योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२४

← सर्गः २३ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२४
अज्ञातलेखकः
सर्गः २५ →

श्रीवसिष्ठ उवाच ।
दूराद्दूरमभिप्लुत्य शनैरुच्चैः पदं गते ।
हस्तं हस्ते समालम्ब्य यान्त्यौ ददृशतुर्नभः ।। १
एकार्णवमिवोच्छूनं गम्भीरं निर्मलान्तरम् ।
कोमलं कोमलमरुदासङ्गसुखभोगदम् ।। २
आह्लादकमलं सौम्यं शून्यताम्भोनिमज्जनात् ।
अत्यन्तशुद्धं गम्भीरं प्रसन्नमपि सज्जनात् ।। ३
शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये ।
विशश्रमतुराशासु पूर्णचन्द्रोदरामले ।। ४
सिद्धगन्धर्वमन्दारमालामोदमनोहरे ।
चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले ।। ५
सस्नतुर्भूरिघर्मान्ते तडिद्रक्ताब्जसंकुले ।
सरसीव जलापूरमन्थरे मेघमण्डले ।। ६
भूतलौघमहाशैलमृणालाङ्कुरकोटिषु। ।
दिक्षु बभ्रमतुः स्वैरं भ्रमर्यौ सरसीष्विव ।। ७
धारागृहधिया धीरगङ्गानिर्झरधारिणि ।
भ्रेमतुर्वातविक्षुब्धमेघमण्डलमण्डपे ।। ८
ततो मधुरगामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः ।
शून्ये ददृशतुर्व्योम महारम्भातिमन्थरम् ।। ९
अदृष्टपूर्वमन्योन्यं सर्वसंकटकोटरम् ।
अपूर्यमाणमाशून्यं जगत्कोटिशतैरपि ।। १०
उपर्युपर्युपर्युच्चैरन्यैरन्यैर्वृतं पृथक् ।
विचित्राभरणाकारैर्भूतलैः सुविमानकैः ।। ११
परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् ।
पद्मरागतटोद्द्योतैः कल्पज्वालोपमोदरम् ।। १२
मुक्ताशिखरभापूरैर्हिमवत्सानुसुन्दरम् ।
काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम् ।। १३
महामरकताभाभिः शाद्वलस्थलनीलिमम् ।
द्रष्टृदृश्यक्षयासक्तजातध्वान्तोत्थकालिमम् ।। १४
पारिजातलतालोलविमानगणकेतनम् ।
अतो मञ्जरिकाकारमिव वैदूर्यभूतलम् ।। १५
मनोवेगमहासिद्धजितवातगमागमम् ।
विमानगृहदेवस्त्रीगेयवाद्यसघुंघुमम् ।। १६
त्रैलोक्यवरभूतौघसंचाराविरलान्तरम् ।
अन्योन्यादृष्टसंचारसुरासुरकुलाकुलम् ।। १७
पर्यन्तस्थितकूष्माण्डरक्षःपैशाचमण्डलम् ।
वातस्कन्धमहावेगवहद्वैमानिकव्रजम् ।। १८
वहद्विमानसीत्कारमुष्टिग्राह्यघनध्वनि ।
ग्रहर्क्षघनसंचारात्प्रचलद्वातयन्त्रकम् ।। १९
निकटातपदग्धाल्पसिद्धसिद्धोज्झितास्पदम् ।
अर्काश्वमुखवातास्तदग्धमुग्धविमानकम् ।। २०
लोकपालाप्सरोवृन्दसंचाराचारचञ्चलम ।
देव्यन्तःपुरिकादग्धधूपधूमाम्बुदाम्बरम् ।। २१
