याज्ञवल्क्यस्मृतिः/आचाराध्यायः/गृहस्थधर्मप्रकरणम्
← वर्णजातिविवेकप्रकरणम् | याज्ञवल्क्यस्मृतिः गृहस्थधर्मप्रकरणम् याज्ञवल्क्यः |
स्नातकधर्मप्रकरणम् → |
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । |
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । |
हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः । |
उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । |
वेदाथर्वपुराणानि सेतिहासानि शक्तितः । |
बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः । |
देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् । |
अन्नं पितृमनुष्येभ्यो देयं अप्यन्वहं जलम् । |
बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः । |
आपोशनेनोपरिष्टादधस्तादश्नता तथा । |
अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । |
सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च । |
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । |
प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः । |
अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । |
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । |
अतिथिं श्रोत्रियं तृप्तं आसीमन्तं अनुव्रजेत् । |
उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च । |
ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् । |
विद्याकर्मवयोबन्धु वित्तैर्मान्या यथाक्रमम् । |
वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् । |
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । |
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । |
शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् । |
भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः । |
अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः । |
वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् । |
त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः । |
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । |
एषां असंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः । |
चाण्डालो जायते यज्ञ करणाच्छूद्रभिक्षितात् । |
कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । |