याज्ञवल्क्यस्मृतिः/आचाराध्यायः/वर्णजातिविवेकप्रकरणम्

← विवाहप्रकरणम् याज्ञवल्क्यस्मृतिः
वर्णजातिविवेकप्रकरणम्
याज्ञवल्क्यः
गृहस्थधर्मप्रकरणम् →

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः । । १.९० । ।

विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा । । १.९१ । ।

वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः । । १.९२ । ।

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः । । १.९३ । ।

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारं एव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् । । १.९४ । ।

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः । । १.९५ । ।

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । ।