यज्ञाधिकारः/अष्टमोऽध्यायः
← सप्तमोऽध्यायः | यज्ञाधिकारः अष्टमोऽध्यायः [[लेखकः :|]] |
नवमोऽध्यायः → |
अधाष्टमोऽध्यायः
विमानविधिः।
अत ऊर्ध्वं वमानानि विश्वानि कथितानि च
वासाधिकारे चाद्यापि एकभूमिः प्रवक्ष्यते। 1
अग्निहस्तं समारभ्य द्विद्विहस्त विवर्दनात्
(चतुर्हस्तत्।ग।)चतुर्धा नवहस्तान्तमेक (भूमेः। अ।भूमौ।ग।) भूमिर्विशेषतः। 2
(त्रयोदश।) त्रिधोदयं तदध्यर्धं पादोनं द्विगुणं तथा
(द्विगुणम्।)त्रिगुण ञ्चेति नाम्ना च पौष्टिकं जयमद्भुतम्। 3
चतुर्भागं द्विभागं वा पञ्चभागं त्रिभागकम्
कर्भ गेहस्य विस्तारं द्विविधं मानमुच्यते। 4
तुङ्गं तदष्टधा कृत्वा भागमेकं समूरकम्
(पादम्।ग।)पादोत्तुङ्गं द्विभागं स्यात्प्रस्तरं भगमेव च 5
ग्रीवोदय न्तु भागं स्याद्ध्विभागं शिखरस्य च
भागं स्यात् स्थूपिकोत्से धमेक भूमेश्विशेषतः 6
ग्रीवोदयं त्रिभागैकं वेदिकोदय मुच्यते
अधिष्ठानं पादवर्गं प्रवक्ष्यामि पृथक् पृथक्। 7
चतुर्विंशतिभाग न्तु कृत्वा ऽदिष्टान मुच्चरन्
नागांशं जगतीमानं धात्वंशं कुमुदस्य च 8
अम्बरांशं च तत्कमृमग्न्यंशं कण्ठमेव च
भागांश ञ्चान्यकम्पं स्याद्वाजिन ञ्च त्रिभागिकम्। 9
ऊर्ध्वपट्टं तथा धीमान् निर्गमं तत्त दंशकम्
उपानोदयमादौ तु जात्यङ्गुलि समुच्छ्पयम्। 10
दण्डं वा ध्यर्थदण्डं वा चरणस्याथ निर्गमम्
तत्त दंशं तदन्येषां युक्त्या शोभा यथा तथा 11
वारिमार्गमुदीच्यां वा प्रतीच्यां वा यथार्हकम्
जगत्यादौ कुर्याद्दधीमान् तद्वर्गच्छेद नीयकम् 12
प्रासादस्य तु विस्तारं चतुर्विंशतिभागिकम्
पञ्चविंशतिभागं वा षड्विंशतिभिरेव वा 13
भित्तिस्तम्भलस्यार्धभागं भागमेकं त्रिधा मतम्
(वह्निनाद ञ्च षण्मात्रं विष्कम्भं पादयोस्तथा।ग।)'वह्निर्वेद ञ्च षण्मात्रं पादविष्कम्भमेव वा 14
निर्गमं पादम्धं वा त्रिपादं कुड्यपादयोः
( अग्रम् ।ख।)आश्रं नागाश्रवृत्तं वा मिश्रं वाऽमिश्रमेव वा 15
धर्मनन्दाष्टभागेन (मूटादग्राद्विशालतः।) मूलादग्रविशालता
विद्वद्भिरग्रपादान्तमुक्तं तस्मान दण्डकम्। 16
तस्य पादोदयं धीमान् षट्सप्तवसुभागकम्
कृत्तैवं वेदिकोत्सेधं(षड्भागं तत्।) षड्भागान्तं पुनश्चरेत्। 17
अग्न्यंशं कण्टमेकांशं कुम्पं पद्मं तथोपरि
भागांशमूर्ध्वकम्पं स्याच्छ्रेष्ठं तत् युग्म(पङ्क्तिकम्।) भित्तिकम् 18
अयुग्मं विषमं नेष्टं शालाकूटेषु भित्तिषु
अवसाने च कुर्यात्त (पाद।) द्भागस्थानं विधीयते। 19
कुड्यस्तम्भस्य विस्तारा च्चतुर्भागोनविस्तरम्
तोरणस्तम्भ विस्तारं सर्वेषां समुदीरितम्। 20
वीरकाण्डोपरि न्यस्त मुत्तरं वाजनाब्जकम्
क्षेपणं निम्नकम्पन्तु तदूर्ध्वे वल्लि कान्तकम्। 21
विचित्रैर्नाना (वर्णैस्तु।ख।) पत्रैस्तु कारयेच्छु भवदर्शनम्
