मनोरथाभिमुखस्य गुणोरयिवोजयिनीमलंकरोति ? ।]


s६म् । संवाहकस्य शरीरयन्त्रमर्दकस्य व्यापारमुपजीवाभि । स्वगृहपर्यटकानां भिक्षुकादीनां वचनं श्रुखा । अवकिर्द अपकृत विस्मरवि । किं बहुना, पलंतेण प्रलपितेन ।। मणोरहाहुत्तरस मनोरथाभिमुखस्य ॥ अनुक्रोशः


टिप्प-1  वसन्तसेना–साहु हुने | साहु; मए वि एव्वं ज्जैव्व हिअएण मंतिदं । [ साधु चेटि ! साधु । भयाप्येवमेव हृदयेन मञ्जितम् ।।

 चैटी--अज्ज ! तदो तदों है। [आर्ये ! तस्ततः ? ।

संवाहकः----अज्जए ! शे दाणिं अणुकोशकिदेहिं पदाणेहिं ....। [ आयें ! स इदानीमनुक्रोशकृतैः प्रदानैः ...]

 वसन्तसेना--किं उवरदविहवो संवुत्तो ? ।[ किमुपरतविभवः संवृत्तः १ ।]

 संवाहक–अणाचविखदे ज्जेव्व कधं अज्जआए विण्णादं ?। [ अनाख्यातमेव कथमार्यया विज्ञातम् ? ।]

 वसन्तसेना–किं एत्थ जाणीअदि १ । दुल्लहा गुणा विहवा अ। अपेएसु तडाएसु बहुदरं उदयं भोदि । [ किमत्र ज्ञातव्यम् १ । दुर्लभा गुणा विभवाश्च । अपेयेषु तडागेषु बहुतरमुदकं भवति ।]  चेटी--अज्ज ! किंणामधेओ खु सो ? । [आर्य ! किंनामधेयः खलु सः ? ।।

 संवाहकः----अज्जे ! के दाणिं तश्श भूदलमिअंकश्श णामं ण जाणादि । शो खु शेट्ठिचत्तले पङिवशदि । शलाहणिज्जणामधेए अज्जचालुदत्ते णाम । [ आर्ये ! क इदानीं तस्य भूतलमृगाङ्कस्य नाम न जानाति । स खलु श्रेष्ठचतवरे प्रतिवसति । श्लाघनीयनामधेय आर्य- चारुदत्तो नाम ।]

 वसन्तसेना---( सहर्षमासनादवतीर्य ) अज्जस्स अत्तणकेरकं एवं गेहं ?। हञ्जे! देहि से आसणं । तालवेंत्अं गेण्ह। परिस्समो


करुणा । अणाचखिदे अनाख्यातम् । अपेयेषु तडागेषु बहुतरमुदकं भवति । अज्जस्स बाधेदि । [ आर्यस्यात्मीयमेतद्गेहम् । चेटि ! देह्यस्यासनम् । तालवृन्तकं गृहाण । परिश्रम आर्यस्य बाधते ।]

( चेटी तथा करोति )

 संवाहकः-(स्वगतम् ) कधं अज्जचालुदत्तस्स णामशंकित्तणेण ईदिशे में आदले । शाहु अज्जचालुदत्तो ! शाहु, पुहवीए तुमं एक्के जीवशि; शेषे उण जणे शशदि । ( इति पादयोर्निपत्य ) भोदु अज्जए ! भोदु; आशणे णिशीददु अज्जआ । [कथमार्यचारुदत्तस्य नामसंकीर्तनेनेदृशो म आदरः ? । साधु अर्यचारुदत्त ! साधु, पृथिव्यां त्वमेको जीवसिं । शेषः पुनर्जनः श्वसिति । भवत्वायें ! भवतु; आसने निषीदत्वार्या ।]

 वसन्तसेना---( आसने समुपविश्य ) अज्ज ! कुदो सो धणिओ है। [ आर्य । कुतः स धनकः ।]

 संवाहकः--

शक्कालधणे खु शज्जणे काह ण होई चलाचले धणे ।
जे पूइदुं पि ण जाणादि शे पूआविशेशं पि जाणादि ॥ १५ ।।

[ सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् ।
थः पूजयितुमपि न जानाति स पूजाविशेषमपि जानाति ॥ ]

 वसन्तसेना--तदो तदो ? । [ ततस्ततः ? 1]