स्वस्वर्गाहूतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् ।
सामान्यसिद्धसङ्घोग्रतेजःपुञ्जतमोबलम् ।। २२
वलवत्सिद्धसंघट्टगमागमविघट्टितैः ।
घनैः सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम् ।। २३
काकोलूकैर्गृध्रभासै राशिभूतैश्चलैर्वृतम् ।
नृत्यद्भिर्डाकिनीसङ्घैस्तरङ्गैरिव वारिधिम् ।। २४
प्रवृत्तैर्योगिनीसङ्घैः श्वकाकोष्ट्रखराननैः ।
निरर्थं योजनशतं गत्वागच्छद्भिरावृतम् ।। २५
लोकपालपुरोध्वान्तधूमधूम्रेऽभ्रमन्दिरे ।
सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम् ।। २६
स्वर्गगीतस्तवोन्मत्तमदनाक्रान्तमार्गगम् ।
अनारतवहद्धिष्ण्यचक्रलक्षितपक्षकम् ।। २७
वातस्कन्धनिखातोन्तर्वहत्त्रिपथगाजलम् ।
आश्चर्यालोकनव्यग्रसंचरत्त्रिदशार्भकम् ।। २८
सदेहसंचरद्वज्रचक्रशूलासिशक्तिमत् ।
क्वचिन्निर्भित्ति भवनं गायन्नारदतुम्बुरु ।। २९
मेघमार्गमहामेघमहारम्भाकुलं क्वचित् ।
चित्रन्यस्तसमाकारमूककल्पान्तवारिदम् ।। ३०
उत्पतत्कज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् ।
क्वचित्कनकनिष्पन्दकान्ततापान्तवारिदम् ।। ३१
क्वचिद्दिग्दाहतापाढ्यमृष्यमूकाम्बुदांशुकम् ।
क्वचिन्निष्पवनाम्भोधिसंरम्भं शून्यताजलम् ।। ३२
क्वचिद्वातनदीप्रौढविमानतृणपल्लवम् ।
क्वचिच्चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम् ।। ३३
क्वचिन्मेरुनदीकल्पवातधूलिविधूसरम् ।
क्वचिद्विमानगीर्वाणप्रभाचित्रबलाङ्गकम् ।। ३४
क्वचिन्निरम्बरोन्नृत्तमातृमण्डलमालितम् ।
क्वचिन्नित्यं नवक्षीबक्षुब्धयोगीश्वरीगणम् ।। ३५
क्वचिच्छान्तसमाधिस्थविश्रान्तमुनिमालितम् ।
समं दूरास्तसंरम्भसाधुचित्तमनोहरम् ।। ३६
गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् ।
क्वचित्स्तब्धपुराकीर्णं वहत्पुरवरं क्वचित् ।। ३७
क्वचिद्रुद्रपुरापूर्णं क्वचिद्ब्रह्ममहापुरम् ।
क्वचिन्मायाकृतपुरं क्वचिदागामिपत्तनम् ।। ३८
क्वचिद्भ्रमच्चन्द्रसरः क्वचित्स्तब्धमयंसरः ।
क्वचित्सरत्सिद्धगणं क्वचिदिन्दुकृतोदयम् ।। ३९
क्वचित्सूर्योदयमयं क्वचिद्रात्रितमोमयम् ।
क्वचित्संध्यांशुकपिलं क्वचिन्नीहारधूसरम् ।। ४०
क्वचिद्धिमाभ्रधवलं क्वचिद्वर्षत्पयोधरम् ।
क्वचित्स्थल इवाकाश एव विश्रान्तलोकपम् ।। ४१
ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् ।
पूर्वापरोत्तरायाम्यदिक्संचाराकुलं क्वचित् ।। ४२
अपि योजनलक्षाणि क्वचिद्दुष्प्रापभूधरम् ।