(कुड्यपादस्य चाग्रे तु।ग।)स्तम्भ ञ्चैवास्यचाग्रे तु बोदिकावीर काण्टकौ 22
फलकोपरि चैकैकं दण्डोत्सेधं प्रशस्यते
(पादोच्चं मण्डितोरध्वस्य ताटिकुम्भन्तदर्धकम्।) पोदनोच्च न्तु कुम्भं स्यान्नासीतुङ्गं तदर्धकम्। 23
कण्ठयोः पाददण्डं स्याद्वल्लीदण्डेन कारयेत्
(विपुलं वीरखण्डानाम्।)क्षुद्रदण्डं तथा नाम पादमेव प्रवशस्येते। 24
(तत्पार्शस्य च खण्डेनताटि)तत्पादस्य च कण्ठे च नासी चोर्ध्वस्य ? चायतम्
(ताटिखण्डेन कुम्भार्धम्।) नासीकुम्भस्य कण्ठेन कुम्भकण्ठस्य पालिका 25
बोधिका फलका तुल्यं फलकां विभजेत्र्तिधा।
एकं वेत्रं(तदधस्तात् ) ततो हस्ता (पादोच्चं) च्छेषं पद्म ञ्च कारयेत्। 26
तथापि तोरणैः स्नानफलकाद्या विशेषतः
बहुलं द्वारविपुलं भित्तिविस्तारमेव वा 27
पादहस्ताधिकं प्रोक्तं पादायामार्धमेव वा
धात्वष्ट नन्द पङ्त्क्यंशं कृत्वा पादोदयं पुनः 28
(षण्नस्यष्टपदो)षण्मानाष्ट वव भागं शुद्धद्वारोदयं स्मृतम्
? उत्सङ्गार्धं पतङ्गार्धं शिष्टभागं द्विधा चरेत्। 29
तदेकैकं (तथोत्सेधम्।ग।) तयोरंशं तत्समं स्तम्भनिर्गमम् 30
(बहुलं चाधिकम्) बहुलात्पादाधिकं प्रोक्तमर्धातिकमथापि वा
पादोनद्विगुणं प्रोक्तं द्विगुणं पादयोस्ततः। 31
कवाटं कारयेत्तत्र निरुक्तोक्त ञ्च बुद्धिमान्
उक्तवृक्षेण संश्लिष्टं ताम्रपट्टेन बन्धितम्। 32
प्रस्तरस्योदयं कृत्वा (पञ्च) एकविंशति भागकम्।
त्रियंशमुत्तरं प्रोक्तमेकांशं वाजनं तथा। 33
तत्समं निर्गमं प्रोक्तं (त्र्यंशं हि)र्त्र्यंश न्तु वलभि स्तथा
निर्गमं वाजनं चोर्ध्वे एकै कांशं समाचरेत्। 34
धात्वंशं तत्कपोतं स्यात्तदर्धं वा स निर्गमम्
दण्डं वा चार्धदण्डं वा लम्ब (वेदिकेन च)येदिति के चन। 35
सार्धदण्डं द्विदण्डं वा विसालं क्षुत्रनासिकम्
प्रत्युत्सेधं यथाशोभं कारयेत्स (सहुबर्हकम्)बलिर्हकम्। 36
वृतेस्त (तलाष्ट,ख।) ताष्टभाग ञ्च एकोनं वेदिकोदयम्
तं वेदभागं कृत्वा तु ग्रीवा विस्तारमुच्यते। 37
(कन्दरोच्चं द्विभागैकम् ग।) स्कन्दकोच्चं त्रिभागैकं वेदिकोदयमिष्यते
अश्रमष्टास्रं वाऽथ (वृत्तम्) मिश्रं वा कर्तुरिच्छया। 38
विशालं शिकरोच्चस्य वेदिविस्तारतुल्यकम्
अष्टांशोन न्तु तन्मध्यं तदूर्ध्वं विपुलं क्रमात्। 39
षोडशांशैकहीनं तद्वेदि विस्तारमानतः
क्रमात्कृशं यथा शोभं कारयेच्छिखरं बुधः। 40
ओष्ठस्य पञ्चभागान्तं त्र्यंशं वा (फलिका ग।) पालिकायतम्
(फलिका ग।)पालिकापञ्चभागा (स्याद्युगान्तं पद्म) त्तद्विकाशं पर्मविस्तृतम्। 41
दलाष्टक समायुक्त दण्डमग्रे दलेच्च्रयम्
शिकरस्यकरणं तुङ्गं शेषं युक्त्याऽथ कारयेत्। 42
शिकरस्य त्रिभागैकं महानासी विशालता (तः)