 संवाहकः--तदो तेण अज्जेण शक्तिी पलिचालके किदो म्हि । चालित्तावशेशे अ तस्सि जूदोवजीवी म्हि शंवुत्ते । तदो भाअधेअविश- मदाए दशशुवण्णों जूदे हालिद । [ ततस्तेनार्येण सवृत्तिः परिचारकः


काकूक्त्या, अपि तु नैवेत्यर्थः । शक्कालधणे इत्यादि । मात्रासमकम् । प्रतिपादं 'चलाचले, धणे, से' इत्येकारत्रयं लधु छन्दोनुरोधात् । सत्कारधनः खलु सज्जनः कस्य च न भवति चलाचलं धनम् । यः पूजयितुमपि न जानाति स पूजाविशेषं जानाति; अपि तु न जानात्येव ॥ १५ ॥ ततस्तेनार्येण सवृत्तिः कृतवर्तनः परिचारकः कृतः । चारिव्यमात्रावशेषे धनशून्ये तस्मिन् ॥ वासपादकृतोऽस्मि । चारित्र्यावशेषे च तस्मिन्यूतोपजीव्यसि संवृत्तः । ततो भाग- धेयधिषमतया दशसुवर्ण यूते हरितम् ।]

 माथुरः-उच्छादिदो म्हि, मुसिदो म्हि । [उत्सादितोऽस्मि, मुथितोऽस्मि ।।

 संवाहकः-एदे दे शहिअजूदिलों में अणुशंधअति । शंपदं शुणिअ अजअ पमाणं । [एतौ तौ सभिकछूतकरी मामनु- संधत्तः । सप्रितं श्रुत्वार्या प्रमाणम् ।]

 वसन्तसेना–मदणिए ! वासपादवविसंतुलदाए पक्खिणो इदो तदो वि अहिंडेति । हल्ले ! ता गच्छ । एदाणं सहिअजूद- अराणं, अगं अज्जो जेब पडिवादे ति, इमं हत्याभरणमं तुम देहि। मदनिके ! वासपादपविसंष्टुलतथा पक्षिण इतस्ततोऽप्याद्दिषन्ते । चेटि ! तदुच्छ । एतयोः सभिकधूतकरयोः, अयमार्य एवं प्रतिपादयतीति, इदं हस्ताभरणं त्वं देहि । ] ( इति हस्तात्कटकमाकृष्य चेट्योः प्रयच्छति )

 चेटी---( गृहीला ) जं अज़आ आणवेदि । [ यदाज्ञापयति । ] ( इति निष्कान्ता )

 माथुरः--उच्छादिदो म्हि, मुसिदो म्हि । [ उत्सादितोऽस्मि, मुषितोऽसि । ]

 चेटी-जधा एदे उद्धं पेक्खंति, दीहं जीससंति, विसूरअंति अहिलहंति अ दुआरणिहिदलोअण्णा, तधा तकेमि, एदे दे सहिअजूदिअरा हुविस्संति।( उपगम्य ) अज ! वेदामि । [ यथैतावूर्व प्रेक्षेते, दीर्ध निश्वसतः विचारयत अभिलपतश्च द्वारनिहितलोचनौ, तथा तर्कयाम, एतौ तौ सभिकतकरी भविष्यतः । आर्य ! वन्दे ।]


पविसंघुलतया पक्षिणो भ्राम्यन्ति । दिनन्तेि भूतप्राय इत्यर्थः (?)। आर्यः सुवा- छकः ॥ अहिणेति अभिनीयन्ते । दुवारमूले बारमूले । सुहवा सुभगा ॥  माथुर–सुहं तुए हो । [ सुखं तव भवतु ।]

 चैटी–अज्ज ! कदमो तुम्हाणं सहिओ [ आर्य ! कतरो युवयोः सभिकः ?।]

 माथुरः-

कस्स तुष्टुं तणुमज्झे अहरेण रददट्ठदुन्विणीदेण।
जम्पस मोहलवअणं आलोअंती कडक्खेण ॥ १६ ॥

पास्थि मम विवो, अण्णत ब्वज ।

[ कस्य स्वं तनुमध्ये अधरेण रतदष्टदुर्विनीतेन ।
जल्पसि मनोहरवचनमालोकयन्ती कटाक्षेण ॥

नास्ति मम विभवः, अन्यत्र व्रज ।]