अविनाशितमःपूर्णं दृषद्गर्भोपमं क्वचित् ।। ४३
अविनाशिबृहत्तेजः क्वचिदर्कानलोपमम् ।
हिमानीजठराशीतं क्वचिच्चन्द्रादिसद्मसु ।। ४४
क्वचिद्वहत्पुरोवृत्तकल्पवृक्षलतावनम् ।
क्वचिद्दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम् ।। ४५
वैमानिकनिपातेन वहिलेखाङ्कितं क्वचित् ।
क्वचित्केतुशतोत्पातमिथःसंघट्टपट्टितम् ।।
क्वचिच्छुभग्रहगणप्रगृहीताग्र्यमण्डलम् ।
क्वचिद्रात्रितमोव्याप्तं क्वचिद्दिवसभास्वरम् ।। ४७
क्वचिदुद्गर्जदम्भोदं क्वचिन्मूकामलाम्बुदम् ।
वातावकीर्णशुक्लाभ्रखण्डपुष्पोत्तरं क्वचित् ।। ४८
क्वचिदत्यन्तनिःशून्यमवदातमनन्तरम् ।
आनन्दमृदुशान्ताच्छं ज्ञस्येव हृदयं ततम् ।। ४
शुक्रवाहनभेकौघैः क्वचिद्गलकृतारवम् ।
शून्यतावारिवलितं क्षेत्रमाकाशवासिनाम् ।। ५०
मयूरहेमचूडादिपक्षिभिः क्वचिदावृतम् ।
विद्याधरीणां देवीनां वाहनैर्विहितास्पदैः ।। ५१
क्वचिदभ्रान्तरोन्नृत्यद्गुहमायूरमण्डलम् ।
क्वचिदग्निशुकैः श्यामं शाद्वलानामिव स्थलम् ।। ५२
क्वचित्प्रेतेशमहिषमहिम्ना वामनाम्बुदम् ।
क्वचिदश्वैस्तृणग्रामशङ्काग्रस्तासिताम्बुदम् ।। ५३
क्वचिद्देवपुरव्याप्तं क्वचिद्दैत्यपुरान्वितम् ।
अन्योन्याप्राप्यनगरं नगरन्ध्रकरानिलम् ।। ८४
क्वचित्कुलाचलाकारनृत्यद्भैरवभासुरम् ।
क्वचित्सपक्षशैलेन्द्रसमनृत्यद्विनायकम् ।। ५१५
क्वचिद्धर्घरवातौघपक्षप्रोड्डीनपर्वतम् ।
क्वचिद्गन्धर्वनगरसुरस्त्रीवृन्दबन्धुरम् ।। ५६
क्वचिद्वहद्गिरिध्वस्तवृक्षलक्षोच्छ्रिताम्बुदम् ।
क्वचिन्मायाकृताकाशनलिनीजलशीतलम् ।। ५७
क्वचिदिन्दुकराकृष्टिशीतलाह्लादमारुतम् ।
क्वचित्तप्तानिलादग्धद्रुमपर्वतवारिदम् ।। ५८
क्वचिदत्यन्तसंशान्तवातादेकान्तनिर्ध्वनि ।
क्वचित्पर्वततुल्याभ्रशिखाकूटशतोदयम् ।। ५९
क्वचित्प्रावृड्भवोन्मत्तघनाभ्ररवघर्घरम् ।
क्वचित्सुरासुरगणप्रवृत्तरणदुगमम् ।। ६०
क्वचिद्व्योमाब्जिनीहंसीस्वनाहूताब्जवाहनम् ।
क्वचिन्मन्दाकिनीतीरनलिनीलुण्ठकानिलम् ।। ६१
स्वशरीरेण गङ्गादिसरितां सन्निधानतः ।
प्रोड्डीनमत्स्यमकरकुलीराम्बुजकूर्मकम् ।। ६२
पातालगार्कजनितभूच्छायाकाकचोपनैः ।
क्वचित्क्वचिन्मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम् ।। ६३
क्वचित्सर्गानिलाधूतमायाकुसुमकाननम् ।
पतत्पुष्पहिमासारत्रसद्वैमानिकाङ्गनम् ।। ६४
उदुम्बरोदरमशकक्रमभ्रमज्जगत्त्रयान्तरगतभूतसंचयम् ।
विलङ्घ्य तद्वरललने खमुच्चकैर्महीतलं पुनरपि गन्तुमुद्यते ।। ६५