योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२३

← सर्गः २२ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२३
अज्ञातलेखकः
सर्गः २४ →

श्रीवसिष्ठ उवाच ।
इति संकथनं कृत्वा तस्यां निशि वराङ्गने ।
सुप्ते परिजने नूनमथान्तःपुरमण्डपे ।। १
दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसि ।
पुष्पप्रकरनिष्ठयूतमांसलामोदमन्थरे ।। २
अम्लानमालावसनशवपार्श्वासनस्थिते ।
सकलामलपूर्णेन्दुवदनद्योतितास्पदे ।। ३
समाथिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गिके ।
रत्नस्तम्भादिवोत्कीर्णे चित्रे भित्ताविवार्पिते ।। ४
सर्वास्तत्यजतुश्चिन्ताः संकोचं समुपागते ।
दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके ।।
बभूवतुर्भृशं शान्ते शुद्धे स्पन्दविवर्जिते ।
गिरौ शरदि निर्वात इव भ्रष्टाभ्रमालिके ।। ६
निर्विकल्पसमाधानाज्जहतुर्बाह्यसंविदम्।
यथा कल्पलते कान्ते पूर्वमृत्वन्तरे रसम् ।। ७
अहं जगदिति भ्रान्तिदृश्यस्यादावनुद्भवः ।
यदा ताभ्यामवगतस्यवत्यन्ताभावनात्मकः ।। ८
तदा दृश्यपिशाचोऽयमलमस्तं गतो द्वयोः ।
असत्त्वादेव चास्माकं शशशृङ्गमिवानघ ।। ९
आदावेव हि यन्नास्ति वर्तमानेऽपि तत्तथा ।
भातं वाऽभातमेवातो मृगतृष्णाम्बुवज्जगत् ।। १०
स्वभावकेवलं शान्तं स्त्रीद्वयं तद्बभूव ह ।
चन्द्रार्कादिपदार्थौघैर्दूरमुक्तमिवाम्बरम् ।। ११
तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता ।
मानुषी त्वितरेणाशु ध्यानज्ञानानुरूपिणा ।। १२
गेहान्तरेव प्रादेशमात्रमारुह्य संविदा ।
बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती ।। १३
अथ ते ललने लीलालोले ललितलोचने ।
स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते ।। १४
तत्रस्थे वाथ चिद्वृत्त्या पुप्लुवाते नभस्थलम् ।
कोटियोजनविस्तीर्णं दूराद्दूरतरान्तरम् ।। १९
दृश्यानुसन्धाननिजस्वभावा-
दाकाशदेहे अपि ते मिथोऽत्र ।
परस्पराकारविलोकनेन
बभूवतुः स्नेहपरे वयस्ये ।। १६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः ।। २३ ।।