 चैटी–जइ ईदिसाई णं मंतेसि, ता ण होसि जूदिअरो । अस्थि को वि तुम्हाण धारओ ? । [थदीदृशानि ननु मन्त्रयसि, तदा न भवसि भूतकरः । अस्ति कोऽपि युष्माके धारकः ? ।]

 माथुरः--अत्थि, दशसुवण्णं धालेदि । किं तस्स ? । [अस्ति, दशसुवर्ण धारयति । किं तस्य ? ।]

 चेटी--तस्स कारणादो अज्ञआ इमं हत्याभर पडिवादेदि । णहि णहि, सो जेव पड़िवादेदि । [ तस्य कारणादायैद हस्ताभरणं प्रति- पायति । नहि नहि, स एव प्रतिपादयति ।]

 माथुरः----( सहर्ष गृहीत्वा ) अले, भणेशि ते कुलपुरा–“भूदं तुए गैथु । आअच्छ, पुणो जूदं रमह' । [अरे, भणसि तं कुलपुत्रम्- ‘भूतस्तव गडः। आगच्छ, पुनथूर्त रमख'।]

( इति निष्कान्तौ )


कस्से तुहमित्यादि । गाथा । मनोहरमव्यक्तं यद्वचनं तन्मन्मनवचनम् । हेतनुमध्ये ! कस्य वं मन्मनवचनम् (१)। दुर्विनीवेन रती दृष्टेनाधरैण अल्पसि । अलोकयन्ती कारेण ॥ १६ ॥ मम विभवो नास्ति । अन्यत्र गच्छ॥ धारयति ।।  चैटी--( वसन्तसैनामुपसृत्य ) अजए ! पडितुट्टा गदा सहिअ- जूदिअरा । [आयें ! परितुष्टौ गतौ सृभिकसूतकरौ ।]

 वसन्तसेना-ता गच्छदु अज्ज बंधुअणो समस्ससदु। [तद्गच्छतु, अद्य बन्धुजनः समाश्वसितु ।]

 संवाहक-अजए ! जइ एवं ती इथं कला पलिअणहत्थ- गदा कलीअदु । [आयें ! यथेचं तदिय कला परिजनहस्तगता क्रियताम् ।

 वसन्तसेना-अज्ज ! जस्स कारणादो इअं कळा सिक्खीअदि, सो क्षेत्र अजेण सुस्सूसिदपुञ्चो सुस्सूसिव्वो । [ आर्य! यस्य कारणादियं कला शिक्ष्यते, स एवार्येण शुश्रूतिपूर्वः शुश्रूषितव्यः ।]

 संवाहकः-( खगतम् ) अज्ञआए णिउअं पञ्चादिट्टो म्हि । कधं पञ्चवकलिश्शं । (प्रकाशम् ) अजए ! अहे एदिणा जूदिअलावमा पेण शकशमणके हुविश्शं । ता शंवाहके जूदिअले शकशमणके शंदुत्तेति शुमलिदव्वा अजआए एदे अक्खल । [ आर्यया निपुणं प्रत्या- दिष्टोऽस्मि । कथं प्रत्युपकरिष्ये ?। आयें! अहमेतेन द्यूतकरापमानेन शाक्य श्रमणको भविष्यामि । तेसंवाहको चूतकरः शक्यिश्रमणकः संवृत्त इति सर्त- व्यान्यार्ययैतान्यक्षराणि । ] ।

 वसन्तसेना--अज्ज ! अल साहसेण । [ आर्य ! अलं साहसेन ।]

 संवाहकः---अज्जए । कले णिच्चए, ( इति परिकम्य )

जुदेण तं कद में जं धीहत्थं जणश्श शब्दश्श ।
एणहिं पअिडशीशे यालिन्चमग्गेण विलिइशं ॥ १७ ॥


यस्य पालभ्यमीदृशं तं संवाहकं कुलपुत्रम् । भूतो गण्डः । सुविधानमित्यर्थः ।

  • खड' इति मरहट्टप्रसिद्धः । तत्पुनरपि चूतै रमामहे ।। इयं कला संवाहक (न)-

रूपा ॥ शुश्रूषितपूर्वः ॥ शकशमणके शाक्यभिक्षुः ॥ एतान्यक्षराणि । जूदेणे- त्यादि । गाथा । छूतेन तस्कृतं मम सर्वभाजनादिभ्यते यत्। 'यदिभ्यतः [ आयें ! कुतो निश्चयः,