समं त्रिपादमर्धं वा नासिका निर्गमं बुधाः। 43
व्यासा त्तत्र चतुर्भागं स्कन्धान्तं तुङ्गमेव च
शक्तिध्वजं तदुच्छर्ध्वं त्रिपादं वाऽथ कारयेत्। 44
शक्तिध्वजस्य पृष्टे तु चक्रं कृत्वाऽयनेन च
स्थापयेत्सुदृढं धीमान् स्रवमङ्गलकारणात्। 45
पद्मस्य च त्रिभागैकं कुम्भतारः प्रशस्यते
कुम्भतारत्रिभागैकं कुम्भोपरिः स कन्दरम्। 46
त्रिगुणं पालिका(तस्य त्रिगुणैः) तत्र रेणुकं मुकुलं तथा
स्थूपितुङ्गं पुनर्धामान् ममुभागं विभज्य च 47
एकांशं तद्वलग्नं स्या(वेदांशं) त्तुर्यांशं(रूपमेव।) कुम्भमेव च़
भूतांसं कन्धरं प्रोक्तमेकांशं पालिका बुधः 48
त्रियंशं मुकुलं प्रोक्तं कारयेद्धाटकादिना
अग्रतो मण्डपं कुर्यात्समं त्रिपादमर्दकम्। 49
मण्डपं समसूत्रं चेदन्तराल (सवेश्मकम्।) तु वेश्मकम्
अन्तरालस्य विस्तारं सार्धहस्तं द्विहस्तकम्। 50
त्रिहस्तं वाऽपि कर्तव्यं सर्वस्मिन् धाम्नि कीर्तितम्
दण्डं वा सार्धदण्डं वा द्विदण्डं वा त्रिदण्डकम्। 51
हर्म्यमण्डपयेरन्तर्वेश्म स्यात्तद्विचक्षणः
अन्तरालस्य मध्ये तु कुड्यकुम्भलतान्वितम्। 52
स्तम्भतोरणकं वाऽपि स्तम्भपञ्जरमेव वा
स्तम्भसौष्टिकमेवं वा तोरणं वाऽभिदीयते। 53
विमानं (मध्यभद्रम्) मध्यमार्गं चेन्मानसूत्र (विधिः,ख।) द्बहिर्बधः
दण्डं वा सार्धदण्डं वा त्रिदण्डं वाऽथ निर्गमम्। 54
नागरं द्राविड ञ्चेति विसर ञ्चेति तत्र्तिधा
जात्यश्रमायताश्रं यन्नागर ञ्चेति कथ्यते। 55
वृत्तं यवृत्तायुतं प्रोक्तं द्व्यश्रवृत्त ञ्च पण्डितैः
मध्यभद्रयुते ग्रीवादष्टाश्रं स्वस्तिबन्धनम्। 56
उपानात् स्थूपिपर्यन्तं वर्णाश्रं नागरं विधुः
कण्ठात्प्रभृति वस्वश्रं द्राविड ञ्चेति कथ्यते। 57
न्कन्धात्प्रभृति(हम्म्यन्तम्) वृत्तं यद्वेसर ञ्चेति पठ्यते
अलङ्कारविधान ञ्च निरुक्तोक्त वादाचरेत्। 58
पूर्वदिषु विमानेषु (मीशानस्यादि)महास्यां (मीशानस्यादि) वेदिकोपरि
पुरुषादीन् कारयित्वा (विमानादीनथापिवा।) कालादीन् कारये त्तु वा 59
द्वितले तु प्रतेरूर्ध्वे चन्द्रादींस्तु प्रकल्पयेत्
त्रतलादितलेष्वेवं कल्पयेच्च यथाक्रमम्। 60
प्रतेरुपरि कोणेषु गलस्थाने विशेषतः
सुवर्णं कारयेद्विद्वान् मृगेन्द्रं वाऽथ केचन। 61
एकजानु समासीनः ब्रह्मसन मथापि वा
गमनासनवद्युक्त्या विशेषात्कारयेद्बुधः 62
अथिष्ठानसमं वाऽथ स्तम्भार्धं पादमेव वा
त्रिपाद वाऽथ देवानां मानं स्यात्पुरुषादिषु 63
(पञ्चविंशति।आ।) पञ्चविंशच्चमात्रादि द्विद्व्यङ्गुल विवर्धनात्
षोढाभूतो त्तरत्रिंश (मानं वैदेवयोथा।) न्मानान्तं वोदयं तधा। 64
इति श्री वैखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तयां
संहितायां यज्ञाधिकारे
(विमानविध्र्नाम।)अष्टमोऽध्यायः