← अष्टमोऽध्यायः यज्ञाधिकारः
नवमोऽध्यायः
[[लेखकः :|]]
दशमोऽध्यायः →


अथ नवमो ऽध्यायः
प्राकारविधिः।
अतः परं प्रवक्ष्यामि प्राकाराणा न्तु लक्षणम्
प्रासादार्धं समं वाऽथ अध्यर्धं द्विगुणं तथा। 1
प्रथमावरणे प्रोक्तं द्वितीये द्विगुणं तथा
तृतीये त्रिगुणं प्रोक्तं चतुर्थं तत्समं तथा। 2
पञ्चमं (षष्टसप्तं च।ग। ) षष्टमं(सप्त) सप्तमं (तत्सप्तवेधरुद्र ञ्च कारयित्वा चतुर्थकम्।) तृतीयेन समं बुधाः
अथ वा हस्तमान ञ्च त्रिधा स्यादुत्तमं क्रमात्। 3
आलयार्धं समं वाऽथ प्रथमाऽवरणं स्मृतम्
द्वितीयं गर्भभूत ञ्च धातुहस्ताधिकं क्रमात् 4
तृतीयं भूतधातुश्च नवहस्ताधिकं बुधाः
(तत्सप्तवेधरुद्र ञ्च कारयित्वा चतुर्थकम्।)तत्सप्त नव रुद्र ञ्च कराधिक चतुर्थकम्। 5
पञ्चमं नव रुद्र ञ्च त्रयोदशकराधिकम्
महामर्यादया तुल्यमन्यत्सर्वं विशेषतः 6
चतुरश्रीकृते(नेतत्।) तस्मिन् पादाधिक धापि वा
अध्यर्धं सत्रिपादं वा द्विगुणं त्रिगुण न्तु वा 7
(चतुर्गुणाधिकं वाऽथ,)चतुर्गुणं वा कर्तव्यं प्राकारणां मुखायतम्
अन्तर्मण्डलमारभ्य दक्षिणे चोत्तरे ऽथ वा 8
स्नपनार्थं यादशालार्थ मास्थानार्ध ञ्च मण्डपान्
(वीक्षितार्थम्।ख।)विस्त्रृतार्थं विनोदार्थ मालयायाममितस्य च 9
प्रदक्षिणार्थं भक्तानां वर्धयेत् स्थपतिः शुचिः 10
त्रिहस्तं तत्समारभ्य द्विद्वि हस्तविविर्धनात्
पञ्चाशद्धस्तमानं स्यात्तप्तधा वृद्धिमानतः 11
पूर्वोक्तवत्क्रमाद्बाह्ये मङ्गलाय विवर्धनम्
वर्धनेनास्य दोषेऽस्ति क्षये दोषो भवेत्तथा 12
प्राकाराभ्यन्तरे चान्य दाश्रितालयमस्ति चेत्
तद्विमानं समारभ्य त्नाना न्ते च कारयेत्। 13
शम्भुर्वा शङ्करो वाऽथ हरिर्वाऽन्ये च केचन
अश्रिताः परिषद्धेवा नाश्रितांस्थान्विना चरेत्। 14
भित्तिविष्कम्भमानं स्यात्प्रथमं हस्तमानकम्
वर्ग ञ्च भागविद्धीरं सन्तमत्प्रथ मादिषु 15
अङ्गुल्या विषयान्तं ञ्च वर्धये(कुड्ययोः स्मृतम्।ग।) दुदयं ततः
विष्कम्भं त्रिगुणं भागं विषयं(कुड्ययोन्नतम्।) चोच्छ्रमं क्रमात्। 16
अष्टांशोनं ततश्चाऽग्रं भित्त्यभ्यन्तर (उन्नतम्)मुत्तमम्।
मध्यमं भित्तिमध्यं स्याद्भित्नि बाह्यमथोऽधमम्। 17
प्रधमावर्णं हित्वा दक्षिणे चोत्तरेऽथ वा
क्षुध्रद्वार ञ्च कर्तव्यं हीनेऽन्ये प्रथमेऽथ वा। 18
पश्चिमे वा यथायुक्त्या हीने नेष्ट ञ्च सर्वदा


यद्दिग्द्वारं विमानं तत्तद्दिग्द्वीरं तथा चरेत्। 19
प्रथमावरणे करुयाद्द्वितीयदौ विशेषतः
(विदिक्कोणेषु।ख।)दिक्षु कोणेषु वा कुर्याद्दिशोर्मध्येऽथ वा बुधः 20
मार्गो यस्यां दिशि द्वारं तद्दिशीति च केचन
नेष्टं तत्प्रथमे विद्वा नन्ययोश्चेति केचन 21
प्रथमेऽप्येवं कृतं चेद्राष्ट्रस्य कलहो भवेत्
तयोश्शिरांसि क्रमश श्चत्रस्याकृति वच्चरेत्। 22
साधिष्ठानादिकं श्रेष्टं कनिष्ठमृजुभित्तिकम्
प्राकाराणामुदीच्यां ना प्राच्यां वा दक्षिणेऽथ वा। 23
उपानाधश्च कर्तव्यं यथार्हं जलमार्गकम्
भित्तियुक्तमयुक्तं वा बहुभूमियुत न्तु वा 24
प्रथमावरणेसक्तौ (मुखायंसकलम्ः) मुखायामसमं बुधाः
यथाभित्तिस्थितं तद्व त्तथाभित्ति ञ्च कारयेत्। 25
विमानपरितो मध्ये स्तम्भ ञ्चैव सभित्तिकम्
कुर्यात्किञ्चिद्व्यवक्तं तत् ? विश्वतस्सममेव वा 26
विधिना भित्तिविष्कम्भं कारये त्तन्निरुक्तवत्
प्रासादोपानमारभ्य उत्तरान्तं यथोदयम्। 27
धात्वंशे मसूरयुग्मं पादोच्चं भूतमेव वा
षष्ट्यङ्गुलं समारभ्य षट् षडङ्गुलवर्धनात्। 28
नवधाष्टोत्तरान्तं स्या(शत।) तत्तन्मानाङ्गुलेन वै
धात्वङ्गुलं समारभ्य चाम्बराङ्गुल वर्धनात्। 29
तिथ्यङ्गुलान्तं नवधा पादविष्कम्भमुच्यते
भित्तिपार्श्वस्थितान्(भित्तिभूम्यार्धान्वितम्।) स्तम्भान् भुत्त्यर्थान्वित माचरेत्। 30
परितश्चोत्तराग्राणि प्रागुदन्तं न्यसेत्क्रमात्
सन्धिकर्म यथा कृत्वा वाजन ञ्च यथाक्रमम्। 31
तुलया च यथास्थाने विन्यसे त्तद्विचक्षणः(अध्याय समाप्तिर्न दृश्यते।ग। आदर्शे।) 31 4
इति क्षी वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे ) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
नवमोऽध्यायः