यूतेन सस्कृतं मम यद्विहस्तं जनस्य सर्वस्य ।।
इदानीं प्रकटशीर्षों नरेन्द्रमार्गेण चिहरिष्यामि ॥]

( नेपथ्ये कलकलः )

 संवाहकः-( आकण्य) अले, किं पणेदं ? । ( आकाशे ) किं

 भणाध----‘एशे खु वशंतशेणआए खुटमोडके णाम दुट्टहत्थी विअ- लेदि’ त्ति ? । अहो, अज्ञआए गंधगणं पेक्खिश्शं गदुअ । अहवा किं मम एदिणा, १ । जधाववशिदं अणुचिट्ठिश्शं । [ अरे, किं न्वि- दम् ? । किं भणत--'एष खलु वसन्तसेनायाः खुण्टमोडको नाम दुष्टहस्ती विचरति' इति ? । अहो, आयया गन्धगजं प्रेक्षिष्ये गत्वा । अथवा किं ममैसेन ? । यथाव्यथसितमनुष्ठास्यामि । ] ( इति निष्क्रान्ता )।

( ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोचलवेषः कर्णपूरकः )

 कर्णपूरकः--कहिँ कहिं अज्ञआ ? । [ कुत्र कुशाय ? । ]

 चैटी-दुम्मणुस्स किं ते उल्वेअकालणं, जे अगदो वट्ठिदं अज्ञों ण पेक्खसि । दुर्मनुष्य ! किं स उद्वेगकारणभु ! यदप्रतोऽवस्थि- तामाय न प्रेक्षसे । ]

 कर्णपूरकः-( दृष्ट्वा ) अज्जए ! वंदामि । [ आयें ! वन्दे ।]

 वसन्तसेना---कण्णऊरअ प्ररितुट्टमुह लक्खीअसि । ता किं एणेदं है । [ कर्णपूरक ! परितुष्टमुखो लक्ष्यसे । तल्कि विदम् ? ।]

 कर्णपूरकः----( सविस्मयम् ) अजए ! वंचिदासि, जाए अज्ज कण्ण- ऊरअस्स परक्कमो ण दिडो । [ आयें ! वञ्चितासि, ययाय कर्णपूरकस्य पराक्रमो न दृष्टः ]


सर्वस्य जनस्य' इति प्राचीनटीका । इदानीं सूतदेयदशसुवर्णदेयकाले । प्रकटशीर्षों नरेन्द्रमाण विहरिष्यामि । भयविरहादियाशयः ॥ १७ ॥ विअदि विचरति । विकलयति' इयेंके । गल गुरुवम् । महावैभवशालिवात् । यथाव्यवखित  वसन्तसेना---कण्णऊरअ किं किं ।। [ कर्णपूरक ! किं किम् ?।]

 कर्णपूरकः-सुणाद् अजआ जो सो अजआए खुटमोडओ णाम दुट्टहस्थी, सो आलापत्थंभं भेजिअ महमेत्थं वावादिअ महंत संखोह करतो अमग्गं ओदिएणो । तदो एत्थंतरे उग्घुई जणेण---

अधणेध वालअजण तुरियं आरुहध बुक्खपासादं ।
किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एदि ॥ १८ ॥

अवि अ,----

विचलइ जेउरजुअले छिजति अ मेला मणिक्खइआ।
वलआ अ सुंदरदरा रअणं कुरजालपडियद्धा ॥ १९ ॥

तदो तेण दुट्टहत्थिणा कलचरणदणेहिं फुल्लणलिणं विअ णअरिं उज्जइणि अवगाहमाणेण समासादिदो परिवाजओ । तच्च परि- ब्भट्टदंडकुडिआभाअणं सीअरेहिं सिंचिअ दंतंतरे क्खितं पेखिअ पुणो वि उघुट्टे जण---‘हा परिव्वाजओ वावादीअदि' त्ति । [ ऋणोत्दा । यः स आर्यायाः खुण्टभोटको नाम दुष्टहस्ती स आलान- स्तम्भ भङ्, वा महामात्र व्यापाद्य महान्तं संक्षोभं कुर्वन् राजमार्गमवतीः । ततोऽश्रान्तरे उदुष्टं जनेन----

अपनयत बालकजने त्वरितमारोहत वृक्षप्रासादम् ।
किं न खलु प्रेक्षध्वं पुरतो दुष्टो हस्तीत एति ॥

