याज्ञवल्क्यस्मृतिः/आचाराध्यायः/भक्ष्याभक्ष्यप्रकरणम्
← स्नातकधर्मप्रकरणम् | याज्ञवल्क्यस्मृतिः भक्ष्याभक्ष्यप्रकरणम् याज्ञवल्क्यः |
द्रव्यशुद्धिप्रकरणम् → |
अनर्चितं वृथामांसं केशकीटसमन्वितम् । |
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । |
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । |
संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् । |
देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा । |
क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् । |
कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् । |
कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । |
चाषांश्च रक्तपादांश्च सौनं वल्लूरं एव च । |
पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । |
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । |
तथा पाठीनराजीव सशल्काश्च द्विजातिभिः । |
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । |
वसेत्स नरके घोरे दिनानि पशुरोमभिः । |
सर्वान्कामानवाप्नोति हयमेधफलं तथा । |