अपि च,-

विचलति नूपुरयुगलं छिद्यन्ते च मेखला मणिखचिताः ।
वलयाश्च सुन्दरतरा रत्नाकुरजालप्रतिबद्धाः ।


परिव्रज्यानुष्ठानरूपम् ॥ उद्वेगकारणम् । अजअं बसन्तसेनाम् ॥ महमेत्थं महामात्रं इस्त्यारोहम् । अवरोध इत्यादि। गाथाद्वयम् । वृक्षप्रासादम् ॥१८॥ विचलर इति । नूपुर वलयाश्च विघटन्ते ॥ १९ ॥ समासादिदो प्राप्तः परि- प्राजकः संवाहक एव भिक्षुकरूपः । इस्वीकरशीकरसिंन्यमानमुत्थापिने प्रेक्ष्य ।। ततस्तेन दुष्टहलिना करचरणरदनैः फुल्लमलिनमिव नगरीमुज्जयिनीमगादड- मानेन समासादितः परिव्राजकः । तं च परिभ्रष्टदण्डकुण्ठिकाभाजनं शीकरैः सिक्वा दन्तान्तरे क्षिप्त प्रेक्ष्य पुनरप्युटुष्टं जनेन--‘हा, परिव्राजको व्यापाथ' इति ।]

 वसन्तसेना--( ससंभ्रमम् ) अहो पभादो, अहो पमादो । [ अहो प्रमादः, अहो अमादः ।]

 कर्णपूरकः---अलं संभमेण; सुणाई दाव अज्ञआ । तदो विच्छिण्णविसंटुलसिखलाकलावलं उचहतं दंतंतरपरिग्गदिदं परिवा- जअं उव्वहंतं तं पेक्खिों कण्णऊरएण मए, णहि णहि, अजआए अण्णपिंडउट्टेण दासेण, वामचलणेण जूदलेक्खों उग्घुसिअ उग्धुसिअ तुरिदै आवणादो लोहदंडं गेण्हिअ आआरिदो सो दुइहत्थी । [अलं संभ्रमेण; शृणोतु तावदार्यो । ततो विच्छिन्नविसंडुलशृङ्खलाकलापमुद्भहन्तं दन्तान्तरपरिगृहीतं परिव्राजकमुद्भहन्तं तं प्रेक्ष्य कर्णपूरकेण मय।-नहि नहि, आर्यायो अपिण्डपुष्टेन दासेन, वामचरणेन चूतलेखकं उडुष्योष्य त्वरित मापणाल्लोहदण्डं गृहीत्वाकारितः स दुष्टहस्ती ।]

 वसन्तसेना—तदो तदो ? । [ ततस्ततः ? । ]

 कर्णपूरकः---

आणिऊण सरोस ते हत्थ विझसैलसिहराभं ।
मोअरविओ मए सो दर्ततरसंडिओ परिवाज ॥ २० ॥

[ आहत्य सरोषं तं हस्तिनं विन्ध्यशैलशिखराभम् ।।
मोचितो मया से दन्तान्तरसस्थितः परियोजकः ।]


विर्सनुलशृङ्खलाकलापभिति क्रियाविशेषणम् । अण्णपिंडउट्टैण अपिण्डपुष्टेनाद्यूत- लेखकमुरप्राथ्ये । आपणात् क्रयविक्रयस्थानात् । तत्र वियार्थ लोहदण्डोऽप्यस्ति । अच्चशिकणेत्यादि । गाथा । स परिव्राजकः ॥ ३० ।। पल्हत्था पर्यस्ता । -१.२, ५ २ ,********************** *, *।

  • * **
    • .५ -*-.५५***

दिय--1 अयं 'बा'कारो इवः पठनीयः ।  वसन्तसेना–सुडु दे किदं; तदो तदो । [ सुष्टुं त्वया कृतम् । ततस्ततः ।।

 कर्णपूरकः——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु त्ति एत्तिअमेत्तं भणंती, विसमभरकंता विअ णावा, एक्कदो पल्हत्था सअला उज्जइणी आसि । तदो अजए ! एकेण सुण्णाई आहरणट्टा- गाई परामुसिअ उद्धं पेखिअ दीह जीससिअ अर्ज पावारओं मम उवरि क्खित्तो । [ तत आयें ! साधु रे कर्णपूरक ! साधु' इत्येतावन्मानं भणन्ती, विषमभराक्रान्ता इव नौः एकातः पर्यस्ता सकलज्जयिन्यासीत् । तत आयें ! एकेने शून्यान्याभरणस्थानानि परामृश्य ऊध्र्व प्रेक्ष्य दीर्दै निःश्वस्यायं आवारको ममोपरि क्षिप्तः ।]

 वसन्तसेना---कण्णऊरअ 1 जाणीहि दाव किं एसो जादीकुसुम- वासिदो पावारओ या वेत्ति । | कर्णपूरक ! जानीहि तावत्किमेष जाती- सुमवासिवः प्रावारको न वेति ।]

 कर्णपूरकः-अजए ! भदगंधेण सुडु तं गंधं ण जाणामि । [ आर्ये! मदगन्धेन सुष्टु त गन्धं न जानामि ।।

 वसन्तसेना--णाम पि दाव पेक्ख । ( नामापि तावत्प्रेक्षस्व ।]

 कर्णपूरकः--इमं णामं, अजआ एव्व वाएदु । [ इदं नाम, आर्यैव वाचयतु ।] ( इति अवारकमुपनयति )

 वसन्तसेना--अज्ञचारुदत्तस्स । [ आर्य चारुदत्तस्य ।] ( इति वाच- यित्वा सस्पृहं गृहीत्वा प्रावृणोति )

 चेटी-कुण्णऊरअ ! सोहदि अजए पावारओ । [ कर्णपूरक! शोभस आर्यायाः अवारकः ।]


टिप्प०-1 चारुदतेनेत्यर्थः । स्वाॐ भूषणानि न सन्ति' इति विचार्य, दरि. दोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्राचारकमेव प्रादादिति भावः । अयं हि प्रथम वर्णितः प्रावरिक इति यम् ।  कर्णपूरकः--आं, सोहदि अजआए पोवारओ । [ , शोभत आर्यायाः प्रावारकः । ]

 वसन्तसेना--कण्णऊरअ ! इदं दे पारितोसिअं। कर्णपूरक ! इदं ते पारितोषिकम् । ] ( इत्याभरणं प्रयच्छति ) ।

 कर्णपूरकः-( शिरसा गृहीत्वा प्रणम्य च ) संपदं सुइ सोहदि अ- ज्ञआए पावारओ । [ सांप्रतं सुधु शोभत आर्यायाः प्रावरकः । ]

 वसन्तसेना--कण्णऊरअ ! एदाए वेलाए कहिं अजचारु- दत्तो है । [ कर्णपूरक ! एतस्यां वेलायां कुत्रार्यचारुदत्तः ? ।]

 कर्णपूरकः--एदेण व मागेण पवुत्तो गेहं । [ एतेनैव भार्गेण प्रवृत्तो गेहम् ।

 वसन्तसेना-हले ! उवरिदणं अलिंदों आरुहिअ अज्जचा- रुदत्तं पेक्जेम्ह । [ चेटि ! उपरितनर्मलिन्दकमारुह्मार्यचारुदत्तं पश्यामः । ]

( इति निष्क्रान्ताः सर्वे )

इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः।


परामुसिअ परामृश्य । आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृश्चलितः ॥

इति घृतकरसंवाहको नाम द्वितीयोऽङ्कः ।

टिप्प -1 गजवृत्तान्तेन यदत्तदत्तप्रावार काव्यतिकरेण च परितोषः। ॐ व्यञ्जि. तश्चानेन 'चारुदत्तानुरागः। 8 अलिन्दकै नाम बढिरप्रकोष्ठः ।

  1. वर्तुलीकृतम.
  2. 'पूरा'पातनेन
  3. उत्संगे.
  4. प्रतारकः, खलिताचारः
  5. ममासश्रिधाने भसयितम्
  6. घोणायां नासाप्रप्रदेशे
  7. दुयोर्मध्ये गत्वा व्यवधानं करोत्रीत्यर्थः
  8. २ दृढं सशृङ्खलं विधेहीत्यर्थः
  9. ३ स्वानुरूपम्
  10. १ गड़े इत्येारो लघुः पठनीयः, छन्दोनुरोधात्
  11. 1 भूतकालिकानीव गतानीति भावः
  12. १इदं काशीतः पूर्वस्मिन्दिशि प्राचीनं मगधराजनगरम्, प्रस्तुतं पाटणा'रूयमेव चेति केचित्
  13. २माध्यक्षस्य पुत्रः।
  14. ३अङ्गमर्दनरूपामुपजीधिकामित्यर्थः ।